SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५८ व्योमवत्यां स्त्रिभिरिति । चतुभिरारब्धेऽतिशयदर्शनात् संख्यापि कारणम् । तथा स्थूलैश्चतुभिः प्रशिथिलावयवसंयोगैरारब्धमेकम् अन्यच्च स्थूलतमैस्तथाविधैरेवेत्यत्र कारणपरिमाणातिशयेन कार्यपरिमाणस्यातिशयोपलब्धः परिमाणस्यापि कारणत्वम् । यत्र तु समानसंख्यापरिमाणैः प्रशिथिलावयवसंयोगारब्धैमहत्त्वमारभ्यते तत्राविशेषेण त्रितयस्यापि कारणत्वम्, अन्यत्र सामर्थ्यावधारणे सतीह प्रत्यासन्नत्वात् । वाक्यस्य तु व्याख्यानं पूर्ववत् । द्वित्वसंख्या चाण्वोर्वर्तमाना द्वयणुकेऽणुत्वमारभते । अणत्वोत्पत्तौ कारणमाह * द्वित्वसंख्या चाण्वोर्वर्तमाना द्वयणुकेऽणुत्वमारभते * इति । द्वयणुकाणुपरिमाणं कार्यम् । तस्य हि समवायिकारणं 10 द्वयनकमित्यन्येनासमवायिकारणेन भवितव्यम् । परमाणुपरिमाणस्य चारम्भकत्वप्रतिषेधेऽन्यस्य चासम्भवाद् द्वित्वसंख्यवाण्वोर्वर्तमाना कार्यकारणैकार्थसमवायेन द्वयणुकाणुपरिमाणोत्पत्तावसमवायिकारणमिति । अणुशब्दश्च सामान्यशब्दत्वात् परमाणावपि वर्तत एव, अणुत्वे सति परम इति विशेषणात् । विनाशस्तु द्वित्वसंख्यायाः पूर्ववद्व्याख्येयः । महत्त्ववत् व्यणुकादो कारणबहुत्व महत्वसमानजातीयप्रत्येभ्यो दीर्घत्वस्योत्पत्तिः । अणुत्ववद् व्यणुके द्वित्वसंख्यातो लस्वत्वस्योत्पत्तिः। दीर्घत्वोत्पत्तौ कारणमाह *महत्त्ववत् व्यणुकादौ कारणबहुत्वमहत्त्वसमानजातीयप्रचयेभ्यो दीर्घत्वस्योत्पत्तिः इति । यथा हि महत्त्वं कारण20 बहुत्व [महत्त्व समानजातीयप्रचयेभ्यो भवति एवं दीर्घत्वमपीति । त्र्यणुके कारणबहुत्वादेव दीर्घत्वम्, द्वितन्तुके कारणदीर्घत्वादेवेति । त्रितन्तुकादौ बहुत्वदीर्घत्वप्रचयैर्दीर्घत्वमारभ्यते इत्यतिदेशार्थः । तथा * अणुत्ववद्वयणुके द्वित्वसंख्यातो ह्रस्वत्वस्योत्पत्तिः इति । यथा कारणान्तरासम्भवाद् द्वित्वसंख्या अणुत्वस्योत्पत्तावसमवायिकारणम् एवं ह्रस्वत्वस्यापीति । __अथ व्यणुकादिषु वर्तमानयोमहत्त्वदीर्घत्वयोः परस्परतः को विशेषः, व्यणुकेषु चाणुत्वह्रस्वत्वयोरिति ? तत्रास्ति महत्त्वदीर्घत्वयोः 15 25 For Private And Personal Use Only
SR No.020944
Book TitleVyomvati Part 02
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy