________________
Shri Mahavir Jain Aradhana Kendra
5
८०
www.kobatirth.org
व्योमवत्यां
25
Acharya Shri Kailassagarsuri Gyanmandir
तत्र यदि अस्वतन्त्रावयवकर्मत्वं व्यतिरेकाव्यभिचारेण गमकमितरेतराश्रयत्वं स्यात्, एकाप्रसिद्धावितराप्रसिद्धेरिति ।
नैतदेवम्, आकाशदेशेनास्वतन्त्रावयवकर्मणो विभागजनकत्वे बाधकाभावात् । तथाहि, स्वतन्त्रावयवकर्मणो द्रव्यारम्भकसंयोगविरोध्युत्पादकत्वम् आकाशदेशेन विभागजनकत्वे बाधकमस्ति नैवमत्रेति ।
तथाहि, पद्मावयवकर्म, आकाशदेशेन विभागमारभते तदारम्भकबाधकानुत्पत्तौ कर्मत्वात्, यद् यदेवं तत्तदाकाशादिदेशेन विभागमारभते, यथा अनारब्धकार्यं परमाणुकर्मेति । अवश्यञ्च परमाणोराकाशादिदेशेन सम्बद्धस्योत्पन्नं कर्म तत्संयोगनिवर्त्तकं विभागमारभते, तदन्तरेण पूर्वसंयोगावस्थाना10 दुत्तरसंयोगानुत्पत्तौ द्व्यणुकादिप्रक्रमेण कार्यानुत्पत्तिप्रसङ्गात् ।
अन्ये तु अस्वतन्त्रावयवकर्मणो यथा अवयवान्तरविभागसमकालम् अकारणेन तृणादिना विभागजनकत्वम्, एवमाकाशादीनामपीति मन्यन्ते । तृणादिविभागश्च पद्मावयवस्य प्रत्यक्ष इत्युदाहरणम् । न चैवं स्वतन्त्रावयवकर्मणोऽपि अकारणेन विभागजनकत्वं प्रत्यक्षसिद्धमस्ति ( विवादोपपत्ते15 रित्यलम् ? ) । नापीदमसदुत्तरम् । प्रसङ्गसमापेक्षायामुदाहरणेऽपि क्वचिदनुमानोपन्यासाभ्युपगमात् ।
अतः स्वतन्त्रावयवकर्म * अवयवान्तरादेव विभागमारभते, विभागाच्च द्रव्यारम्भकसंयोगविनाश:, तस्मिन् विनष्टे कारणाभावात् कार्याभाव इत्यवयविविनाशः । ततः स्वतन्त्रावयवस्याकारादेशेन विभागो वाच्यः । 20 तदन्तरेण पूर्वसंयोगस्यावस्थानादुत्तरसंयोगानुत्पत्तौ कर्मणः कालान्तरावस्था - यित्वं नित्यद्रव्यसमवेतस्य च नित्यत्वं स्यात् । न चैतदस्ति, कर्मणः क्षणिकत्वोपलब्धेः । न च विनाशहेतुं विना अस्य विनाश: [ तादृशविनाशस्य ] प्रतिषेधात् । अतोऽन्यस्य विनाशहेतोरभावादुत्तरसंयोगस्यैवान्वयव्यतिरेकाभ्यां कर्मविनाशे सामर्थ्यावधारणात् कारणत्वमिति ।
न चोत्तरसंयोगः पूर्वस्याकाशदेशेन संयोगस्य प्रतिबन्धकस्यावस्थाने भवतीति तद्विनाशहेतुर्विभागो निश्चीयते । न चासौ क्रियातः सम्भवत्युक्त
For Private And Personal Use Only