________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१८८
व्योमवत्यां
तथा च दूराच्चक्षुषा श्वेतं रूपमुपलभ्य हेषाशब्देन वा अश्वत्वजातिमनुमिनोति, खुरनिक्षेपशब्देन च धावनक्रियामवगत्य वाक्यं विनापि वाक्यार्थ प्रतिपद्यते । सत्यपि च वाक्ये पदार्थानामप्रतिपत्ते वाक्यार्थप्रतिपत्तिः, यथा प्रसिद्धपदार्थैः कविभिविरचिते वाक्य इति । तस्मादभिहित5 पदार्थानाम् आकाङ्क्षायोग्यतासन्निधिद्वारेण वाक्यार्थगमकत्वमिति ।
न युक्तमेतत् शब्दस्याप्रामाण्यप्रसङ्गात् । तथा च पदरूपस्य तावद् अप्रामाण्यम्, अनुवादकत्वात् । तदुक्तम्,
10
पदमभ्यधिकाभावात् स्मारकान्न यच्चाधिक्यं भवेदेतत् स पदस्य
विशिष्यते । न गोचरः ॥
( श्लो० वा० पृ० ४१२)
वाक्यन्तु पारम्पर्येणाप्यवाचकमिति कथं शब्दः प्रमाणं स्यात् ? अथ पदैरभिहितानाञ्च पदार्थानां गमकत्वादिति पारम्पर्येण शब्द: प्रमाणम् ? तहि श्रोत्र परिच्छिन्नस्य शब्दस्यार्थपरिच्छेदे व्यापारादिति पारम्पर्येण प्रत्यक्षस्यापि चोदनाविषये सन्निधिप्रामाण्योपपत्तेः कथं चोदनैव धर्मे प्रमाणम् । प्रमाणमेव 15 चोदनेति नास्यावधारणस्य व्याघातः । वाक्यस्यार्थपरिच्छेदकत्वानभ्युपगमे च प्रमाणान्तरासम्भवात् पदार्थानां प्रत्यक्षादिष्वन्तर्भावश्चिन्तनीयः ।
Acharya Shri Kailassagarsuri Gyanmandir
तत्रेन्द्रियार्थसन्निकर्षेण सह व्यापारानुपलब्धेर्न प्रत्यक्षेऽन्तर्भावः । अविनाभावस्यानुपपत्तेर्नानुमाने । अनुपपद्यमानार्थासम्भवान्नार्थापत्तौ । उपमानाभावयोश्च नियतविषयत्वमेव । प्रमाणान्तरस्य च अनभ्युपगमादयुक्तमेतत् । 20 न च पदानां स्वार्थप्रतिपत्तावेव चरितार्थत्वम् उक्तन्यायेन वाक्यार्थप्रतिपत्तावपि व्यापारात् । विरम्य व्यापारस्तु एकमर्थं प्रतिपाद्य पुनस्तमेव प्रतिपादयन्तीति प्रतिषिद्ध: ।
यच्चेदं विनापि वाक्यं वाक्यार्थप्रतिपत्तिरित्युक्तम्, तदपरिज्ञानात् । वाक्येन हि जनिता वाक्यार्थप्रतिपत्तिः, प्रत्यक्षानुमानसम्पादिताः श्वेतोऽश्वो 25 धावतीति बुद्धयः । यदपीदं पदार्थाप्रतिपत्तौ सत्यपि वाक्येन वाक्यार्थप्रतिपत्तिरिति, तदसत् पूर्वपदार्थस्मरणानुगृहीतस्य अन्त्यपदस्य वाक्यत्वाच्च अवश्यमर्थप्रतिपादकत्वमिति व्यभिचाराभावः ।
For Private And Personal Use Only