________________
Shri Mahavir Jain Aradhana Kendra
5
15
20
२४०
अथ भेरीदण्डसंयोगाद् वेगापेक्षादुत्पन्नक्रियो वायुर्वेगवांश्ोत्रदेशेनागत्याभिसम्बध्यते, तद्गतानि तु स्तिमितवाय्वन्तराणि प्रोत्सारयति, ततः प्रतिबन्धकाभावे सति श्रोत्रं शब्दस्य ग्राहकमिति ? नन्वेवमपि अशेषशब्दोपलम्भप्रसङ्गः, संस्कृते हि श्रोत्र सर्वेषां सान्निध्यम् । न च गोशब्दाभिव्यक्त्यर्थं प्रेरितो वायुर्नाश्वशब्दं व्यनक्तीति वाच्यम्, व्यञ्जकेषु नियमानुपलब्धेः । यथा घटाभिव्यक्त्यर्थमुत्पादितः प्रदीपः समानेन्द्रियग्राह्यसमानदेशावस्थितपदार्थाभिव्यञ्जक इति । तथाहि न श्रोत्रं प्रतिनियतसंस्कारकसंस्कार्यम्, समानेन्द्रियग्राह्यसमानदेशावस्थितवस्तुप्रकाशकत्वात् चक्षुर्वत् । प्रदीपावष्टब्धदेशव्यतिरेकताज्ञानं प्रदीपसंस्कृतं न चक्षुषा ग्रहणमिति समानदेशावस्थित10 पदम् । एवंविधाश्च रूपरसादयो न गृह्यन्त इति समानेन्द्रियग्राह्यग्रहणम् । शब्दा वा विवादविषयाः प्रतिनियतव्यञ्जकव्यङ्ग्या न भवन्ति, समानेन्द्रियग्राह्यसमानदेशावस्थितत्वात् घटादिवत् । अत्र च ये प्रतिनियतसंस्कारकसंस्कार्या न भवन्ति चक्षर्घटादयस्ते सपक्षास्तत्र हेतोः सद्भावः । तद्विपरीतास्तु विपक्षास्तस्मादत्यन्तं व्यावृत्तिरिति । प्रदीपेन च संस्कृतं चक्षुर्युगपद् घटादिप्रकाशकमिति दृष्टम् । एवं श्रोत्रमप्यशेषशब्दोपलम्भकं स्यात् । अत्र चापेक्षाबुद्धिवदनेकपदार्थालम्बनमेवैकं ज्ञानमाशुभावेन वा युगपच्छब्दप्रयोग इति । नन्वेकस्यामपि पृथिव्यां शुक्लादिभेदानां संस्कृतेनापि चक्षुषा न युगपत् प्रकाशनम्, एवं घ्राणादिना गन्धादेरिति । एवमपि न हेतोर्व्यभिचारः, सपक्षैकदेश वृत्तेरपि गमकत्वात् ।
25
www.kobatirth.org
व्योमवत्यां
Acharya Shri Kailassagarsuri Gyanmandir
अथ यथा चक्षुः समानेन्द्रियग्राह्यसमानदेशावस्थितानामपि शुक्लादि - भेदानां न युगपत् प्रकाशकमेवं श्रोत्रमपि स्यात् । इष्टञ्च पृथिव्यामनेकरूपाधिकरणत्वमपि चित्ररूपसमर्थनावसरे । सत्यमेतत्; तथापि रूपभेदानाग्रहणं सहकार्यभावात् । तथा च नानारूपावयवोपलम्भसहकारीन्द्रियमवयविन्यनेकरूपग्राहकमित्युक्तम् । तत्सद्भावे विचित्रप्रतिभासनात् । न चैवं श्रोत्रस्य वायुना संस्कृतस्य सर्वशब्दानां तत्र सान्निध्यादग्रहणे कारणमस्तीति । सामान्यानि तु प्रतिनियतव्यञ्जकव्यङ्ग्यानि, न तु समानदेशानि स्वविषयसर्वगतत्वादेवेति व्यभिचाराभावः । तथा आतपसम्पर्कात्तैले गन्धाभिव्यक्तिः,
For Private And Personal Use Only