SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१८ व्योमवत्यां पुनविषयानुरञ्जनेच्छा रागः, अनासन्नक्रियेच्छा सङ्कल्पः, स्वार्थमनपेक्ष्य परदुःखप्रहाणेच्छा कारुण्यम्, दोषदर्शनाद् विषयत्यागेच्छा वैराग्यम्, परवञ्चनेच्छा उपधा, अन्तनिगूढेच्छा भावः। चिकीर्षाजिहीर्षेत्यादिक्रियाभेदाद् इच्छाभेदा भवन्ति । इच्छायाः कार्यकारणस्वरूपनिरूपणार्थं स्वार्थं परार्थ वा * इत्यादि । अप्राप्ते वस्तुनि प्रार्थनारूपत्वादिच्छेति । स्वार्थ परार्थं वेति विप्रतिपत्तिनिरासार्थं विभागकथनम्, न केवलं स्वार्थमेव परार्थमपि । उत्पत्तिकारणमाह * सा चात्ममनसोः संयोगात् * असमवायिकारणादुत्पद्यते । किमपेक्षात् ? * सुखाद्यपेक्षात् स्मृत्यपेक्षाद् वा ५ इति ! * प्रयत्नस्मृतिधर्माधर्महेतु: * इति कार्यनिरूपणम् । शुद्धाभिसन्धिर्धमहेतुर्दुष्टाभिसन्धिश्चाधर्महेतुरिति । ___अन्येऽपि गुणाः कामादयः सन्ति च शब्दे ? ते च] किं न सूचिता इति चोद्यस्य परिहारार्थमन्तर्भाव निरूपयति * कामोऽभिलाषो रागः सङ्कल्पः कारुण्यं वैराग्यम् उपधा भाव इत्येवमादय इच्छाभेदाः तद्विशेषा इति । 15 मैथुनेच्छा कामः, तत्सद्भावे कामीति व्यपदेशात्, नेच्छामात्रमिति । अभ्यव हरणेच्छा अभिलाषः, अभिलाषलक्षणेच्छा । सामान्येन सर्वस्मिन् वस्तुनि अभ्यवहरणमादानं विवक्षितम् । तदिच्छा अभिलाष इति चान्ये । * पुनः पुनविषयानुरञ्जनेच्छा रागः * तेन हि सता रागीति व्यपदेशात् । अनासन्नक्रियायाम् अनागतक्रियायामिच्छा सङ्कल्पः । * स्वार्थमनपेक्ष्य परदुःखप्रहा220 णेच्छा * तद्विनाशेच्छा कारुण्यम् । दोषदर्शनाद् विषयेषु परित्यागेच्छा वैराग्यम् । तत् सद्भावे विरक्तव्यवहारात्। * परवञ्चनेच्छा उपधा। अन्तर्निगढेच्छा भावः * इति । यद्यपि इच्छा सर्वा अन्तर्न बाह्येति; तथापि इयमन्यापेक्षया कथञ्चिद् विज्ञायत इत्यन्तनिगूढत्युच्यते । *चिकीर्षा जिहीर्षेत्यादिक्रियाभेदादिच्छाभेदा भवन्ति * कर्तुमिच्छा चिकीर्षा, 25 हर्तुमिच्छा जिहीर्षेति । द्वेषवैधर्म्यम् प्रज्वलनात्मको द्वेषः । यस्मिन् सति प्रज्वलितमिवात्मानं मन्यते, For Private And Personal Use Only
SR No.020944
Book TitleVyomvati Part 02
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy