SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५६ व्योमवत्यां रणत्वप्रसङ्गात् । तथा हि, यथा समानसंख्यैरारब्धमपेक्ष्य तत्र परिमाणातिशयस्तथा स्थूलतमैः समानसंख्यैरारब्धमपेक्ष्य [तत्परिमाणैरसमानसंख्यरारब्धे] तत्परिमाणस्यानतिशयोपलब्धेः परिमाणस्याप्यकारणत्वं स्यात् । तथा अधिकपरिमाणापेक्षयानतिशयसद्भावेऽपि एतत् चेत् कारणम् अन्वयव्यति5 रेकाभ्यां सामर्थ्यावगतेरिष्यते, तत्सद्भावे तस्य भावस्तदभावे चाभाव इत्ये तत् संख्यायामपि समानम् । यदि चात्र महत्त्वोत्पत्तावकारणं संख्या, तर्हि स्थूलैस्त्रिभिरारब्धमेकम् अन्यत् चतुभिरित्युभयत्रापि कारणपरिमाणस्याविशेषात् कार्यपरिमाणस्याविशेषः स्यात् । न चैतत् । चतुर्भिराब्धे परि माणातिशयदर्शनात् । अतः संख्यापि कारणमिति । तथा समानसंख्यः 10 समानपरिमाणैश्चारब्धे महत्त्वमुभाभ्यां सम्पद्यत इति युक्तम्, अन्यत्रोभयोः सामर्थ्यावधारणाद्, इह प्रत्यासन्नत्वाच्चेति। तथा च त्रितन्तुकादि परिमाणं त्रितन्तुकादौ वर्तते । त्रितन्तुकादौ च तन्तुषु तत्परिमाणञ्च तत्संख्या च तेष्वेवेति कार्यकारणैकार्थसमवायलक्षणा प्रत्यासत्तिरिति। कथं तहीदं वाक्यम् "कारणमहत्त्वान्येव महत्त्वमारभन्ते न बहुत्वमिति ? 15 अवधारणप्रतिषेधार्थम् । तथाहि, यदुक्तं समानसंख्यैरारब्धेऽतिशय दर्शनात् कारणमहत्त्वान्येव महत्त्वमारभन्त इति, एतन्न। बहुत्वस्याप्युक्तन्यायेन कारणत्वात् । यद् वा समानसंख्यैराब्धेऽतिशय[T]दर्शनादिति महत्त्वस्य कारणत्वोपदर्शन मेतत्, नावधारणमिति । 20 प्रचयश्च तूलपिण्डयोर्वर्तमानः पिण्डारम्भकावयवप्रशिथिल संयोगापेक्षः, इतरेतरपिण्डावयवसंयोगापेक्षो वा द्वितूलके महत्त्वमारभते न बहुत्वमहत्त्वानि, समानसंख्यापलपरिमाणरारब्धेऽतिशयदर्शनात् । प्रचयस्य कारणत्वमाह * प्रचयश्च तुलपिण्डयोर्वतमानः पिण्डारम्भकावयव प्रशिथिलसंयोगापेक्षः, इतरेतरपिण्डावयवसंयोगापेक्षो वा द्वितूलके 25 महत्त्वमारभते * इति । तूलपिण्डश्च तूलपिण्डश्च तूलपिण्डौ, तयोर्वर्तमानः संयोगः प्रचयः । किविशिष्ट: ? पिण्डारम्भकप्रशिथिलसंयोगापेक्ष इति । पिण्डारम्भकारच For Private And Personal Use Only
SR No.020944
Book TitleVyomvati Part 02
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy