________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणवैधर्म्यप्रकरणम्
रूपादीनां सर्वगुणानां प्रत्येकमपरसामान्यसम्बन्धाद् रूपादिसंज्ञा भवन्ति ।
अथेदानीं वैधम्र्म्यं प्रतिनियतमाह * रूपादीनां सर्वगुणानां प्रत्येकमपरसामान्यसम्बन्धाद् रूपादिसंज्ञा भवन्ति * इत्यादि । रूपमादिर्येषां ते रूपादयस्तेषाम् । न ज्ञायते कियतामतः सर्वगुणानामिति । सर्वे च ते गुणाश्चेति सर्वगुणास्ते च रूपादय एवभिप्रेता नान्य इति, तेषाम् एकमेकं प्रति प्रत्येकम् । अपरसामान्यसम्बन्धादिति । गुणत्वापेक्षया अपरसामान्यं रूपत्वादि, तत्सम्बन्धाद् रूपादिसंज्ञा भवन्ति । रूपत्वसम्बन्धाद् रूपमिति संज्ञा, रसत्वसम्बन्धाच्च रस इति । एवमन्येष्वपीति ।
रूपवैधर्म्यम्
तत्र रूपं चक्षुर्ग्राह्यम् । पृथिव्युदकज्वलनवृत्ति, द्रव्याद्युपलम्भकम्, नयनसहकारि, शुक्लाद्यनेकप्रकारम् सलिलादिपरमाणुषु नित्यम्, पार्थिवपरमाणुष्वग्निसंयोगविरोधि, सर्वकार्यद्रव्येषु कारणगुणपूर्वकम्, आश्रयविनाशादेव विनश्यतीति ।
5
For Private And Personal Use Only
10
तत्रादा बुद्दिष्टत्वाद् रूपस्य सद्भावे प्रमाणं लक्षणम् आश्रयम् अर्थक्रिया - 15 भेदं नित्यत्वम् उत्पत्तिविनाशकारणञ्च दर्शयन्नाह * रूपं चक्षुर्ग्राह्यम् * इत्यादिना ।
" अनेकद्रव्येण 20
तत्र रूपमेव चक्षुर्ग्राह्यं न रसादि । रूपं चक्षुषैव गृह्यतेऽन्येन्द्रियपरिच्छेद्यं न भवतीत्यवधारणस्य प्रक्रमापेक्षितया न द्रव्यादौ चक्षुग्रह्यत्वप्रतिषेधः । तथाहि द्रव्यादेश्चक्षुर्ग्राह्यत्वसिद्धौ समवायात् स्वगतविशेषाच्च रूपं प्रत्यक्षम् " ( वै० सू० ४१११८ ), "एतेन रसादिषु ज्ञानं व्याख्यातम् " ( वै० सू० ? ) इत्यतिदेशे चक्षुर्ग्राह्यत्वाशङ्कायां तद्व्यवच्छेदार्थमेवावधारणं न द्रव्यादौ तद्वृत्तित्वप्रतिषेधपरम् । अभिप्रेतञ्च समुद्गीयमानावधारणं शाक्यैरिति वक्ष्यामो लैङ्गिकज्ञाने ।