________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणवैधम्यप्रकरणम्
१७९
अभावपूर्विका तु यथा सदुपलम्भकप्रमाणपञ्चकव्यावृत्त्या देवदत्तस्य गृहेऽसत्त्वं प्रतिपद्य तदन्यथानुपपत्त्या बहिर्देशसम्बन्धः प्रतीयते ।
अन्तर्भावमाह * तदप्यनुमानमेव * न प्रमाणान्तरम् । तथा च स्फोटादिकार्येण अग्नेरतीन्द्रिया शक्तिः प्रतीयते, इत्यसदेतत्, तस्याश्चरमसहकारिव्यतिरेकेण पूर्वमेव प्रतिषेधात् । प्रतिबन्धकाभावविशिष्टोऽग्निसंयोग एव 5 अग्नेः शक्तिः, तत्सद्भावे कार्यकरणात् । अग्नित्वन्तु निजा शक्तिः, सापि प्रत्यक्षैव । यच्चानुमानात् सामान्यावबोधे सत्यापत्तितो विशेषावबोध इति, तदपास्तमेव, सामान्यविशेषस्य साध्यत्वादिति वदता। उपमानस्य तु स्मरणादभेदेऽपि तत्पूर्विकार्थापत्तिरनुमानमेव, व्याप्तेः पूर्वमेव ग्रहणात् । तथा च सादृश्यावच्छिन्नो गोपिण्डो वाहादिसमर्थः, तत्पिण्डत्वात् पूर्वोपलब्धवंविध- 10 गोपिण्डवत् । अर्थापत्तिपूर्विकापि अर्थापत्तिरनुमितानुमानमेव । तथा च रूपोपलब्धिः करणकार्या क्रियात्वात्, छिदिक्रियावदिति । चक्षुः प्रसिद्धम्, तच्चानुमितं शक्तिमत् करणत्वात् वास्यादिवदिति ।
या चेयं जीवति देवदत्ते गृहे नास्तीत्यन्यथानुपपत्त्या बहिर्भावप्रतिपत्तिः, साप्यनुमानमेव, व्याप्तेः पूर्वमेव ग्रहणात्। तथाहि देवदत्तो बहिर्देशसम्बन्धी 15 जीवनसम्बन्धित्वे सति गृहेऽनुपलभ्यमानत्वाद् विष्णुमित्रवत् । जीवनसम्बधित्वञ्च देवदत्तस्य अर्थापत्तिवादिनापि आगमादेव प्रतिपत्तव्यम्, अन्यथा अर्थापत्तिर्न प्रवर्तत । समानञ्चैतदभावपूविकायामप्यर्थापत्ताविति।
प्रमाणपञ्चकाभावेनापि जीवतो देवदत्तस्य गृहेऽसत्त्वप्रतिपत्तौ बहिर्देशसम्बन्धोऽनुमीयते । एवमन्यदप्युदाहरणमर्थापत्तेरविनाभावोपदर्शनेन अनुमान 20 एव अन्तर्भावनीयम्, तथोत्पत्ति विना अन्यथानुपपत्तेरुपदर्शयितुमशक्यत्वादिति।
अथ विरोधिनः सादेविस्फूर्जनादिशब्दश्रवणाद् तदनुमितौ विरोधिन्येव नकुलादौ प्रतिपत्तिः प्रमाणान्तरमिष्टं कैश्चित् । तदनुमितानुमानमेव, व्याप्तेः पूर्वमेव ग्रहणात् । प्रयोगस्तु विस्फूर्जनशब्दो भुजङ्गकार्यो विस्फूर्जन- 25 शब्दत्वात् पूर्वोपलब्धैवंविधविस्फर्जनशब्दवत् । एवमनुमितः सर्पः सन्निहितेन विरोधिना तद्वान्, विस्फूर्जनशब्दकर्तृत्वात् पूर्वोपलब्धैवंविधाहिवदिति ।
For Private And Personal Use Only