________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
সাস্থল
अयमिदानों मुद्रयित्वोपस्थाप्यते विदुषां पुरतः प्रशस्तपादभाष्यटीकारूपायाः व्योमवत्या द्वितीयोऽन्तिमश्च भागः । अस्मिन्नपि भागे व्योमशिवाचार्येण प्रथमभागवदेव बहनामप्रसिद्धानां सत्राणामल्लेखो विहितः। गणादिपदार्थानां परीक्षावसरे च धर्मकीर्तः कुमारिलस्य च सिद्धान्तानां विस्तरेण खण्डनमपि कृतमाचार्येण । सत्यपि विषयगाम्भीर्ये सरलसरलया भाषया वस्तप्रतिपादनमाचार्यस्यास्यान्येभ्यष्टीकाकारेभ्यो वैशिध्यमिति कथनन्तु बहुलमेव ।
मूलग्नन्थव्याख्यानावसरे च व्योमशिवाचार्येण स्वगुरूणां व्याख्यानस्योल्लेखः सश्रद्धं कृतो वर्तते । तत्कालप्रसिद्धयोश्च प्रशस्तपादभाष्यटोकयोाख्यान्तरमप्यनेन यत्र तत्र 'अन्ये तु' इत्यादिनोद्धृत्य प्रदर्शितम् । 'शब्दादीनामप्यनुमानेऽन्तर्भावः समानविधित्वात्' ( पृ० १६३ ) इति भाष्यकारवाक्यस्थ व्याख्यानेऽनेन पक्षद्वयमुपस्थापितम् । तत्र 'शब्दादीनाम्' इति समस्तपदस्य तद्गुणसंविज्ञानबहुव्रीह्यभ्युपगमे शब्दस्याप्यनुमानेऽन्तभावः। अतद्गणसंविज्ञाने 'शब्द विना अपरेषामिति । १० १६३ ) शब्दस्य स्वतन्त्रं प्रामाण्यन्तु विस्तरेण प्रतिपाद्य तेनोक्तं 'शेषञ्चात्र दूषणप्रतिसमाधानम् अस्मद्गुरुभिविस्तरेणाभिहितमिति नेहोक्तम् । अतः शब्दस्याप्तोक्तत्वेन प्रामाण्यान्नानुमानेऽन्तभवः' ( पृ० १७१ ) इति । एतादृशं व्याख्यानन्तु न्यायसारकतारं भासर्वज्ञ स्मारयति, येन प्रमाणचतुष्टयवादिनो गौतमस्यर्षेः न्यायसूत्रमपि व्याख्यया प्रत्यक्षानुमानशब्दरूपप्रमाणत्रयोपस्थापकत्वेन प्रदर्शितम् । न्यायसारे तु उपमानस्थ पृथक् प्रामाण्यं निरस्तम्, अत्र तु व्योमशिवेन प्रमाणद्वयवादिना वैशेषिकसम्प्रदायप्रवर्तकानां कणादप्रशस्तपादादोनां वचनन्तु प्रत्यक्षानुमानशब्दाख्यप्रमाणत्रयप्रकाशकमिति व्यवस्थापितम् । तदपि व्यवस्थापन सम्प्रदायानुसारीत्यपि स्वकीयगुरुपादानां व्याख्यायाः समुल्लेखेन दृढीकृतम् ।
अस्य ग्रन्थस्य सम्पादनेऽस्माभिः प्रशस्तपादभाष्यपाठस्तु व्योमशिवस्वीकृत एव परिगृहीतः । व्योमवत्यान्तु अशुद्धानां स्थलानां यथामति शुद्धिरपि [ ] एतादृशबन्धनीमध्यगता प्रदर्शिता। कदाचिद् न्यूनताया अपि तादृशेनैव प्रकारेण यथामति पूत्तिरपि कृता वर्तते । व्योमशिवरचितमन्तिमं पद्यन्तु मातृकायां खण्डितमुपलब्धमतस्तेनैव रूपेणात्र मुद्रितमिति शम् ।
विश्वेश्वरपुर्याम्, महाशिवरात्रिपर्वणि वि० सं० २०४०
श्रीगौरीनाथशास्त्री
कुलपतिः, सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्य
For Private And Personal Use Only