________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्योमवत्यां
अभूतमविद्यमानं लिङ्गं भूतस्य विद्यमानस्य लिङ्गिनो गमकमित्यत्र सूत्रे लिङ्गाभावेऽपि ज्ञानमात्रादनुमानमिष्टम् ।
तथा हि, ज्ञानेन ज्ञानमनुमीयत इति ज्ञानस्य लिङ्गत्वादवश्यं ग्रहणम्, ततस्तस्य विनश्यत्ता, अविनाभावसम्बन्धस्मरणस्योत्पद्यमानता, तदनन्तरमविनाभावसम्बन्धस्मरणस्योत्पादः, लिङ्गभूतस्य ज्ञानस्य विनाशः, तज्ज्ञानस्य विनश्यत्ता, परामर्शज्ञानस्योत्पद्यमानता, ततः परामर्शज्ञानस्योत्पादः, अविनाभावसम्बन्धस्मरणस्य विनश्यत्ता, लिङ्गज्ञानस्यापि विनाश इति निविषयात् परामर्शज्ञानमात्रादेव ज्ञातरि प्रतिपत्तिर्भवतीति दृष्टम् । तथा
गुणविनाशे गुणज्ञानमात्राद् द्रव्यप्रत्ययः स्यादिति । 10 अन्ये तु, यथा अभूतमविद्यमानं वर्षकर्म भूतस्य विद्यमानस्य वाय्वभ्र
संयोगस्य लिङ्गम्, तथा गुणविनाशेऽपि तज्ज्ञानमात्राद् द्रव्यज्ञानमिति मन्यन्ते । न चैतद् युक्तम् । तथाहि न अविद्यमानं वर्षकर्म विद्यमानस्य वाय्यभ्रसंयोगस्य सद्भावे लिङ्गम्। किं तहि ? वर्षकर्मानुत्पादो व्यभिचारी। सचे
स्वरूपेणास्त्येवेति कथमविद्यमानम् ? अथ भावरूपतया तस्यासत्त्वम्, तर्हि 15 भावस्याप्यभावरूपेणासत्त्वमिति सर्वस्यासत्त्वमेव स्यात् । तस्माद् वर्षकर्मानुत्पादो विद्यमान एव लिङ्गमित्युदाहरणान्तरमेव न्याय्यम् ।।
नविशेष्यज्ञानत्वात् । न हि विशेष्यज्ञानं सारूप्याद् विशेषणसम्बन्धमन्तरेण भवितुमर्हति । तथाह सूत्रकारः 'समवाधिनः श्वैत्याच्छवैत्यबुद्धेः श्वेते बुद्धिस्ते कार्यकारणभूते' इति ।
प्रतिसमाधानमा यदुक्तं लैङ्गिकज्ञानवत् द्वे द्रव्ये इतिज्ञानं भविष्यतोत्येतत् * न विशेष्यज्ञानत्वात् * तथाहि, द्वित्वानुरागेणोत्पद्यमानत्वात् 'द्वे द्रव्ये' इतिविशेष्यज्ञानमतो विद्यमानस्यैव गुणस्यात्र व्यापारः कल्पनीयः । तथाहि, यस्मान्न विशेष्यज्ञानं * विशेषणसम्बन्धमन्तरेण * विशेषणसम्बन्ध विना * भवितुमर्हति * इति तदुत्पत्तौ विशेषणतज्ज्ञानतत्सम्बन्धानां कारणत्वम् । अन्यथा हि सकलकारणानां विशेष्यज्ञानोत्पत्तौ (विशेष ?) व्यापाराविशेषेण नियतस्यैव विशेषणत्वं न स्यात् । अतो विशेषणतज्ज्ञानतत्सम्बन्धानां कारणत्वम् ।
For Private And Personal Use Only