________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९२
व्योमवत्यां
विभागात् * तन्त्वारम्भकसंयोगविनाशः तन्तुकर्मणा च तन्त्वन्तराद् विभाग: क्रियत इत्येकः कालः, ततः संयोगविनाशात् तन्तुविनाशः * । तन्त्वन्तरविभागाच्च तत्संयोग विनाशः, ततो द्वितन्तुकस्योभयविनाशाद् विनाशः,
तन्तुविनाशाच्च * तदाश्रितयोविभागकर्मणोर्युगपद् विनाशः * इति । 5 तन्तुवीरणयोर्वा संयोगे सति द्रव्यानुत्पत्तौ पूर्वोक्तेन विधानेनाश्रयविनाशसंयोगाभ्यां तन्तुवीरणविभागविनाश इति ।
अथ नित्यद्रव्यसमवेतस्य नित्यत्वं स्यादित्याक्षेपप्रतिसमाधानद्वारकं वाक्यम् * तन्तुवीरणयोर्वा * इत्यादि । यथा हि, तन्तुवीरणयोः संयोगे सति
द्रव्यानुत्पत्तिर्विजातीयत्वात्, एवं व्यणुकाण्वोरपि संयोगाद् द्रव्यं नोत्पद्यते । 10 तथाहि, एकद्व्यणुकमनित्यम् अन्यश्च परमाणुनित्य इति विजातीयत्वम् ।
विजातीयसंयोगश्च द्रव्यानारम्भक इति व्यणुकाण्वोः संयोगेऽपि द्रव्यानुत्पत्तौ परमाणावुत्पन्न कार्य [? कर्म] द्रव्यारम्भकसंयोगविरोधिविभागानुत्पादकत्वाद् आकाशदिदेशेनापि विभागमारभते वीरणकर्मवत् । एवं प्राक्तनसंयोगनिवृत्तावुत्तरसंयोगं कृत्वा विनश्यतीति पूर्वोक्तेन विधानेन * विनाशः ।
यद् वा पूर्वोक्तविधानेनेत्ययमर्थः, तन्त्वारम्भकेंऽशौ कर्मोत्पत्तिसमकालं वीरणेऽपि कर्म, अंशुकर्मणा च अंश्वन्तराद् विभागः क्रियते । वीरणकर्मणा च तन्त्वन्तरादित्येकः कालः । ततो विभागाद् अंशुसंयोगविनाशे वीरणविभागाच्च वीरणतन्तुसंयोगविनाशः, ततो द्रव्यारम्भकसंयोगविनाशात्
तन्तुविनाशः । तन्तुवीरणसंयोगविनाशे च उत्तरसंयोगः, ततश्चाश्रयविनाश20 संयोगाभ्यां तन्तुवीरणविभागविनाश इति ।
अन्ये तु 'वा' शब्दस्योपमार्थत्वात तन्तुवीरणयोरिव दव्यणकाण्वोः संयोगे सति द्रव्यं नोत्पद्यते, द्रव्यानुत्पत्तौ च व्यणुकाणुविभागस्य परमाणुकर्मणा व्यणुकारम्भकसंयोगविनाशसमकालं जनितस्य कथं विनाशः ? पूर्वोक्तेन विधानेनेति, आश्रयविनाशेनेत्यर्थः । यदा तु परमाणौ कर्मोत्पत्तौ परमाण्वन्तरविभागोत्पत्तिसमकालम् अस्मिन्नेव व्यणुके कर्मसञ्चिन्तनं तदा पूर्वोक्तेन विधानेन आश्रयविनाशाद् विभागकर्मणोर्युगपद् विनाश इति ।
For Private And Personal Use Only