SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org कर्मवैधर्म्यप्रकरणम् Acharya Shri Kailassagarsuri Gyanmandir २६१ विभागजनकत्वम्, अतः परस्परमिति पदम् । तथापि परस्परं संयोगिनो विभागजनकस्य कर्मणः कारणं संयुक्तसंयोगोऽपीत्यतो गुरुत्वद्रवत्वप्रयत्नवेगान् समस्तव्यस्तानपेक्षमाण इति । तत्र यदा चुलुकेनोदकं गृहीत्वा वेगेन प्रतिक्षिपति, तदा सर्वे गुरुत्वादयः सम्भवन्तीति तदपेक्षं चुलुकोदकसंयोगो नोदनम् । व्यस्तपक्षे तु गुरुत्वमपेक्षणमाणः संयोगो नोदनम्, यथा सूक्ष्मशाशाखोपरि व्यवस्थापितमतिशयेन गुरुद्रव्यमधोगतिहेतुर्भवति शाखायाः । द्रवत्वमपेक्षमाणस्तृणोदकसंयोगस्तृणे गमनमारभते । वेगमपेक्षमाणो वायुवनस्पतिसंयोगो वृक्षादिषु चलनकारणम् । प्रयत्नापेक्षस्तु हस्तमुसलसंयोगो मुसलकर्मोत्पत्तौ । यदा च प्रयत्नेन पङ्के पादमुपक्षिपति, तदा प्रयत्नगुरुत्वे चापेक्ष्य पादपङ्कसंयोगः पङ्कमधो नयतीति । यदा च पाषाणादेर्वेगेन पाते सति पङ्केन संयोगस्तदा पाषाणादिगतं गुरुत्वं वेगश्च अपेक्षमाणं पाषाणपङ्कसंयोगो नोदनमिति । यदा कश्चिद् वेगेन कूपादौ पतति, तदा गुरुत्वप्रयत्नवेगान् अपेक्ष्य देवदत्तोदकसंयोगोऽधोगतिहेतुर्भवति । यदा च जलधरधारासम्बन्धात् तृणादेरधोगमनम्, तदा गुरुत्वद्रवत्ववेगानपेक्षत इत्यादि द्रष्टव्यम् । तस्माद् यथोक्तान्नोदनाच्चतुर्ष्वपि महाभूतेषु कर्म भवतीत्युदाहरण - 15 माह यथा पङ्काख्यायां पृथिव्यां पादादिसंयोगाद् यथोक्तविशेषणादिति । 5 For Private And Personal Use Only 10 वेगापेक्षा यः संयोगविशेषो विभागहेतोरेकस्य कर्मणः कारणम्, सोऽभिघातः । तस्मादपि चतुर्षु महाभूतेषु कर्म भवति । यथा पाषाणादिषु निष्ठुरे वस्तुन्यभिपतितेषु । तथा पादादिभिर्नुद्यमानायाम् अभिहन्यमानायां वा पङ्काख्यायां पृथिव्यां यः संयोगो नोदनाभिघा- 20 तयोरन्यतरापेक्षः, उभयापेक्षो वा स संयुक्तसंयोगः, तस्मादपि पृथिव्यादिषु कर्म भवति । ये च प्रदेशा न नुद्यन्ते नाप्यभिहन्यन्ते तेष्वपि कर्म जायते । अभिघातस्येतरस्माद् भेदार्थमाह वेगापेक्षो यः संयोगाविशेषः परस्परं विभागहेतोरेकस्य कर्मणः कारणम्, सोऽभिघात इति । विभागहेतुकर्मकारणं 25 नोदनादिरपीति परस्परं विभागहेतोरिति पदम् । तथापि आत्ममनः संयोगेन
SR No.020944
Book TitleVyomvati Part 02
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy