________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्मवैधर्म्यप्रकरणम्
२६५
पुनः पुनः संस्कारादेव । अवयवेषु चाद्यकर्मोत्पत्तौ नोदनापेक्षः संयुक्तसंयोगोऽसमवायिकारणम्, ततः संस्कारोत्पादे सति संस्कारोऽपीति । अनियतदिग्देशसंयोगविभागनिमित्तं कर्म तभ्रमणमिति, अनियतैदिग्देशैः संयोगविभागान् करोतीति ।
प्राणाख्ये तु वायो कर्म आत्मवायुसंयोगाद् इच्छाद्वेषपूर्वकप्रयत्ना- 5 पेक्षाद् जाग्रत इच्छानुविधानदर्शनात, सुप्तस्य तु जीवनपूर्वक प्रयत्नापेक्षात् । आकाशकालदिगात्मना सत्यपि द्रव्यभावे निष्क्रियत्वम्, सामान्यादिमूर्तत्वात् । मूतिरसर्वगतद्रव्यपरिमाणम्, तदनुविधायिनी च क्रिया, सा चाकाशादिषु नास्ति, तस्मान्न तेषां क्रियासम्बन्धोऽस्तीति ।
कार्यभेदेन भेदं दर्शयति प्राणाख्ये तु वायौ कर्म कुतो भवतीत्याह 10 आत्मवायुसंयोगादसमवायिकारणाद् इच्छाद्वेषपूर्वकप्रयत्नापेक्षादुत्पद्यते । किं विशिष्टस्येत्याह जाग्रत इति। कुत एतत् ? इच्छानुविधानदर्शनादिति । रेचनेच्छातो रेचनम्, पूरणेच्छातश्च पूरणमिति । सुप्तस्य तु जीवनपूर्वकप्रयत्नापेक्षादात्मवायुसंयोगादसमवायिकारणात् प्राणाख्ये वायौ कर्मोत्पद्यत इति । किमत्र प्रमाणम् ? सुप्तस्य जीवनपूर्वकात् प्रयत्नाद् वायौ कर्मेत्यन- 15 मानम् । तथाहि सुप्तस्य वायुक्रिया, प्रयत्नकार्या, परिगृहीतवायुक्रियात्वात्, जाग्रदवस्थायां तवायुक्रियावत् । यत्र च प्रत्यक्षानुमानाभ्यामन्यत् कारणं नोपलभ्यते, तत्रादृष्टस्यैव कारणत्वम् । अत्र चानुमानात् प्रयत्नकार्यत्वप्रसिद्धाविच्छाद्वेषपूर्वकप्रयत्नाभावात् सुप्तस्य जीवनपूर्वकप्रयत्नकार्यत्वं निश्चीयत इति ।
एवं चतुर्ष महभूतेषु नोदनादिभ्यः कर्मव्याख्यायाम् आकाशादौ क्रियाशून्यत्वे कारणमाह आकाशकालदिगात्मनः, सत्यपि द्रव्यभावे निष्क्रियाः, सामान्यादिवद् अमूर्तत्वात् । यथाहि सामान्यादेरमूर्तत्वानिष्क्रियत्वं तद्वदाकाशादेरपीति । मूर्तत्वेन हि क्रियावत्त्वं व्याप्तम्, तच्च व्यावर्त्तमानम् आकाशादिभ्यः स्वव्याप्तं क्रियावत्त्वं गृहीत्वा व्यावर्त्तत इति । तदेवाह मूर्ति- 25 रसर्वगतद्रव्यपरिमाणम्, तदनुविधायिनी च क्रिया । यत्र यत्र क्रिया, तत्र तत्र
३४
20
For Private And Personal Use Only