________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९०
व्योमवत्यां
दर्थप्रतीतेः । तथाहि, यद् यत् कृतकम्, तत्तद् अनित्यं दृष्टम्, यथा घटः, तथा च कृतकः शब्द इत्यत्र सामर्थ्यादेव प्रतिज्ञार्थसिद्धेर्व्यर्थं तदभिधानम् । अत्र च प्रमेयस्य प्रमाणेनैव सिद्धेः सामर्थ्य किरूपमिति चिन्त्यम् । न प्रत्यक्षस्वरूपम्, इन्द्रियार्थसन्निकर्षेण विप्रतिपत्तिविषयस्यापरिच्छेदात् । एवमागमेनापीति । अथानुमानमेव सामर्थ्य तदवश्यमर्थप्रतिपत्तौ पक्षधर्मत्वादिकमपेक्षत इति प्रतिज्ञावचनमन्तरेण सपक्षासपक्षाप्रविभागे सति तदर्थाप्रतीतेन गमकमिति । अथ अभिधीयमानानुमानव्यतिरेकेण अन्यदनुमानं प्रस्तुतानुमानसामर्थ्यम्, न, तस्यापि अविनाभावानपेक्षित्वे न गमकत्वम्, प्रतिज्ञावचनञ्च
विना तदर्थाप्रतीतेरिति पूर्वदोषानुषङ्गात् । न चाभिप्रेतार्थप्रतिपादनाय 10 अनुमानोपन्यासकाले तदर्थसिद्धयेऽनुमानान्तरं पश्यामः ।
न च कृतकत्वानित्यत्वयोः सामान्येन व्याप्त्यभिधाने समर्थसाधनस्य शब्द एवोपसंहाराद् विज्ञायते अत्रैवानित्यत्वम् अस्याभिप्रेतमिति, सम्बन्धाभिधानस्य विरुद्धाविरुद्धाभिप्रायेणापि समानतया विवेकप्रतिपत्तेरभावप्रसङ्गात् ।
___ अथ यद्यत् कृतकं तत्तन्नित्यं दृष्टमिति व्याप्तिवचने विरुद्धवादी, 15 अनित्यत्वेन च कृतकत्वस्य व्याप्तिवचने तत्त्ववादीति विनिश्चयः, तन्न,
कृतकत्वनित्यत्वयोाप्तेः प्रतिपादयितुमशक्यत्वात् । तथा च, न कृतकेषु घटादिषु नित्यत्वम्, नित्येषु चाकाशादिषु कृतकत्वमिति दृष्टान्तदोषेण गतार्थत्वात् कथं विरुद्धत्वम् ? यदा च नित्यः शब्द इति प्रतिज्ञाय कृतकत्वा
नित्यत्वयोर्व्याप्ति ब्रूते, तदा अभिप्रेतार्थविपरीतेन व्याप्तिकथनाद् विरुद्ध20 वाद्ययमिति विशेषाध्यवसायो भवत्येव ।
ननु नित्या नित्याभिप्रायेणैवापि नित्यः शब्द इति वचनसम्भवात् प्रतिज्ञावचने सत्यपि तत्त्वातत्त्ववादिनोरनिश्चय एव, न, वचनेनैवाभिप्रायविशेषप्रसिद्धेः । न हि वक्तृणां वचनादृतेऽभिप्रायावबोधे प्रमाणान्तरमस्तीति नित्य
वचनान्नित्याभिप्राय एव निश्चीयते, अभिप्रायान्तरकल्पनायां प्रमाणाभावात् । 25 अत एव वादिप्रतिवादिनोर्जयपराजयव्यवस्था प्राश्निकैः क्रियते । यत्राप्यन्यथा
प्रतिपद्यमाना विचित्राभिप्रायतया प्रकरणार्थमन्यथा ब्रुवते, तत्रापि वचनविशेषेणैव अभिप्रायविशेषोऽनुमेयः, विवक्षान्तराद् वचनान्तरानुत्पत्तेः ।
For Private And Personal Use Only