SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३६ व्योमवत्या वस्थाप्रसङ्गः । अथैकत्वादावेकादिव्यवहारस्तत्स्वरूपतया ? द्रव्येऽपि तथाभावप्रसङ्गः । अथैकत्वादिसामान्ये तत्सामान्यानुपपत्तेरेकादिव्यवहारः ? [तच्च] कल्पनाज्ञानमिति। तदेतत् सर्वभसाम्प्रतम् । एकादिव्यवहारस्य बाधकासम्भवेन प्रामाण्यात् । 5 तथा ह्य कादिज्ञानमर्थान्वयव्यतिरेकानुविधानानीलादिज्ञानवदर्थजम् । न चार्थाधीनतया निर्विकल्पकज्ञानोत्पत्तिसमकालमेव तस्योत्पत्तिः, सङ्केतस्मरणस्य सहकारिणोऽभावात् । नापि स्मृतिजमेव, अर्थस्यापि तत्र व्यापारोपलब्धेः । न च स्मृतेरतिशयाधायकत्वमनतिशयनिवर्तकत्वं वा, किन्तु अर्थ सद्भावे सति ज्ञानजनकत्वमेव । 10 न चार्थस्येन्द्रियाणां वा अविचारकत्वात् प्रागिव पश्चादप्यजनकत्व मिति दूषणम् । तथा वृत्त्यनुपपत्तेः, देशभेदेनाग्रहणात्, तदग्रहे तबुद्धयभावाच्चेति, पूर्वमेवावयविसमर्थनावसरे प्रतिषेधात् । न चाबाध्यमानमपि एकादिज्ञानम् अप्रमाणमिति न्याय्यम्, नीलादिज्ञानस्याप्यप्रमाणताप्रसङ्गात् । अथ नीलं विना तज्ज्ञाने न स्यान्नीला15 कारता ? तदेकत्वादिज्ञानेऽपि समानम् । अथैकत्वादिज्ञानं शब्दाकारम्, न चार्थे तद्रूपतास्तीति निर्विषयत्वम्, न । नीलज्ञानस्यापि शब्दाकारतया निविषयताप्रसङ्गात् । __ अथाद्यं नीलज्ञानं निर्विकल्पकमर्थजम्, उत्तरन्तु सविकल्पकमनेकक्षणव्यवधानाद् अर्थापायेऽप्युत्पद्यते, अर्थस्य क्षणिकत्वाच्छब्दाकारातायाश्च तत्रा20 सम्भवादिति निविषयत्वमिष्यत एव । तदसत् । क्षणिकत्वस्य पूर्वमेव प्रतिषेधात् । निर्विकल्पकज्ञानोत्पत्ताविवार्थस्य सविकल्पकज्ञानोत्पत्तावन्वयव्यतिरेकाभ्यामिन्द्रियेण सङ्केतस्मरणेन च सहकृतस्य व्यापारोपलब्धः। तथाहि, इदन्तया ज्ञानोत्पत्तेस्त बेन्द्रियस्य व्यापारो निश्चीयते, अगुल्या व्यपदिश्यमानत्वाद् अर्थस्य चेति । 25 अन्यथा हीन्द्रियार्थयोरेकादिज्ञानोत्पत्तौ व्यापारमन्तरेण इदन्तयोपलब्धि रङगुल्यादिना च व्यपदेशो न स्यात् । अथेन्द्रियज्ञानं मनोविज्ञानक्रमेण For Private And Personal Use Only
SR No.020944
Book TitleVyomvati Part 02
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy