SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४४ व्योमवत्या नियमाद् अत्रैव विशिष्टसंस्कारोत्पत्तिर्न घटादौ, तत्र हि कार्याभावादिति । कार्यसद्भावेन च कारणपरिकल्पना क्रियत इति । यत्रान्यथा असम्भवस्तत्रैव नियामकत्वमदृष्टस्य न पुनर्दृष्टकारणप्रत्याख्यानमिति । तस्माददृष्टसद्भावेऽपि गणनोपलम्भाद् अपेक्षाबुद्धेः कारणत्वं कल्प्यते । अन्यथा हि ईश्वरबुद्धेरदृष्टस्य 5 एकगुणसहकारित्वेन शतसंख्याद्यारम्भकत्वे सर्वद्रव्येषु शतसंख्याद्युत्पत्ती रूपादिवच्चिरोत्पन्नत्वाद् गणनामन्तरेणैवोपलम्भ: स्यात् । न चास्ति । अथाभिव्यञ्जकाभावादनुपलम्भ इति चेन्न, [तत् सद्भावे प्रमाणाभावादित्युक्तोत्तरत्वात् । न चान्यदीयबुद्धिसम्पादितानि अन्यस्य प्रत्यक्षोपलब्धानीति ईश्वर10 सम्पादितासु अस्मदादीनां प्रत्यक्षता न स्यात् । तस्मादुक्तन्यायेनोत्पत्तिर्ग्रहणञ्चेत्यलमति विस्तरेण । क्वचिदाश्रयविनाशादिति । कथम् ? यदेकत्वाधारावयवे कर्मोत्पद्यते तदेवकत्वसामान्यज्ञानमुत्पद्यते, कर्मणा चावयवान्तराद् विभागः क्रियते, अपेक्षाबुद्धश्चोत्पत्तिः । अतो यस्मिन्नेव काले विभागात् संयोगविना15 शस्तस्मिन्नेव काले द्वित्वमुत्पद्यते, संयोगविनाशाद् द्रव्यविनाशः सामान्यबुद्धश्चोत्पत्तिः । ततो यस्मिन्नेव काले सामान्यज्ञानापेक्षाबुद्धे विनाशस्तस्मिन्नेव काले आश्रयविनाशाद् द्वित्वविनाश इति । विनाशमाह न परमपेक्षाबुद्धिविनाशात् क्वचिदाश्रयविनाशादिति । * कथम् ? इत्यव्युत्पन्नप्रश्नः । तत्र द्वित्वस्याश्रयविनाशेन विनाशाभिधानात् 20 तत्समानतया अन्यत्रापि परिज्ञानं भविष्यतीति मन्यमानो द्वित्वस्यैव विनाश माह * यदैकत्वाधारावयवे कर्मोत्पद्यते * । विभागस्योत्पदयमानता, तदैवैकत्वसामान्य ज्ञानमुत्पद्यते, अपेक्षाबुद्धेरुत्पद्यमानता, ततो विभागस्योत्पादः, द्रव्यारम्भकसंयोगस्य विनश्यत्ता, अपेक्षाबुद्धेरुत्पाद:, द्वित्वस्योत्पद्य मानता, एकत्वसामान्यज्ञानस्य विनश्यत्ता, तदनन्तरं संयोगस्य विनाशः, 25 एकत्वसामान्यज्ञानस्य विनश्यत्ता, द्रव्यस्य विनश्यत्ता द्रव्य ? द्वित्व स्योत्पादः, तत्सामान्यज्ञानस्योत्पद्यमानतेत्येषामेकः काल: । For Private And Personal Use Only
SR No.020944
Book TitleVyomvati Part 02
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy