________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणवैधयंप्रकरणम्
२११ विषाणमात्रदर्शनाद् गौर्गवयो वेति संशयोत्पत्तौ सास्नामात्रदर्शनाद् गौरेवायमित्यवधारणज्ञानमनुमाननिर्णयः ।
अथ निर्णयो विद्यान्तरमिति केचित् । तनिषेधार्थं *विशेषदर्शनजम् - इत्यादि प्रकरणम् । परार्थानुमानानन्तरमस्यान्तर्भावनिरूपणमत्रापि अन्तर्भावज्ञापनार्थम् । निर्णय इति लक्ष्यनिर्देशोऽवशिष्टं लक्षणम् । अवधारणज्ञानं हि 5 विपर्ययज्ञानमपि भवति न तु विशेषदर्शनाज्जायते। विशेषदर्शन [चोभ ? च संश] यज्ञानमपीत्यवधारणग्रहणम् ।।
तथापि विशेषदर्शनजमवधारणज्ञानं निर्णय इत्युक्त व्यभिचाराभावाद् व्यर्थं संशयविरोधीति पदम् ? न, विशिष्टनिर्णयलक्षणार्थत्वात् । यद्यपि विशेषदर्शनजमवधारणज्ञानमिति सकलनिर्णयव्यापीदं सामान्यलक्षणं तथापि 10 संशयविरोधीति पदं संशयपूर्वकस्य निर्णयस्य लक्षणार्थम् । तथा च नैयायिकैरुक्तं 'विमृश्य पक्षप्रतिपक्षाभ्यामर्थावधारणं निर्णयः' (न्या. सू. १।११४१) इति संशयपूर्वकस्य लक्षणम् । विमृश्येति विमर्श कृत्वा, पक्षप्रतिपक्षाभ्यामिति तद्वचनाभ्याम्, स पुनः साधनदूषणाभ्यां निर्णय इति ।
अथ विशेषदर्शनात् संशयो व्यावर्तते, न निर्णयादिति कथं तद्विरोधि- 15 त्वम् ? उपचारेण, निर्णयकारणस्य संशयविरोधित्वात् निर्णयस्तविरोधीत्यु
____ अस्यान्तर्भावमाह * एतदेव प्रत्यक्षमनुमानं वा * न ज्ञानान्तरम् । प्रत्यक्षसामग्रीजन्यं हि प्रत्यक्षमनुमानसामग्रीजन्यन्तु अनुमानमिति । * यद् विशेषदर्शनात् संशयविरोध्युत्पद्यते स निर्णयः * इति प्राक्तनस्य विवरणम् । 20
अत्र स्थाणुपुरुषयोरूयतामात्रसादृश्यालोचनाद् विशेषेष्वप्रत्यक्षेषुभयविशेषानुस्मरणात् [किमयं स्थाणुः पुरुषो वेति संशयोत्पत्तौ सत्यां शिरः पाण्यादिविशेषदर्शनात् पुरुष एवायमित्यवधारणज्ञानम् *इन्द्रियार्थसन्निकर्षादुत्पत्तेः प्रत्यक्षनिर्णयः । * विषाणमात्रदर्शनात् * इति पिण्डव्यवधानेऽपि सादृश्यविशिष्टविषाणदर्शनात् । *गौर्गवयो वेति संशयोत्पत्तौ* सत्याम् । 25 * सास्नामात्रदर्शनात् * अविनाभावसम्बन्धस्मरणे सति परामर्शज्ञानानन्तरम् । * गौरेवायमित्यवधारणज्ञानं अनुमाननिर्णयः ।
For Private And Personal Use Only