SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 10 व्योमवत्यां तत्राग्निरग्न्यभावे च धूमोऽपि न भवतीत्येवं प्रसिद्धसमयस्य गृहीताविनाभावस्य प्रतिपत्तुरसन्दिग्धधूमदर्शनानन्तरं साहचर्यानुस्मरणम् 'यत्र यत्राहं धूममद्राक्षं तत्र तत्राग्निरस्तीति साहचर्यानुस्मरणात् * तदनन्तरम् अग्निरध्यवसीयते अनेनेति * अग्न्यध्यवसायः परामर्शज्ञानम् । तस्माच्चाग्नि5 प्रतिपत्तिरिति । 15 www.kobatirth.org १५६ * * Acharya Shri Kailassagarsuri Gyanmandir * अन्ये तु परामर्शज्ञानस्याभावमेव ब्रूवते । तच्चासत्, अविनाभावसम्बन्धस्मरणस्यानियतत्वान्नियतप्रदेशेऽग्निप्रतिपत्तिर्न स्यात् । उपनयवैयर्थ्यञ्च, उपनयार्थस्यानभ्युपगमात् । तस्माद् व्युत्पत्त्या उपचारेण वा 'अग्न्यध्यवसायः ' परामर्शज्ञानं व्याख्येयमिति । अन्ये तु कार्यकारणभावात् स्वभावाच्च नियामकादविनाभावग्रहणमिति मन्यन्ते । तच्चासत् । कार्यकारणभावेऽप्यवश्यं भूयो दर्शनबलादेवाविनाभावग्रहणमिति वाच्यम् । अन्यथा हि देशान्तरे कालान्तरे वा अग्नि विनापि धूमो भविष्यतीत्याशङ्का स्यात् । अथाग्निधूमयोः कार्यकारणभावावगतौ कथमग्नि विना धूमस्य सम्भव इत्याशङ्का, तस्य निर्हेतुकत्वप्रतिषेधेनावश्यं स्वकारणादेवोत्पत्तेरिति । सत्यमेतत्, यदि नाम सर्वो धूमोऽग्निकार्यं इति ज्ञानमपि भूयो दर्शनं विना न भवतीति तदभ्युपगन्तव्यम् । For Private And Personal Use Only , न चाग्नेरसाधारणं कार्यं धूमः, तस्य धुमान्तरादप्युत्पत्त्यभ्युपगमात् । तथा हि गोपालघुटिकादिषु चिरनिवृत्ते वह्नौ धूमक्षणादेव धूमोत्पत्तिरिति कथम् अतत्कार्यस्य धूमस्योपलब्धेरग्न्यनुमानम् ? अथाग्निकार्यस्योपलम्भा20 दनुमानमिति चेत्, न अग्निप्रतिपत्ति विना धूमे तज्जन्यत्वविनिश्चयस्यासम्भवात् प्रतिपत्तौ वा किमनुमानेन ? धूमस्वरूपप्रतिपत्ति वच्चागृहीतानलस्य नारिकेलद्वीपवासिनो धूमेऽग्निजन्यत्वप्रतिपत्तिर्दृष्टा, तथा प्रयोगानुपपत्तेश्च । तथाहि पर्वतस्याग्निमत्त्वे साध्ये कार्यत्वमनैकान्तिकमेव । अथ धूमस्याग्निमत्त्वं साध्येत ? तत्रापि कार्यत्वमनैकान्तिकमेव । धूमत्वे सति कार्यत्वं हेतुः ? 25 तर्हि धूमत्वमेव समर्थमिति व्यर्थविशेष्यता हेतोर्दोषः । न चाग्निकार्यत्वं धूमस्याग्निसम्बन्धात्, पूर्वद्रव्यनिवृत्तावुत्पन्नपाकजैर्द्वयणुकादिप्रक्रमेणोत्पत्तेरित्यलम् ।
SR No.020944
Book TitleVyomvati Part 02
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy