________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६०
व्योमवत्या
एतावांस्तु विशेषः, एकत्वादिवदेकपृथक्त्वादिष्वपरसामान्याभावः संख्यया तु विशिष्यते, तद्विशिष्टव्यवहारदर्शनादिति ।
इदानीमुद्देशक्रमेणावसरप्राप्तस्य पृथक्त्वस्य लक्षणपरीक्षार्थ - पृथक्त्वमपोद्धारव्यवहारकारणम्" इत्यादिप्रकरणम् । व्यवहृतिर्व्यवहारो ज्ञानम्, 5 व्यवह्रियतेऽनेनेति व्यवहारोऽभिधानं तयोर्हेतुः पृथक्त्वमित्युक्तेऽतिप्रसङ्गस्त
दर्थमपोद्धारग्रहणम् । अपोद्धरणमपोद्धारः पृथक्करणम् । तथाप्यपोद्धारव्यवहारहेतुत्वमाकाशात्मनोर्न व्यावृत्तमिति विशेषणत्वे सतीति पदमूह्यम् । पृथक्त्वत्वसामान्यव्यवच्छेदार्थञ्च द्रव्य पदमपी ति । पृथक्त्वमितरेभ्यो
भिद्यते, द्रव्यविशेषणत्वे सति अपोद्धारव्यवहारकारणत्वात्, यस्त्वितरेभ्यो न 10 भिद्यते न चासावेवम्, यथा रूपादिरिति । व्यवहारो वा साध्यः ।
तथा परीक्षापरञ्च वाक्यम् । अपोद्धारव्यवहारो हि विशिष्टव्यवहारः । स च नर्ते विशेषणाद् भवतीति रूपादिव्यवहारविलक्षणत्वाद् विलक्षणेनैव निमित्तेन भवितव्यम्, तथा रूपाउनुपलब्धौ पृथगिति व्यवहारदर्शनाच्च ।
न चेदम् अस्मात्पृथगिति व्यवहारो विशेषसम्बन्धाद् भविष्यतीति 15 वाच्यम्, अनित्येषु नित्यविशेषाणामभावात् । अथानित्येष्वसाधारणधर्मसम्बन्धः
पृथगिति व्यवहारे निमित्तम् ? तन्न, तद्विशिष्टतानुपलब्धेः । न हि पृथगिति व्यवहारे द्रव्यरूपादिकर्मसामान्यात्मिका असाधारणधर्मविशिष्टता प्रतिभाति ।
यच्चाभिहितं तेभ्योऽर्थान्तरं विशेषणं न पृथक्त्वम् । अथेतरेतराभावस्तहि निमित्तम् । तथाहि, ‘इदमिदं न भवति', 'इदमस्माद् व्यावृत्तम्, 20 पृथग, अर्थान्तरम्, विलक्षणम्, इति प्रत्ययाः सर्वत्र तन्निमित्ता एवेति ? न,
पदार्थान्तरावधि विना एकत्वादिसंख्याविशिष्टस्य पृथगिति व्यवहारस्य ततोऽर्थान्तरत्वात् । तथाहि, इतरेतराभावविशिष्टो व्यवहारः पदार्थान्तरावधित्वेन प्रवर्तते न चैकत्वादिसंख्यानुरक्तः । तद्विलक्षणश्चायमित्यर्थान्तर निमित्तः।
अन्ये तु इतरेतराभावस्य प्रतिषेधार्थ x x x x x x x नानाप्रत्ययजनकमिति । न । अनित्यद्रव्येषु नित्यस्य गुणस्यानुपलब्धेराश्रयविनाशेन तद्विनाशे
25
For Private And Personal Use Only