SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५० व्योमवत्यां परिमाणवैधर्म्यम् परिमाणं मानव्यवहारकारणम् । तच्चतुर्विधम्, अणुमहद्दीर्घ ह्रस्वञ्चेति । तत्र महद् द्विविधं नित्यमनित्यञ्च । नित्यमाकाशकालदिगात्मसु परममहत्त्वम् । अनित्यं ज्यणुकादावेव । तथा च अण्वपि द्विविधं नित्यमनित्यञ्च । नित्यं परमाणुमनःसु । तत्तु पारिमाण्डल्यम् । अनित्यं व्यणुक एव। इदानीमुद्देशक्रमेणावसरप्राप्तस्य परिमाणस्य लक्षणपरीक्षार्थ *परिमाणं मानव्यवहारकारणम् इत्यादि प्रकरणम् । व्यवहृतिर्व्यवहारो ज्ञानम्, व्यव ह्रियतेऽनेनेति व्यवहारोऽभिधानम् तयोर्हेतुः परिमाणमित्युक्तेऽतिप्रसङ्गस्तदर्थं 10 मानपदम् । तथापि मानव्यवहारहेतुत्वमाकाशात्मनोविद्यत इति विशेष णत्वे सतीति विशेषणम् । तथापि परिमाणत्वसामान्येन व्यभिचारपरिहारार्थ द्रव्यविशेषणत्वे सतीति विशेषणमभ्यूह्यम् । तथा हि, परिमाणम्, इतरस्माद् भियते, द्रव्यविशेषणत्वे सति मानव्यवहारकारणत्वात्, यस्तु इतरस्माद परिमाणान्न भिद्यते न चासावेवम्, यथा रूपादिरिति । व्यवहारो वा 15 साध्यः । तथा आवर्त्यमानमिदमेव वाक्यमनेकार्थमिति परीक्षापरत्वेन सम्बद्ध्यते । तथाहि, मानव्यवहारो विशेष्यज्ञानत्वाद् विशेषणमपेक्षते दण्ड्यादिज्ञानवत् । न च रूपादीनामन्यतमस्तद्विशेषणं तद्व्यवहारविलक्षण त्वादिति विलक्षणेनैव निमित्तेन भवितव्यम् । न चेदं कल्पनाज्ञानं वासना20 प्रभवम्, तस्याः पूर्वमेव प्रतिषेधात् । * तच्चतुर्विधम् * इति विभागः । केन रूपेणेत्याह अणुमहद्दीचं ह्रस्वञ्चेति । ननु चायुक्तं चातुर्विध्यं चतुरस्रादिभेदस्यापि सम्भवात्, तन्न, महत्वस्यैव अवयवरचनाविशेषोपलम्भसहकारिणः चतुरस्रादिव्यवहारसम्पा25 दकत्वात् । तथाहि, अवयवरचनाविशेषोपलम्भे सति चतुरस्रं त्र्यस्त्रं परि मण्डलमिति व्यवहारः, तदभावे च नेति न परिमाणान्तरसिद्धिः । For Private And Personal Use Only
SR No.020944
Book TitleVyomvati Part 02
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy