SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सामान्यवैधयंप्रकरणम् २८१ मनेकवृत्तीति पदेन । अत एव च नित्यत्वम् । यत एव द्रव्यादिभ्यः पदार्थान्तरत्वम्, अत एव च नित्यत्वम् । द्रव्यगुणकर्मात्मकस्य भावस्यानित्यत्वोपलब्धेः । ननु चानुत्पत्तिमत्त्वेन नित्यत्वम्, न द्रव्यादिभ्यः पदार्थान्तरत्वेन, सामान्यादित्रयस्यापि नित्यत्वेन साध्यत्वात् । नैतदेवम् । यतो द्रव्यादिभ्यो 5 विभिन्नस्वरूपसम्बन्धित्वेन प्रतिभासनाद् अर्थान्तरत्वम्, अत एव च नित्यत्वम्, उत्पत्तिविनाशकारणासम्भवात् । तथाहि सामान्यस्योत्पत्तिकारणं नास्ति, तदाधाराणां युगपदसम्भवेन, समवायिकारणाभावादित्येवं निर्णीतं पदार्थसङ्करे। अथैकमेव सामान्यं सत्तालक्षणमुपाधिभेदाद् भिन्नप्रत्ययसम्पादकमित्ये- 10 तस्य निरासार्थमाह द्रव्यादिषु वृत्तिनियमात् प्रत्ययभेदाच्च परस्परतश्चान्यत्वमिति । (ए?द्रव्येष्वेव द्रव्यत्वम्, गुणेष्वेव गुणत्वमित्यादिवृत्तिनियमः । प्रत्ययभेदस्तु द्रव्येष्वेव द्रव्यं द्रव्यमिति द्रव्यत्ववशाजज्ञानम्, गुणेषु च गुणत्वयोगाद् गुणो गुण इत्यादि । तस्मात् प्रत्ययभेदाद् द्रव्यादिषु वृत्तिनियमाच्च परस्परतोऽप्यन्यत्वम् । अन्यथा हि सर्वपदार्थेष्वेकत्वात् सामान्यस्य 15 वृत्तिनियमः प्रत्ययभेदश्च न स्यात् । अथास्तु परस्परतोऽन्यत्वम्, तथापि स्वाश्रयेषु द्रव्यमिति द्रव्यत्ववशाजज्ञानं गुणेषु च गुण इत्यादि यस्मात् तत् किमेकमनेकं वेत्याशङ्कानिरासायाह प्रत्येकं स्वाश्रयेष्वेकं द्रव्यत्वम्, गुणेष्वेकं गुणत्वम्, इत्येवं शेषेष्वपीति । कुत एतत् ? लक्षणाविशेषात्, अनुगतस्वरूपाविशेषात् । यद् वा लक्ष्यतेऽ- 20 नेनेति वा लक्षणम्, द्रव्यं द्रव्यमित्याद्यनुगतज्ञानम्, तस्य अविशेषाद्] एव द्रव्येषु द्रव्यत्वम्, गुणेषु गुणत्वमन्यथा ह्य[न] नुगतज्ञानमेव स्यात् । अथ रूपभेदानामनेकत्वेऽपि रूपं रूपमिति ज्ञानमस्ति । सत्यमेतत् । नीलादिज्ञानस्य भेदव्यवस्थापकस्योपपत्तेः । न चैवमत्र भेदव्यवस्थापक प्रमाणमस्तीत्याह विशेषलक्षणाभावाच्चैकत्वमिति । अथैकस्मिन्नेव देशे 25 समुत्पद्यमानस्य घटादेः प्रतिनियतसामान्यसम्बन्धे हेतुर्वाच्यः, अन्यथा For Private And Personal Use Only
SR No.020944
Book TitleVyomvati Part 02
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy