SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६२ व्योमवत्यां व्यभिचारपरिहारार्थं वेगापेक्ष इतिपदम् । न चात्ममनःसंयोगः परस्परविभागहेतुसम्पादको वेगापेक्ष इति । नन्वेकस्येति पदं व्यर्थम, अभिघातादूभयत्रापि कर्मोपलब्धेः । सत्यम्। तथाप्येकस्येति आद्यकर्मज्ञापनार्थम् उत्तरोत्तराणि वेगादेव भवन्तीति । नोदनादिश्चोत्तरकर्मणां बहूनामपि कारणमिति । अन्ये तु एकस्य कारणणमेव, न त्वेकस्यैवेत्यवधारणं मन्यन्ते । नोदनेऽप्येकस्येति विशेषणमेवं व्याख्येयम् । उदाहरणन्तु यथा पाषाणादिषु पाषाणाद्यभिघातादिति । संयुक्तसंयोगनिरूपणार्थमाह तथा पादादिभिर्नुद्यमानायामित्यादि । परस्परमविभागकृतः कर्मणः कारणं नोदनमपीत्यतो नोदनाभिघात10 योरन्यतरापेक्ष उभयापेक्षो वा यः संयोगः, स संयुक्तसंयोगः । क्वचिन्नोद नापेक्षः, क्वचिदभिघातापेक्षः, क्वचिदुभयापेक्ष इति । उदाहरणन्तु यथा पकाख्यायां पृथिव्याम् । कि विशिष्टायाम् ? पादादिभिर्नुद्यमानायाम् अभिहन्यमानायां पृथिव्यां वा ये प्रदेशा न नुद्यन्ते, न साक्षात्पादेन सम्बद्धयन्ते नाप्यभिहन्यन्ते न साक्षात् पाषाणादिना सम्बद्धयन्ते, तेष्वपि कर्म सञ्जायते । 15 प्रदेशाः समवायिकारणम्, पादादिभिश्च सम्बद्धप्रदेशैः सह संयोगो असमवायिकारणम्, पादादिसंयोगाश्च निमित्तकारणम् । पृथिव्युदकयोर्गुरुत्वविधारकसंयोगप्रयत्नवेगाभावे सति गुरुत्वाद् यदधोगमनम्, तत्पतनम् । यथा मुसलशरीरादिषूक्तम् । तत्राद्यं गुरुत्वात्, द्वितीयादीनि तु गुरुत्वसंस्काराभ्याम् । पतननिरूपणार्थमाह गुरुत्वाद् यदधोगमनम् तत् पतनम् । वायोरप्यधोगमनं वृक्षकोटरादिषूर्ध्वप्रदेशेन प्रविष्टस्य सम्भवतीति तद्व्यवच्छेदार्थ गुरुत्वादिति । पृथिव्युदकयोरित्याश्रयनिरूपणम् । पतनाश्रयः समवायिकारणम्, गुरुत्वमसमवायिकारणम्, गुरुत्वविधारकसंयोगप्रयत्नवेगाभावे सतीति निमित्तकारणं दर्शयतीति । यथा मुसलशरीरादिष्वित्युदाहरणम् । 25 हस्तमुसलसंयोगाभावान् मुसले पतनम्, प्रयत्नाभावाच्छरीरे, वेगाभावादिषा विति । तत्राद्यं गुरुत्वादेवासमवायिकारणादुत्पद्यते पतनम्, तच्चोत्पन्न For Private And Personal Use Only
SR No.020944
Book TitleVyomvati Part 02
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy