________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५८
व्योमवत्यां
एवम् आकर्णात् कर्णं यावद् आकृष्टे धनुषि नातः परमनेन गन्तव्यमिति यज्ज्ञानम् ततस्तदाकर्षणार्थस्य प्रयत्नस्य विनाशः, ततः पुनर्मोक्षणेच्छा सञ्जायते । तदनन्तरं तदनुरूपः प्रयत्नः, तमपेक्षमाणाद् आत्माङ्गुलि
संयोगाद् असमवायिकारणाद् अङ्गुलिषु मोचनार्थं कर्मोत्पद्यते । तस्मा5 दगुलिज्याविभागः, ततो विभागात् तत्संयोगविनाशः, तस्मिन् विनष्टे
प्रतिबन्धकाभावान्मण्डलीभूतं धनुर्यथावस्थितं स्थापयतीति स्थितिस्थापकसंस्कारो धनुषि कर्मारभते । तत्र धनुः समवायिकारणं स्थितिस्थापकसंस्कारोऽसमवायिकारणमदृष्टादिनिमित्त कारणमिति । यदैव धनुष्याकर्षणकर्मणा मण्डलीकृते स्थितिस्थापनार्थ स्थितिस्थापकसंस्कारात् कर्मोत्पद्यते तदा तमेव संस्कारमपेक्षमाणाद् धनुष: ज्यासंयोगाद् ज्याशरसंयोगाद् असमवायिकारणात् ज्यायां शरे च कर्मोत्पद्यते । तद् उत्पन्नं स्वकारणापेक्षं ज्यायां संस्कारमारभते । तमपेक्षमाण इषुज्यासंयोगो नोदनम्, तयोः सह गमनात् तस्माद् इषावाद्यं कर्मोत्पद्यते। तच्च नोदनापेक्षमिषौ संस्कारमारभते ।
तत्रेषुः समवायिकारणम्, कर्मासमवायिकारणम्, नोदनं निमित्तकारणमिति । 15 तस्मात् संस्कारान्नोदनसहायात् तावत् कर्माणि भवन्ति यावदिषुज्याविभागः,
तदुत्पतौ ज्येष्वोः समवायिकारणत्वम्, इषुकर्मणोऽसमवायिकारणत्वम्, शेषं निमित्तकारणम् । ततो विभागान् निवृत्ते नोदने कर्माणि उत्तरोत्तराणि इषुसंस्कारादेव, आपतनादिति पतनं यावत् तावदिति । बहूनि कर्माणि
क्रमशः । कस्मात् ? संयोगबहुत्वात् । तत् सद्भावेऽपि अविनाशे सर्वदा 20 इषोरपातः स्यात् ।।
अथैकमपि कर्मानेकं संयोगं कृत्वा शक्तिमान्द्याद् विनश्यतीति ? तर्हि संस्कारस्यानारब्धकार्यस्यावस्थानाद् अन्यत् कर्मान्तरमित्यपात एव स्यात् । न च संस्कारस्य संयोगजनकत्वम्, येन अनेककार्यकरणे शक्तिमान्द्याद्
विनाशः स्यात् । तेषां कर्मकार्यत्वात्, तत्तस्तदुत्पादे कर्मणामेव विनाशो 25 युक्तः । न च संस्कारादभिन्नमेव कर्मेति वाच्यम्, प्रत्ययभेदस्य भेदलक्षण
त्वात् । तथा च वेगेन गच्छतीति वेगानुरक्तो गमनानुरक्तश्च प्रत्ययो दृष्ट: । तस्माद् वेगः संयोगवत् कर्मणोऽर्थान्तरमिति । अभेदे तु मन्दगमनादावपि वेगेन गच्छतोति प्रत्यय: स्यात्, न चैतदस्ति ।
For Private And Personal Use Only