SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०० व्योमवत्यां सूत्रद्वितयञ्च एकधर्मिविषयत्वेन संशयप्रतिपादनार्थमिति व्याख्येयम् । तथा च, नियतसामान्यवस्तु प्रतिनियतविशेषैः सहचरितमेकदा दृष्टं पुनस्तत्तुल्यम् अन्यविशेषाविनाभूतम्, अत: कालान्तरे देशव्यवधानवशात् तद् दृष्ट्वा संशेते किमिदमेवम् आहोस्विदेवं न भवतीति । तथा एकधर्मि5 विषयत्वेऽपि । 'यथादृष्टम्' इति किञ्चित् सामान्यवद्वस्तु केनचिद् विशेषेण सह दृष्टम्, 'अयथादृष्टम्' तदेवोपलब्धिविशेषशून्यं विशेषान्तरसहितं दृष्टम्, अत उभयथा दृष्टत्वादुभाभ्यां सह दृष्टत्वाद् उभयशून्यस्योपलब्धौ तत्स्मरणे तु असति, संशयो भवतीति । यथा देवदत्तं सकेशमुपलभ्य पुनर्निष्केशम्, अतः कालान्तरे तमेव वेष्टितशिरसमुपलभमानस्य किमयं सकेशो निष्केशो 10 वेति संशयो भवतीति । यश्च सन्ननुमेये तत्समानासमानजातीययोरसन्नेव सोऽन्यतरासिद्धोऽनध्यवसायहेतुत्वाद् अनध्यवलितः । यथा, सत् कार्यम् उत्पत्तः इति । अयम् अप्रमिद्धोऽनपदेश इति वचनादवरुद्धः । ननु चायं विशेषः संशयहेतुरभिहितः शास्त्र तुल्यजातीयेष्वर्थान्तर15 भूतेषु विशेषस्योभयथा दृष्टत्वादिति ? न, अन्यार्थत्वात् । शब्दे विशेष दर्शनात् संशयानुत्पत्तिरित्युक्ते नायं द्रव्यादीनामन्यतमस्य विशेषः स्थाच्छावणत्वम्, किन्तु सामान्यमेव सम्पद्यते । कस्मात् ? तुल्यजातीयेध्वर्थान्तरभूतेषु व्यादिभेदानाम् एकैकशो विशेषस्योभयथा दृष्टत्वा दित्युक्तं न संशयकारणम् । अन्यथा षट्स्वपि पदार्थेषु संशयप्रसङ्गात् । 20 तस्मात् सामान्यप्रत्ययादेव संशय इति । समस्तसपक्षे तु असाधारणस्यानध्यवसित्वमाह * यश्च सन्ननमेये तत्समानासमानजातीययोः * सपक्षविपक्षयोः । * असन्नेव(च?) सोऽन्यतरासिद्धोऽनध्यवसायहेतुत्वात् - निश्चयानुपादकत्वात् । अतस्तद्धेतुत्वाद् * अन ध्यवसितः । * यथा सत् कार्यम् उत्पत्तेः ५ इत्युदाहरणम् । सकलं कार्य25 मुत्पत्तेः प्राक् स[अनु?उत्पद्यमानत्वादिति हेतुर्न प्रत्या?आ]काशादौ नापि खरविषाणादावित्यनध्यवसितः For Private And Personal Use Only
SR No.020944
Book TitleVyomvati Part 02
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy