SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुणवैधयंप्रकरणम् परत्वाधारे * उत्पत्स्थमानपरत्वे । * बुद्धिरुत्पद्यते, तामपेक्ष्यपरेण दिकप्रदेशेनसंयोगात् परत्वोत्पत्तिरिति । दिक्प्रदेशयोः परापरव्यपदेशस्तत्सम्पादकत्वादुपचारेण । विप्रकृष्टश्च पिण्डमवधिं कृत्वा इतरस्मिन् पिण्डसंयुक्तसंयोगाल्पीयस्त्वानिमित्तात् सन्निकृष्टा बुद्धिरुत्पद्यते । तां सन्निकृष्टां बुद्धिमपेक्ष्य अपरेण 5 दिकप्रदेशेन योगाद् परत्वोत्पत्तिरिति । पिण्ड: समवायिकारणम्, दिकपिण्डसंयोगोऽसमवायिकारणम्, विशिष्टा च बुद्धिनिमित्तकारणमिति । ननु चात्र सन्निकृष्टमवधिं कृत्वा विप्रकृष्टे बुद्धिः, विप्रकृष्टञ्चावधि कृत्वा सन्निकृष्ट बुद्धिरिति विप्रकृष्टसन्निकृष्टबुद्ध्योः परस्परापेक्षित्वाद् उभयाभावप्रसङ्ग: । तन्न । निविकल्पकज्ञाने प्रतिभातस्यावधित्वेनाभ्युपगमात् । तथाहि, 10 सन्निकृष्टविप्रकृष्टयोः प्रत्यक्षेणैव निर्विकल्पकावभासे सति 'एतस्मादयं सन्निकृष्टो विप्रकृष्टश्च' इति सविकल्पकं ज्ञानं भवत्येव । अन्ये तु निर्विकल्पावभासजनितसंस्कारजस्मृत्युपस्थापितयोः सन्निकष्टविप्रकृष्टयोः परस्परावधिभावो घटत इति ब्रुवते । तस्मान्न परस्परापेक्षितत्वादुमयाभाव इति स्थितम् । ____ कालकृतयोरपि कथम् ? वर्तमानकालयोरनियतदिग्देश [ संयुक्त ]योर्युवस्थविरयो रूढश्मश्रुकार्कश्यवलिपलितादिसान्निध्ये सत्येकस्य द्रष्टुयुवानमवधि कृत्वा स्थविरे विप्रकृष्टाबुद्धिरुत्पद्यते । ततस्तामपेक्ष्य परेण कालप्रदेशेन संयोगात् परत्वस्योत्पत्तिः । स्थविरञ्चाधि कृत्वा यूनि सन्निकष्टा बुद्धिरुत्पद्यते । ततस्तामपेक्ष्य अपरेण कालप्रदेशेन संयोगाद् 20 अपरत्वस्योत्पत्तिरिति ।। कालकृतयोरपि परत्वापरत्वयोः कथमुत्पत्तिरित्याह * वर्तमानकालयोः * इत्यादि । वर्तमान: कालो ययोः पिण्डयोस्तौ च तथोक्तो तयोरित्युभयत्रापि दिक्कालकृतपरत्वापरत्वयोरुत्पत्तौ नियमः । * अनियतदिग्देशयोः * इति । न नियतो दिग्देशो ययोस्तौ तथोक्तौ तयोरिति कालकृतयोरुत्पत्तावनियमोप- 25 दर्शनम् । * युवस्थविरयोः * इति वयोभेदोपदर्शनार्थम्, समानवयसि परापर 15 For Private And Personal Use Only
SR No.020944
Book TitleVyomvati Part 02
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy