SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६४ व्योमवत्यां क्रियां नारभन्ते । यदा तु सेतुभेदः कृतो भवति तदा समन्तात् प्रतिबद्धत्वाद् अवयविद्वत्वस्य कारम्भो नास्तीति । अयमस्यार्थः महापरिमाणसम्बन्धित्वादवयविनो न सूक्ष्मरन्ध्रदेशनिष्क्रमणम्, सेतोस्तु समीपस्थस्यावयवद्रवत्वस्थ कार्यारम्भकत्वम्, तत्प्रतिबन्धकस्य संयोगस्य व्यावृत्तेः । ततः क्रमेणोत्तरोत्तरावयवद्रवत्वानां वृत्तिलाभः कार्यजनकत्वम् । तथाहि सेतुसमीपस्थस्यावयवस्य चलने सति अवयवान्तरेण विभागात् तत्संयोगो निवर्तते, ततो द्वितीयावयवद्रवत्वं प्रतिबन्धकाभावात् क्रियामारभते, ततस्तृतीयावयवसंयोगनिवृत्तौ तद्गतं द्रवत्वं कारभत इत्येवमुत्तरोत्तराणां वृत्तिलाभः, ततः संयुक्तानामेवाभिसर्पणमिति । 10 यद्यपि संयोगस्य प्रतिबन्धकस्य विनाशे सत्यन्यस्य सर्पणम्; तथापि तज्ज्ञापनार्थ क्रमशः संयुक्तानामेवाभिसर्पणमित्युक्तम् । ततो द्रव्यारम्भकसंयोगविनाशे सति पूर्वद्रव्यविनाशः, तस्मिन् सप्रतिबन्धेन सन्तानेनावस्थितैरवयवैर्दीर्घद्रव्यमारभ्यते, तत्र च द्रव्ये कारणगुणपूर्वक्रमेण द्रवत्वमुत्पद्यते । कारणद्रवत्वानि असमवायिकारणमवयविनि द्रवत्वोत्पत्ताविति। तत्र 15 कारणानां प्रबन्धेन परिपाट्या गमनेऽवयविनि यत् कर्मोत्पद्यते, तत् स्यन्द नाख्यमिति । संस्कारात् कर्म इष्वादिषूक्तम् । तथा चक्रादिश्ववयवान पार्श्वतः प्रतिनियतदिग्देशसंयोगविभागोत्पत्तौ यदवयविनः संकारादनियत दिग्देशसंयोगविभागनिमित्तं कर्म तभ्रमणमिति । एवमादयो गमन20 विशेषाः । उपसंहारमाह संस्कारात् कर्मेष्वादिषूक्तम्, गुरुत्वादिभ्यश्च । तथाभ्रमणं संस्कारादेव भवतीत्याह-चक्रादिषु तदवयवानाञ्च पार्श्वतः प्रतिनियतदिगदेशसंयोगविभागोत्पत्ताविति । प्रतिनियता हि दिग्देशाश्चक्रावष्टब्धाः, तैः सह संयोगे विभागे च कर्त्तव्ये यदवयविनि कर्मोत्पद्यते । कुतः ? संस्कारादिति । 25 आद्यदण्डचक्रसंयोगादसमवायिकारणाद् दण्डहस्तसंयोगापेक्षाद् उपजातं चक्र कर्म स्वकारणविशेषापेक्षं संस्कारमारभते । ततः संस्कारनोदनाभ्यां कर्माणि For Private And Personal Use Only
SR No.020944
Book TitleVyomvati Part 02
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy