________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
गुणवैधप्रकरणम्
Acharya Shri Kailassagarsuri Gyanmandir
३७
सविकल्पकज्ञानोत्पत्तौ कारणमिति, इदन्तयोपलब्धिरङ्गुल्यादिना व्यपदेशो नार्थजाविति चेत्, न । एतस्मिन् क्रमे प्रमाणाभावात् ।
अथ सङ्कल्पात् सद्भावसिद्धेरन्यथा एकादिव्यवहारो न स्यादित्येषा कल्पना क्रियते, तदसत् वृत्तिविकल्पादेर्बाधकस्य पूर्वमेव प्रतिषेधात् । संख्यासद्भावसिद्धावेकादिव्यवहारस्य साक्षादर्थजत्वोपपत्तेः ।
शब्दाकारता· तु सविकल्पकज्ञाने न सम्भवत्येव, साकारवाद प्रतिषेधस्य वक्ष्यमाणत्वात् । केवलन्तु स्मृतिजनितत्वात् सविकल्पकं ज्ञानं शब्दोल्लेखेनोत्पद्यते, निर्विकल्पकन्तु उल्लेखशून्यम्, सङ्केतस्मृतेरव्यापारात् ।
न च वासनाप्रभवत्वम्, वासनायाः पूर्वमेव प्रतिषेधात् । तथाहि, बोधव्यतिरेकेणान्या वासना न सम्भवतीत्युक्तमेव अवयवसमर्थनावसरे । या तु वैशेषिकोपगता स्मृत्यनुमेया वासना सा न कारणमेकादिव्यवहारे, तस्याः परोक्षकारणतया स्मृतिविलक्षणत्वात् । तथाहि एकादिज्ञानम् अपरोक्षम् इन्द्रियव्यापारेण इदन्तयोत्पद्यते, न च स्मृतेरेतद्रूप [त्व ] मस्तीति न वासनाप्रभवम् । तथा इत्थम्भूतवासनाप्रभवत्वेऽपि परम्परयार्थव्यवस्थापकत्वम्, अर्थानुभवपूर्वकत्वाद् वासनायाः । या तु एकत्वादिशब्देभ्यो विकल्पाद् 15 वासना सापि अर्थं व्यवस्थापयत्येव, शब्दस्यानुभवपूर्वकत्वेनाभ्युपगमात्, 'दृष्टे दृष्टवादित्वम्' इत्यनेन ।
यत्तु उत्पत्तिविकल्पनाद् एकत्वादेरसत्वमित्युक्तम्, तदसत्, उत्तरकालं तदुत्पत्त्यभ्युपगमात् । अथ किं तत् स्वभावाद् विपरीताद् वेत्युक्तम्, तत्र यदि तत्स्वाभाव्यं तदुत्पादनसामर्थ्यं विवक्षितम्, तदिष्यत एव । अर्थकत्वाद्याश्रयत्वं तन्नास्ति, उत्पत्तेः पूर्वं तदभावात् । सिद्धे च संख्यासद्भावे प्रमाणतस्तस्याः कार्यं द्रव्ये कृतकत्वाद् अवश्यमुत्पत्तिकारणं वाच्यम् । तत्र च एकत्वद्वित्वाद्याश्रयस्य तज्जनकत्वे तदभावः स्यात्, दृष्टा चोत्पत्तिः, तस्मात् द्रव्यमितरकारकोपचितम् तेषां कारणमिति उत्पत्ति विकल्पानुपपत्तिः ।
For Private And Personal Use Only
यच्चेदम्, उपलब्धिलक्षणप्राप्तस्यानुपलब्धेर्द्वित्वादेरसत्वमिति, तन्न, असिद्धत्वात् । तथा च यदीयया अपेक्षाबुद्ध्या सम्पादितं द्वित्वादि तस्यैवोप
5
10
20
25