SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुणवैधयंप्रकरणम् २१५ लिङ्गानपेक्षं धर्मादिषु दर्शनमिष्टं तदपि प्रत्यक्षार्षयोरन्यतरस्मिन् अन्तभूतमित्येवं बुद्धिरिति । सिद्धदर्शनं विद्यान्तरमिष्टं परैस्तन्निषेधार्थमाह - सिद्धदर्शनं न ज्ञानान्तरम् * इति । आर्षज्ञानानन्तरमस्य अन्तर्भावनिरूपणम् आर्षेऽप्यन्तर्भावार्थम् । यत् सिद्धानां दर्शनमुत्पद्यते तत्प्रत्यक्षमेव । केष्वर्थेषु ? * सूक्ष्म- 5 व्यवहितविप्रकृष्टेषु इति । सूक्ष्माः परमाणवः, व्यवहिता नागभुवनादयोऽस्मदादीन्द्रियापेक्षया । न तु सिद्धेन्द्रियाणां व्यवधायकमस्ति । विप्रकृष्टा मेर्वादयः, तेषु । सिद्धानां कि विशिष्टानाम् ? मुक्तात्मव्यवच्छेदार्थ * दृश्यद्रष्टृणाम् * इति । किञ्च तेषां सद्भावे प्रमाणमित्याह * दृश्यानाम् । कदाचिद् अञ्जनादिवियुक्ताः प्रत्यक्षेणाप्युपलभ्यन्ते । का पुनस्तेषां सिद्धिरित्याह 10 * अञ्जनपादलेपखड्गगुलिकादिसिद्धानाम् * इति । आदिपदेन चिन्तामणिप्रभृतीनां ग्रहणम् । अञ्जनादिवशाच्च सिद्धेन्द्रियाणां सूक्ष्माद्यर्थप्रकाशनम्, अतः तत् प्रत्यक्षमेव * [न] ज्ञानान्तरमिति । ____ अथ ज्योतिषामयनं दृष्ट्वा प्राणिनां शुभमशुभं वा भविष्यतीति ज्ञानं प्रमाणान्तरमिष्टं तनिषेधार्थम् * दिव्यान्तरिक्षभौमानाम् * इत्यादि । 15 दिवि भवं दिव्यमुल्कापातादि, अन्तरिक्षे भवश्चान्तरिक्षं दिग्दाहादि, भूमौ भवं भौमं भूसञ्चलनादि, तेषाम् । * ग्रहनक्षत्रसञ्चारादिनिमित्तम् * उपलभ्य प्राणिनां धर्माधर्मयोर्विपाकः फलदानसामर्थ्यं तद्दर्शनं न] ज्ञानान्तरमिष्टम् * तदप्यनुमानमेव * लिङ्गदर्शनानु[बन्ध] स्मरणादिजन्यत्वात् । यद् वा दिव्यान्तरिक्षभौमानां सुरसिद्धमनुष्याणां प्राणिनां ग्रहनक्षत्र- 20 सञ्चारादिनिमित्तमुपलभ्य धर्माधर्मयोविपाकदर्शन मिष्टं तदप्यनुमानमेवेति । अथ लिङ्गानपेक्षं धर्माधर्मादिषु दर्शनमिष्टं तदपि यदि इन्द्रियार्थसन्निकर्षादपरोक्षमुत्पद्यते प्रत्यक्षमेव । अथेन्द्रियार्थसन्निकर्ष विनैव धर्मविशेषादुत्पद्यते तथाप्यार्षमित्याह * प्रत्यक्षाय रन्यतरस्मिन्नन्तर्भूतमिति * । * एवं बुद्धिरिति * उपसंहार: परोपगताया बुद्धेविनाशपर इति । 25 सुखवैधर्म्यम् अनुग्रहलक्षणं सुखम् । स्त्रगाद्यभिप्रेतविषयसान्निध्ये सति इष्टोप For Private And Personal Use Only
SR No.020944
Book TitleVyomvati Part 02
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy