________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३४
व्योमवत्यां हविर्यज्ञसंस्थाः । अग्निष्टोमोऽत्यग्निष्टोम उक्थ्यः षोडशी वाजपेयोऽतिरात्राप्तोर्याम इति सप्त होमयज्ञसंस्थाः । तदाह 'सोमयज्ञसंस्थानामग्निष्टोमादीनामिति' । एवमन्येऽपि यज्ञविशेषास्तच्छास्त्रप्रसिद्धा एव ग्राह्या इति । ऋत्वन्तरेषु ब्रह्मचर्यमपत्योत्पादनश्च ।
वनस्थस्य धर्मसाधनमाह * ब्रह्मचारिणो गृहस्थस्य वा वनवासः * इति। उक्तञ्च 'यदि वा ब्रह्मचर्यादेव प्रव्रजेत्' इति । अतो ब्रह्मचारिणो गृहस्थस्य वा अधिकारः । तेऽपि चतुर्विधाः, वैखानसाः,
औदुम्बराः, बालखिल्या:, फेनपाश्चेति । तत्र वैखानसा नाम अकृष्टपच्याभिरौषधीभिमबहिष्कृताभिरग्निपरिचरणं कृत्वा पञ्चमहायज्ञक्रियां 10 निवर्तयन्त आत्मानं प्रार्थयन्ते। तत्रौदुम्बरा नाम प्रातरुत्थाय
यां दिशं प्रेक्षन्ते तदाहतैर्बदरनीवारश्यामाकैरग्निपरिचरणं कृत्वा पञ्चमहायज्ञक्रियां निवर्तयन्त आत्मानं प्रार्थयन्ते । तत्र बालखिल्या नाम जटाधरा चीरवल्कलसंवृताङ्गाः पौर्णमास्यां वा कात्तिक्यां पुष्यादिभक्षमुत्सृजन्त अष्टौ मासान् वृत्युपार्जनं कृत्वा पञ्चमहायज्ञक्रियां निवर्तयन्त आत्मानं प्रार्थयन्ते । तत्र फेनपा नाम उद्दण्डकानुन्मत्ताः शीर्णपत्राभिभोजिनो यत्र तत्र वा वसन्त आत्मानं प्रार्थयन्ते । तदेवाह * वल्कलाजिनकेशश्मश्रुनखरोमधारणं वन्याम्बुहुतातिथिशेषभोजनानि वनस्थस्य * इति । यत्याश्रममुपदर्शयन्नाह * त्रयाणामन्यतमस्य * इति । त्रयाणां ब्रह्मचारिगृहस्थवानप्रस्थानामन्य
तमस्य । किं विशिष्टस्य ? * श्रद्धावतः । सर्वभूतेभ्यो नित्यं सर्वदा अभयं 20 दत्वा । उक्तञ्च 'न हिंस्यात् सर्वभूतानीति' । * संन्यस्य स्वानि कर्माणि * अग्नि
होत्रादीनि। * यमनियमेष्वप्रमत्तस्य * इति । अहिंसादयो यमाः, शुश्रूषादयो नियमाः, तेष्वप्रमत्तस्य । * षट्पदार्थप्रसंख्यानात् * परिज्ञानाद् * योगसाधनं प्रव्रजितस्य * इति । योग एव तस्य धर्मसाधनम् ।
उक्तन्यायेन तेऽपि चतुर्विधाः; कुटीचकाः, बहूदकाः, हंसाः, परमहंसा25 श्चेति । कुटीचकास्त्रिदण्डकमण्डलुकन्थादिधारिणो ज्ञातिगृहेषु भोजिनः ।
बहूदका नाम ब्राह्मणगृहेषु भिक्षाशिनः शून्यागारदेवगृहवासिनः । हंसा नाम शिखाकमण्डलुदण्डहस्ता ग्रामैकरात्रवासिनस्तीर्थादिषु त्रिपञ्चरात्रम्, एवं पक्षोपवासादिभिरात्मानं प्रार्थयन्ते । परमहंसास्त्वेकदण्डधराः, मुण्डाः,
For Private And Personal Use Only