Book Title: Dharm Pariksha
Author(s): Bhagwandas Pandit
Publisher: Hemchandracharya Sabha
Catalog link: https://jainqq.org/explore/022241/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ श्रीहेमचन्द्राबायग्रन्दावली धर्मपरीक्षा स्वोपज्ञ विवरणसहिता. प्रकाश श्री हेमचन्दाचार्यसना. पाटा Page #2 -------------------------------------------------------------------------- ________________ ॐ अर्हम्. न्यायविशारद-न्यायाचार्य श्रीमद्यशोविजयोपाध्याय विरचिता स्वोपज्ञविवरणयुता धर्मपरीक्षा. MarAKE ENNIA वळावास्तव्य-श्रावकहर्षचंद्रात्मन-पंडितभगवानदासेन संशोधिता श्रीमदाचार्य विजयनीतिमूरिपबोधित-भावसार 'मुगटराम उमेदभाई' इत्येतस्य द्रव्यसाहाय्येन 'पाटण श्रीहेमचंद्राचार्यसभाया माननीयकार्यवाहक-जगजोव नदास उत्तमचंद्र' इत्यनेन प्रकाशिता च. - meअमदावाद-टंकशालासमीपस्थ-युनीयनमुद्रणालये तदधिपतिना मोहनलाल चीमनलाल इत्यनेन मुद्रिता. संवत्. १९७८. ' खिस्ताब्द. १९२२. . प्रत ५००. TDIC SSSSENSE IS Page #3 --------------------------------------------------------------------------  Page #4 -------------------------------------------------------------------------- ________________ विषयानुक्रमः . . . ram : "" विषयः पृष्ट. गाथा. धर्मपरीक्षायाः प्रयोजनम् । धर्मस्य लक्षणम् । परीक्षामूलत्वेन माध्यस्थस्य निरूपणम् । . ... माध्यस्थस्य लक्षणम्। .... परपक्षपतितस्यैवोत्सूत्रभाषिणोऽनन्तसंसारनियमः, न तु स्वपक्षपतितस्य यथाछन्दादेरिति मतस्य निराकरणम् । तीर्थोच्छेदस्येव सूत्रोच्छेदस्योन्मागित्वम् । ..... .... उन्मार्गमाश्रितानामाभोगवतामनाभोगवतां नियमेनानन्त संसारः' इति मतस्य निरासः। .... यथाछन्दस्य नियतोत्सूत्रप्ररूपणम्, अत्रार्थे व्यवहारभाष्यस्य प्रामाण्यम् । .... ... यथाछन्दस्य चारित्रविषयक गतिविषयकं चोत्सूत्रप्ररूपणम् । 'नियतोत्सूत्रनिमित्तं संसारानन्त्यम् ' इति मतस्य निरसनम् । ११ 'तीव्राध्यवसायनिमित्तसंसारानन्तता' इत्यस्योपपादनम् । ११ 'कर्मण उत्कर्षतोऽपि असंख्येयकालस्थितिकत्वे कथमनन्त संसारनियमः' इत्याशङ्कय ' अशुभानुबन्धयोगादनन्तसंसारिता' इति समाधानम् । अशुभानुबन्धमूलत्वेन मिथ्यात्वस्य तद्भेदानामाभिग्रहिकादीनां निरूपणम् । आभिग्रहिकानाभिग्रहिकयोलक्षणम् । आभिनिवेशिकलक्षणम् । सांशयिकलक्षणम् । भव्याभव्ययोमिथ्यात्वभेदस्य योजनम् । ४, Page #5 -------------------------------------------------------------------------- ________________ 'अभव्यानामनाभोगमिथ्यात्वमेव नाभिग्रहिकम् ' इति मतमपाकृत्य योग्यतानुसारेणाभिग्रहिकरूपव्यक्तमिथ्यात्वमपि ' इति सिद्धान्तितम् । पूर्वपक्षिणा अव्यवहारित्वेन हेतुनाऽभव्यानामव्यक्तमिथ्यात्वसाधनम्, अनन्तपुद्गलपरावर्तकालस्थायित्वेन अव्यवहारित्वसाधनं च । व्यावहारिकत्वेऽपि अनन्त पुद्गलपरावर्त भ्रमणसंभवात् अव्यवहारिकत्वस्य साधनमसंगतमिति प्रदर्शनम् । अनाभिग्रहिकादीनामाशयभेदेन बहुभेदत्वोपदर्शनम्, गुरुत्व - लघुत्वयोः प्ररूपणम् च । मिथ्यात्वमन्दताकृतं माध्यस्थं नासत्प्रवृत्तिहेतुः । अज्ञातविशेषाणां प्राथमिकं धर्ममधिकृत्य अनाभिग्रहिकं ८ गुणाधायकम् । अत एव मिथ्यात्वेऽपि लब्धयोगदृष्टीनां प्रथममन्वर्थं .... गुणस्थानम् । असद्ग्रनाशस्यावेद्य संवेद्यपदगतानामपि भावेन जैनत्व .... संप्रदायबाह्यमतखण्डनम् । संप्रदाय बाह्यमतखण्डने दोषान्तरम् । अन्यदपि दोषान्तरम् । 59 ... ... ' वृत्तिकृन्मते प्रथमभङ्गस्वामो बालतपस्वी, अन्यमते गीतार्थानिश्रितोऽगीतार्थः, संप्रदायबाह्यमते समग्रमुनिमार्गक्रियाधरः केवललिङ्गधारी मिथ्यादृष्टिः ' इति मतत्रयम् । .... २३ २५ प्राप्तौ कारणत्वम् । ५० एतेषां भावजैनत्वे भावाज्ञाकारणत्वाद् द्रव्याज्ञाया अपि संभवः । ५४ द्रव्याज्ञाया मार्गानुसारिभावो लक्षणम् । ५७ चरमे पुद्गल परावर्ते गुणवृड्या मार्गानुसारिभावस्य प्रादुर्भावः । ५९. मार्गानुसारिभावे चतुर्भङ्गीप्ररूषणा । 'मार्गानुसारिक्रियावान् ज्ञानदर्शन दीनश्च देशाराधकः इति ७१ " प्रथमभङ्गस्वामिनिरूपणम् । २७ ४१ ४३ ४३ ४८ ७३ ७३ ७४ ७५ ७५ 37 १० ११ १२ १३ 2 2 2 2.2 १४ १५. १५ १७ १९ "" २० २१ २२ Page #6 -------------------------------------------------------------------------- ________________ अन्यमार्गस्थशीलादिक्रियाया अपि तत्त्वत्तो जैनीत्वेन .. देशाराधकत्वम् । ..... .... .... ७९ २३ अन्यत्रापि शास्त्रे अभिन्नार्थस्य जिनेन्द्रश्रुतमूलत्वेन तदनुसारिणो देशाराधकत्वम् ।। अन्याचार्यमते 'गीतार्यानिश्रितोऽगीतार्थः' इति भङ्गस्य ना तिविशेषत्वसमर्थनम् । .... .... ... ... ९४ लौकिकमिथ्यात्वाल्लोकोत्तरमिथ्यात्वस्य बलवत्त्वेऽनेकान्तः । गोतार्थनिश्रितस्यापि देशाराधकत्वम् । देशस्य भङ्गादलाभावा संविग्नपाक्षिकोऽविरतसम्यग्दृष्टिा देशविराधकः' इति द्वितीयभङ्गविवेचनम् । .... १०० २८ श्रुतवान् शोलवाश्च साधुः श्रावकश्च सर्वाराधकः' इति तृतो यभङ्गस्य, 'क्षुद्रत्वादिदोषवान् भवाभिनन्दो सर्वविराधकः'.. इति चतुर्थभङ्गस्य च प्ररूपणम् । अशुद्धपरिणामवतां व्यवहारस्थितानामपि सर्वविराधकत्वम् । भावोज्झितव्यवहाराणां न किमप्याराधकत्वम् । एतेषु चतुर्यु भङ्गेषु त्रयाणां भङ्गानामनुमोदनीयत्वम् । ... अनुमोदनाया विषयः लक्षणं च । अनुमोदनाप्रशंसयोः सामान्यविशेषत्वाद् भेदः। अनुमोदनाप्रशंसयोर्विषमव्याप्तिपरिहारः। . . .... 'मिथ्यादृशां गुणा न ग्राह्याः' इति कदाग्रहस्त्याज्यः। .... मिथ्यादृशां मार्गानुसारिकृत्यमनुमोद्यम् । .... क्रियावादिनः शुक्लपाक्षिकस्य च स्वरूपम् । ... ... ११८ सकामाकामनिर्जरयोः स्वरूपम् । ....... 'मिथ्यादृशां गुणानुमोदनेन परपाखण्डिप्रशंसालक्षणः स-....... म्यक्त्वातिचारः स्याद्' इत्याशङ्कय तत्समाधानम् । १२८ 'मिथ्यादृशां गुणा हीनत्वादेव नानुमोद्याः' इत्याशङ्काया : निराकरणम् । ... .... ...... ... १२९ ४ ३ 'उत्सूत्रं त्यक्त्वा सर्वेषां गुणा अनुमोदनीयाः' इत्युपदेशः। १३० - ४४ Page #7 -------------------------------------------------------------------------- ________________ ३ 'मरीचिवचनं नोत्सूत्रं, किन्तूत्सूत्रमिथ' इति पूर्वपक्षस्त. त्खण्डनं च। .... 'उत्सूत्रं त्याज्यम्, गुणानुमोदना च कर्तव्या सर्वेषामपि' । .. इत्युपसंहारः। ........... ......... १५३ सूत्रभाषकाणां गुणः। हृदयस्थितस्य भगवतोऽनर्थनिवारकत्वम् । .... .... 'केवलिनो योगात्कदाचिदपि कायवधो न भवति ' इति । कुविकल्पोपदर्शनम् । अस्य कुविकल्पस्य खण्डनम् । .... .... .... १५४ हिंसाया गर्हणीयवाद् भगवतस्तदभावसिद्धिमाशङ्कय तत्खण्डनम्। १५६ 'वीतरागो न किञ्चिद् गर्हणीयं करोति' इति यद् भणितं तदकरणनियमापेक्षं न तु द्रव्यहिंसाभावसापेक्षम् । .... १६२ वीतरागशब्देन क्षीणमोह एव ग्राह्यः न तूपशान्तमोहः। १६३ यदि क्षीणमोहे गर्दा विषयस्य द्रव्याश्रवस्याभावस्तर्हि तत्रार्थतोऽ गर्हणीयभावरूपं पापं स्वीकर्तव्यम् । .... .... द्रव्यास्रवस्य मोहजन्यत्वमेव व्यक्त्या निराकरोति। .... १६४ प्रमत्तस्य आरम्भिकीक्रियाया न जीवघातजन्यत्वं, किन्तु प्रमत्तयोगजन्यखम्। ..... ... .... १६५ प्रमादस्य अष्टौ भेदाः। .... .... .... .... १६५ केवलिनो द्रव्यहिंसायां परापादितरौद्रध्यानप्रसङ्ग परिहारः। १६६ भगवतो द्रव्यपरिग्रहे अपवादस्वीकारे तक मते प्रतिज्ञाहानिः, अशुभयोगप्रसङ्गश्च । ... १६८ आनुषङ्गिक हिंसया जिनस्य दोष भणतस्तव मते साधूनामपि आभोगाद् नद्युत्तारादेरनुपपत्तिः । ... नद्युत्तारादौ जलजीवानामनाभोगं वदतो निर्विचारत्वम् ।। जलजीवानामनाभोगस्वीकारे दूषणम् । विशेषावश्यके जीवरक्षाविषयकप्रयत्नेनैव स्वान्त शुद्धरहिंसाया उपपादनम् । -- .... १९० ... " Page #8 -------------------------------------------------------------------------- ________________ नयुत्तारे आभोगाद् जलजीवविराधनायां सर्वविरतानां देश विरतिर्भवेद् इत्याक्षेपस्य समाधानम् । केवलिनो द्रव्यपरिग्रह-द्रव्यवधयोः समेऽप्याभोगे न दोषः। २०७ हिंसाचतुर्भङयनुसारेणैव द्रव्यहिंसया केबलिनो न दोषः। २०८ अप्रमत्तादीनां सयोगिकेवलिचरमाणां हिसाया अभावः। २०९ 'हिंसान्वितयोगतो हिंसकभावो भवेद् ' इत्येतस्य तर्कस्य प्रशिथिलमूलत्वम् । .... २१२ 'अप्रमत्तानां हिंसान्वितयोगाभावादापादकासिद्धेनं व्याप्ति साधकतर्कस्य शिथिलत्वम्' इत्याशङ्काया निरसनम् ।... २१२ एजनादिक्रियाया आरम्भादिनियतवाद् अन्तक्रिया विरोधित्वेन केवलिनो द्रव्यहिंसायां न संदेहः। .... २१४ केवलियोगस्यारम्भादियुतत्वं तच्छक्त्या, न तु साक्षादेव । २१७ 'केवलियोगेषु आरम्भस्वरूपयोग्यतासत्त्वेऽपि मोहनीयाभावेन नारम्भसंभवः' इत्याशङ्काया निराकरणम् । ... २१८ केवलिनोऽपि चलोपकरणत्वात्स्थूलक्रियारूपारम्भो नियतः। २२० साक्षादारम्भस्य कादाचित्कत्वेन न विरोधः। .... २२२ आरम्भरूपनिमित्ते सदृशे उपादानकारणापेक्षो बन्धाबन्धविशेषः । २२२ कायस्पर्शनिमित्तारम्भस्य कारणत्वमर्यादा कारकसंबन्धेन, न तु कर्तृकार्यभावसंबन्धेन । .... .... २२६ यः पुनः शैलेश्यवस्थायां कर्तारं मशकादिजीवमधिकृत्य भ णति तस्य स्फुटातिप्रसंगः। ... . .... २२८ 'सयोगिकेवलिनि शुभयोगत्वादेव जीवरक्षा, अयोगि केव लिनि सु योगाभावेन मशकादिघातो मशकादिकर्तृक एव' इत्यभ्युपगमस्य निरसनम् । ... ... ..... २२९ 'केवलिनो योगा एव जीवरक्षाहेतवः स्वरूपेण, व्यापारेण . वा' इति विकल्प्य दूषणम् । ... .... .... २३ केवलिना बादरवायुकायिकोद्धरणं नैव शक्यम् । .... २३२ ७३ ७६ Page #9 -------------------------------------------------------------------------- ________________ 'पुष्पचूलावद् जिनयोगाद् जलादिजीवानामघातपरिणाम:' . . इति परस्याभ्युपगमः। एतद् दृष्टान्तदा न्तिकयोर्वैषम्याद् परस्परविरुद्धम् । .... २३३ तयो वैषम्यनिरूपणम् । केवलिनां नद्याद्युत्तारे जलादिस्पर्शाभावलक्षणोऽतिशयः का___ यकृतो योगकृतो वा' इति विकल्प्य दूषणम् । केवलिनां योगादेवाघातपरिणामस्वीकारे जीवाकुलां भूमि वीक्ष्य तेषां गमनागमनादेः वैफल्यम् । अत एव केवलियोगव्यापारकाले जीवानां स्वत एवापसरण स्वभावत्वकल्पनानिरासः ..... .... 'लब्धिविशेषादेव केवलिनोऽनारम्भकत्वं' इति कल्पनाया .. अपि निरासः।.. . ..... . .... २३८ केवलिना जीवरक्षार्थ लब्धिविशेषोपजीवनेऽनुपजीवने च दूषणम् । 'योगगता सा लब्धिः' इति क्षायिक्यपि अयोगिकेवलिनि नास्ति' इति कल्पनायायपि दूषणम् । 'अवश्यंभाविन्या जीवविराधनया केवलिनोऽष्टादशदोषरहि तत्वं न स्याद् ' इत्याशङ्कायाः परिहारः। .... अवश्यंभाविन्याऽपि जीवहिंसया असद्भूतदोषमुत्प्रेक्ष्य जिनवरनिन्दायामनन्तसंसारभ्रमणम् । स्थानाङ्गस्थात् छद्मस्थ-जिनयोलिङ्गवचनाद् भ्रान्तिर्जायते । साऽपि परमार्थदृष्टावुपयुक्तस्य न सिष्ठति । .... २४१ 'तीव्रकदाग्रहाज्जायमानान् एतादृशान् कुक्किल्पानुच्छिद्य सम्यग् आज्ञायां मुनिः अवर्तत ' इत्युपदेशः। .... तीर्थकरस्याज्ञा सम्यक् परीक्षाप्राप्ता एकान्तमुखावहा न तु ___ नाममात्रेण अपरीक्षिका .... आज्ञापरीक्षोपायभूतकपादिमरूपणा । .... कषादीनां स्वरूपम् । ..... ..... २५७ .. ' ९१ Page #10 -------------------------------------------------------------------------- ________________ ९ कषादिपरीक्षाभिः शुद्धे धर्मे प्रवृत्ता गुरवोऽपि सुवर्णमिव शुद्धा एव । गुरूणां सुवर्णसदृशत्वम् । सुवर्णस्य अष्टगुणप्ररूपणम् । सुवर्णसामान्येन साधुगुणाः । सुवर्णसादृश्येन साधुगुण निगमनम् । .... उचितगुणश्च गुरुर्न त्याज्यः, किन्तु तदाज्ञायामेव वर्तित - व्यम्' इत्युपदेशः । गुर्वाज्ञास्थितस्य एकाग्रत्वसंपत्तिः । एकाग्रत्वसंपत्ती आत्मस्वरूपं प्रत्यक्षं भवति । आत्मस्वरूपप्रत्यक्षे विकल्पोपरमः । C नाम. अनुयोगद्वार. अष्टकप्रकरण. आगम. अ. ... .... .... " का अरति को वाऽऽनन्द : ' इति विकल्पस्याप्यभावः । २६१ ' अन्ये पुद्गलभावाः, ज्ञानमात्रश्चान्योऽहं ' इत्येष शुद्धविकल्पः । २६२ अध्यात्मध्यानस्य स्तुतिः । अध्यात्माबाधेनैव धर्मवादेनैव तत्वनिर्णयार्थ प्रवृत्तिः कर्तव्या । २६३ ' अस्मिन् ग्रन्थे धर्मवादस्य दिशैव किंचित् भणितम् ' इत्युपसंहारः । २६३ जनाज्ञायाः सर्वस्वोपदर्शनम् । धर्मपरीक्षायाः प्रयोजनम्, तत्संशुद्धौ गीतार्थं प्रति प्रार्थना । ... पृष्ठम्. प्रमाणत्वेनोद्धृतग्रन्थनामानि । १८१. १३, ९१, आ. १८, १५०, १६०, १६१, १८५, १९८, २०८. नाम. आचाराङ्ग• .... 