SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org वैधर्म्यप्रकरणम् न्यायात् । असमवायिकारणं विना च विभागस्योत्पत्तिर्नोपलब्धेति अन्यस्यासमवायिकारणस्याभावात् कारणयोर्वर्तमानो विभागः प्रत्यासन्नत्वे सति समानजातीयत्वादसमवायिकारणमिति । यत्र हि समानजातीयं नास्ति तत्र विजातीयमेवासमवायिकारणमिति कल्प्यते । क्रिया तु विद्यमानाप्यत्र बाधक सद्भावादकारणमेव । तस्मात् कारणयोर्वर्तमानो विभाग; * कार्यसंयुक्तात् 勞 कार्यसंयोगोपलक्षितात् आकाशादिदेशाद् विभागमारभत इति । आदि पदेनात्मादेरवरोधः । 營 " Acharya Shri Kailassagarsuri Gyanmandir किमपेक्ष्य इत्याह * कार्यविनाशविशिष्ट कालम् * इति । कार्यविनाशो द्रव्यविनाशः तद्विशिष्टं कालम् । तद्विनाशात् स्वतन्त्रोऽवयवस्तं च अपेक्ष्यारभत इति । ८१ अन्ये तु कार्यविनाशविशिष्टं कालमिति सामान्याभिधानात् संयोगविनाशविशिष्टमपेक्ष्य द्रव्यविनाशसमकालमारभत इति ब्रुवते । * स्वतन्त्रं वा अवयवमपेक्ष्य * इति । द्रव्यविनाशादूर्ध्वं स्वातन्त्र्यमस्येति उपचारेण पूर्वमेवोच्यते । स्वतन्त्र मीश्वरं वा, अवयवं वा, अपेक्ष्येति । For Private And Personal Use Only 5 10 कस्येत्याह * सक्रियस्यैव * इति । अथ कारणविभागस्योभयवृत्तित्वा - 15 विशेषात् सक्रियस्याकाशादिदेशेन विभागः, * न निष्क्रियस्य * इति । किमत्र नियामकम् ? उत्तरसंयोगोत्पत्तिरिति । तथा हि, विभागात् संयोगविनाशे सति कर्म उत्तरसंयोगं करोति, तस्माद् बिभागः कर्म च व्यावर्तते । निष्क्रिये तूत्पन्नो विभागः कथमुत्तरसंयोगानुत्पत्तौ व्यावर्तेत न च विभागात् पूर्वं संयोगनिवृत्तावुत्तरसंयोगोत्पत्तिर्युक्ता, कारणस्य कर्मणोऽभावात् । असंयुक्तस्य 20 चाकाशादिभिरवस्थाने तेषामसर्वगतत्वं स्यात् । न चान्यकर्मसम्पादितः संयोगोऽन्यक्रियाजन्यस्य विभागस्य निवर्तको दृष्टः । तस्मात् स्वकारणकर्मकार्या उत्तरसंयोगाद् विभागस्य निवृत्तिर्दृष्टेति । उत्तरसंयोगानुत्पत्तावनुपभोग्यत्वप्रसङ्ग; * इति । निष्प्रयोजनत्वस्य प्रसङ्गः, विनाशित्वप्रसङ्गश्चेति । तस्य हि पूर्वसंयोगनिवर्तनाद् उत्तरसंयोगोत्पत्तौ सप्रयोजनत्वं विनाशित्वञ्च घटते । * ११ 25
SR No.020944
Book TitleVyomvati Part 02
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy