________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्मवैधयंप्रकरणम्
२५३
अथवा अस्त्वपरं सामान्यं गमनत्वमनियतदिग्देशसंयोगविभागकारणेषु भ्रमणाविष्वेव वर्त्तते, नोत्क्षेपणादिषु । कथं तहि तेषु गमनव्यवहार इत्याह गमनशब्दस्तूत्क्षेपणादिषु भाक्तो द्रष्टव्यः । कस्मात् ? उपचारबीजात् स्वाश्रयसंयोगविभागकर्तृत्वसामान्यादिति । यथा उत्पन्नमुत्क्षेपणादि स्वाश्रयस्य पदार्थान्तरैः संयोगविभागान् करोति, तथा गमनमपीति । न चैतस्मा- 5 देव निमित्तादुत्क्षेपणादिषु गमनव्यवहारवद् गमनेऽपि उत्क्षेपणादिव्यवहारप्रसङ्गः, कार्यसद्भावेन कारणकल्पनाया: प्रवर्त्तनात् । न चोत्क्षेपणादिषु गमनव्यवहारवद् गमनेऽपि उत्क्षेपणादिव्यवहारो दृष्टः, तस्मादचोद्यमेतत् । अथ पक्षद्वयोपन्यासात् किमत्राचार्यस्याभिप्रेतम् ? पञ्चानां प्रतिनियतजातियोगित्वाभिधानाद् गमनत्वमपरं समान्यमित्येतत् ।
10 अन्ये तु वास्तवदूषणस्य परसामान्यपक्षेऽनभिधानात् तदेवाभिप्रेतमिति मन्यन्ते।
सत्प्रत्ययकर्मविधिः । कथम्? चिकोषितेषु यज्ञाध्ययनदान कृष्यादिषु यदा हस्तमुत्क्षेप्तुमिच्छति अपक्षप्तुं बा, तदा हस्तवत्यात्मप्रदेशे प्रयत्नः सञ्जायते, तं प्रयत्न गुरुत्वं चापेक्षमाणादात्महस्तसंयोगाद्धस्ते 15 कर्म भवति, हस्तवत् सर्वशरोरावयवेषु पादादिषु शरीरे चेति ।
पूर्वं सत्प्रत्ययमसत्प्रत्ययश्च कर्मोक्तम् । तत्र सत्प्रत्ययकर्मविधिः कथमित्याह चिकीर्षितेषु कर्तुमभीष्टेषु। यज्ञाध्ययनदानकृष्यादिष्वित्यादिपदेन भोजनादेग्रहणम् । यज्ञादिषु च तिलादिग्रहणार्थं यदा हस्तमुत्क्षेप्तुमिच्छति अपक्षेप्तुं वा, तदा हस्तवत्यात्मप्रदेशे प्रयत्नः सञ्जायते । तदुत्पत्तावात्मा 20 समवायिकारणम्, आत्ममनःसंयोगोऽसमवायिकारणम्, इच्छा निमित्तकारणम् । तत्प्रयत्नं गुरुत्वञ्चापेक्षमाणाद् आत्महस्तसंयागादसमवायिकारणाद् हस्ते समवायिकारणे कर्मोत्पद्यते, हस्तवत् सर्वशरीरावयवेष पदादिषु शरोरे चेति । यथा आत्महस्तसंयागोऽसमवायिकारणं प्रयत्नस्तु निमित्तकारणं हस्तकर्मोत्पत्तौ, तथा सर्वशरीरावयवेषु शरीरे च समवेत- 25 कर्मोत्पत्ती आत्मसंयोगोऽसमवायिकारणं प्रयत्नो निमित्तकारणमित्यतिदेशार्थः।
For Private And Personal Use Only