________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५७
गुणवैधर्म्यप्रकरणम् प्रशिथिलसंयोगाश्च तानपेक्षत इति तदपेक्षः । इतरेतरपिण्डावयवसंयोगापेक्षश्चेति । वा समुच्चये, न तू विकल्पे, अपेक्षाकारणत्वेनाभ्युपगतयोरुभयोरप्यत्र सद्भावात् । इतरस्य पिण्डस्येतरपिण्डावयवैः संयोगस्तथा इतरस्येतरावयवैरिति । इतरेतरपिण्डयोर्वा येऽवयवास्तेषां संयोगास्तानपेक्षत इति तदपेक्षः । स च द्वाभ्यां तूलकाभ्यामारब्धेऽपि तूलके महत्त्वमारभत इति। 5 त्रितूलकादावप्येतत् समानम् । प्रत्यासत्तिस्तु महती द्वितूलकपरिमाणे द्वितूलके वर्तते, द्वितूलके तु तूलपिण्डयो: संयोगोऽपि । तत्रैव बहुत्वमहत्त्वयोः सद्भावेऽपि कारणत्वप्रतिषेध इत्याह * न बहुत्वमहत्त्वानि * द्वितूलकादौ महत्त्वमारभन्ते । कुतः ? * समानसंख्यापलपरिमाणरारब्धेऽतिशयदर्शनात् ।
तथाहि, त्रिभिस्तूलपिण्डै: पञ्चपलैः प्रशिथिलावयवसंयोगैरारब्धमेकम्, 13 अन्यच्च तद्विपरीतैः । तत्र यत् प्रशिथिलावयवसंयोगैरारब्धं तत्र परिमाणातिशयो दृष्ट इति प्रचयस्यैव कारणत्वम्, न संख्यापलपरिमाणानाम्, तत्कारणत्वे चोभयत्राविशेषः स्यात् ।।
अथ पलस्य सर्वत्र परिमाणाकारणत्वात् प्रसक्त्यभावे न युक्तः प्रतिषेधः । तथाहि, पाषाणादौ पलातिशयसद्भावेऽपि परिमाणस्यातिशयाभावः । 15 तुलपिण्डादौ च तदभावेऽपि अतिशयोपलब्धेर्न पलस्य गुरुत्वविशेषत्वात् कारणत्वम् । किमर्थस्तत्र प्रतिषेधः ? व्यामोहप्रतिषेधार्थः । तथा च परे व्यामोहाद् यद्यवंविधस्यापि पलस्य कारणत्वं प्रतिपद्यरंस्तदपि नास्ति, समानपलैरारब्धेऽतिशयादर्शनात् ।।
अन्ये तु अस्यैव दोषस्य परिहारार्थं पलशब्दस्य समानशब्दपर्यायतां 20 ब्रुवते । समानसंख्यापलपरिमाणैरिति समानसंख्यैः समानपरिमाणैरित्यर्थः ।
ननु चायुक्तमवधारणं प्रचयस्यैव कारणत्वमिति, बहुत्वमहत्त्वयोरप्यन्यत्र सामर्थ्यावधारणे सतीह प्रत्यासन्नत्वात् । न च समानसंख्यापलपरिमाणेरारब्धेऽपि एकत्रातिशयदर्शनं बहुत्वमहत्त्वयो: कारणत्वप्रतिषेधे हेतुः, अन्यापेक्षयानतिशयसद्भावे प्रचयस्याप्यकारणत्वप्रसङ्गात् । तथाहि, समानसंख्या- 25 पलपरिमाणैः प्रशिथिलावयवसंयोगैश्चतुर्भिरारब्धमेकम् अन्यच्च तथाविधै
For Private And Personal Use Only