________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणवैधर्म्यप्रकरणम्
प्रमाणपञ्चकं यत्र वस्तुरूपे न जायते । वस्तुसत्तावबोधार्थं तत्रामावप्रमाणता ।।
(श्लो० वा० पृ० ४७३) नन्वेवं तहि व्यवहितेऽप्यर्थे प्रमाणपञ्चकव्यावृत्तेः सद्भावादभावग्रहणप्रसङ्ग: ? न, वस्तुग्रहणप्रतियोगिस्मरणादेरपि व्यापारात् । तदुक्तम्,
गृहीत्वा वस्तुसद्भावं स्मृत्वा च प्रतियोगिनम् । मानसं नास्तिताज्ञानं जायतेऽक्षानपेक्षया ।।
(श्लो० वा० पृ० ४८२) वस्तुनो भूतलादेः सद्भावं गृहीत्वा प्रतियोगिनं घटञ्च स्मृत्वा इन्द्रियव्यापार विनैव मनसा प्रतिपद्यते नेह भूतले घटोऽस्तीति । तथा देवकुलं दृष्ट्वा 10 बहिनिर्गतो हस्तिना] देशान्तरव्यवधानाद् इन्द्रियसम्बन्धं विनापि परेण पृष्टस्तदैव हस्तिनः]नास्तितां प्रतिपद्यते । तदुक्तम्,
वस्तुमात्रं गहीत्वापि पश्चात किञ्चित स्मरन्नपि । तत्रान्येनास्तितां पृष्टस्तदैव प्रतिपद्यते ॥
(श्लो० वा० पृ० ४८३) 13 तथा,
प्रत्यक्षादेरनुत्पत्तिः प्रमाणाभाव उच्यते । सात्मनः परिणामो वा विज्ञानं वान्यवस्तुनी ॥
(श्लो० वा० पृ० ४७५) सर्वमेतदसत्, प्रत्यक्षादिनैव अभावस्य प्रतीतेः । तथा च, अक्षव्यापाराद् 20 इह भूतले घटो नास्तीति ज्ञानम् अपरोक्षमुत्पद्यमानं दृष्टम् । अथ इन्द्रियाणां भूतलग्रहणे व्यापारो नाभाव इति चेत्, न, भूतलग्रहणे प्रमाणाभावात् । विशेषणस्य हि पूर्वं ग्रहणं पश्चाद् विशेष्यस्य, भूतलञ्च विशेष्यमिति न तस्य पूर्वं ग्रहणे प्रमाणमस्ति । उपेत्यवादेन तूच्यते, यदि वस्तुमात्रग्रहणे सति प्रतियोगिस्मरणं घटावरुद्धभूतलोपलम्भेऽपि तत्स्मरणे नास्तिताज्ञानप्रसङ्गः। 25
For Private And Personal Use Only