________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणवैधयंप्रकरणम्
wr
सर्वत्रानुपलब्धिरेव स्यात् । अनित्यतायान्त्वशेषद्रव्याश्रितस्योत्पत्तिकारणाभावः, तेषां क्रमेणोत्पादात् । न चान्यत्र समवेतमुपजातमन्यत्र समवैतीति अदर्शनात् । एकस्य च नित्यस्यानेकवृत्तौ (द्रव्यत्व ?)सामान्यरूपता स्यात् । न च द्रव्यं द्रव्यमिति प्रत्ययवत् पृथक् पृथगिति पदार्थान्तरावधि विना प्रत्ययो दृष्टः । सावधिकस्तु प्रत्ययो गुणादिष्वपीतरेतराभावनिमित्तो न सामान्यनिबन्धनः। 5 तद्विलणश्चायमित्युक्तम् ।।
अथ पृथक्त्वप्रत्यया विभिन्नस्वभावाः संख्यया विशिष्यन्त इति । अथ पूर्वं द्वित्वादेरुत्पादोऽपेक्षाबुद्धिविनाशेन विनाशोपपत्तेर्न द्विपृथक्त्वादिकालेऽवस्थानम्, द्विपृथक्त्वादेश्च पूर्वमुत्पादे द्रव्यज्ञानसमकालं विनाशात् द्वित्वोत्पत्तिसमकाले नावस्थानम्, अतो विशेष्यज्ञानोत्पत्तौ व्यापारानुपपत्ते- 10 द्वित्वादेर्न विशेषणत्वमिति ।
अथैकस्मिन्नेव काले विभिन्नपुरुषयोरपेक्षाबुद्धिद्वारेण उभयोरुत्पत्तिसम्भवाद् युक्तं द्वित्वादेविशेषणत्वमिति चेन्न । पुरुषान्तरबुद्धिसम्पादितस्य द्वित्वादेः पुरुषान्तरेणाग्रहणात् । गृहीतञ्च विशेषणमिति, नैष दोषः, स्मर्यमाणस्योपलक्षणत्वाभ्युपगमात् ।
तथाहि, द्विपृथक्त्वोत्पादिकायाः स्वकारणात् अपेक्षाबुद्धरुत्पत्तिः, द्वित्वस्मरणस्योत्पद्यमानता, द्विपृथक्त्वस्योत्पद्यमानता, ततो द्वित्वस्मरणस्योत्पादः, द्विपृथक्त्वस्योत्पादः, अपेक्षाबुद्धेविनश्यत्ता, द्विपृथक्त्वगुणबुद्धेरुत्पद्यमानतेत्येकः काल: ।
ततो द्वित्वस्मरणस्य द्विपृथक्त्वज्ञानजनकत्वमेवेति मन्यमाना गुणा- 20 दिष्वपि “एतस्मादयं व्यावृत्तो विलक्षणः' इत्यादिव्यवहारः पृथक्त्वनिमित्तः, स च निर्गुणत्वाद् गुणादीनामुपचार इति मन्यन्ते। न च पृथगिति ज्ञानं निविषयं वासनाप्रभवम्, तस्याः पूर्वमेव प्रतिषेधात् ।
लक्षणेन लक्ष्यमाणस्यैकानेकत्वोपलब्धौ संशये सति तन्निरासार्थं विभागमाह तत्पुनरेकद्रव्यमनेकद्रव्यञ्च - इति । एकमेव द्रव्यमाश्रयोऽस्येत्येक- 25 द्रव्यम् । अनेकमेव च द्रव्यमाश्रयोऽस्याविनश्यद[वस्थ]द्रव्यस्येत्यनेकद्रव्यम् ।
15
For Private And Personal Use Only