________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५२
व्योमवत्या
उत्क्षेपणत्वादिवदिति चिन्त्यम् । कुतः कारणात् ते संशय इत्याचार्यस्य प्रश्नः । स चानुपपन्नः । तथाहि सन्दिग्धेन प्रश्ने कृते सति तत्प्रतिसमाधानं न्याय्यम्, न तु संशयकरणेन वचनम्, तस्य सामान्यधर्मादिभ्यः पूर्वमेवोत्पत्तिनिरूपणात् । नैष दोषः। संशयकारणज्ञाने सति तदुच्छित्तावुपायानुष्ठानम् उपलब्धव्याधिकारणस्य वैद्यस्येव अप्रयासेनैव घटत इति मन्यमानः कारणं प्रश्नयतीति । तदाह समस्तेषूत्क्षेपणादिषु भ्रमणादिषु च कर्मप्रत्ययवद् गमनप्रत्ययाविशेषात् कर्मत्वपर्याय इति गम्यते । यथा ह्यत्क्षेपणकर्मापलेपणकर्मेत्यादिव्यवहारोपलम्भादशेषभेदव्यापकं
कर्मत्वम्, एवमध्वं गच्छत्यधोगच्छतीत्यादिव्यवहारोपलम्भाद् गमनमप्य१० शेषभेदव्यापकमित्यतः कर्मत्वपर्याय इति ज्ञायते।
__न चात्र निश्चय एवेत्याह यतस्तूत्क्षेपणादिवद् विशेषसंज्ञयाभिहितम्, तस्मादपरं सामान्यं स्यादिति । न हि विशेषदर्शनेन गणनायां तदवसरे सामान्यसंज्ञानिर्देशो दृष्टः । यथा पृथिव्यादि
संज्ञावसरे द्रव्यसंज्ञायाः । तस्मादुभयरूपधर्मोपलम्भाद् विशेषानुपलम्भादिभ्यश्च 10 किं कर्मवद् गमनत्वं परं सामान्यम्, आहोस्विदुत्क्षेपणत्वादिवदपरमिति
संशयः कार्यः ? न संशयः कार्यः, कर्मत्वपर्यायत्वादात्मत्वपुरुषत्ववत् पर्याय एव गमनत्वमिति, सर्वत्र कर्मप्रत्ययवद् गमनप्रत्ययोपलम्भादिति न्यायात् । अथ विशेषसंज्ञया किमर्थं गमनग्रहणं कृतमिति, विशेषसंज्ञावसरे सामान्य
संज्ञोपदर्शनस्यादर्शनात् । न, भ्रमणाद्यवरोधार्यत्वात् । उत्क्षेपणादिशब्दै20 रनवरुद्धानामसगृहीतानां भ्रमणपतनस्यन्दनादीनामवरोधार्थम्, कर्मत्व
ज्ञापनार्थमिति। अन्यथा हि गमनग्रहणमन्तरेण यान्येव चत्वारि विशेषसंज्ञोक्तान्युत्क्षेपणादीनि तान्येव सामान्यविशेषसंज्ञाविषयाणि प्रसज्येरनिति । सामान्यसंज्ञा कर्मसंज्ञा, विशेषसंज्ञा चोत्क्षेपणादिसंज्ञा, तद्विषयाणि चत्वार्येव
प्रसज्येरन्, न भ्रमणादीनि । कुत एतत् ? विशेषसंज्ञाविषयाणामेव सामान्य25 संज्ञाविषयत्वात् । तस्मादुत्क्षेपणादिवद् भ्रमणादीनामपि कर्मत्वज्ञापनार्थं
गमनग्रहणं कृतमिति । न चैतस्मिन् पक्षे भ्रमणादीनामपरजातिसम्बन्धेऽपि दूषणम्, तदपेक्षया आनन्त्यस्याभ्युपगमात् । यच्च गमनग्रहणाद् भ्रमणादयः सङगृहीता इति वाक्यम्, तदन्यथा व्याख्यातम् ।
For Private And Personal Use Only