SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५५ गुणवैधयंप्रकरणम् विधिस्तु यत्र यत्रधूमस्तत्र तत्राग्निरग्न्यभावे च धूमोऽपि न भवतीति । एवं प्रसिद्धसमयस्यासन्दिग्धधूमदर्शनात् साहचर्यानुस्मरणात् तदनन्तरमग्न्यध्यवसायो भवतीति। एवं सर्वत्र देशकालाविनाभूतमितरस्य लिङ्गम् । यथोक्तरूपं लिङ्ग नागृहीताविनाभावस्य गमकमित्यविनाभावस्वरूपोप- 5 दर्शनार्थम् विधिस्तु यत्र यत्र धूमः* इत्यादि वाक्यम् । विधिर्व्याप्तिरविनाभाव इति । अथ यदि सामान्ययोरविनाभावः सिद्धसाधनम्, अपास्तविशेषस्य सामान्यस्य सिद्धत्वात्, नियतदेशावच्छेदेन विशेषार्थिनां प्रवृत्तिनिवृत्त्योरभावप्रसङ्गः । न च विशेषयोरविनाभावः, तेषामानन्त्येनाप्रसिद्धस्तदायत्तस्याविनाभावस्याप्रसिद्धेः । [मनुष्य ? अनुक्त धर्माणाञ्च सर्व एव विशेषाः प्रतिपत्तुं न शक्यन्त इति यावतामुपलम्भस्तावत्स्वेवाविनाभावग्रहणे च नागृहीताविनाभावस्य विशेषान्तरस्योपलम्भादनुमानं स्यात् । नैतद् दूषणम्, सामान्यवतोरविनाभावग्रहणाभ्युपगमात् । यद्यप्यग्निविशेषा धमविशेषाश्चानन्त्येनावस्थितास्तथापि तेष्वेवावस्थितमग्नित्वं 15 धूमत्वञ्च सामान्यम् उपग्राहकमस्तीति तदुपग्राहकवशाद् भूयोदर्शनबलादग्निधूमयोर्देशादिव्यभिचारेऽप्यव्यभिचारग्रहणम् । तथाहि, प्रातमध्याह्नादिभेदेन कालस्य भेद, समविषमादिभेदन च दशभेद धुमस्याग्निना साहचर्योपलब्धेर्देशान्तरे कालान्तरे च धूमोऽग्नि विनापि भविष्यतीत्याशङ्का न स्यात् । अत एव न कुलालस्य रासभेन व्याप्तिग्रहणप्रसङ्गः, कालान्तरे च तेन 20 विनाप्युपलम्भात् । अन्ये तु व्याप्तिग्रहणकाले प्रतिपत्तुर्योगिन इव अशेषविषयं परिज्ञानमस्तीति ब्रुवते । अन्यथा हि सर्वो धूमोऽग्नि विना न भवतीति व्याप्तिस्मरणं न स्यात् । विवेकेन चाप्रतिभासः समानाभिव्याहारात् । यथा धान्यराशिनिक्षिताया धान्यव्यक्तेरिति । तदेवं 'यत्र यत्र' इति वीप्सार्थस्य विवक्षितत्वात् * यत्र यत्र धूमस्तत्र 25 For Private And Personal Use Only
SR No.020944
Book TitleVyomvati Part 02
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy