________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणवैधर्म्यप्रकरणम्
१८७ वाक्यम् अवयविभूतमारभ्यते, ततो वाक्यार्थप्रतिपत्तिरिति । निरस्तञ्चैतद् अनुभवेन । न हि पूर्वपूर्वपदस्योत्तरोत्तरपदकाले सर्वेषाञ्च वाक्यकालेऽनुभवोऽस्तीति । __अन्ये तु एकस्मिन् पदे ज्ञानम्, तेन क्रियते संस्कारः, पुद्वितीयपदज्ञानम्, तेन प्राक्तनेन संस्कारेणान्यः संस्कार इति तावद् यावदन्त्यपदे 5 ज्ञानमिति; ततः प्राक्तनसंस्काराभिव्यक्तौ पदचतुष्टयविषयं स्मरणमुत्पद्यते, तद्विशिष्टञ्चान्त्यपदं वाक्यमिति । न चात्रानुभवेन विरोधः, करणांशस्यैव कीर्तनात् ।
अन्ये स्मरणेनानुभवस्याविरोधं मन्यमानाः कल्पनामाश्रयन्ते। पदज्ञानात् सङ्केतस्मरणस्योत्पादः, पदार्थप्रतिपत्तेरुत्पद्यमानता, ततः पदार्थ- 10 ज्ञानस्योत्पादः पूर्वपदज्ञानस्य विनश्यत्ता, द्वितीयपदज्ञानस्योत्पद्यमानता, ततो द्वितीयपदज्ञानस्योत्पादः, पदार्थज्ञानस्य विनश्यत्ता, पदज्ञानस्य विनाशः, सङ्केतस्मरणस्योत्पद्यमानतेत्यनेन क्रमेण अन्त्यपदज्ञाने सति वाक्यार्थप्रतिपत्तिः । न चात्र पूर्वपदपदार्थानुस्मरणेन प्रयोजनमस्ति, तत्कार्यस्य विनश्यदवस्थपदज्ञानेनैव कृतत्वात् । पूर्वपदानुरक्ते हि द्वितीयपदे ज्ञानमुत्पन्नम्, 18 तदनुरक्तं तृतीयपदमिति अशेषपदानुरक्तम् अन्त्यपदं वाक्यमिति ।
एतच्चासत्, पूर्वपदानुरागस्यान्त्यपदेऽप्रतिभासनात् । यथा हि, दण्डीति ज्ञानं दण्डानुरक्तमेव, नैवं द्वितीयादिपदज्ञानं पूर्वपदानुरक्तमिति । न चायं नियमः सम्भवति पूर्वपदानन्तरमेव द्वितीयादिपदोच्चारणम्, कतिपयकालव्यवधानेऽपि उच्चारणेऽर्थप्रतिपत्तिदर्शनादिति पूर्वैव कल्पना न्याय्या।
अथास्त्वेवं वाक्यपरिकल्पना वाचकत्वन्तु निषिध्यते, अन्वयव्यतिरेकाभावात् । पदार्थेभ्यस्तु वाक्यार्थप्रतिपत्तिः। यत्र हि प्रमाणान्तरेणापि पदार्थप्रसिद्धिस्तत्रान्तरेणापि वाक्यं वाक्यार्थप्रत्तिपतिर्दृष्टा । यथा,
पश्यतश्चक्षुषा रूपं हेषाशब्दश्च शृण्वतः । खुरनिक्षेपशब्दञ्च श्वेतोऽश्वो धावतीति धीः ॥
(श्लो० वा० पृ० ९४)
For Private And Personal Use Only