________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणवैधयंप्रकरणम्
३५ ननु सर्वमेतदसम्बद्धम्, संख्यासद्भावे प्रमाणाभावात् । अथैकं द्वे त्रीणि इत्यादिव्यवहारः प्रमाणम् । तन्न । अस्य कल्पनाज्ञानत्वात् । न च कल्पनाज्ञानमर्थव्यवस्थापनायालम्, तदभावेऽपि भावात् । तथाहि, निमित्तनिर्विकल्पकज्ञानक्रमेण स्मरणानन्तरं सविकल्पकं ज्ञानमुत्पद्यते, न चार्थस्यावस्थानम्, क्षणिकत्वाद् इति निविषयत्वम् ।
बाधकोपपत्तेश्च । तथा ह्य त्पद्यमानं द्वित्वादि न द्रव्योत्पत्तेः पूर्वमुत्पद्यते, तदभावात् । न समकालम्, कार्यकारणभावानुपपत्तिप्रसङ्गात् । अथोत्तरकालम् ? तत्रापि किं तत् स्वभावाद् विपरीताद् वेति । तत्स्वाभाव्ये किं द्वित्वादिना, द्रव्यस्यैव तत्स्वरूपत्वात् । विपर्यये तु, कथं तत्स्वभावात् तस्योत्पत्तिः, एकस्माद् बहुभ्यश्च द्वित्वोत्पत्तिप्रसङ्गात्, तत्स्वभावतायाः 10 सर्वत्राविशेषात् ।
तथा वृत्त्यनुपपत्तेश्च । द्वित्वमनेकस्मिन् वर्तमानमेकदेशेन सर्वात्मना वा वर्तते ? नैकदेशेन, तदभावात् । न सर्वात्मना, उभयवृत्तित्वाभावप्रसङ्गात् । न च येनैव स्वरूपेणैकवृत्तिस्तेनैव द्रव्यान्तरेऽपि, तयोरेकताप्रसङ्गाद् इति वृत्त्यनुपपत्तेरसत्त्वम् ।
तथोपलब्धिलक्षणप्राप्तस्य सर्वैरग्रहणात् । यदि हि द्वित्वादेः सत्त्वम्, उपलब्धिलक्षणप्राप्तत्वाद् रूपादिवत् सर्वपुरुषैर्गृह्यत, न तूपलभ्यते, तस्मान्नास्तीति ।
___ समानेन्द्रियग्राह्यत्वाच्च । येनेन्द्रियेण द्रव्यमुपलभ्यते तेनैव संख्यापीति न ततोऽर्थान्तरम् । भेदे तु रूपादीनामिव असमानेन्द्रियग्राह्यत्वमपि स्यात् । 20
इतोऽप्यसत्त्वं देशभेदेनानुपलब्धेः, तदनहे तद्बुद्ध्यभावाच्च, तथा ग्रहणानुपपत्तेश्च । तथाहि, द्वित्वमनेकत्र वर्तमानं कथमिन्द्रियेण परिच्छिद्येत, युगपत् सन्निकर्षद्वयस्य मनसानधिष्ठितत्वात् । अथ चक्षुरधिष्ठीयते, तथाप्यनेकपदार्थग्रहणप्रसङ्गः, तस्य मनोऽधिष्ठितस्यानेकपदार्थ : सम्बन्धात् ।
__ यथा च संख्यासम्बन्धाद् द्रव्येष्वेकादिव्यवहारस्तथैकत्वादिगुणेष्वप्येका- 25 दिव्यवहारे निमित्तान्तरकल्पनायां तत्राप्येकादिव्यवहारस्य सम्भवादन
15
For Private And Personal Use Only