SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुणवैधर्म्यप्रकरणम् अन्विताभिधानन्तु न सर्वपदानाम्, एकेनैव क्रियाकारकसंसर्गान्वितस्य पदार्थस्याभिधाने शेषपदोच्चारण वैयर्थ्यप्रसङ्गात् । अथ अन्त्यं पदमन्विताभिधायकम् ? तस्यापि पूर्वपदानपेक्षित्वे तदुच्चारणवैयर्थ्यम्, सापेक्षित्वे तु न अस्मत्सिद्धान्ताद् भेदः । अवयवोद्देशः प्रतिज्ञावैधर्म्य | अवयवाः पुनः प्रतिज्ञापदेश निदर्शनानुसन्धानप्रत्याम्नायाः । तत्रानुमेयोद्देशोऽविरोधी प्रतिज्ञा । प्रतिषिपादयिषितधर्मविशिष्टस्य धर्मिणोऽपदेशविषयमापादयितुम् उद्देशमात्रं प्रतिज्ञा । यथा द्रव्यं वायुरिति । १८९ अविरोधिग्रहणात् प्रत्यक्षानुमानाभ्युपगतस्वशास्त्रस्ववचन विरोधिनो अनुमेयोद्देशा निरस्ता भवन्ति । यथा अनुष्णोऽग्निरिति, प्रत्यक्षविरोधी, 10 घनमम्बरम् इत्यनुमानविरोधो, ब्राह्मणेन सुरा पेया इत्यागमविरोधो, वैशेषिकस्य सत् कार्यम् इति ब्रुवतः स्वशास्त्रविरोधी, न शब्दोऽर्थप्रत्यायक इति स्ववचनविरोधी | के पुनरवयवास्तदाह * प्रतिज्ञापदेशनिदर्शनानुसन्धानप्रत्याम्नायाः * वाक्यैकदेशत्वात् । न पुनः परोपगता जिज्ञासादय:, तेषामशब्दरूपत्वात् । For Private And Personal Use Only 5 * तत उपदेशक्रमेणावसरप्राप्तायाः प्रतिज्ञायास्तावल्लक्षणमुच्यते अनुमेयोदेशोऽविरोधी प्रतिज्ञा * इति । अनुमेयः प्रतिपिपादयिषितधर्मविशिष्टो धर्मी । धर्मविशिष्टता हि अस्तित्वाद्यपेक्षया सर्वपदार्थेष्वस्तोति प्रतिपिपादयिषितपदम् । यो हि धर्मः प्रतिपादयितुमिष्ट:, तद्विशिष्टो धर्मी पक्षः । तस्योद्देश मात्रं प्रत्यक्षाद्यविरुद्धं परेषाम् अनिश्चितार्थाभिधायकं वचनं प्रतिज्ञेति । अपदेशस्य 20 हेतोर्विषयापादनम् अर्थः प्रयोजनमस्येति प्रयोजनोपन्यासः । प्रयोगस्तु, प्रतिज्ञा इतरस्माद् भिद्यते, प्रत्यक्षाद्यविरुद्धानुमेयोद्देशत्वात्, यस्तु न भिद्यते, न चासावेवं यथा उदाहरणादिरिति । अनुमेयोद्देशो वा प्रतिज्ञेति व्यवहर्तव्यः, यथोक्तानुमेयोद्देशत्वात्, यश्चैवं न व्यवह्रियते, न चासावेवम्, यथा अपदेश इति । उदाहरणन्तु यथा द्रव्यं वायुरिति । * ननु च असाधनाङ्गं प्रतिज्ञावचनम्, तदन्तरेणापि सम्बन्धवचनमात्रा 15 25
SR No.020944
Book TitleVyomvati Part 02
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy