________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
___10
कर्मवैधयंप्रकरणम्
२५९ अथ संयोगविभागोपलम्भादनुमीयते कर्मेति चेत्, न, संयोगवदिन्द्रियव्यापारेणैव कर्मण्यपि अपरोक्षज्ञानसद्भावस्याविशेषात् । यथा हि वस्तुनः प्रदेशान्तरैः संयोगविभागाः प्रत्यक्षेण प्रतीयन्ते, तद्वत् कर्मापीति ।
यच्च प्रदेशान्तरैः संयोगविभागोपलम्भे सति चलतीति ज्ञानम् आनुमानिकमितीष्टम्, तन्न युक्तम्, नदीस्रोतस्यूविस्थितस्य स्थाणोस्त- 5 त्सद्भावेऽपि चलनप्रत्ययादर्शनात् । आकाशे प्रक्षिप्तस्येषोस्तदभावेऽपि तत्सद्भावदर्शनात् ।
यच्चेदम् एकस्मिन् स्थाने प्रतिक्षणमुत्पादात् तिष्ठतीति व्यवहारः, देशान्तरे च तद्भावाद् गमनव्यवहार इत्युक्तम्, तन्न युक्तम्, क्षणभङ्गप्रतिषेधात् ।
अथ संयोगबहुत्वाद् बहूनि कर्माणीति सत्यम् । न चैवं संस्कारस्यापि संयोगबहुत्वाद् बहुत्वम्, तस्य संयोगमात्रेणाविनाशात् । विनाशे वा कर्मान्तराणामुत्पत्तिर्न स्यात्, असमवायिकारणाभावात् । न च चात्मेषुसंयोग एव अदृष्टापेक्षोऽसमवायिकारणम्, प्रत्यक्षानुमानाभ्यां कारणान्तरानुपलम्भे सति तत् कल्पनायाः समाश्रयणात् । उपलभ्यते च अक्षव्यापारेणैव वेगः, 15 तस्य प्रत्याख्यानमशक्यम् ।।
__ अथ संस्कारादुपजातकर्मणि उत्तरसंयोगाद् वेगस्य कर्मणश्च विनश्यत्ता, अन्ययोश्च वेगकर्मणोरुत्पद्यमानता, अतस्तयोरुत्पादः प्राक्तनयोश्च विनाश इति कल्पनायां किं दूषणम् ? विनश्यदवस्थस्यासमवायिकारणत्वस्याभाव इत्येतत् । तथाहि न प्राक्तनं कर्म संस्कारान्तरमारभते, नापि प्राक्तनो वेगः 20 कर्मान्तरम्, उभयोविनश्यदवस्थत्वेनासमवायिकारणत्वाभावात् । न चान्यदसमवायिकारणम् अन्तराले कर्मणः सम्भवतीत्युक्तम् । यच्च संस्कारादुत्पन्न कर्म तन्न संस्कारान्तरमारभते, अपेक्षाकारणाभावात् । नापि प्राक्तनः संस्कारोऽपेक्षाकारणम्, संस्कारवति संस्कारारम्भप्रतिषेधाद् अवश्यं कर्मान्तरोत्पत्तिसमकालमुत्तरसंयोगात् पूर्वकर्मनिवृत्तिवत् पूर्वसंस्कारस्यापि 25 निवृत्तिर्वाच्या । न च संयोगमात्रमपेक्षाकारणं कर्मणः संस्कारारम्भे,
For Private And Personal Use Only