________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२
व्योमवत्या
___ कर्मोत्पत्तौ सत्यामनन्तरं विभागाः, तेभ्यः संयोगविनाशाः, ततः परमाणूनां परस्परेण संयोगाद् व्यणुकान्युत्पद्यन्ते । तत्र परमाण्वोः समवायित्वम्, तत्संयोगस्यासमवायिकारणत्वम्, शेषं निमित्तमिति, तदादिक्रमेण कार्यमुत्पद्यत इति । त्रिभिव्यणुकैस्त्र्यणुकमारभ्यते । त्र्यणुकैश्चानियमेन स्वकार्य5 मिति तावद् यावद् घट: । सर्वत्र कारणगुणपूर्वप्रक्रमेण रूपाद्युत्पत्तिरिति ।
ननु सर्वमेतदसम्बद्धम्, एतस्मिन् क्रमे प्रमाणाभावात् । तथाहि,
(१) परमाणौ क्रियायाः सद्भावे प्रमाणाभावात् तत्कार्यस्यासिद्धौ तद्वयणुकस्य विनाशे न प्रमाणमस्ति ।।
(२) अग्निसंयोगस्य नानात्वे, द्रव्यविनाशे, श्यामादिनिवृत्तौ, रक्ताधु10 त्पत्तो, उत्पन्नपाकजेषु क्रियाक्रमेण तद्वयणुकस्यैवोत्पत्तिरिति सर्व प्रमाणशून्यमेव ।
(३) बाधकोपपत्तेश्च । तथा ह्यापाकनिक्षिप्तेषु घटादिषु कुलालस्य छिद्रप्रदेशेन निरीक्षमाणस्याक्षजं विज्ञानम् ‘घटः पच्यते' इति । न चेदं संशय
विपर्ययस्वरूपम्, तल्लक्षणालक्षितत्वात्, बाधकानुपपत्तेश्च ।। 15 (४) तथा पाकोत्तरकालं ‘स एवायं घटः' इत्यबाध्यमानस्य प्रत्यभिज्ञानस्योपलब्धेः ।
(५) अवस्थानम् । उपरिस्थापितानाञ्च तृणकर्परादीनामपाताच्चावस्थायित्वम् । यदि हि परमाणवः पच्येरन् ऊर्ध्वस्थापितानां कर्परादीनाम् पातः स्यात्, परमाणुनाञ्च धारणसामर्थ्याभावात् ।।
(६) तद्देशत्वतत्परिमाणत्वतत्संख्यात्वोपलब्धेश्च । यदि चोत्पन्नपाकजाः परमाणवो व्यणुकादिप्रक्रमेण घटादिकमारभेरन् तद्देशं, तावत् परिमाणम्, तत्संख्या च न स्यात्, नियमहेतोरभावात् । दृष्टश्चायं नियमस्तस्मिन्नेव देशे, तावत्परिमाणम्, तत्संख्या च। एवं घटादीनामवस्थायित्वम् ।
(७) न च घटादेविनाशे कादिभिर्विना पुनरूत्पत्तिर्युक्ता । अथेश्वरादेः 25 सद्भावाद् युक्तमिति चेत् । तथा हीश्वरः कर्ता कारणम्, अदृष्टादिपरमाणवः
कर्मेति । नैतद् युक्तम् । क्षित्यादिकार्येष्विवास्मदादिसम्बन्धादितः कार्यानपेक्षस्य घटादिसम्पादनेऽपि सामर्थ्यानिवृत्तेः कुलालव्यापारवैयर्थ्यमेव स्यात् ।
For Private And Personal Use Only