SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कर्मवैधयंप्रकरणम् स्वकारणापेक्षं संस्कारमारभते, तस्माद् द्वितीयादीनि तु पतनानि गुरुत्वसंस्काराभ्यामसमवायिकारणाभ्यामुत्पद्यन्ते । स्रोतोभतानामपां स्थलानिम्नाभिसर्पणं यत् तद् द्रवत्वाद स्यन्दनम् । कथम् ? समन्ताद रोधःसंयोगेनावयविद्वत्वं प्रतिबद्धम, अवयवद्रवत्वमप्येकार्थसमवेतं तेनैव प्रतिबद्धम्, उत्तरोत्तरावयव- 5 द्रवत्वानि संयुक्तसंयोगैः प्रतिबद्धानि। यदा तु मात्रया सेतुभेदः कृतो भवति तदाः समन्तात् प्रतिबद्धत्वादवयविद्वत्वस्य कार्यारम्भो नास्ति । सेतुसमीपस्थस्यावयवद्रवत्वस्योत्तरोत्तरेषामवयवद्रवत्वानां प्रतिबन्धकाभावाद् वृत्तिलाभः । ततः क्रमशः संयुक्तानामेवाभिसर्पणम् । ततः पूर्वद्रव्यविनाशे सति प्रबन्धेनावस्थितैरवयवैर्दोघं द्रव्यमारभ्यते । तत्र 10 च कारणगुणपूर्वक्रमेण द्रवत्वमुत्पद्यते । तत्र च कारणानां संयुक्तानां प्रबन्धेन गमने यादवयविनि कर्मोत्पद्यते तत् स्यन्दनाख्यामिति । स्यन्दननिरूपणार्थमाह स्रोतोभूतानामपां स्थलान्निम्नाभिसर्पणं यत् तद् द्रवत्वात् स्यन्दनमिति । स्थलान्निम्नाभिसर्पणं पाषाणादेरपीति स्रोतोभूतानामिति पदम् । सर्पादेरप्येवं प्रवाहः सम्भवतीत्यपामिति ग्रहणम् । 15 तथाप्यपां दृढहस्तपरिगृहीतानां स्थलान्निम्नाभिसर्पणं न भवतीत्यतः स्रोतोभूतानामिति । अपामिति च बाहुल्यापेक्षया, न त्वपामेवेत्यवधार्यते, तैलादावपि सद्भावात् । अतो यद् उक्तरूपमभिसर्पणम्, तत् स्यन्दनं द्रवत्वाद् भवतीति । __कथमित्यव्युत्पन्नस्य विस्तरपरिज्ञानापेक्षया प्रश्नान्तरमाह समन्ताद् 20 रोधःसंयोगेनावयविद्रवत्वं प्रतिबद्धमित्यादि । समन्तात् सर्वतो रोधसा सह संयोगेन सेतुसंयोगेन अवयविद्रवत्वं प्रतिबद्धम् उदके क्रियां न करोति, नाप्यवयवद्रवत्वं स्यन्दनमारभत इत्याह अवयवद्रवत्वमप्येकार्थसमवेतम्, यत्र ह्यवयवद्रवत्वं तत्रैव रोधःसंयोगोऽपीत्यतस्तेनैव प्रतिबद्धम्, उत्तरोत्तरावयवद्रवत्वानि तु संयुक्तसंयोगैः प्रतिवद्धानि। रोधःसंयुक्तावयवेनान्यः 25 संयोगः, तेनाप्यन्य इत्युत्तरोत्तरावयवसंयोगैस्तद्गतद्रवत्वानि प्रतिबद्धानि For Private And Personal Use Only
SR No.020944
Book TitleVyomvati Part 02
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy