________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणवैधर्म्यप्रकरणम्
१५९ इति । न च होतुरों श्रावयेति शब्द: कारणं कार्य वा, अन्वयव्यतिरेकाभावात् । तथा च होतारं विनैवोपपत्तिः, होतुश्चानेन विनापीति । संयोगादिष्वप्यन्तर्भावानुपपत्तिः । स च यागभूमावेवास्याविनाभावो न च देशान्तरे इति । तथा चायमध्वर्युरपि दूरदेशेन होत्रा तद्वान् ओं श्रावयेति शब्दकर्तत्बात्, पूर्वोपलब्धाध्वर्युवत् । * चन्द्रोदयः समुद्रवृद्धेः कुमुदविकाशस्य च * 5 लिङ्गम् । समुद्रस्य च वृद्धिरवयवोपचयः, स च स्वावयवेभ्यो निष्पद्यते न चन्द्रोदयात् । कुमुदविकाशोऽप्यवयवानामारब्धकार्याणां परस्परं विभागो द्रव्यारम्भकसंयोगाविरोधिक्रियाकार्य इति । कारणञ्चात्राभिव्यङ्गयस्य जनक विवक्षितं न प्रतिपत्तेः, सर्वेषां कारणभाव एवान्तर्भावप्रसङ्गात् । * शरदिजलप्रसादोऽगस्त्योदयस्य * लिङ्गम् । अस्यापि तत्कार्यादिष्वानान्तर्भाव: । 10 शरदि जलप्रसादोऽगस्त्योदयवान् जलप्रसादत्वात् पूर्वोपलब्धैवंविधजलप्रसादवत् । * इत्येवमादि* इत्यादिपदेनोदयादि| रुदयादेरस्तश्चास्तादे लिङ्गमित्यूह्यम् ।
अथ कथमेषां सूत्रेण सङ्ग्रहस्तदाह * तत्सर्वम् 'अस्येदम्' इति सम्बन्धमात्रवनात् सिद्धम् । तथाहि, इदमस्य गमकम्, 'इदमस्य गम्यम्, इति 15 सामान्येन सर्वलिङ्गपरिग्रहः । विशेषापेक्षया तु 'इदमस्य कार्य' कारणमित्यादि योज्यम् ।
अन्ये त्ववधारणार्थमेतत् सूत्रमिति मन्यन्ते । 'शास्त्रे कार्यादिग्रहणं निदर्शनार्थम्' इति वाक्यमन्यथा व्याख्यायन्ते। तथाहि, तदुक्तं परैः 'व्यतिरेकदर्शनाच्छास्त्रे कार्यादिग्रहणं निदर्शनार्थं कृतमिति ज्ञायते' इत्येतन्न, किन्त्व- 20 वधारणार्थं सर्वेषामत्रैवान्तर्भावेन व्यतिरेकदर्शनस्यासिद्धत्वात् । तथा च होतरि सन्निहितेऽध्वर्युरों श्रावयेति शब्दमुच्चारयति यागभूमौ, न तेन विनापि, इति कथं न तस्य कारणत्वम् ? एवं चन्द्रोदयोऽपि समुद्रवृद्धेः कारणमन्वयव्यतिरेकवत्त्वात्, तथा च तेन सता जलनिधेर्वृद्धिर्न तदभाव इति कार्येण मेघपटलान्तरितश्चन्द्रोऽनुमीयते । गृहीतव्याप्तिकस्य देशान्तरेऽपि चन्द्रोदयोपलम्भा- 25 दम्भोनिधेवृद्ध्यनुमानम् । एवं कुमुदविकाशेऽपीति । यद् वा रश्मिद्वारेण
For Private And Personal Use Only