8.00 95 ... २५८ २५८ २५९ २५९ २६० .... २६० २६० २६१ २६१ २६७ २६४ २६४ ९२ ९३ ९८ ९९ १०० १०१ १०२ १०३ १०५ १०५ १०६ १०७ १०८ पृष्ठम्. १३, १९, १४३, २०२, २२२, २३८. २२८. 95 चूणि. " निर्युक्ति, ५, १५५, २०० वृत्ति. २०४, २२२, २२३. आतुरमत्याख्यान. ७७. Page #11 -------------------------------------------------------------------------- ________________ आराधनापताका. आवश्यक. आवश्यककथानक. उत्तराध्ययन. "" उपदेशमाला. " उपदेशरत्नाकर. उ 95 निर्युक्ति. २१. "" उत्सूत्र कन्दकुद्दाल. ११, १२. त्रिषष्टीयनेमिचरित्र. उपदेशपद. १५, ३९, ४२, ५५,५९, ६०, ६१, ७७, ७९, ८१, दशवैकालिकनिर्युक्तिः ८३, ८५, १०४, १०९, "" वृत्ति. १२८, १४१, १४३,१६०, दशाश्रुत स्कन्धचूर्णि ११९, १९१,२०१. १६२. ध. वृत्ति. ५५, ५९, ६०, ६१, वृचि. ९६, १५०, १५१. ११९, १३६. "" सरणपइन्न. .... ओ. ओघनिर्युक्ति. १०६,१७१,१८०,२३२. कर्मम कृति. कल्पभाष्य. कायस्थितिस्तोत्र. मच्छचारप्रकीर्णक. गुणस्थानकक्रमारोह. क. ग. ११५. ११२. जीवाभिगम. १७०. ठीका ८१, १०९. | धर्मबिन्दु. ९६, 0000 १२७. २१०. २५. तत्वार्थ. तत्वार्थभाष्य. २३. २३. न. १६, ११५, ३३०, वृत्ति. ११५, २३०, २३८. धर्मरत्नप्रकरण. "" नन्दिसूत्र. पञ्चसूत्री.. "" निशीथचूर्णि न्यायावतार. "" पाक्षिकसूत्र. 35 २५१. १२६, २५२. वृत्ति. १५२, १७६, २०६. ११. वृत्ति. " ज. त. चूर्णि. वृत्ति. द. .... वृत्ति. न. 0000 वृत्ति. "" १०. पञ्चाशक. ६५, ९५, १०२, १३३,२०५० वृत्ति. ६५, ९५, १०२, १०८, १३३. १६. १६६. १६६.. १४९. प. ८४. ८४, १६६. ६५, ८३, ९३. २, ५३४. ३९, १३४. .... १४१. १४१. २०१. २४६. ११७. ११७. Page #12 -------------------------------------------------------------------------- ________________ पाक्षिकसप्ततिकावृत्ति.. पापप्रतिघातगुणबीजाधान. पुष्पमाला बृहद्वृत्ति. लघुवृत्ति. " ३८. ३९. प्रज्ञापना. १५७, १७४, २१९. "afa. २७, १७७, १८०. प्रवचनसारोद्धारवृत्ति. ३१, २०५. २३० प्रश्नव्याकरण. "" ब. बृहत्कल्पभाष्य. ११३, १८४, २१९. वृत्ति. १७२, १८४, २०२. .... भ. भगवतीसूत्र. १६, ७२, १२१, १४३, १४५,१४७, १४८, १५१, १५२,१५९,१६८,१६९, १७५,१७६,२०१,२११, २१४,२२०,२४२,२५२, " वृत्ति. ७२, १४३, १७४, १७५, २५१. १३३. १७. भवभावनावृत्ति. भारत. भुवनभानुकेवलिचरित्र...... यतिजीतकल्प. म. महानिशीथ. ५, ७८,१२६, १२८. य. वृत्ति. 39 योगदृष्टिसमुच्चय. ११ २४८. २४९. ४९, ५०, ५१. योगबिन्दु. २७, ४४, ५७, ६२, ६८, ८३, ९२, १९०० 59 वृत्ति. २७, ५७, ५८, ६२. योगशास्त्रवृत्ति. ३१,१२३,१३५,२४७, लघुपमितभवप्रपञ्च. ललितविस्तरा. वृत्ति. "9 १७६,२१५,२१७,२२१, श्राद्धजीतसूत्र. वृत्ति. 39 ३६. श्राद्धप्रतिक्रमणचूर्णि, ८१. श्राद्धविधिवृत्ति. २६. श्रावकदिनकृत्यवृत्ति. श्रावकप्रज्ञप्ति. पांग (ज्ञाताधर्म) शक्रस्तव. २४८० ल. वीरचरित्र (हैम ) ( प्राकृत ) 35 वृद्धोपमितभवम पञ्च. व्यवहारभाष्य. ६६. वन्दारुवृत्ति. विंशिका. ६६, ६८,११०. विशेषावश्यक. ७५, १६७,१९०,१९२. २०६,२०९,२१३,२५२. संमति. व. " वृत्ति. घ. प. ... 0000 ३४. ६, (१२ ?) ४९. स. ३३. ६५. १४४. १५०. २३८. २३८. २५९. २५९. १३७. १३५. ३८,१३४. १२०. २५९. ८८, २४०, २४०, Page #13 -------------------------------------------------------------------------- ________________ संग्रहणीवृत्ति. समयसारसूत्रवृत्ति. समवायाङ्ग. 55 सिद्ध हैम. सूत्रकृतांग. "" वृत्ति. चूर्णि १०४. १०४. १४७, ७३, ९२, ९३,१२३, १२४,१८३,२५० चन्द्रसूरिशिष्यदेवसूरि. जिनभद्रगणि. धनपालपंडित. वाचकमुख्य. **** ... २६, ३५, १२३. ... .... १२ .... .... वृत्ति. संस्कृत नवतत्वसूत्र. स्थानांग. " ३३. संघदासगणि. ३३. सिद्धसेन दिवाकर.८२,८८,१११,१५५. ८८. हरिभद्रसूरि. १०८. | हेमचन्द्रसूरि. प्रमाणत्वेनावृतानि अनिर्दिष्टग्रन्थप्रतीकानि. अत्थि अणता जीवा, २९, ३५. नाणं चरितहीणं. अनधिगमविपर्ययौ मिथ्यात्वम्. २०० परमरहस्समिसीणं. ११८. पुढवीपमुद्दा. १३५० प्रदानं प्रच्छनं. १३५. फुडपागडमकतो. १०६. अनुकंपकामणिज्जर. अह सयलन्नपावा. उस्मुत्तभासमाणं. कचं इच्छेते. गुढाण परिणाम. छमत्थनाणहे. छत्थे पुण. जइ पुग्गलपरिअट्टा. णय पच्चुप्पन्न वणस्सइ. तस्स असंचेययओ. महव्वय - अणुव्वएहि य. यत्रोभयोः समो दोषः १२७. २४२. वणस्सइ कायमइगओ. वणस्सइ. काइआणं पुच्छा. तेणं मच्छियपमुहा० दसारसिंह स्सय दुभासिएण इक्केण. १०७,१६७,१७९,२४१, २४५, २५४. २४२. १२. वृत्ति. "" स्याद्वादरत्नाकर (आकर). ह. १९७० | हितोपदेशमाला. ग्रन्थकारनामानि. २४२. २८. २९. १५६. २३७. लोइअमिच्छत्तं पुण. वज्जेमित्ति परिणओ. १३०. संथरणंमि असुद्धो. १३४,१३८. । सिज्जंति जत्तिआ किर. ९२, २२१. ३९. ववहारीणं नियमा. लडूवि देवतं. .... ..... २३०. ... २००. ९०, १०३. ९०. ९४. २६३. २३५. ११२. १३३. १२६. २४७. १३८. २६. २६. १५०. २३. १५८. १०८. ३०. Page #14 -------------------------------------------------------------------------- ________________ अर्हम् न्यायाचार्य श्री मद्यशोविजयोपाध्यायविरचिता स्वोपज्ञवृत्तिसंवलिता धर्मपरीक्षा एँ नमः ऐन्द्रगिटिकोटेरनिशं यत्पादपद्मद्वये हंसालिश्रियमादधाति न च यो दोषैः कदापीक्षितः । यद्गीः कल्पलता शुभाशय भुवः सर्वमवादस्थिते ज्ञवं यस्य च निर्मलं स जयति त्रैलोक्यनाथ जिनः ॥१॥ यन्नानमात्र गाज्जनानां प्रत्यूहको टिः प्रलयं प्रयाति । अचिन्त्यचिन्तामणिकल्पनेनं शङ्खेश्वरस्वामिनमाश्रयामः ॥ २॥ नला जिनान् गणवरान् गिरं जैनीं गुरूनपि । स्वोपज्ञां विद्धिर्मपरीक्षां विवृणोम्यहम् ||३|| इह हि सर्वोपज्ञे प्रवचने प्रविततनयभङ्गप्रमाणगंभीरे परममाध्यस्थ्यपवित्रितैः श्रीसिद्धसेन - हरिभद्रप्रभृति सूरिभिर्विशदीकृतेऽपि दुःषमादोषानुभावात्यांचिद् दुर्विदग्धोपदेशविप्रतारितानां भूयः शङ्कोदयः पादुर्भवतीति तन्निरासेन तन्मनोनैर्मल्यमाधातुं धर्मपरीक्षा नामायं ग्रन्थः प्रारभ्यते, तस्य चेयमादिगाथा पण मिय पास जिगिंदं धम्मपरिक्खाविहिं पवक्खामि । गुरु परिवाडीसुद्धं आगमजुत्तीहिं अविरुद्धं ॥ १ ॥ प्रणम्य पार्श्वजितेन्द्र धर्मपरीक्षाविधिं प्रवक्ष्ये । गुरुपरिपाटीशुद्धं आगमयुक्तिभ्यामविरुद्धम् || Page #15 -------------------------------------------------------------------------- ________________ पणमियत्ति। प्रणम्य-प्रकर्षेण भक्तिश्रद्धाऽतिशयलक्षणेन नत्था पार्वजिनेन्द्रम् , अनेन प्रारिप्सितप्रतिषन्धकदुरितनिरासार्थ शिष्टाचारपरिपालनार्थं च मङ्गलमाचरितम् । धर्मस्य धर्मत्वेनाभ्युपगतस्य, परीक्षाविधिम्-अयमित्थंभूतोऽनित्थंभूतो वेति विशेषनिर्धारणप्रकारं प्रवक्ष्ये। प्रेक्षावत्प्रवृत्युपयोगिविषयाभिधानप्रतिज्ञेयम् । प्रयोजनादयस्तु सामर्थ्यगम्याः, धर्मप्रतिपादकस्यास्य ग्रन्थस्य. धर्मशास्त्रप्रयोजनादिभिरेव प्रयोजनादिमत्त्वादिति । किंभूतं धर्मपरीक्षाविधिम् ? गुरुपरिपाटीशुद्धम्-अविच्छिन्नपूर्वाचार्यपरम्परावचनानुसरणपवित्रम् , तथाऽऽगमयुक्तिभ्यां-सिद्धान्ततर्काभ्यामविरुद्धमबाधितार्थम् । एतेनाभिनिवेश मूलकस्वकपोलकल्पनाशङ्का परिहृता भवति । इयं हि ज्ञानांशदुर्विदग्धानामैहिकार्थमात्रलुब्धानां महतेऽनर्थाय । यावानेव ह्यर्थः सुनिश्चितस्तावानेवानेन निरूपणीयः, न तु कल्पनामात्रेण यत्तदसंबद्धप्रलापो विधेय इति मध्यस्थाः । अत एव चिरप्ररूढमप्यर्थ कल्पनादोषभीरवो माहत्य दूषयन्ति गीतार्थाः। तदुक्तं धर्मरत्नप्रकरणे जं च ण सुत्तेहिं विहियं णय पडिसिद्धं जणंमि चिररूढं ।। समइविगप्पिअदोसा तंपि ण दूसंति गियत्था ॥ ततश्च माध्यस्थमेव धर्मपरीक्षायां प्रधानं कारणमिति फलितम् ॥१॥ एतदेव आहसो धम्मो जो जीवं धारेइ भवण्णवे निवडमाणं । तस्स परिक्खामूलं मज्झत्थत्तं चिय जिणुत्तं ॥२॥ सो धम्मोत्ति । यो भवार्णवे निपतन्तं जीवं क्षमादिगुणोपष्टम्भदानेन धारयति स धर्मो भगवत्प्रणीतः श्रुतचारित्रलक्षणस्तस्य परीक्षा___ २ स धर्मो यो जीवं धारयति भवार्णवे निपतन्तम् । तस्य परीक्षामूलं मध्यस्थत्वमेव जिनोक्तम् ॥ १ यश्च न सूत्रविहितं न च प्रतिषिद्धं जने चिररूढम् ।। स्वमतिविकल्पितदोषास्तदपि न दूषयन्ति गीतार्थाः ॥ . Page #16 -------------------------------------------------------------------------- ________________ मूलं मध्यस्थत्वमेव जिनोक्तम् , अज्ञातविषये माध्यस्थादेव हि गलितकुतर्कग्रहाणां धर्मवादेन तत्त्वोपलम्भप्रसिद्धेः। ...... ननु सदसद्विषयं माध्यस्थ्यं प्रतिकूलमेव । .. ... तदुक्तम्" सुनिश्चित मत्सरिणो जनस्य न नाथमुद्रामतिशेरते ते । माध्यस्थ्यमास्थाय परीक्षका ये मणौ च काचे च समानुबन्धाः"॥ इति कथं तद्भवद्भिः परीक्षानुकूलमुच्यते ? इति चेत् । सत्यम् , स्फुटातिशयशालिपरविप्रत्तिविषय पक्षद्वयान्यतरनिरिणानुकूलव्यापाराभावलक्षणस्य माध्यस्थ्यस्य परीक्षाप्रतिकूलत्वेऽपि खाभ्युपगमहानिभयप्रयोजकदृष्टिरागाभावलक्षणस्य तदनुकूलत्वात् ॥२॥ ___ अथ मध्यस्थः कीदृग्भवति ? इति तल्लक्षणमाह-- मज्झत्थोअअणिस्सियववहारीतस्स होइ गुणपक्खो। णो कुलगणाइणिस्सा इय ववहारंमि सुपसिद्धं ॥३॥ मध्यस्थश्चानिश्रितव्यवहारी स्यात्, उपलक्षणत्वादनुपश्रितव्यवहारी च । तत्र निश्रा रागः, उपश्रा च द्वेष इति रागद्वेषरहितशास्त्रप्रसिद्धाभाव्यानाभाव्यसाधुत्वासाधुत्वादिपरीक्षारूपव्यवहारकारी त्यर्थः । अत एव तस्य मध्यस्थस्य गुणपक्षो “गुणा एवादरणीयाः' इत्यभ्युपगमो भवति, न तु कुलगणादिनिश्रा-निजकुलगणादिना तुल्यस्य सद्भूतदोषाच्छा इनयाऽसद्भूतगुणोद्धावनया च पक्षपातरूपा। तथा कुलगणादिना वितशस्यासद्भूतदोषोद्भावनया सद्भुतगुणाच्छादनयाऽपि चोपश्राऽपि न भवति इत्यपि द्रष्टव्यमित्येतद् व्यवहारग्रन्थे सुप्रसिद्धम् , निश्रितोपश्रितव्यवहारकारिणः सूत्रे महाप्रायश्चित्तोपदेशात् ॥३॥ इत्थं च मध्यस्थस्यानिश्रितव्यवहारित्वाद् यत्कस्यचिदभिनिविष्टस्य पक्षपातवचनं तन्मध्यस्थैङ्गिीकरणीयमित्याह मध्यस्थवानिश्रितव्यवहारी तस्य भवति गुणपक्षः। नो कुलगणादिनिश्रा इति व्यवहारे सुप्रसिद्धम् ॥३॥ * ' विषये ' इति कपुस्तके। Page #17 -------------------------------------------------------------------------- ________________ तुल्लेवि तेण दोसे पक्खविसेसेण जा विसेसुत्ति। सा णिस्सियत्ति सु-तुत्तिपणं तं विति मज्झत्था॥४॥ .तुल्लेवित्ति । तेन-मध्यस्थस्य कुलादिपक्षपाताभावेन तुल्येऽप्युसूत्रभाषणादिके दोषे सति पक्षविशेषेण या विशेषोक्तिः - 'खपक्षपतितस्य यथाछन्दस्यापरमार्गाश्रयणाभावान्न तथाविधदोषः, परपक्षपतितस्य तून्मार्गाश्रयणानियमेनानन्तसंसारित्वम्' इति,सा विशेषोक्तिर्निश्रिता पक्षपातगभ॑तिः तां सूत्रोत्तीर्णाम गमबाधितां ब्रुषते मध्यस्थाः। आगमे ह्यविशेषेणैवान्यथावादिनासन्यथाकारिणां च महादोषः प्रदर्शितस्तत्कोऽयं विशेषो यत्परपक्षपतितस्यैवोत्स्वभाषिणोऽनन्तसंसारित्वनियमो न तु स्वपक्षपतितस्य यथाछन्दादेरिति ॥४॥ । नन्वस्त्ययं विशेषो यत्परपरागतस्योत्सूत्रभाषिणो 'वयमेव जैना अन्ये तु जैनाभासाः' इत्येवं तीर्थोच्छेडाभिप्रायेण प्रवर्तमानस्य सन्मार्गनाशकत्वान्नियमेनान्तसंसारित्वम् , स्वपक्षगतस्य तु व्यवहारतो मार्ग. पतितस्य नायमभिप्रायः संभवति, तत्कारणस्य जैनप्रवचनप्रतिपशभूतापरमार्मस्याङ्गीकारस्याभावाद् इत्यत आहतित्थुच्छेओ व्व मओ सु-तुच्छेओवि हंदि उम्मग्गो। संसारो अ अणंतो भयणिजो तत्थ भाववसा ॥५॥ तित्थुच्छेओत्ति । तीर्थोच्छेद इव सूत्रोच्छेदोऽपि 'हंदि' इत्युपदर्शने उन्मार्ग एव मतः। तथा चोन्मार्गपतितानामुत्सूत्रभाषणं यदि तीर्थोच्छेदाभिप्रायेणैवेति भवतो मतं तदोत्सूत्राचरणमरूपणप्रवणानां व्यवहारतो मार्गपतितानां यथाछन्दादीनामुत्सूत्रभाषणमपि सूत्रोच्छेदाभिप्रायेणैव स्याद्, विरुद्धमार्गाश्रणस्येव सूत्रविरुद्धाश्रयणस्यापि मार्गोच्छेदकारणस्याविशेषात् , तथा च द्वयोरप्युन्मार्गः समान एव । ४ तुल्येऽपि तेन दोषे पक्षविशेषेण या विशेषोक्तिः । सा निश्रितेति सूत्रोत्तीर्णा तां ब्रुवते मध्यस्थाः ॥ तीर्थोच्छेद इव मतः सूत्रोच्छेदोऽपि हंदि उन्मार्गः। . संसारश्चानन्तो भजनीयस्तत्र भाववशाद ॥५॥ Page #18 -------------------------------------------------------------------------- ________________ संसारस्त्वनन्तस्तत्र भावविशेषाङ्गजनीयः, अध्यवसायविशेष प्रतीत्य संख्यातानन्तभेदभिन्नस्य तस्याहंदाद्याशातनाकृतामप्यभिधानात् । तथा च महानिशीथसूत्रम् . " 'जेणं तित्थकरादीगं महतिं आसायणं कुआ, से णं अज्झक्सायं पड्डुच जाव णं अणंतसंसारिअत्तणं लभिजत्ति"। इत्थं चोत्सूत्रभाषिणांनियमादनन्तः संसार इति नियमः परास्तः। किं च कालीदेवीप्रमुखाणां षष्ठाङ्गे “अंहाछंदा अहाछंदविहारिंगीउचि" पाठेन ययाच्छन्दत्वभणनादुत्सूत्रभाषित्वं सिद्धम् । " उस्सुत्तमायरंतो उस्सुत्तं चेव पण्णवेमाणो । एसो उ अहाछंदो इच्छाछंदुत्ति एगठा ॥" इत्यावश्यकनियुक्तिवचनात् तासां चैकाक्तारत्वं प्रसिद्धमिति नायं नियमो युक्तः। यतन्मार्गमाश्रितानामाभोगवतामनाभोगवतां नियमेनान्तसंसारः, प्रतिसमयं तीर्थोच्छेदाभिप्रायेण साम्यात्। यथाछन्दस्तु क्वचिदंशेनाभोगादेवोत्तूत्रभाषी स्थात्, तस्थानाभोगोऽपि प्रायः सम्यगागमस्वरूपापरिणतेः, न च तस्य तदुत्सूत्रभाषणमनन्तसंसारहेतुः, तीर्थोच्छेदाभिप्रायहेतुकस्यैव तस्यानन्तसंसारहेतुत्वादिाते। तदसंबद्धम् , एतादृशनियमाभावाद । नान्मार्गपतिताः सर्वेऽपि तीर्थोच्छेदपरिणामवन्त एव, सरलपरिणामानामपि केषांचिद्दर्शनाद् । न च यथाछन्दा. दयोऽनाभोगादेवोत्सूत्रभाषिणः, जानतामपि तेषां बहूनां सुविहित. साधुसमाचारपद्वेषदर्शनात् । यस्त्वाह-यथाछन्दत्वभवनहेतूनां पार्श्वस्थत्वभवनहेतूनामिव नानात्वेनागमे भणितत्वाद् यथाछन्दमात्रस्योत्सूत्रभाषित्वनियमोऽप्रमाणिकै(क?) इति । तदरमणीयम् , आगम एव यथाछन्दस्योत्सूत्रप्ररूपणाया नियतव्यवस्थाप्रदर्शनात् । १ येन तीर्थकरादीनां महतीमाशातनां कुर्यात् ,स्याध्यवसायं प्रतीत्य याव दनन्तसंसारित्व लभेत ॥ २ यथाछन्दा यथाछन्दविहारिणी त्विति ॥ ३ उत्सूत्रमाचरन् उत्सूत्रं चैव प्रज्ञापयन् ।। एष तु यथाच्छन्ह इच्छाछन्द इत्येकाओं ॥ . . . . . . . . पात Page #19 -------------------------------------------------------------------------- ________________ तदुक्तं व्यवहारभाष्ये- ..... अहाछंदस्स परूवण उस्सुत्ता दुविह होइ णायव्वा । चरणेसु गईसु जा, तत्थ चरणे इमा होइ ॥१॥ प्रडिलेहणि-मुहपोत्तिय-रयहरण-निसिज-पायमत्तए पट्टे । पडलाई चोल उण्णादसिआ पडिलेहणापोत्तं ॥२॥ दंतछिन्नमलितं हरियहिय मजणा यणं त (छत्र) स्स । अणुवाइ अणणुवाईपरूव चरणे गतीसुपि ॥३॥ अणुवाइति नजइ जुत्तीपडियं खु भासए एसो । जं पुण सुत्तावेयं तं होइ अणाणुवाइति ॥ सागारिआइपलियंक-णिसिजासेवणाय गिहिपत्ते । णिग्गथिचेठणाइ पडिसेहो मासकप्पस्स ॥ चारे वेरजे वा पढमसमोसरण तह णितिएसु । सुण्णे अक्कपिए अ अणाउंछे य संभोगे । किंवा अकप्पिएणं गहियं फासुपि होइ उ अभोज । अनाउंछं को वा होइ गुणो कोप्पए गहिए । पंचमहव्वयधारी समणा सव्वेवि किं ण भुजति । इस चरणवितथवादी इत्तो वुच्छं गईसुंतु।। यथाछन्दस्य प्ररूपणा उत्सूत्रा द्विविधा भवति ज्ञातव्या । चरणेषु गतिषु या तत्र चरणे इयं भवति ॥१॥ प्रतिलेखनी-मुखपोतिका रजोहरण-निषद्या पात्रमात्रके पट्टे । पटलानि चोल(पट्टः) ऊर्णादशा प्रतिलेखनापोतं ॥२॥ दन्तच्छिन्नमलिप्तं हरितस्थित मार्जना चाछन्नस्य । अनुपात्यनुपातिप्ररूपणं चरणे गतिप्वपि ॥३॥ अनुपातीति ज्ञायते युक्तिपतितं खलु भाषते एषः । यत्पुनः सूत्रापेतं तद् भवति अननुपातीति ॥ सागारिकादिपर्यङ्कनिषद्यासेवना च गृहिपात्रे । निर्ग्रन्थीस्थानादि प्रतिषेधो मासकल्पस्य ॥ चारे वैराज्ये वा प्रथमसमवसरणे तथा नित्येषु । शून्ये अकल्पिके चाज्ञातोन्छे च संभोगे ॥ किंवदकाल्पिकेन गृहीतप्रासुकमपि भवति त्वभोज्यम् । अज्ञातोञ्छं को वा भवति गुणो कल्पिकेन गृहाते ॥ पचमहाव्रतधारिणो श्रमणाः सर्वेऽपि किं न भुञ्जते । इति चरणवितथवादी इतो यस्ये गति तु .. . Page #20 -------------------------------------------------------------------------- ________________ खेतं गओ अडवि इको संचिठए तहिं चेव । तित्थयरो पुण पियरो खेतं पुण भावओ सिद्धिति ॥ एतासां गाथानामयं संक्षेपार्थः-अह छंदस्सत्ति । यथाछन्दस्य प्ररूपणा उत्सूत्रा-सूत्रादुत्तीर्णा द्विविधा भवति ज्ञातव्या । तद्यथा-चरणेषु चरणविषया, गतिषु गतिविषया ॥१॥ . तत्र या चरणे चरगविषया सा इयं वक्ष्यमाणा भवति, तामेवाह-पडिलेहणित्ति । मुखपोतिका मुखवत्रिका सैव प्रतिलेखिनी पात्रप्रत्युपेक्षिका पात्रके सरिका, कि द्वयोः परिग्रहेण ? अतिरिक्तोपधिग्रहणदोषादेकयैव मुखपोतिकया कायभाजनोभय प्रत्युपेक्षणकार्यनिर्वाहेणापरवैफल्यात् । तथा रयहरणणिसिज्जत्ति। किं रजोहरणस्य द्वाभ्यां निषद्याभ्यां कर्तव्यम् ? एकैव निषद्याऽस्तु । पायमत्तएत्ति । यदेव पात्रं तदेव मात्रक क्रियताम् , मात्रकं वा पात्रं क्रियताम् , किं इयोः परिग्रहेण ? एकेनैवान्यकार्यनिष्पत्तेः। भणितं च--" यो भिक्षुस्तरुणो बलवान् स एकं पात्रं गृह्णीयाद्" इति । तथा पट्टएत्ति । य एव चोलपट्टकः स एव रात्रौ संस्तारकस्योत्तरपट्टः क्रियताम् , किं पृथगुत्तरपट्टग्रहेण ? । तथा पडलाई घोलत्ति । पटलानि किमिति पृथग ध्रियेते (यन्ते ?), चोलपट्टक एव भिक्षार्थ हिण्डमानेन द्विगुणस्त्रिगुणो वा कृत्वा पटलस्थाने वा निवेश्यताम् । उण्णादसि. यत्ति । रजोहरणस्य दशाः किमित्यूर्णमय्यः क्रियन्ते, क्षौमिकाः क्रियन्ताम् , ता गर्णमयीभ्यो मुदुतरा भवन्ति । पडिलेहणापोत्तंति । प्रतिलेखनावेलायामकं पोतं प्रस्तार्य तस्योपरिसमस्त वस्त्रमत्युपेक्षणां कृत्वा तदनन्तरमुपाश्रयादहिः प्रत्युपेक्षणीयम् , एवं हि महती जीवदया कृता भवतीति ॥२॥ दंतछिन्नमिति । हस्तगताः पादगता वा नखाः प्रवृद्धा दन्तै छेत्तव्याः न नखरदनेन । नखरदनं हि ध्रियमाणमधिकरणं भवति । तथा अलित्तंति। पात्रमलिप्तं कर्तव्यम् , लेपे बहु दोषसंभवान्न पात्रं लेपनीयमिति भावः । हरियठियत्ति । हारेतप्रतिष्ठितं भक्तपानादि डगलादि च ग्राह्यम् , तद्ग्रहणे हि तेषां हरितकायजीवानां भारापहारः कृतो भवति । पमजणा यछन्नस्सत्ति । यदि छन्ने जीवदयानिमित्तं प्रमार्जना क्रियते ततो बहिरमच्छन्ने क्रियताम् , दयापरि क्षेत्रं गतोऽटवीमेकः सतिष्ठते तत्रैव। ... तीर्थकरः पुनः पिता क्षेत्र पुनः भावतः सिद्धिरिति ॥ .. .. Page #21 -------------------------------------------------------------------------- ________________ णामाविशेषात् । ईदगी यथा छन्दस्य प्ररूपमा चरगेषु मतिषु चानुपातियनपातिनी च भवति । अनुपातिन्यननुपातिन्योः स्वरूपमाह--अगुवाइति । यद् भाषमाणः स यथा छन्दो ज्ञायते, यथा खु निश्चितं युक्तितितं युक्तिसंगतमय भाषते तदनुपातिप्ररूपणम् । यथा-यैव मुखपोतिका सैव प्रतिलेखनिकेत्यादि । यत्पुनर्भाग्यमाणं सूत्रापेतं प्रतिभासते तद्भवत्यननुपाति । यथा चोलपट्टः पटलानि क्रियन्तामिति, षट्पदिकापतनसंभवेन सूत्रयुक्तिबाधात् । अथवा सर्वाण्येव पदान्यगीतार्थतिभासापेक्षयाऽनुपातीनि, मीतार्थवतिभासापेक्षया त्वननुपातीनीति ॥४॥ इदं चान्यरात्मरूपणम् -सागारियाइत्ति । सागरिकः शय्यातरस्तद्विषये ब्रूते-शय्यातरपिण्डग्रहणे नास्ति दोषः, प्रत्युत शय्यातरस्य महालाभ इति । आदिशदात्स्थापनाकुलेष्वपि प्रविशतो नास्ति दोषः, प्रत्युत भिक्षाशुद्धिरित्यादि ग्रामम् । पलिकत्ति । पर्यादिषु मत्कुणादिरहितेषु परिभुज्यमानेषु न को पि दोषः, मत्युत भूमावुपविशतो लाघवादयो दोषाः । निसेनासेवणत्ति । गृहिनिषद्यायां न दोषः, प्रत्युत धर्मश्रवणेन लाभ इति । गिहिपत्तेति । गृहिमात्रके भोजनं कस्मान क्रियते ? नात्र दोष, प्रत्युत सुदरपागोपभोगात्यवचनानुपघातलक्षणोऽन्यपागभारावहनलक्षणश्च गुण इति । निग्गंथिचे?णाइत्ति । निर्ग्रन्थीनामुपाश्रये च स्थानादौ को दोषः १ यत्र ता स्थितेन शुभं मनः प्रवर्तव्यम् , तच स्वायत्तमिति । तथा मासकल्पस्य प्रतिषेधस्तेन क्रियते, यदि दोषो न विद्यते, तदा परत.ऽल का स्थेयमिति ॥५॥ चारेति । चारश्चरणं ममनमित्यर्थस्तद्विषये ब्रूते-वृष्टयभावे चतुर्मासकमध्येऽपि गच्छता को दोष इति । तथा वेरज्जे यत्ति । वैराज्येऽपि ब्रूते-साधवो विहारं कुर्वन्तु, परित्यक्तं हि तैः शरीरम् , सोढव्याः खलु साधुभिरुपसर्गा इति । पढमसमोसरणंति । प्रथमसमवसरणं वर्षाकालस्ता ब्रूते-किमिति प्रथमसमवसरणे शुद्धं वस्त्रादि न ग्राह्यम् ? द्वितीयसमवसरणेऽपि हुद्गमादिदोषशुद्धमिति गृह्यते, 'तत्को विशेषः १ इति । तह णिइएसुत्ति । तथा नित्येषु नित्यवासिषु प्ररूपयति-नित्यवासे न दोषः, प्रत्युत प्रभूतसूत्रादिग्रहणलक्षणो गुण इति । तथा सुत्रत्ति । य गुपकरणं न केनापि ह्रियते ततः शून्यायां वसतौ को दोषः । अकप्पिये अत्ति । अकल्पिकोऽगीतार्थस्तद्विषये ब्रूते-अकल्पिकेनानीतमज्ञातोञ्छ किं न भुज्यते ?, तस्याज्ञातोच्छतया विशेषतो. परिभोगार्हस्वात् । संभोएत्ति । Page #22 -------------------------------------------------------------------------- ________________ संमोगे ब्रूते--सर्वेऽपिपञ्चमहाव्रतधारित्वेन साधयः सांभोगका इति । अकप्पिएआत्ति । विशिष्य विवृणोति किं वत्ति। वित-केन प्रकारेणाकल्पिकेनागीतार्थेन गृहीतं प्रासुकमज्ञातोञ्छमपि अभोज्यमपरिभोक्तव्यं भवति । को वा कल्पिकेन ( अत्र गाथायां सामी तृतीयार्थे ) गृहीते गुणो भका ? नैव कश्चिद्, उभयत्रापि शुभविशेगाद । संमोएत्ति व्याचष्टे-पंचमह वयपारित्ति । पञ्चमहाव्रतधारिणः सर्वे श्रमगाः किं नैकत्र भुञ्जते ? यदेके सांभोगिका आपरे असांभोगिका क्रियन्ते इशि! इत्येवमुपदर्शितप्रकारेगानालोचितगुणदोषो यथाछन्दश्वरणविषये वितथवादी।। अत ऊचं तु गनिनु वितथवादिनं वक्ष्यामिरवत्तगओ यत्ति । स यथाछन्दो गतिष्वेवं प्ररूपणां करोति-एगो गाहावई । लस्ल तिण्णि पुत्ता । ते समेवि खितकम्मोवजीषिणो पियरेण खित्तकम्मे जिओच्या । तत्थेगो जहाणन करेह । एगो अडषि गओ देसं देसेण हिंडइत्ति । एगो जिभिउं देवकुलादिसु अच्छति । कालंतरेव सिंधिया मओ । तेहिं सन्नाः पितिसतियं तिकाउं समं विभतं । तारों जं एकेणं उपञ्जिअं तं सव्वसिं सामनं जाय। एवं अन्हं दिया तित्थयो तस्संति उवदेसेणं सोषि समणा कायाको कुचंति । अम्हे ण करेमो । जे तुझेहिं कयं तं अहं सामन्नं । जहा तुम लोग सुकुलपञ्चायाति सिद्धिं वा गच्छह तहा अन्हेवि गरिउस्सामोत्ति"। एम गाथाभावार्थः । अक्षरयोजनिका त्वियम्--एकः पुत्रः क्षेत्रं गतः। एकोऽटवी देशान्तरेषु परित्रमतीत्यर्थः । अपर एकन्तत्रैव सतिष्ठते । पितरि जलते धनं सर्वेषामपि समानम् । एवममापि मातापितृस्थानीयस्तीर्थकरः, क्षेत्र क्षेत्रपालं धनं पुनभोवतः परमार्थतः सिद्धिस्तां यूयमिव युष्मदुपार्जनेन वयमपि गमिधाम इति । तदेवं यथाछंदस्थाप्युत्जूनप्ररूपणाव्यवस्थादशहाकथमेवमर्वागहशामिणीयते-यदुत मागंपतितस्य यथाछन्दस्य लिदनामोगा १ एको गाथापातेः । तस्य त्रयः पुत्राः । ते सर्वऽपि क्षेत्रमापनीविनः पित्रा क्षेत्रमाणे नियोजिताः । तत्रको यथाऽऽक्षप्तं करोति । कोदयां गतो देशदेशान्तरेषु समति । एको जिमित्वा देवकुलादिष्वास्ते । कालान्तरेण तेषां पिता मृतः । तैः सर्वमपि पितृलत्कं शकृत्य समं विभक्तम् । तेषां यदेकेनोपाजतं तत्सर्वेषां सामान्य जातम् । एवमस्माकं पिता तीर्थकरः, तस्येत्युपदेशेन सर्वेऽपि श्रमणाः कायक्लेशं कुबान्त । वयं न कुर्मः । यद् युष्माभिः कृतं तदस्माकं सामान्यम् । यथा यूयं देवलोकं मुकुलप्रत्यावाप्ति सिद्धं वा गच्छत वेथा बयमा गमिप्याम हाते। Page #23 -------------------------------------------------------------------------- ________________ देवोत्सूत्र भाषणम्, तच्च नानन्तसंसारकारणम्, उन्मार्गपतितानां तु सर्वेषामाभोगवतामनाभोगवतां वा तदनन्तसंसारकारणमेव, तीर्थोच्छेदाभिप्रायमूलत्वादिति, साध्वाचारोच्छेदाभिप्रायस्य यथाछन्देऽप्य विशेषात् । अथ- उम्मग्मग्गसंपआिण साहूग गोअमातूगं ( 2 ) । संसारी अ अणंतो होइ य समग्गगासीणं ॥ " 66 इति गच्छाचारप्रकीर्णकवचनबलादुन्मार्गपतितानां निवानामनन्त एव संसारो ज्ञायते न तु यथाछन्दानामपि, अपरमार्गाश्रयणाभावादिति चेद् । उन्मार्गपतितो निहव एवेति कथमुद्देश्यनिर्णयः ? साधुपदेन शाक्यादिव्यवच्छेदेऽपि यथाछन्दादिव्यवच्छेदस्य कर्तुमशक्यत्वात्, गुणभेदादिनेव क्रियादिविपर्यासमूलकदालम्बनत्ररूपण वाऽप्युन्मार्गभ वनाविशेषाद् । न हि ' मार्गपतित' इत्येतावता शिष्टाचारनाशको यथाछन्दादिरपि नोन्मार्गगामी । , अथ यथाछन्दादीनामप्युन्मार्गगामित्वमिष्यते एव, न त्वन्तसंसारनियमः, तनियमाभिधायकवचने उन्मार्गसंप्रस्थितपदेन तीर्थच्छेदाभिप्राययत एवं ग्रहणादिति चेद् । अहो किंचिडपूर्वयुक्तिकौशलम् ! यदुक्तवचनवलात्तीर्थच्छेदाभिप्राययतां निवानामनन्तसंसारनियमसिद्धी पदविशेषतात्पर्यग्रहः तस्मिंश्च सति तत्सिद्धिरित्यन्योन्याश्रयदोषमापतन्तं न वीक्षसे । संप्रदायादीदृशोऽर्थी गृहीत इति न दोष इति वेद् । न, संप्रदायादध्यवसायं प्रतीत्य निहृवानामपि संख्यातादिभेदभिन्नस्यैव संसारस्य सिद्धत्वाद्, उन्मार्गसंप्रस्थितानां तीव्राध्यषसायानामेव ग्रहणे . बाहुल्याभिप्रायेण व्याख्याने दोषाभावाद् | न चेदेवं तदा ' वयमेव सृष्टिस्थित्यादिकारिणः' इत्या पुत्सूत्र भाषिणोऽनवच्छिन्नमिथ्यात्व संतानपरमहेतोस्तीर्थोच्छेदाभिप्रायवतो बलभद्रस्य जीवस्याप्यनन्तसंसारोत्पत्तिः प्रसज्येत । न चैतदशास्त्रीयं वचनम्, त्रिषष्टीयनेमिचरित्रेऽप्येवमुक्तत्वात् । तथाहि " उन्मार्गमार्गसंप्रस्थितानां साधूनां ...... ( ? ) । संसारश्चानन्तो भवति स्वमार्गनाशिनाम् ॥ Page #24 -------------------------------------------------------------------------- ________________ "प्रतिपद्य तथा रामो जगाम मरतावनौ । तथैव कृत्वा ते रूपे दर्शयामास सर्वतः ।। एवमूचे च भो लोकाः ! कृत्वा नौ प्रतिमाः शुभाः। प्रकृष्टदेवताबुद्धया यूर्य पूजयतादरात् ॥ वयमेव यतः सृष्टिस्थितिसंहारकारिणः। वयं दिव इहायामो यामश्च स्वेच्छया दिवम् ॥ निर्मिता द्वारकाऽस्माभिः संहृता च यियासुभिः । कर्ता हर्ता च नान्योऽस्ति स्वर्गदा वयमेव च। एवं तस्य गिरा लोकः सर्वो ग्रामपुरादिषु । प्रतिमाः कृष्णहलिनोः कारंकारमपूजयत् ॥ प्रतिमार्चनकणां महान्तमुदयं ददौ । स सुरस्तेन सर्वत्र तद्भक्तोऽभूजनोऽखिलः ॥” इति ॥६॥ ननु बलभद्रस्योत्सूत्रवचनमिदं न स्वारसिकमतो न नियतम् , नियतोत्सूत्रं च निवत्वकारणम् , अत एवापरापरोत्सूत्रभाषिणां यथाछन्दत्वमेव, नियतोत्सूत्रभाषिणां च निवत्वमेव । तदुक्तमुत्सू. प्रशन्दकुद्दालकृता- "तस्मादनियतोत्सूत्रं यथाछन्दत्वगेषु । न तदवस्थितकोत्सूत्रं निह्नवत्वमुपस्थितम् ॥” इति एतदेव च नियमतोऽनन्तसंसारकारणम् । अत एव यः कश्चिद् मार्गपतितोऽप्युत्सूत्रं भणित्वाऽभिमानादिवशेन स्वोक्तवचनं स्थिरीकर्तुं कुयुक्तिमुद्भावयति, न पुनरुत्स्नभयेन त्यजति स युन्मार्गपतित इबावसातव्यः, नियतोत्सूत्रभाषित्वात् , तस्यापरमार्गाश्रयणाभावेऽपि निह्नवस्येवासदाग्रहवत्त्वाद् इत्यस्मन्मतमित्याशङ्कायामाह-- णियउस्सुत्तणिमित्ता संसाराणंतया ण सुत्तुत्ता। अज्झवसायाणुगओ भिन्नो चिय कारणं तीसे ॥६॥ नियतोत्सूत्रनिमित्ता संसागनन्तता न सूत्रोक्ता। अध्यवसायानुगतो टिन एय कारणं तस्याः ॥६॥ Page #25 -------------------------------------------------------------------------- ________________ १२ णियउत्तत्ति । नियतोत्सूत्रं निमित्तं यस्यां सा तथा संसारा" नवता न सूत्रोक्ता, नियतोत्सूत्रं विनाऽपि मैथुनप्रति सेवामार्गसमाचरण -तद्वन्दनादिनाऽप्यनन्तसंसारार्जनेन व्यभिचारात् । न चो त्सूत्रभाषणजन्येऽनन्तसंसाराजने नियतोत्सूत्र भाषणस्यैव हेतुत्वान्न दोषः, तादृशकार्यकारणभावयोधक नियत सूत्रानुपलम्भाद् । उस्सुत्तभासगाणं बोहीणासो अणंतसंसारो "-- 46 इत्यादिवचनानां सामान्यत एव कार्यकारणभावग्राहकत्वाद् । उत्तरकालं तत्र नियतत्वाख्यो विशेषः कल्प्यते इति चेद्, नैतदेवम्, तथा सति यथाछन्दस्य कस्याप्यनन्तसंसारानुपपत्तिप्रसक्तेः, तस्य त्वदभिप्रायेणा परापरभावेन गृहीतयुक्तोत्सूत्रस्य नियतोत्सृत्रभाषित्वाभावात् । तथा च १. " सव्वष्पवयणसारं मूलं संसारदुक्खमुक्खस्स । संमत्तं मइलित्ता ते दुग्गइवडया हुंति ॥ " इत्यादिभाष्यवचनविरोधः । अथ यथाछन्दस्यापि यस्यानन्तसंसाराजनं तस्य क्लिष्टाध्यवसायविशेषादेव, उन्मार्गपतितस्य मिह्रवस्य तु नियतोत्सूत्र भाषणादेवेति न दोष इति चेद् । नं, एवं सत्यनियत हेतुकत्वप्रसङ्गाद् । अनियतहेतुकत्वं नामेति व्यक्तमाकरे । तथा च विप्रतिपन्न उन्मार्गस्थोऽनन्तसंसारी, नियतोत्सूत्रभाषित्वाद् इत्यत्राप्रयोजकत्वम्, किं तर्हि अनन्तसंसारतायामनुगतं नियामकमित्याह-तस्याः संसारानन्ततायाः कारणं भिन्न एवानुगतोऽध्यवसायस्तीव्रत्वसंज्ञितः केवलिना, केवलिना निश्चीयमानोऽस्तीति गम्यम् । यस्य संग्रहा देशास्वातन्त्र्येणैव तस्यामनुगतं हेतुत्वम्, व्यवहारादेशाच्च क्रियाविशेषे सहकारित्वं घटकत्वं वा । शब्दमात्रानुगततीव्राध्यवसायसहकृतायातत्पूर्वीकाया वा पापक्रियाया अनन्तसंसारहेतुत्वव्यवहारात् । स च ..उत्सूत्रभाषकानां बोधिनाशोऽनन्तसंसारः ॥ सर्वप्रवचनसारं मूलं संसारदुःखमोक्षस्य । सम्यक्त्वं मलिनयित्वा ते दुर्गतिवर्द्धका भवन्ति - Page #26 -------------------------------------------------------------------------- ________________ १३ तीव्रध्यवसाय आभोगयतामनाभोगवतां वा शासनमालिन्यनिमित्तप्रवृत्तिमतां रौद्रानुबन्धानां स्याद्, अनाभोगेनापि शासनमालिन्यप्रवृत महा मिथ्यात्वार्जनोपदेशात् । तदुक्तमष्टकप्रकरणे " यः शासनस्य मालिन्येऽनभोगेनापि वर्तते । स तन्मिथ्यात्व हेतुत्वादन्येषां प्राणिनां ध्रुवम् ॥ बनात्यपि तदेवालं परं संसारकारणम् । विपाकदारुणं घोरं सर्वानर्थ निबन्धनम् ॥ " शासनमालिन्यनिमित्तप्रवृतिश्च निहवानामिव यथाछन्दादीनामप्यविशिष्टेति कोऽयं पक्षपातः ? यदुत निहवानामनन्तसंसारनियम एवं यथाछन्दादीनां त्वनियम इति । अनाभोगेनापि विषयविशेषद्रोहस्य विषमविपाकहेतुत्वाद्, अनियतोत्सूत्रभाषणस्य निशङ्कताऽभिव्यञ्जकतया सुतरां तथाभावात् । यथा याभोगेनोत्सूत्रभाषिणां रागद्वेषोत्कर्षादतिसंक्लेशस्तथा भोगेनोत्सूत्र भाषिण: मध्यप्रज्ञापनीयानां मोहोत्क पदयं भवन्ननिवारित एव । अत एव तेषां भावशुद्धिरप्यप्रमाणम्, मार्गाननुसारित्वात् । तदुक्तमष्टकप्रकरणे " भावशुद्धिरपि ज्ञेया येषा मार्गानुसारिंगी । प्रज्ञापना प्रियाऽयर्थं न पुनः स्वाग्रहात्मिका ॥ रागो देव मोहन भावमालिन्यहेतवः । एतदुत्कर्षतो ज्ञेयो हन्तोत्कर्षस्य तत्रतः ।। तथोत्कृष्टे जगत्यस्मिन् शुद्धिर्वै शब्दमात्रकम् । स्वबुद्धिकल्पनाशिल्पनिर्मितं नार्थवद् भवेदिति ॥ किं च- पार्श्वस्थादीनां नियतोत्सूत्रमप्युयुक्तविहारिणामपवादलक्षणं द्वीतीयबालतानियामकमस्त्येव । यदाचारसूत्रम् “ सीलमंता उवसंता संखाए रीयमाणा असीला अणुवयमाणस्स बितिया मन्दस्स बाया णिअट्टमाणा वेगे आयारगोयरमाइक्खति नाणभट्ठा दंसणलूसिणोति ॥ 19 १ शीलवन्त उपशान्ता संख्यया (ज्ञानेन) रीयमाना (पराक्रममाणाः) 'अशीलाः' अनुवदतो द्वितीया मन्दस्य बालता, निवर्तमाना वा एके आवारगोचरमाचक्षतेज्ञानभ्रष्टा दर्शनलूषेिण इति । Page #27 -------------------------------------------------------------------------- ________________ एतदृत्तियथा---शीलमष्टादशशीलासहस्रसंख्यम् , यदि वा महाव्रतसमान धान पश्चेन्द्रियजयः कायनिग्रहस्त्रिगुतिगुप्तता चेत्येतच्छील विद्यते येषां ते शीलवन्तः। तथोपशान्ताः, कषायोपशमाद् । अत्र शीलवद्रहणेनैव गतार्थत्वाद् ' उपशान्ताः' इत्येतद्विशेषणं कषायनिग्रह साधान्यख्यापनार्थम् । सम्यक् ख्याप्यते प्रकाश्यतेऽनयेति संख्या-ज्ञा, लया रीयमाणाः-संयमानुष्ठानेन पराक्रममाणाः । कस्यचिद्विश्रान्तभागधेयतया 'अशीला एते ' इत्येवमनुवदतो अनु पथाद् वदतोऽ पवदतः, अन्येन वा मिथ्यादृष्ट्यादिना 'कुशीलाः' इत्येवमुक्तेऽनुवदतः पार्श्वस्थादोदितीयैषा मन्दस्याज्ञस्य बालता-मूर्खता । एकं तावत्स्वतश्चारित्रापगमः, पुनरपरानु युक्तविहारिणोऽपवदतीत्येषा द्वितीया वालता । यदि वा 'शीलवन्ता एते, उपशान्ता वा' इत्येवमन्येनाभिहिते 'क्वैषां प्रचुरोपकरणानां शीलवत्तोपशान्तता वा' इत्येवमनुवदतो हीनाचारस्य द्वितीया बालता भवतीति । अपरे तु वीर्यान्तरायोदयात्स्वतोऽवसीदन्तोऽप्यपरसाधुप्रशंसान्विता यथावस्थितमाचारगोचरमावेदयेयुरिति एतदर्शयितुमाह-णिअहमाणा इत्यादि । एके कदियासंयमाभिवर्तनाना लिङ्गाद्वा वाशब्दादनिवर्तमाना वा यथावस्थितमाचारगोचरमाचक्षते । वयं तु कर्तुमसहिष्णवः, आचारस्त्वेवंभूतः' इत्येवं वदतां तेषां द्वितीयबालता न भवत्येव । न पुनर्वदन्ति एवंभूत एव आचारो योऽस्माभिरनुष्ठीयते, साम्प्रतं दुःपनानुभावेन बलाद्यपगमान्मध्यमभूतैव वर्तिनी श्रेयसी नोत्सर्गावसर इति । उक्तं हि "नात्यायतं न शिथिलं यथा युञ्जीत सारथिः। तथा भद्रं वहन्त्यश्वा योगः सर्वत्र पूजितः ॥" अपि च--- “जो जत्थ होइ भग्गो ओगास सो परं अविदंतो। _ गंतुं तत्थ वयंतो इमं पहाणंति घोसेइ ॥” इत्यादि । ___.. किंभूताः पुनः ? एतदेव समर्थयेयुरित्याह-नाणभट्ठा। सदसद्विवेको ज्ञानं तस्माद्धष्टा ज्ञानभ्रष्टाः। तथा दंसणलूसिणोत्ति। सम्यग्दर्शनविध्वंसिनो सदनुष्ठानेन स्वतो विनष्टाः, अपरानपि शङ्कोत्पादनेन सन्मार्गाच्यावयन्तीति ॥ __ यो यत्र भवति भग्नोऽवकाशं स परमविन्दन् । गन्तुं तत्र वजन् इदं प्रधानमिति घोषयतिः॥ Page #28 -------------------------------------------------------------------------- ________________ - नथा च संविग्नपाक्षिकातिरिक्तस्य पावस्थादेरपि द्वितीयबालता, नियामकनियतोत्सूत्रसद्भावात् , तस्यानन्तसंसारनियमान्निलवस्यापि तदनियम एव, भवभेदस्य भावभेदनियतत्वादिति प्रतिपत्तव्यम् ॥ ननु कर्म तावदुत्कर्षतोऽप्यसंख्येयकालस्थितिकमेव ब-यने, तत्कथं तोत्राध्यवसायवतामप्युत्सूत्रभाषिणामनन्तसंसारित्वं स्याद् ? इत्याशङ्कायामाहकम्य बन्धइ पावं जो खलु अगुवरयतिव्वपरिणामो। असुहाणुबन्धजोगा अणंतसंसारिआ तस्स ॥७॥ कम्मति । कर्म बध्नाति पापं यः स्वल्वनुपरततीव्रपरिणामः-- अविच्छिन्नतथाविधसंक्लिष्टाध्यबसायः स्वेच्छानुरोधान्नियतात्रवप्रवृत्तो वानियतात्रवप्रवृत्तो वा नियतोत्सूत्रभाषी वानियतोत्सूत्रभाषी वाऽप्राप्तानुशयस्तस्याशुभानां ज्ञानावरणीयादिपापप्रकृतीनामनुबन्धस्योत्तरवृद्धिरूपस्य बध्यमानप्रकृतिषु तजननशक्तिरूपस्य वा योगात्संबन्धादनन्तसंसारिता भवति । ग्रन्थिभेदात्प्रागप्यनन्नसंसारार्जनेऽशुभानुबन्धस्यैव हेतुत्वात्प्राप्तसम्यग्दर्शनानामपि प्रतिपातेन तत एवानन्तसंसारसंभवात् । तदुक्तमुपदेशपदे " 'गंठीइ आरओ विहु असई बंधो ण अन्नहा होइ । ताए सो वि हु एवं णेओ असुहाणुबन्धोत्ति ॥” । ततश्च बन्धमात्रान्नानन्तसंसारिता, किन्त्वनुबन्धादिति स्थितम् । अत एवाभोगादनाभोगाद्वोत्सूत्रभाषिणामपीह जन्मनि जन्मान्तरे याऽऽलोचितप्रतिक्रान्ततत्पातकानामनुबन्धविच्छेदान्नानन्तसंसारिता, केवलमनन्तभववेद्यनिरुपक्रमकर्मबन्धे तन्निःशेषतां यावत्प्रायश्चिच- . प्रतिपचिरेव न स्याद् , अध्यवसायविशेषाद् । नियतोपक्रमणीयस्वभाव कर्म बध्नाति पापं यो खल्वनुपरततीव्रपरिणामः। .. अशुभानुवन्धयोगादनन्तसंसारिता तस्य ॥ ७॥ ग्रन्येरारतोऽपि खलु असकृद् बन्धो नान्यथा भवति । तस्याः सोऽपि खल्वेवं शेयोऽशुभानुबन्ध इति । Page #29 -------------------------------------------------------------------------- ________________ कर्मबन्धे चेह जन्मनि जन्मान्तरे घा प्रायश्चित्तमतिपत्तिः स्यात् । अत एक जनालिशिष्यादीनां भगवत्समीपत्रुगतानांतद्भव एकत्सूत्रमारणप्रायश्चित्यतिपत्तिः । कालीप्रभृतीन च " तस्त ठाणस्स अणालोइअपडिकंतर कालमासे कालं किचा." हलादिवचनाद् तद्भवानालोचितपार्थस्थत्वादिनिमित्तपापानां भवान्तर एव प्रायश्चित्तप्रतिपत्तिः । “कालीणं भंते देवी ताओ देवलोगाओ अमंतरं उबाहिता काहि मच्छिहिति ? काई उक्वजिहिति ? । गोयना ! महाविदेहनासे सिम्झिहिति ॥” इत्यादिवचनातासां भवान्लर एव पूर्वभवाचीर्णपार्श्वस्थत्वादिजातपापकर्मप्रायश्चित्तणनात् " सजा बि हु पन्चज्जा पायचित्तं भवंतरकडागं कम्माणं " इत्यादिपूर्वाचार्यधचत्रात्माज्याया एव भवान्तरकृतकमेप्रायाश्चत्तरूपत्वाद् । एतेन कृतस्य पापस्य प्रायश्चित्तप्रत्तिपत्तिस्तस्मिन्नेव भवे भवति न पुनः जन्मान्तरेऽपि' इति वदन् तत्र " जावाउ सावसेस" इत्यादिसंमतिमुद्भावयन् व्यक्तामसंलमकतामनवगच्छन्निरस्तो योध्यः। अथ पूर्वभवकृतपापपरिज्ञानाभावात्कुतस्तदालोचनम् ? कुतस्तरां च तहमायश्चितम् ? इति चेत् , न, एतद्भवकृतानामपि विस्मृतानामिक पूर्वभवकृतानामपि पापानां सामान्यज्ञानेनालोचनप्रायश्चितसंभवात् , अत एव मिथ्यात्व हिंसादेः पारभविकस्यापि निन्दागह दिकम् । . " इहमवियमनमावियं मिच्छत्तपवत्तणं जमहिगरणं । बिणपवयणपडिकुटु दुई गरिहानि तं पावं ।।" " इहं भवे अनेमु वा भवग्गहणेसु पाणाइवाओ कओ या काराविओ वा कीरंतो वा परेहिं सपणुगाओ तं निंदानि गरिहामि" १ तस्य स्थानखानालोविताप्रतिक्रान्ता कालमासे कालं कृत्वा० । २ कालो भगवन् देवो तस्माद्देवलोकादनन्तरमुद्धृत्य कस्यां (गती) गमिष्यति, कस्यामुत्पत्स्यते ? । गौतम ! महाविदेहवर्षे सेत्स्यतीति ।। ३. सर्वाऽपि खलु प्रवज्या प्रायश्चित्तं भवान्तरकृतानां धर्मणाम् । ४ यावत्तु अवशेषम् । इहभाविकमायभविकं मिथ्यात्वप्रवर्तनं यदधिकरणम् । जिनप्रवचनप्रातकुष्ठं दुष्ठं गर्हे. तत्यापम् ॥ . ६ इह भवे अन्येषु वा भवग्रहणेषु प्राणातिपात तो वा कारितो वा क्रियमाणो चा परैः समनुलातस्तं निन्दामि गर्ने । Page #30 -------------------------------------------------------------------------- ________________ १७ इत्यादि चतुःशरणप्रकीर्णकपाक्षिकसूत्रादावुक्तम् । पापप्रतिघातगुणवीजाधान सूत्रे हरिभद्रसूरिभिरप्येतद्भवसंबन्धि भवान्तरसंबन्धि या पापं यत्तत्पदाभ्यां परामृश्य मिध्यादुष्कृतप्रायश्चित्तेन विशोधनीयमित्युक्तम् । तथाहि errears a एएसिं गरिहामि दुकडं । toi अरहंतेसु वा सिद्धेसु वा आयरिसु चा उषज्झाएसु वा साहुसु वा साहुसु वा अन्नेसु वा धम्मट्ठाणेसु माणणिज्जेसु पूअणिज्जेसु तहा माईसु वा पिईसु वा बंधूसु वा मित्तेसु वा उषयारीसु वा ओहेण वा जीवेसु मग्गट्टिएस अमग्गट्टिएस मग्गसाहणेसु अमग्गसाहणेसु जं किंचि वितहमायरिअं अणायरिअव्वं अणिच्छिअन्नं पावं पाषाणुबंध सुदुमं बा बावरं वा मणेणं वायाए कारणं वा कथं वा कारावि बा अणुमोइअं वा रागेण वा दोसेण वा मोहेण वा इत्थ वा जम्मे जम्मांतरेसु वा गरहियमेयं सुक्कडमेयं उज्झियव्वमेअं वियाणिअं मए कल्लाणमित्तगुरु भगवंतपणाओ ' एवमेअं' ति रोइअं सद्धाए अरहंतसिद्धसमखं गरहामि अहमिणं दुक्कडमेअ उज्झियच्वमेअं इत्थ मिच्छा मि दुक्कडं । एतद्व्याख्या --- यथा चतुः शरणगमनानन्तरं दुष्कृतगर्होक्ता, तामाहशरणमुपगतश्च समेतेषामहदादीनां गर्हे दुष्कृतम् । किंविशिष्टम् ? इत्याहजणं अरहंतेसु वा इत्यादि । अर्हदादिविषयमोघेन वा जीवेषु मार्गस्थितेषु - सम्यग्दर्शनादियुक्तेषु, अमार्गस्थितेषु - एतद्विपरीतेषु मार्गसाधनेषु - पुस्तकादिषु, अमार्गसाधनेषु - खङ्गादिषु, यत्किचिद्वितथमाचरितम् - अविधिपरिभोगादि, अनाचरितव्यं क्रियया, अनेष्टव्यं मनसा पापम् ; पापकारणत्वेन पापानुबन्धि, तथा १ शरणमुपगतश्च एतेषां गर्हे दुष्कृतं यद् । २ अर्हत्सु वा सिद्धेषु वा आचार्येषु वा उपाध्यायेषु वा साधुषु वा साध्वीषु वा अन्येषु वा धर्मस्थानेषु माननीयेषु पूजनीयेषु तथा मातृषु वा पितृषु वा धुषु वा मित्रेषु वा उपकारिषु वा ओघेण वा जीवेषु मार्गस्थितेषु अमार्गस्थितेषु मार्गसाधनेषु अमार्गसाधनेषु यस्किंचिद्वितथमाचरितम् अनाचरितव्यम् अनेव्यं पापं पापानुबन्धि सूक्ष्मं वा बादरं वा मनसा वाचा कायेण वा कृतं वा कारितं वाऽमोदितं वा रागेण वा द्वेषेण वा मोहेण वा अत्र वा जन्मनि जन्मास्तरेषु षा गर्हितमेतद् दुष्कृतमेतद् उज्झितव्यमेतद्, विज्ञातं मया कल्याणमित्रगुरु-भगवदूबेचनाद् 'एवमेतेदिति रोचितं श्रद्धया, अर्हत्सिद्धसमक्षं गर्हे । अहमिदं सुकृतमेतद् उज्झितध्यमेतद् अत्र मिध्या मे दुष्कृतम् । Page #31 -------------------------------------------------------------------------- ________________ १८ विपाकभावेन गर्हितमेतद् कुत्साऽऽस्पदम् दुष्कृतमेतद् धर्मबाह्यत्वेन, उज्झितव्यतद् यतया, विज्ञातं मया कल्याणमित्रगुरुभगवद्वचनाद्, 'एवमेतद्' इति रोचितं श्रद्धया-तथाविधक्षयोपशमजया, अर्हत्सिद्धसमक्षं गर्हे कथम् ? इत्याहदुष्कृतमेतद्, उज्झितव्यमेतद् । अत्र व्यतिकरे 'मिच्छामि दुक्कर्ड' वारत्रयं पाठः । अथ हिंसादिकस्य पापस्य पारभविकस्यापि प्रायश्चित्तप्रतिपत्तिः स्थात्, न तूत्सूत्र भाषणजनितस्य, उत्सूत्र भाषिणो निह्नवस्य क्रियाबलाद्देवकिल्यिषिकत्वप्राप्तावपि तत्र निजकृतपापपरिज्ञानाभावेन दुर्लभघोषित्वभणनाद् । यदागमः लडूण वि देवत्तं ववन्नो देवकिब्बिसे । तत्थवि से न याणइ किं मे किच्चा इमं फलं ॥ तत्तोवि से चइत्ता णं लब्भिही एलमूअगं । णरगं तिरिक्खजोणिं वा बोही जत्थ सुदुलहा ॥ एतत्तिर्यथा - लक्ष्णवित्ति । लब्ध्वाऽपि देवत्वं तथाविधक्रियापालनवशेनोपपन्नो देवकिल्बिषनिकाये, तत्राप्यसौ न जानाति विशुद्धाध्यसायाभावात् किं मम कृत्वेदं फलं किल्बिषिकदेवत्वमिति । अस्य दोषान्तरमाह-तत्तोवित्ति । ततोऽपि देवलोकादसौ च्युत्वा लप्स्यते एडमूकताम् - अजभवानुकारि मनुष्यत्वम्, तथा नरः तिर्यग्योनिं वा पारम्पर्येण लप्स्यते । बोधिर्यत्र सुदुर्लभा - सकलसंपत्तिनिबन्धना यत्र जिनधर्मप्राप्तिर्दुरापा । ( ¿ प्राप्नोत्येडमूकताम्' इति वाच्ये असकृद्भदप्राप्तिख्यापनार्थ लप्स्यते' इति भविष्यत्कालनिर्देश इतिं चेद्, मैवम्, नहि तत्र निव एवाधिकृतः किन्तु तपः स्तेनादिः “ तेवतेणे वयतेणे " इत्यादि पूर्वगाथैकवाक्यत्वात्तस्याप्युत्कृष्टफलप्रदर्शनमेतद् न तु सर्वत्र सादृश्यनियमः, अध्यवसायवैचित्र्यात् । किं चैवम् " लब्ध्वाऽपि देवत्वं उपपन्नो देवकिल्विषिके । तत्रापि स न जानाति किं मम कृत्वेदं फलम् ॥ ततोऽपि स च्युत्वा लप्स्यते एडमूकताम् । नरकं तिर्यग्योनिं वा योनिर्यत्र सुदुर्लभा ॥ २ तपः स्तेनो व्रतस्तेनः । Page #32 -------------------------------------------------------------------------- ________________ " इति से परस्स अट्टाए कराई कम्माई वाले पकुव्वमाणे तण दुक्खेण मूढे विष्परियासमुवेइ" इत्याचाराङ्गवचनात्कराणि कर्माणि परस्यार्थाय कुर्वतो हिताहितवुद्धयादिविपर्यासवतो हिंसादिदोषस्यापि भवान्तरे प्रायश्चित्तानुपपत्तिरेव स्यात् । अथ सर्वस्यैव पापस्य प्रमादेन कृतस्य विपर्यसाधायकत्वाद्विपर्यासजलसिच्यमानानां क्लेशपादपानां चानुबन्धफलत्वाद् भवान्तरेऽपि तथाभव्यत्वाविशेषात्कस्यचित्कदाचिद्विपर्यासनिवृत्त्यैवानुबन्धनिवृत्तेहिंसादिप्रायश्चित्तोपपत्तिरिति चेत् , तदिदमुत्सूत्रप्रायश्चित्तेऽपि तुल्यम् । न चैवमुत्सूत्रभाषणादनन्तसंसारानियमनात्ततो भयानुपपत्तिरिति शङ्कनीयम् , एकान्ताभावेऽपि बाहुल्योक्तफलापेक्षया हिंसादेरिवोत्सूत्रादास्तिकस्य भयोपपत्तेः। आस्तिक्यं ह्यसत्प्रवृत्तिभयनिमित्तमिति दिग्। अनन्तसंसारिताऽशुभानुबन्धयोगादित्युक्तम्, अथाशुभानुबन्धस्य किं मूलम् ? के च तद्भेदाः ? इत्याहतामूलं मिच्छत्तं अभिग्गहिआइ तं च पंचविहं । भवाणमभव्वाणं आभिग्गहिअं वणाभोगो ॥८॥ तम्मूलंति । तस्यानन्तसंसारहेत्वशुभानुषन्धस्य मूलं मिथ्यात्वम् , उत्कटहिंसादिदोषानामपि मिथ्यात्वसहकृतानामेव तद्धेतुत्वात् , अन्यथा दोषव्यामूढताज्नुपपत्तेः । तचाभिग्रहिकादिकं पञ्चविधम् आभिग्रहिकमनाभिग्रहिकमाभिनिवेशिकं सांशयिकमनाभोगं चेति पञ्चप्रकारम् । यद्यपि जीवादिपदार्थेषु तत्त्वमिति निश्चयात्मकस्य सम्यक्त्वस्य प्रतिपक्षभूतं मिथ्यात्वं द्विविधमेव पर्यवस्यति-जीवादयो न तत्त्वमिति विपर्यासात्मकं जीवादयस्तत्वमिति निश्चयाभावरूपानधि तन्मूलं मिथ्यात्वमभिग्रहिकादि तच्च पञ्चविधम् । भव्यानाम् , अभव्यानामाभिग्रहिकं वाऽनाभोगः ॥८॥ १ इति स परस्यार्थाय क्रू आणि कर्माणि बालः प्रकुर्वन् तेन दुःखेग मूढो विपर्यासमुपैति । Page #33 -------------------------------------------------------------------------- ________________ गमात्मकं च । तदाह वाचकमुख्यः – “अनधिगमविपर्ययौ च मिध्यात्वम् इति, तथाsपि 'धर्मेऽधर्मसंज्ञा ' इत्येवमादयो दश भेदा इवोपाधिभेदात्पञ्श्चैते भेदाः शास्त्रप्रसिद्धाः । तत्राभिग्रहिकम् - अनाकलिततत्त्वस्याप्रज्ञापनीयताप्रयोजकस्बस्वाभ्युपगतार्थश्रद्धानम् । यथा बौद्धसांख्यादीनां स्वस्वदर्शनप्रक्रियावादिनाम् । यद्यपि वैतण्डिको न किमपि दर्शनमभ्युपगच्छति, तथाऽपेि तस्य स्वाभ्युपगतवितण्डावादार्थ एव निबिडाग्रहवत्त्वादाभिग्रह्निकत्वमिति नाव्याप्तिः । ' अनाकलिततत्त्वस्य ' इति विशेषणाद् यो जैन एव धर्मवादेन परीक्षापूर्वं तत्त्वमाकलय्य स्वाभ्युपगतार्थं श्रद्धत्ते तत्र नातिव्याप्तिः । यस्तु नाम्ना जैनोऽपि स्वकुलाचारेवागमपरीक्षां बाधते तस्याभिग्रहिकत्वमेव, सम्यग्दृशोऽपरीक्षितपक्षपातित्वायोगात् । तदुक्तं हरिभद्रसूरिभिः " पक्षपातो न मे वीरे न द्वेषः कपिलादिषु । युक्तिमद्वचनं यस्य तस्य कार्यः परिग्रहः || ” " इति । यश्चागीतार्थो गीतार्थनिश्रितो माषतुषादिकल्पः प्रज्ञापाटवाभावादनाकलितत्त्व एव स्वाभिगतार्थं जैनक्रियाकदम्बकरूपं श्रद्धत्ते तस्य स्वाभ्युपगतार्थश्रद्धानं नाप्रज्ञापनीयताप्रयोजकम्, असद्ग्रहशक्त्यभावात्, किन्तु गुणवदाज्ञाप्रामाण्यमूलत्वेन गुणवत्पारतन्त्र्यप्रयोजकमित्यप्रज्ञापनीयताप्रयोजकत्वविशेषणान्न तत्रातिव्याप्तिः । स्वपराभ्युपगतार्थयोरविशेषेण श्रद्धानमनाभिग्रहिकम् । यथा 'सर्वाणि दर्शनानि शोभनानि ' इति प्रतिज्ञावतां मुग्धलोकानाम् । यद्यपि परमोपेक्षावतां निश्चयपरिकर्मितमतीनां सम्यग्दृष्टीनां स्वस्थाने सर्वनयश्रद्धानमस्ति, शिष्यमतिविस्फारणरूपकारणं विनैकतरनयार्थनिर्द्धारणम्याशास्त्रार्थत्वात् । तदाह संमतौ सिद्धसेनः " " 'णिययवयणिज्जसच्चा सव्वणया परवियालणे मोहा । ते पुण न दिवसमओवि भयइ सच्चे व अलिए व ।। निजकवचनीयसत्त्याः सर्वनयाः परविचालने मोहाः । तान् पुनर्न दृष्टसमयों विभजते सत्ये वा अलिके वा ॥ ( सम्मतितर्फे नयकाण्डः गा० २८ ) [ निजकवचनीये स्वांशे परिच्छेद्ये सत्याः सम्यग्ज्ञानरूपाः सर्व एव नयाः समादयः परविचालने Page #34 -------------------------------------------------------------------------- ________________ २१ तथाऽपि स्वस्वस्थान विनियोगलक्षणेन विशेषेण तेषां सर्वनयश्रद्धानमस्तीति नातिव्याप्तिः । विदुषोऽपि स्वरसवाहि भगवत्प्रणीतशास्त्रबाधितार्थश्रद्धानमाभिनिवेशिकम् । स्वस्वशास्त्रबाधितार्थश्रद्धानं विपर्यस्तशाक्यादेरपीति तत्रातिव्याप्तिवारणाय भगवत्प्रणीतत्वं शास्त्रविशेषणम् । भगवत्प्रणीतशास्त्रे बाधितार्थश्रद्धानमिति सप्तमीगर्भसमासान्नातिव्याप्तितादवस्थ्यम्, तथाऽप्यना भोगात्प्रज्ञापकदोषाद्वा वितथश्रद्धानवति सम्यग्दष्टावतिव्याप्तिः, अनाभोगाद् गुरुनियोगाद्वा सम्यग्दृष्टेरपि वितथश्रद्धानभणनात् । तथा चोक्तमुत्तराध्ययननियुक्ती "" सम्मदिट्टी जीवो उवङ्कं पवयणं तु सदहह । "2 सद्दहइ असम्भावं अणाभोगा गुरुणिओगा वा ॥ ( कर्मप्र . ) इति तद्वारणाय स्वरसवाहीति सम्यग्वक्तृवचनानिवर्त्तनीयत्वं तदर्थः । अनाभोगादिजनितं मुग्धश्राद्धादीनां वितथश्रद्धानं तु सम्यग्वक्तृवचन निवर्त्तनीयमिति न दोषस्तथाऽपि जिनभद्रसिद्धसेनादिप्रावचनिकप्रधानविप्रतिपत्तिविषयपक्षद्वयान्यतरस्य वस्तुनः शास्त्रबाधितत्वात्तदन्यतरश्रद्धानवतोऽभिनिवेशित्वप्रसङ्ग इति तद्वारणार्थं विदुषोऽपीति — शास्त्रतात्पर्यबाधप्रतिसंधानवत इत्यर्थः । सिद्धसेनादयश्च स्वस्वाभ्युपगतमर्थं शास्त्रतात्पर्यबाधं प्रतिसंघायापि पक्षपातेन न प्रतिपन्नवन्तः, किन्त्वविच्छिन्नप्रावचनिकपरम्परया शास्त्रतात्पर्यमेव स्वाभ्युपगतार्थानुकूलत्वेन प्रतिसंधायेति न तेऽभिनिवेशिनः । गोष्ठामाहिलादयस्तु शास्त्रतात्पर्यबाधं प्रतिसंधायैवान्यथा श्रद्धत्ते इति न दोषः । परविषयोन्मूलने मोहाः — मुह्यन्तीति मोहा मिथ्याप्रत्ययाः, परविषयस्यापि सत्यत्वेनोन्मूलयितुमशक्यत्वात् तदभावे स्वविषयस्याप्यव्यवस्थितेः, मतश्च परविषयस्याभावे स्वविषयस्याप्यसत्त्वात् तत्प्रत्ययस्य मिथ्यात्वम् । एवं तद्व्यतिरिक्तप्रा हकप्रमाणस्य चाभावात् तस्मात्तानेव नयान् पुनः शब्दस्यावधारणार्थत्वात् । नेति प्रतिषेधो विभजनक्रियायाः । दृष्टः समयः सिद्धान्तवाच्यमनैकान्तात्मकं वस्तुतत्त्वं येन पुंमा स तथा सन् विभजते सत्येतरतया, स्वतरविषयमवधारयमाणोऽपि तथा तन्न विभजते, अपि त्वितरनयविषयसव्यपेक्षमेव स्वनयाभिप्रेतं विषयं सत्यमेवावधारयतीति यावत् । ] सम्यग्दृष्टर्जीव उपदिष्टं प्रवचनं तु श्रद्धत्ते । श्रद्धत्ते असद्भावमनाभोगाद् गुरुनियोगाद्वा ॥ Page #35 -------------------------------------------------------------------------- ________________ २२ भगवचनप्रामाण्यसंशयप्रयुक्तः शास्त्रार्थसंशयः सांशयिकम् । या सर्वाणि दर्शनानि प्रमाणं कानिचिद्वा, इदं भगवद्वचनं प्रमाणं नवेत्यादि । संशयानां मिथ्यात्वप्रदेशोदयनिष्पन्नानां साधूनामपि सूक्ष्मार्थसंशयानां मिथ्यात्वभावो मा प्रासाङ्क्षीदिति भगवद्वचनप्रामाण्यसंशयप्रयुक्तत्वं विशेषणम् । ते च नैवंभूताः, किन्तु भगवद्वचनप्रामाण्यज्ञान निवर्तनीयाः, सूक्ष्मार्थादिसंशये सति " तमेव सच्च णीसंकं जं जिणेहिं पवेइयं " इत्याद्यागमोदित भगवद्वचनप्रामाण्यपुरस्कारेण तदुद्वारस्यैव साध्वाचारत्वात् । या तु शङ्का साधूनामपि स्वरसवाहितया न निवर्तते सा सांशयिक मिथ्यात्वरूपा सत्यनाचारापादिकैव । अत एव कालामोहोदयादाकर्षसिद्धिः । साक्षात्परम्परया च तत्त्वाप्रतिपत्तिरनाभोगम् । यथैकेन्द्रियादीनां तत्त्वातत्त्वानध्यवसायवतां मुग्धलोकानां च । यद्यपि माषतुषादिकल्पानां साधूनामपि साक्षात्तत्त्वाप्रतिपत्तिरस्ति, तथाऽपि तेषां गीतार्थनिश्रितत्वात्तद्गततत्त्वप्रतिपत्तिः परम्परया तेष्वपि सत्त्वान्न तत्रातिव्याप्तिः । तच्चाप्रतिपत्तिश्चात्र संशयनिश्चयसाधारणतत्त्वज्ञान सामान्याभाव इति न सांशयिकेऽतिव्याप्तिरिति दिकू । एतच्च पञ्चप्रकारमपि मिथ्यात्वं भव्यानां भवति । अभव्यानां त्वाभिग्रहिकमनाभोगो वेति द्वे एव मिथ्यात्वे स्याताम्, न त्वनाभिग्रहिकादीनि त्रीणि; अनाभिग्रहिकस्य विच्छिन्नपक्षपाततया मलाल्पतानिमित्तकत्वाद्, आभिनिवेशिकस्य व्यापन्नदर्शननियतत्वाद्, सांशयिकस्य च सकम्पप्रवृत्तिनिबन्धनत्वाद् अभव्यानां च बाधितार्थे निष्कम्पमेव प्रवृत्तेः; अत एव भव्याभव्यत्वशङ्काऽपि तेषां निषिद्धा । तदुक्तमाचारटीकायाम् – “ अभव्यस्य भव्याभव्यत्वशङ्काया अभावाद् इति ॥ ८ ॥ 19 नन्वभव्यानामन्तस्तत्त्व शून्यानामनाभोगः सार्वदिको भवतु, आभिग्रहिकं तु कथं स्याद् ? इति भ्रान्तस्याशङ्कामपाकर्तुमाभिग्रहिकभेदानुपदर्शयति १ तदेव सत्यं निःशङ्कं यजिनैः प्रवेदितम् । Page #36 -------------------------------------------------------------------------- ________________ णत्थि ण णिचो ण कुणइ कयं ण वेइए णस्थि णिवाणं । णत्थि मोक्खोवाओ आभिम्महिअस्स छ विअप्पा ॥९॥ णस्थित्ति । १ नास्त्येवात्मा, २ न नित्य आत्मा, ३ न कर्ता, ४ कृतं न वेदयति, ५ नास्ति निर्वाणम् , ६ नास्ति मोक्षोपाय इत्याभिग्रहिकस्य चार्वाकादिदर्शनप्रवर्तकस्य परपक्षनिराकरणप्रवृत्तद्रव्यानुयोगसारसंमत्यादिग्रन्थप्रसिद्धाः पड् विकल्पाः, ते च सदानास्तिक्यमयानामभव्यानां व्यक्ता एवेति कस्तेषामाभिग्रहिकसत्त्वे संशय इति भावः। । इत्थं च" लाईअमिच्छतं पुण सरूवभेएण हुज चउभे । अभिगहिअमणभिगहिअं संसइअं तह अणाभोगं ॥ तत्थवि जमणाभोगं अन्वत्तं सेसगाणि वत्ताणि । । चत्तारिवि जं णियमा संत्रीणं हुंति भव्वाणं ॥" इति नवीनकल्पनां कुर्वन् अभव्यानां व्यक्तं मिथ्यात्वं न भवत्येवेति वदन् पर्यनुयोज्यः । ननु भोः कथमभव्यानां व्यक्तमिथ्यात्वं न भवति ? , नास्त्यात्मेत्यादिमिथ्यात्वविकल्पा हि व्यक्ता एव तेषां श्रयन्ते । तथा "अभव्याश्रितमिथ्यात्वेऽनाद्यन्ता स्थितिर्भवेद् । ___सा भव्याश्रितमिथ्यात्वेऽनादिसान्ता पुनर्मता । - अभव्यानाश्रित्य मिथ्यात्वे-सामान्येन व्यक्ताव्यक्तमिथ्यात्वविषयेऽनाद्यन्ता स्थितिर्भवति । तथा सैव स्थितिव्यजीवान्पुनराश्रित्यानादिसान्ता मता । यदाह-- "मिच्छत्तमभव्याणं तमणाइमणंतयं मुणेयव्यं । भव्वाणं तु अणाइसपञ्जवसियं तु सम्मत्ते ॥" नास्ति न नित्यो न करोति कृतं न वेदयति नास्ति निर्वाणं । नास्ति मोक्षोपाय आभिग्रहिकस्य पड् विकल्पाः ॥ लौकिकमिथ्यात्वं पुनः स्वरूपभेदेन भवेचतुर्भेदम् । आभिग्रहिकमनाभिग्रहिकं सांशयिक तथाऽनाभोगम् ॥ तत्रापि यदनाभोगमव्यक्तं शेषकाणि व्यक्तानि । चत्वार्यपि यन्नियमात् संशिनां भवन्ति भव्यानाम् ॥ मिथ्यात्वमभव्यानां तदनाद्यनन्तकं ज्ञातव्यम् । भव्यानां त्वनादिसपर्यवसितं तु सम्यक्त्वे ॥ Page #37 -------------------------------------------------------------------------- ________________ इति गुणस्थानकक्रमारोह सूत्रवृत्यनुसारेणाभव्यानां व्यक्तमपि मिथ्यात्वं भवतीत्यापातशाऽपि व्यक्तमेव प्रतीयते । अपि च पालकसंगमकादीनां प्रयचनाहत्प्रत्यनीकानामुदीर्णव्यक्ततरमिथ्यात्वमोहनीयोदयानामेव समुद्भूता नानाविधाः कुविकल्पाः श्रूयन्ते । किं च-मोक्षकारणे धर्मे एकान्तभवकारणत्वेनाधर्मश्रद्धानरूपं मिथ्यात्वमपि तेषां लब्ध्याचथं गृहीतप्रव्रज्यानां व्यक्तमेव । यत्पुनरुच्यते-तेषां कदाचिस्कुलाचारवशेन व्यवहारतो व्यक्तमिथ्यात्वे सम्यक्त्वे वा सत्यपि निश्चयतः सर्वकालमनाभोगमिथ्यात्वमेव भवतीति । तदाभिनिवेशविजम्मितम् , शुद्धयप्रतिपत्त्यभावापेक्षया निश्चयेनानाभोगाभ्युपगमे आभिग्रहिकादिस्थलेऽपि तत्प्रसङ्गाद, बहिरन्तर्व्यक्ताव्यक्तोपयोगद्या. भ्युपगमस्य चापसिद्धान्तकलङ्कदूषितत्वाद् । ___ अथ यदेकपुद्गलावशेषसंसारस्य क्रियावादित्वाभिव्यञ्जकं धर्मधिया क्रियारुचिनिमित्तं तन्मिथ्यात्वं व्यक्तम् । यदुक्तम्" तेसुवि एगो पुग्गलपरिअहो असिं हुज संसारी । तहभव्यत्ता तेसि केसिंचि होइ किरियरुई ॥ तीए किरियाकरणं लिंगं पुण होइ धम्मबुद्धीए । किरियारुईणिमित्तं जं वुत्तं बत्तमिच्छति ॥" .तोऽन्यच्चाव्यक्तं मिथ्यात्वम् । न चाभव्यस्य कदाप्येकपुद्गलपरायविशेषः संसार इति सदैव तस्याव्यक्तं मिथ्यात्वमवस्थितमिति चेद्, मैवम् , एवं सति चरमपुद्गलपरावर्तातिरिक्तपुद्गलपरावर्तवर्तिनां भव्यानामप्यव्यक्तानाभोगमिथ्यात्वव्यवस्थितावाभिमहिकमिथ्यात्वो. च्छेदप्रसङ्गात् । किं च-एवमनाभोगमिथ्यात्वे वर्तमाना जीषा न मार्गगामिनो नवोन्मार्गगामिनो भवन्ति, अनाभोगमिथ्यात्वस्यानादिमत्वेन सर्वेषामपि जीवानां निजगृहकल्पस्वाद । लोकोऽपि निजगृहे भूयःकालं तेष्वपि एको पुबलपरावर्तो येषां भवेत्संसार । तथाभब्यता तेषां केषांचिद् भवेनियाचिः ॥ तया क्रियाकरणं लिङ्ग पुनर्भवति धर्मबुद्धया। कियारुचिनिमितं यदुक्तं व्यक्त मिथ्यात्यमिति ॥ Page #38 -------------------------------------------------------------------------- ________________ २५ वसन्नपि न मार्गगामी न वोन्मार्गगामीति व्यपदिश्यते, किन्तु गृहान्निर्गतः समीहितनगराभिमुखं गच्छन् मार्गगामी, अन्यथा तृन्मार्गगामीति व्यपदिश्यते । एवं तथा भव्यत्वयोगेनानादिमिथ्यात्वान्निर्गतो यदि जैनमार्गमाश्रयते तदा मार्गगामी, जैनमार्गस्यैव मोक्षमार्गत्वाद् । यदि च शाक्यादिदर्शनं जमाल्यादिदर्शनं वाऽऽश्रयते तदोन्मार्गगामीति व्यपदिश्यते, तदीयदर्शनस्य संसारमार्गत्वेन मोक्षं प्रत्युन्मार्गभूतत्वादिति स्वकल्पितप्रक्रियापेक्षयाऽचरमपुद्गल परावर्तवर्तिनः शाक्यादयोऽपि नोन्मार्गगामिनो स्युरिति, “कुप्पवयणपासंडी सव्वे उम्मग्गपडिया" इत्यादि प्रवचनविरोधः । किं च एवं धर्मधिया विरुद्धक्रियाकरणादुन्मार्गगामित्वं यथा व्यक्त मिथ्यात्वोपष्टम्भाच्चरमपुद्गलपरावर्त एव तथा धर्मधिया हिंसाकरणाद्धिंसकत्वमपि तदैवेत्यचरमपुद्गलपरावर्तेषु हिंसकत्वादिकमपि न स्यादिति सर्वत्र त्रैराशिकमतानुसरणे जैनप्रक्रियामा मूलत एव विलोपपत्तेर्महदसमञ्जसम् । तस्माद्भव्यानामपि दूरभव्यानामिव योग्यतानुसारेणाभिग्रहिकव्यक्त मिथ्यात्वोपगमे न दोष इति मन्तव्यम् । अथाभव्या अव्यक्तमिथ्यात्ववन्तः, अव्यवहारित्वात् संप्रतिपन्न निगोदजीववद् - इत्यनुमानात्तेषामव्यक्तमिथ्यात्वसिद्धिः । अव्यवहारित्वं च तेषामनन्तपुद्गलपरावर्तकालस्थायित्वात् सिध्यति । व्यावहारिकाणामुत्कृष्टसंसारस्यावलिका संख्येय भागपुद्गल परावर्तमानत्वात् । तदुतं कायस्थितिस्तोत्रे “ अव्वहारियमज्झे भमिऊण अनंतपुरगलपरहे । sa aani संपत्ती नाह तत्थवि य ॥ उक्कोसं तिरियगई - असण्णि- एगिंदि-वण- पुंसेसु । भमिओ आवलिअअसंखभागसमय पुग्मलपरट्टे ।। अव्यवहारिकमध्ये भ्रान्त्वाऽनन्तपुद्गलपरावर्तान् । कथमपि व्यवहारराशि संप्राप्तो नाथ ! तत्रापि च ॥ उत्कृष्टं तिर्यग्गत्यसंश्ये केन्द्रिय-वण- नपुंसकेषु । भ्रान्त आवलिकाऽसंख्य भाग समय पुल परावर्तान् ॥ Page #39 -------------------------------------------------------------------------- ________________ २६ अत एवोत्कृष्ट बनस्पतिकोऽपि प्रवचने व्यावहारिकापेक्ष योक्तः । तथाहि " वेण सइकाइआये पुच्छा, जो उसे अनंतं कालंअनंता उस्सप्पिणिओसपिपीओ कालओ, सितओ अनंत दोषा असंखेज्जा पुलपरिअड्डा " इति | इदमेव चाभिनेत्यास्माभिरुक्तम् 66 हारीणं णियमा संसारो जेर्सि हुज्ज उमोसो । तेसिं आवलिअअसंखभागसमपोगलर रहा || " इत्यस्मन्मतम दुष्टमिति चेत् । नायमप्येकान्तः, अनन्तपुद्गलपरावर्तकालस्थापित्वेनाव्यवहारित्वासिद्धेः, । व्यावहारिकाणामप्यावलिकाऽसंख्येयभाग पुलपरावर्तान्तरित भूयो भवभ्रमणेनानन्तपुद्गलपरावतीष-स्थानस्यापि संभवात् । तदुक्तं संग्रहणीवृत्तौ - “ एते च निगोदे वर्तमाना जीवा द्विधा - सांव्यवहारिका असांव्यवहारिकाश्च । तत्र ये सांव्यवहारि - कास्ते निगोदेभ्य उद्धृत्य शेषजीवराशिमध्ये समुत्पद्यन्ते, तेभ्य उद्वृत्य केचिद् भूयोऽपि निगोदमध्ये समागच्छन्ति, तत्राप्युत्कर्वत आवलिकाऽसंख्येयभागगतसमयप्रमाणान् पुद्गलपरावर्तान् स्थित्वा भूयोऽपि शेषजीवेषु समागच्छन्ति, एवं भूयो भूयः सन्धिवहारिकजीवा गत्यागतीः कुर्वन्तीति " । यत्पुनरत्र भूयो भूयः परिभ्रमणेऽप्युक्तासंख्येयपुलपरावर्तानतिक्रम एवं आवलिका संख्ये भाग पुद्गलपरावर्तानामसंख्यात गुणानामप्यसंख्यातत्वमेवेति प्रतीती कुतः भूयो भूयः शब्दाभ्यामानन्त्यकल्पनाया गन्धोऽपि तेन भूयो भूयः परिभ्रमणेऽप्यसंख्यातत्वं तदवस्थमेव । अतस्तावता कालेन व्यावहारिकाणां सर्वेषामपि सिद्धिर्भणितेति परेण स्वमतं समाहितम्, तदपि नैकान्तरमणीयम् । एवं “ विकलेन्द्रियैकेन्द्रियेषु गतागतैरनन्तान् पुद्गलपरावर्तान् निरुद्धोऽतिदुःखितः " इत्यादिना “ अन्यदा च कथमपि नीतोऽसावार्य - देशोद्भवमातङ्गेषु तेभ्योऽप्यभक्ष्यभक्षणादिभिर्नरकपातादिक्रमेण रसगृद्धयकार्य १ वनस्पतिकायिकानां प्रश्नः, जघन्येन अन्तर्मुहूर्तमुत्कृष्टेनानन्तं कालम् - अनन्ता उत्सर्पिण्यवसर्पिण्यः कालतः, क्षेत्रत अनन्ता लोका असंख्येया पुरुपरिवर्त्ताः । इति । arraaारिकाणां नियमात्संसारो येषां भवेदुत्कृष्टः । तेषामावलिका संख्यभागसमपुङ्गलपरावर्ताः ॥ २ Page #40 -------------------------------------------------------------------------- ________________ २७ भ्याली याच्य विधृतोऽनन्तंपुद्गलपरावर्तान्" इत्यादिना महता ग्रन्थेन भुवनभातुकेवलिचारेवादी व्यावहारिकत्वमुपेयुवोऽपि संगारेजीवस्य विचिनवान्तरिततपाऽनन्तपुद्गलपरावर्तभ्रमणस्य निगदादू स्वात् । तथ योगविन्दुसुत्रवृत्तावपि नरनारकादिभावेनानादौ संसार नपुङ्गपरावर्त गणस्वाभाव्यमुक्तम् । तथाहि 46 'अनादिरेव संसारो नानागतिसमाश्रयः । पुलानां परावर्ता अत्रानन्तास्तथा मताः ॥ अनादिरविद्यमानमूलारम्भ एप प्रत्यक्षतो मानः संसारों भवः कीदृशः ? इत्याह-- नानागतिसमाश्रयः -- नरनार का दिविचित्रपर्यावपात्रं वर्तते । ततश्र: पुद्गलानामौदारिकादिर्गगारूपाणां सर्वेषां परावर्ता ग्रहणमोक्षात्मका अत्र संसारे नन्ववारस्वभावाः, तथा तेन - - समयप्रसिद्धप्रकारेण गताः अतीताः । केषाम् 2 इत्याह सर्वेषामेव सवानां तत्स्वाभाव्यनियोगतः । यथा संविदे तेषां सूक्ष्मबुद्धया विभाव्यताम् ॥ सर्वेषामेव सत्त्वानां प्राणिनां तत्स्वाभाव्यम् - अनन्तपुद्गलपरावर्तपरिभ्रमणस्वभावता तस्य नियोगो व्यापारस्तस्माद् । अत्रैव व्यतिरेकगाह-न नैव अन्यथा-. तत्स्वाभाव्यनियोगमन्तरेण संविद् अवबोधो घटते । एतेषामनन्तपुद्गलपरावर्तान सूक्ष्मबुद्धया निपुणाभोगेन विभाव्यताम् - अनुविचिन्त्यतामेतद् । इति व्यावहारिकत्तेऽप्यनन्तपुद्गल परावर्तभ्रमणसंभवात् तेनाभव्यानामव्यावहारिकत्वसाधनमसंगत मिति द्रष्टव्यम् ॥ , ननु प्रज्ञापन व्यावहारिकाणामुत्कर्षतोऽप्यावलिकाऽसंख्येयभागपुद्गलपरावर्तस्थितिः, तत ऊर्ध्वं चावश्यं सिद्धिरिति स्फुटं प्रतीयते । तथा च तद्ग्रन्थः- —— 64 ननु यदि वनस्पतिकालप्रमाणमसंख्येयाः पुद् - गलपरावर्तास्ततो यद्मीयते सिद्धान्ते "मरुदेवीजीको यावजीवभावं वनस्पतिरासीद्” इति तत्कथं स्यात् ? कथं वा वनस्पतीनामनादित्वम् , प्रतिनियतका लमाणतया वनस्पतिभावस्यानादित्वविरोधात् । तथाहि असंख्येयाः पुद्गलपरावर्तास्तेषामेव स्थानमानम्, तत एतावति कालेऽतिक्रान्ते नियमात्सर्वेऽपि कायपरावर्त कुर्वते, यथा स्वस्थितिकाले सुरादयः । उक्तं च Page #41 -------------------------------------------------------------------------- ________________ २८ is पुग्गलपरिअट्टा संखाइआ वणसई कालो । तो असहजीवी कह नाम मरुदेवी ? || हुज व वणस्सईणं अणाइअन्तमत एव हेऊओ । जमसंखेज्जा पोग्गलपरिअड्डा तत्थवत्थाणं ॥ ardhari तम्हा कुव्वंति कायपलट्टे । सव्वेवि वणस्सइणो ठिइकालंते जह सुराई || किंच - एवं यद्वनस्पतीनां निर्लेपनमागमे प्रतिषिद्धम्, तद्पीदानीं प्रसक्तं कथम् ? इति चेद् । उच्यते - इह प्रतिसमयमसंख्येया वनस्पतिभ्यो जीवा उद्वर्तन्ते, वनस्पतीनां च कायपरिमाणमसंख्येयाः पुद्गलपरावतः, ततो यावन्तोऽसंख्येयेषु पुद्गलपरावर्तेषु समयास्तैरभ्यस्ता एकसमयोद्वृत्ता जीवा यावन्तो भवन्ति तावत्परिमाणमागतं वनस्पतीनाम् । ततः प्रतिनियतपरिमाणतया सिद्धं निर्लेपनम्, प्रतिनियतपरिमाणत्वाद्, एवं गच्छता कालेन सिद्धिरपि सर्वेषां भव्यानां प्रसक्ता, तत्प्रसक्तौ च मोक्षपथव्यवच्छेदोऽपि प्रसक्तः, सर्वभव्यसिद्धिगमनानन्तरमन्यस्य सिद्धिगमनायोगात् । आह च कोयलिई कालेणं तेसिमसंखिज्जयावहारेणं । freemaraण्णं सिद्धीवि य सव्वभव्वाणं || पहसमयमसंखिज्जा जेणुव्वट्टेति तो तदब्भत्था | काटिए समया वणसईणं परिमाणं ॥ " 44 यदि पुद्गलपरावर्ताः संख्यातिता वनस्पतिकालः । ततोऽत्यन्तवनस्पतिजीवाः कथं नाम मरुदेवी ? ॥ भवेद्वा वनस्पतीनामनाद्यन्तमत एव हेतोः । यदसंख्येया पुद्गलपरावर्तास्तत्रावस्थानम् ॥ कालेनैतावता तस्मात्कुर्वन्ति काय पर्यस्तम् । सर्वेऽपि वनस्पतयः स्थितिकालान्ते यथा सुरादिः । कायस्थितिः कालेन तेषामसंख्येयताऽपहारेण । निर्लेपनमापनं सिद्धिरपि च सर्वभव्यानाम् ॥ प्रति समयमसंख्येया येनोद्वर्तन्ते ततस्तदभ्यस्ता । कायस्थित्या समया वनस्पतीनां परिमाणम् ॥ Page #42 -------------------------------------------------------------------------- ________________ न चैतदस्ति, वनस्पतीनामनादित्वस्य निर्लेपनप्रतिषेधस्य सर्वभव्यासिद्धेर्मोक्षपथाव्यवच्छेदस्य च तत्र तत्र प्रदेशे सिद्धान्तेऽभिधानात् । उच्यते - इह द्विविधा जीवाः - सांव्यवहारिका असांव्यवहारिकाश्च । तत्र ये निगोदावस्थात उद्वृत्त्य पृथिवीकायिकादिभवेषु वर्तन्ते से लोकेषु दृष्टिपथमागताः सन्तः पृथिवीकायिकादिव्यवहारमनुपतन्तीति सांव्यवहारिका उच्यन्ते । ते च यद्यपि भूयोऽपि निगोदावस्थामुपयान्ति तथाऽपि ते सांव्यवहारिका एव, संव्यवहारपतितत्वात् । ये पुनरनादिकालादारभ्य निगोदावस्थामुपगता एवावतिष्ठन्ते ते व्यवहारपथातीतस्वादसांव्यवहारिकाः । कथमेतदवसीयते ? । द्विविधा जीवा : - सांव्यवहारिका असांव्यवहारिकाश्चेति उच्यते युक्तिवशात् । इह प्रत्युपन्नवनस्पतीनामपि निर्लेपनमागमे प्रतिषिद्धम्, किं पुनः सकलवनस्पतीनां तथाभव्यानामपि । तच्च यद्यसांव्यवहारिकराशिनिपतिता अत्यन्त - वनस्पतयो न स्युस्ततः कथमुपपद्येत । तस्मादवसीयते-अस्त्वसांव्यवहारिकराशिरिति, यद्गतानां वनस्पतीनामनादिता । किं च - इयमपि गाथा गुरूपदेशादागता समये प्रसिद्धा " अत्थि अनंता जीवा जेहिं ण पत्तो तसाइपरिणामो । व ताणता णिगोअवासं अणुहवंति || " तत इतोऽप्यसांव्यवहारिकराशिसिद्धिः । उक्तं च 44 र्णय पच्चपन्नवणसईणं णिल्लेवणं न भव्वाणं । जुस होइ ण तं बइ अचंतवणस्सई नत्थि ।। एवं चाणाइवणस्सईणमत्थित्तमत्थओ सिद्धं । tors इमावि गाहा गुरूवएसागया समए ॥ " अस्थि अनंता जीवा' इत्यादि १८ पदे ॥ ". सन्त्यनन्ता जीवा यैर्न प्राप्तः त्रसादिपरिणामः । तेऽप्यनन्तानन्ता निगोंदवासमनुभवन्ति ॥ न च प्रत्युत्पन्नवनस्पतीनां निर्लेपनं न भव्यानाम् । युक्तं भवति तद् यदि अत्यन्तवनस्पतिर्नास्ति ॥ एवं चानादिवनस्पतीनामस्तित्वमर्थतः सिद्धम् । भण्यते इयमपि गाथा गुरूपदेशागता समये ॥ Page #43 -------------------------------------------------------------------------- ________________ ततोऽभव्या अव्यावहारिका एव, अन्यथाऽसंख्येयपुद्गलपरावर्तकालातिक्रमे तेषां सिद्धिगमनस्याव्यवहारित्वभवनस्य वा प्रसङ्गाद् । अत एव चादरनिगोदजीवा अप्यव्यावहारिकराशावभ्युपगन्तव्याः, अन्यथा बादरनिगोदजीयेभ्यः सिद्धानानन्तगुणत्वप्रसङ्गात् । यावन्तो हि सांव्यवहारिकाशितः सिध्यन्ति, तावन्त एव जीवा असांव्यवहारिकराशेर्विनिर्गत्य सांव्यवहारिकराशावागच्छन्ति । यत उक्तम् "सिझंति जत्तिया किर इह संववहारजीवरासीओ। - इंति अणाइवणस्सइमझाओ तत्तिया चेव ॥” इति । .. एवं च व्यवहारराशितः सिद्धा अनन्तगुणा एवोक्ताः । तत्र यदि षादरनिगोदजीवानां व्यावहारिकत्वं भवति, तर्हि बादरनिगोदजीवेभ्यः सिद्धा अनन्तगुणाः संपोरन् , सन्ति च सिद्धेभ्यो यादरनिगादजीवा अनन्तगुणाः; तेभ्यः सूक्ष्मजीवा असंख्येयगुणाः। यदागमः. “एएसिं णं भंते ! जीवाणं सुहुमाणं पायराणं योसुहुमाणं णोबायराणं कयरेकयरेहितो अप्पा वा, बहुआ वा, तुल्ला वा, विसेसाहिआ वा । गोयमा ! सन्चयोवा जीवा जोसुहुमा णोबायरा, बायरा अपंतगुणा, सुहुमा असंखेजगुणा" इति । एतवृत्तिर्यथा-"एएसि णं भंते ! जीवाणं सुहुमाणमित्यादि । सर्वस्तोका जीवा जोसुहुमा णोबायरा, सिद्धा इत्यर्थः, तेषां सूक्ष्मजीवराशे_दरजीतराशेश्वानन्ततमभागकल्पत्वात् । तेभ्यो बादरा अनन्तगुणाः, बादरनिगोदजीवानां सिद्धेभ्योऽ नन्तगुणत्वात् । तेभ्यश्च सूक्ष्मा असंख्येयगुणाः, बादरनिगोदजीवेभ्यः सूक्ष्मनिगोदजीवानामसंख्येयगुणत्वाद् " इति । तत एवमागमवाधापरिहारार्थ वादरनिगोदजीवा अव्यावहारिकाः स्वीकर्तव्याः। प्रयोगश्चात्र-बादरनिगोदजीवा न व्यवहारिणः, तेषां सिद्धेभ्योऽनन्तगुणत्वात् । यथा सूक्ष्मनिगोदजीवास्तथा अनादिमन्तः १ सिध्यन्ति यावन्तः किल इह संव्यवहारजीवराशितः। यन्ति अनादिवनस्पतिमध्यात्तावन्त एव । २ एतेषां भगवन् जीवानां सूक्ष्मानां बादराणां नोसूक्ष्माणां मोबादराणां (सिखाना) कतरे कतरेभ्योऽल्पा वा बहवो वा तुल्या या विशेषाधिका वा ? । गौतम ! सर्वस्तोका जीवा नोसूक्ष्मा नोबादराः, बादरा अनन्तगुणाः, सूक्ष्मा असंख्येयगुणा इति। Page #44 -------------------------------------------------------------------------- ________________ सूक्ष्मा बादराश्च निगोदजीया अव्यवहारिण एव, अन्यथा व्यवहारित्वभवनसिद्धिगमनयोरपर्यवसितत्वानुपपत्तेः । अपर्यवसितत्वं च “सिझंति जत्तिया किर०" इत्यादिना सिद्धम् , तथा सांव्यवहारिका जीवाः सिध्यन्येव, आवलिकाऽसंख्येयभागपुद्गलपरावर्तसमयपरिमाणत्वेन परिमितत्वाद् । व्यतिरेके सिद्धा निगोदजीवाश्च दृष्टान्ततया वाच्या इति । ननु “ सर्वे जीवा व्यवहार्यव्यवहारितया द्विधा सूक्ष्माः निगोद एवान्त्याः, तेभ्योऽन्ये व्यवहारिणः।" इति योगशास्त्रवृत्तिवचनाद्धादरनिगोदजीवाना व्यवहारित्वसिद्धेः कथमव्यवहारित्वमिति चेत् । न, तत्र 'सूक्ष्मनिगोदा एवान्त्याः' इति पाठस्थापि दर्शनात् तत्र सूक्ष्माश्च निगोदाश्चतीतरेतरद्वन्द्वकरणेऽसंगतिगन्धस्याप्यभावाद् । सूक्ष्मप्रथिव्यादिजीवानां चाव्यवहारित्वं प्रज्ञापनावृत्त्यभिप्रायेण स्फुटमेव प्रतीयते, लोकदृष्टिपथमागता. नामेव पृथिव्यादिजीवानां व्यवहारित्वभणनाद् , अन्यथा 'प्रत्येकशरीरिणो व्यावहारिकाः' इत्येव वृत्तिकृदवक्ष्यत् । यच्च केवलं निगोदेभ्य उद्वृत्त्य पृथिवीकायिकादिभवेषु वर्तन्ते इत्यादि भणितम् , तत्सूक्ष्मपृथिव्यादिजीवानामसंख्येयत्वेनाल्पत्वाद् अवश्यभाविव्यवहारित्वाद्वाऽविवक्षणादिति संभाव्यते, सम्यग्निश्चयस्तु बहुश्रुतगम्य इति । एवं चासाव्यवहारिका जीवाः सूक्ष्मपृथिव्यादिषु निगोदेषु च सर्वकालं गत्यागतीः कुर्वन्तीति संपन्नम् । इत्थं च तत्र येऽनादिसूक्ष्मनिगोदेभ्य उद्धृत्त्य शेषजीवेषूत्पद्यन्ते पृथिव्यादिविविधव्यवहारयोगात्सांव्यवहारिकाः। ये पुनरनादिकालादारभ्य सूक्ष्मनिगोदेष्वेवावतिष्ठन्ते तथाविधव्यवहारातीतत्वादसांव्यवहारिका इति । प्रवचनसारोद्धारवृत्तावपि “ अनादिसूक्ष्मनिगोदजीवा अव्यवहारिणः” इत्यत्र सूक्ष्मा पृथिव्यादयश्चत्वारो निगोदाश्च यादरसाधारणवनस्पतयः, न विद्यते आदिर्येषां तेऽनादयःअप्राप्तव्यवहारराशय इत्यर्थः । तथा च सूक्ष्माश्च निगोदजीवाश्चेति द्वन्द्वः, अनादयश्च ते सूक्ष्मनिगोदजीवाश्चेति कर्मधारयः, इति समासविधिद्रष्टव्यः । सर्वत्रापि कर्मधारयकरणे बादरनिगोदजीवानां व्यवहारित्वसंपत्तायुक्तागमवाधप्रसङ्गादिति चेत् । उच्यते-एवं प्रज्ञापनावृत्त्यभिप्रायमनुसृत्याभन्यानामव्यावहारिकत्वं व्यवस्थाप्यते, ताकि व्यावहारिकलक्षणयोगादुत परिभाषान्तराश्रयणात् १ नायो लोकन्यव Page #45 -------------------------------------------------------------------------- ________________ ३२ हारविषयः, प्रत्येकशरीरवत्त्वादिस्तल्लक्षणस्याभव्येष्वपि सत्त्वादनन्त द्रव्य क्रियाग्रहणपरित्यागवतां व्यावहारिकत्वस्योपदेशपदप्रसिद्धत्वाच्च । तथा च तद्ग्रन्थः " 'जं दव्वलिंगकिरियाणंतातीया भवंमि समलाबि । सव्वेसि पाएणं ण य तत्थवि जायमेअंति ॥ " तेषामव्यावहारिकराशिविनिर्गतत्वेन 1 जमित्यादि । यद् यस्माद्रव्यलिङ्गक्रियाः पूजाद्यभिलाषेणः। व्यावृत्तमिथ्यात्वादिमोहमलतया द्रव्यलिङ्गप्रधानाः शुद्धश्रमणभावयोग्याः प्रत्युपेक्षणाप्रमार्जनादिकाश्रेष्टाः, किम् ? इत्याह- अनन्ता अनन्तनामकसंख्याविशेषानुगता व्यतिक्रान्ता भवे संसारे, सकला अपि - तथाविधसामग्रीवशात्परिपूर्णा अपि सर्वेषां भवभाजां प्रायेण अव्यावहारिकराशिगतानल्पकालतन्निर्गतांश्च मुक्त्वेत्यर्थः । ततोऽपि किम् ? इत्याह-न च - नैव तत्रापि तास्वपि सकलासु द्रव्यलिङ्गक्रियासु जातमेतद्-धर्मबीजमित्यादि ॥ 95 अथ पृथिव्यादिव्यवहारयोगेन तेषां व्यावहारिकत्वेऽप्यावलिका - संख्येयभागपुद्गलपरावर्ताधिकसंसारवत्त्वेन न व्यावहारिकत्वमिति परिभाषान्तरमाश्रीयते इति द्वितीयः पक्षः परिगृह्यते इति चेत्, परिगृह्यतां यदि बहुश्रुताः प्रमाणयन्ति, नैवमस्माकं काऽपि क्षतिः, मुख्यव्यावहारिकलक्षणपरित्यागेन तेषामव्यक्तमिध्यात्वनियमाभ्युपगमादिविरुद्धप्रक्रियाया असिद्धेः । नहि परिभाषा वस्तुस्वरूपं त्याजयतीति । एतेन बादरनिगोदजीवानां व्यावहारिकत्वनिषेधोऽपि प्रत्युक्तः, परिभाषामात्रेण लक्षणसिद्धस्य व्यावहारिकत्वस्य निषेद्धमशक्यत्वात् | पृथिव्यादिविविधव्यवहार योगित्वलक्षणस्य तस्य प्राप्तसूक्ष्मनिगोदेतरत्वपर्यवसितस्यानुगतस्यानादिसुक्ष्मनिगोदेतरसर्वजीववृत्तित्वात्। चक्षुग्रह्यशरीरत्वरूपलक्षणं न तु लक्षणमित्यावयोः समानम्, अन्यथाऽस्माकं सूक्ष्मपृथिवीकायिकादिष्वव्याप्तेरिवं तवं मते बादरनिगोदेऽतिव्याप्तेरपि प्रसङ्गात् । किं च - प्रज्ञापनावृत्त्यभिप्रायेणापि बादरनिगोदजीवानां व्यवहारित्वमेव प्रतीयते । ये पुनरनादिकालादारभ्यनिगोदा यद्द्रव्यलिङ्गक्रिया अनन्ताऽतीता भवे सकलाऽपि • सर्वेषां प्रायेण न च तत्रापि जातमेतदिति ॥ Page #46 -------------------------------------------------------------------------- ________________ ३ ३ यस्थामुपगता एवावतिष्ठन्ते ने व्यवहारपथातीतत्वादसांव्यवहारिकाः इति वचनादनादिवनस्पतीनामेवाव्यावहारिकत्याभिधानात् । तत्रे सूत्रं सांव्यवहारिकामधिकृत्यावसेयम् , न चासांव्यवहारिकाल् , विशेष विषयत्वारसूत्रस्य । न चैतत्स्वमनिषिकाविजृम्भितम् । यत आहुर्जिन भद्रगणिक्षमाश्रमणपूज्यपादाः___ " तह कायठिईकालादऔधि सेसे पडुच किर जीवे । नाणाइवणस्सइणो ये संयवहारबाहिरिया ॥" अनादिशब्दात्सर्वैरपि जी: श्रुतमनन्लशः स्पृष्टमित्यादि । यदस्थामेव प्रज्ञापनायामेव वक्ष्यते, प्रागुक्तं च तत्परिग्रहस्ततो न कश्चिद्दोष इति, अग्रे व्यक्तमेव अनादिवनस्पत्यनिरिक्तानां व्यावहारिकत्वाभिधानाच । अनादिवनस्पतय इति सूक्ष्मनिगोदानामेवाभिधानम् , न तु बादरनिगोदानामिति अथान्तरेऽप्ययभेयाभिप्रायो ज्ञायते । उक्तं चलघूपमितभवप्रपञ्चग्रन्थे श्रीचन्द्रमूरिशिष्यश्रीदेवचन्द्रम्हरिभिः " अस्त्यत्र लोके विख्यातमनन्तजनसंकुलम् । यथार्थनामकमसंव्यवहाराभिधं पुरम् ।। ६७ ॥ तत्रानादिवनस्पतिनामानः कुलपुत्रकाः 1. बेसन्ति तत्र कमपरिणाममहीभुजा ॥ ६८॥ नियुक्तौ तीवमोहोदयात्यन्तावोधनामको। महत्तमवलाध्यक्षौ तिष्ठतः स्थायिनी सदा ॥ ६९ ॥ युग्मय नाभ्यां कमेपरिणाममहाराजम्य शासनान । निगोदाख्यापवरकन्यसंख्येयेषु दिवाऽनिशम् ॥ ७० ।। क्षिप्त्वा संपिण्ड्य धायन्ते सर्चऽपि कुलपुत्रकाः। ...... प्रसुप्तवन्मूर्छितवन्मनवम्मृतवच ते ॥ ७१ ॥ युग्म....... ते स्पष्टचेष्टाचैतन्यभाषादिगुणवर्जिताः । . . छेदभेदप्रतीघातदाहादीनाप्नुवन्ति च ॥ ७२ ॥ ... अपरस्थानगमनप्रमुखो नापि कश्चन। . क्रियतेऽन्योऽपि तैर्लोकव्यवहारः कदाचन ॥ ७३ ॥ तथा कायस्थितिकालादयोऽपि शेषान् प्रतीत्य शिल जीवान् । जानादिक्नस्पतये थे संव्यवहारबाहाः ॥ . . . . . . . Page #47 -------------------------------------------------------------------------- ________________ संसारिजीवसंज्ञेन वास्तव्येन कुटुंबिना। कालो निर्गमितः पूर्व तत्रानन्तो मयापि हि ॥ ७४ ॥ सथा अत्रैव कियदन्तरे तत्रैकाक्षनिवासाख्ये नगरे प्रथमं खलु । अमीभिरस्ति गन्तव्यमर्थनं युवयोश्च तत् ॥ २६ ॥ ताभ्यामपि तथेत्युक्ते ते सर्वे तत्पुरं ययुः। तस्मिश्च नगरे सन्ति महान्तः पञ्च पाटकाः॥ २७ ॥ एकं पाटकमङ्गुल्या दर्शयन्नग्रतः स्थितम् । मामेवमथ तत्त्वंपि (?) तीव्रमोहोदयोऽब्रवीत् ॥ २८ ॥ त्वमत्र पाटके तिष्ठ भद्र ! विश्वस्तमानसः । पाश्चात्यपुरतुल्यत्वाद् भाव्येष धृतिदस्तव ॥ २९ ॥ यथा हि तत्र प्रासादगर्भागारस्थिताः जनाः ।। सन्त्यनन्ता पिण्डिताङ्गास्तथैवात्रापि पाटके ॥ ३० ॥ वर्तन्ते किन्तु ते लोकव्यवहारपराङ्मुखाः। मंनिर्षिभिः समानातास्तेनासांव्यवहारिकाः ॥ ३१ ॥ गमागमादिकं लोकव्यवहारममी पुनः । कुर्वन्ति सर्वदा तेन प्रोक्ताः सांव्यवहारिकाः ॥३२॥ अनादिवनस्पतम इति तेषां समाभिधा। ... एषां तु वनस्पतय इति भेदयथापरः ॥ ३३॥". पद्धोपमितभवप्रपञ्चग्रन्थेऽप्येवमेवोक्तमस्ति । तथाहि- .. " अस्तीह लोके आकालप्रविष्ठमनन्तजनसंकुलमसंव्यवहारं नाम नगरम् । उपस्मिनगरेऽनादिवनस्पतिनामानः कुलपुत्रकाःप्रतिवसन्ति इत्यादि Ixxx न भवितव्यतया महत्तराबलाधिकृतौ-यदुत मया युवाभ्यां चामीभिः यातव्यम् । यतो भदेवतानारीति न मोक्तव्यो मया संसारी जीवः । बास्ति युवयोरपि प्रविजागरणीयमेकाक्षनिवासं नाम नगरम् । तत्रामीभिर्लोकैः प्रश्न गन्तव्यम् । ततो युज्यते युवाभ्यां सह चामीषां तत्रासितुं नान्यथा । ततो यद्भवती जाबातीत्यभिषाय प्रतिपत्रं तद्वचनम् । महत्तमबलाधिकृताभ्यां प्रवृत्ताः सर्वेऽपि समागतास्तदेकाक्षनिवासं नगरम् । तत्र नगरे महान्तः पञ्च पाटका Page #48 -------------------------------------------------------------------------- ________________ विद्यन्ते । ततोऽहमेकं पाटकं कराग्रेण दर्शयता तीबमोहोदयेनाभिहित:-भद्र संसारिजीव तिष्ठ त्वमत्र पाटके। यतोऽयं पाटकोऽसंव्यवहारनगरेण बहुतरं तुल्यो वर्तते । ततो भविष्यत्यत्र तिष्ठतो धृतिरित्यादि । xxxx ततोऽहं यदा वास व्यवहारनगरेऽभूवम् , तदा मम जीर्णायां जीर्णायामपरां गुटिका दसवती, रेलं सूक्ष्ममेव मे रूपमेकाकारं सर्वदा तत्प्रयोगेण विहितवती । तत्र पुनरेकाधनिया - नगरे समागता तीव्रमोहात्यन्तबोधयोः कुतूहलमिव दर्शयन्ती तेन गुटिकाप्रयोग, ममानेकाकारं स्वरूप प्रकटयति. स्मेत्यादि । ".. समयसारसूत्रवृत्त्योरण्युक्तम् "अहवा संववहारिया य असंववहारिया यः।" अथवेति दैविध्यस्यैव प्रकारान्तरोहयोतनें । एतदेव स्पष्टयन्नाह नेत्थ जे अणाइकालाओ आरब्भ सुहुमणिगोरसु चिठंति न कयाइ तसार मावं पत्ता ते असंववहारिया । जे पुण, सुहुमणिगोएहितो निग्गया सेंसजीवेश उप्पना ते संववहारिआ। ते अ पुणोंविं सुहुमणिगोअपत्तावि संबंवहारिअघिय भण्णंति ॥" इदमत्र हृययम्-सर्वसंसारिणां प्रथममनादिकालादारभ्य सूक्ष्मनिगोदेष्वेवावस्थानम् , तेभ्यश्च निर्गता शेषजीवेणूत्पन्नाः पृथिव्यादि. व्यवहारयोगात्सांव्यवहारिकाः। ते च यद्यपि कदाचिद् भूयोऽपि तेष्वेव निगोदेषु गच्छन्ति, परं तत्रापि सांव्यवहारिका. एव, व्यवहारपतितत्वात् । ये तु:न कदाचित्तेभ्यो निर्गता "अस्थि अणंता जीवा जेहिं ण पत्तों तसाइ परिणामो । तेवि अणंताणता. णिगोअवासं अणुहवंति ॥"१ अथवा सांव्यवहारिकाश्चासांव्यवहारिकाश्च ॥ २ तत्र ये अनादिकालादारभ्य सूक्ष्मनिगोदेषु तिष्ठन्ति, न कदाचिद् प्रसादि. भावं प्राप्ता ते असांव्यवहारिकाः । ये पुनः सूक्ष्मनिगोदेभ्यो निर्गता शेषजीवेष. त्पन्नास्ते सांव्यवहारिकाः । ते च पुनरपि सूक्ष्मनिगोदप्राप्ता.अपि. सांव्यवहारिकार एव भण्यन्ते। सन्त्यनन्ता जीवा यैर्नप्राप्तासादिपरिणामः । ...... तेऽप्यनन्ताम्ता निगोदवासमनुभवन्ति ॥ .. . ....... Page #49 -------------------------------------------------------------------------- ________________ ३६ इति वचनात्तत्रैवोत्पत्तिव्यय भाजस्ते तथाविधव्यवहारातीतत्वासांव्यवहारिका इति । तत्रैवाग्रेऽप्युक्तम् "तेरेसविहा जहा गोसुहुमणिगोअरूवे असंववहारभेए । बारस संववहारिआ, अ इमे - पुढवी- आऊ तेंउ चाउ - णिगोआ, सुहसवायरत्तेण दु दु भेआ, पत्तेअवणस्सई तसा य ।। * सांव्यवहारिकासांव्यवहारिकत्वेन जीवानां द्वैविध्यं प्राग् दर्शितम् । तत्रासांव्यवहारिको राशिरेक एव, सूक्ष्मनिगोदानामेवासांव्यवहारिकत्वात् । सांव्यवहारिक भेदास्तु द्वाद्वश । ते च इमे पृथिव्यादयः पञ्च, सूक्ष्मवादरतया द्विभैदाः, प्रत्येकवनस्पतयः त्रसाश्चेति ॥ तथा भवभावनावृत्तावप्युक्तम् अणाइम एस भवे, अणाइमं च जीवे, अणाई अ सामनेण तस्स नाणावर - • बाइकम्मसंजोगो, अपज्ञ्जवसिओ अभव्वाणं, सपज्जवसिओ उण भव्वाणं । विसेसओ उण मिच्छत्ता-विरइ-पमाय- कसाय जोगेहिं कम्मसंजोगो जायइत्ति । सव्वेसिंपि जीवाणं साईओ चेव एसो जाओ अकामणिजरा- बालत वोकम्म-सम्मत्तनाणविरहगुणेहिं अवसमेव विहडइति । सव्वेसिं सपञ्जवसिओ चैव । तेण य कम्मप्रोग्गलसंजोअणाणुभावेणं वसंति । सव्वेपि पाणिणो पुव्विं ताव अनंताणंत पोरगलपरिअट्टे अगाइवणस्सइणिगोए पीडिजंति । तत्थेगणिगोअसरीरे अनंता परिणमंति असंखणिगोअसमुदय णिफण्णगोलयभावेणं, समगमणंता ऊससंति, समर्ग १. त्रयोदशविधा यथा नोसुक्ष्मनिगोदरूपोऽसंव्यवहारभेदः । द्वादश सांव्यवहारिकाः, ते चेमे--पृथिव्यप्तेजोवायुनिगांदाः, सूक्ष्मवादरत्वेन द्वौ द्वौ भेदौ,, प्रत्येक वनस्पतयः साश्च । २ अनादिमानेष भवः, अनादिमांश्च जीवः, अनादिश्व सामान्येन तस्य ज्ञानावरणादिकर्मसंयोगः, अपर्यवसितोऽभव्यानाम्, सपर्यवसितश्च पुनर्भव्यानाम् । विशेषतः पुनर्मिथ्यात्वाविरति प्रमाद- कषाय- योगः कर्मसंयोगो जायते इति । सर्वे• पामपि जीवानां सादिक एव एष जातः, अकामनिर्जरा- बालतपः कर्म-सम्यक्त्व-ज्ञान-विरतिगुणैरवश्यमेव विघटते इति सर्वेषां सपर्यवसित एव । तेन च कर्म-पुद्गलसंयोजनानुभावेन वसन्ति । सर्वेऽपि प्राणिनः पूर्व तावदनन्तानन्तपुद्गलपाधर्ताननादिवनस्पतिनिगोदेषु पीड्यन्ते । तत्रैकनिगोदशरीरे अनन्ताः परिणमन्ति असंख्यनिगोदसमुदयनिष्पन्नगोलकभावेन । समकमनन्ता उच्छ्वसन्ति, समक Page #50 -------------------------------------------------------------------------- ________________ पीससंति, समगं आहारैति, समर्ग परिणामयंति, समग उप्पज्जंति, समग विज्जति, थीणद्धीमहाणिदागाढनाणावरणाइकम्मपोग्गलोदएणं न वेअंति अप्पाणं, न . मुणंति परं, न सुणंति सई, न पेच्छंति सरूवं, न अग्घायंति गंधं, न बुझंति • रसं, न विदंति फासं, न सरंति कयाकयं, सइपुव्वं न चलंति, न फंदंति, ण . सीयमणुसरंति, नायवमुवगच्छंति । केवलं तिव्वविसयवेयणाभिभूअमज्जपाणमत्त मुदियपुरिसव्व जहुत्तरकालंते वसिऊण कहमवि तहाभव्वत्त-भविअव्वयाणिओगेणं - किंपि तहाविहडिअकम्मपोग्गलसंजोगा तेहिंतो णिग्गंतुमुववज्जति केइ साहारण- वणस्सइसु अल्लय-सूरण-गज्जर- वज्जकंदाइरूवेण" इत्यादि । तथा तत्रैव प्रदेशान्तरे प्रोक्तम्--" ततो बलिनरेन्द्रेणोक्तम्-स्वामिरतहींदमेव श्रोतुमिच्छामि, प्रसादं विधाय निवेदयन्तु भगवन्तः । ततः केवलिना प्रोक्तम्-- महाराज ! सर्वायुषाऽप्येतत्कथयितुं न शक्यते । केवलं यदि भवतां • कुतूहलं तर्हि समाकर्णयत, संक्षिप्य किंचित्कथ्यते---इतोऽनन्तकालात्परतो भवान्किल चारित्रसैन्यसहायो भूत्वा मोहारिबलक्षयं करिष्यतीति कर्मपरिणामेनासंव्यवहारपुरानिष्काश्य समानीतो व्यवहारनिगादेषु । ततो विज्ञातैतव्यतिकरैर्मोहारिभिः प्रकुपितैर्विधृतस्तेष्वेव त्वमनन्तं कालम् । ततः पृथिव्यप्तेजोवायुबलस्पतिद्वित्रिचतुःपञ्चेन्द्रियतिर्यक्षु नरकेष्वनार्यमनुष्येषु चानीतस्त्वं कर्मपरिणामेन, पुनः पुनरनन्तवाराः कुपितैमोहादिभिर्यावर्त्य नीतोऽसि पश्चान्मुखो निगोदादिषु, एवं तावद् यावद्भमितोऽस्यतिदुःखितस्तैरनन्तानन्तपुद्गलपरावर्तान् । ततश्चार्यक्षेत्रेऽपि लब्धं मनुष्यत्वमनन्तवाराः, किन्तु हारितं क्वचित् कुजातिभावेन, क्यापि कुलदोषेण, क्वचिज्जात्यन्धबधिरखञ्जत्वादिरूपेण, क्वापि कुष्टादिरागः, क्वचिदल्पायुष्कत्वेन एवमनन्तवाराः(रम्), किन्तु धर्मस्य नामाप्यज्ञात्वा प्रान्तस्तेष्वेव पराङ्मुखो व्यावृत्त्यानन्तपुद्गलपरावर्तानेकेन्द्रियादिषु । ततोऽन्यदा श्रीनिलयनगरे निःश्वसन्ति, समकमाहारयन्ति, समकं परिणामयन्ति, समकमुत्पद्यन्ते, समकं विद्यन्ते, स्थानर्द्धिमहानिद्रा गाढ ज्ञानावरणादिकर्मपुद्गलोदयेन न वेदयन्ति आत्मानं, न जानन्ति परं, न शृण्वन्ति शब्दम् , न पश्यन्ति स्वरूपम् , नाजिघ्रन्ति गन्धम् , न बुध्यन्ते रसम्, न वेदयन्ति स्पर्शम् , न स्सरन्ति कृताकृतम्, मतिपूर्व न चलन्ति, न स्पन्दन्ते, न शीतमनुस्मरन्ति, नातपमुफ्गच्छन्ति । केवलं- तीव्रविषय वेदनाभिभूतमद्यपानमत्त-मुदितपुरुषवद् यथोत्तरकालान्ते उषित्वा कथमपि तथाभव्यत्व-भवितव्यतानियोगेन किमपि तथाविघटितकर्मपुद्गलसंयोगास्तेभ्यो निर्गत्योत्पद्यन्ते केचित्साधारणवनस्पतिषु आद्रक-सूरण-गर्जर-धजकन्दादिरूपेण ॥ Page #51 -------------------------------------------------------------------------- ________________ धनतिलकश्रेष्ठिनो जातस्त्वं वैश्रमणनामा पुत्रः । तत्र च 'स्वजन-धन-भवनयौवन-वनिता-तत्त्वाद्यनित्यमिदमखिलं ज्ञात्वा यत्राणसहं धर्म शरणं भवत लोकार इति वचनश्रवणाज्जाता धर्मकरणबुद्धिः केवलम् । साऽपि कुदृष्टिसभवा महापापबुद्धिरेव परमार्थतः संजाता। तद्वशीकृतेन च स्वयंभूनाम्नास्त्रिदण्डिनः शिष्यत्वं प्रतिपत्रम् । ततस्तदपि मानुषत्वं हारयित्वा व्यावर्तितो भ्रामितः संसारेऽनन्तपुद्गलपरावर्तानिति । ततोऽनन्तकालात्पुनरप्यन्तराऽन्तरा लब्धं मानुषत्वम् , परं न निवृत्ताऽसौ कुधर्मबुद्धिः । शुद्धधर्मश्रवणाभावोऽपि क्वापि सद्गुरुयोगाभावात्क्वचिदालस्यमोहादिहेतुकलापात् । क्वचिच्छुधर्मश्रवणेऽपि तभिवृचोऽसौ शून्यतया तदर्थानवधारणात् । क्वचिव श्रद्धानेन ततः कुधर्मबुद्धयुपदेशाद्धर्मच्छलेन परवधादिमहापापानि कृत्वा भ्रान्तस्तेष्वेवानन्तपुद्गलपरावळनिति ॥” तथा श्रावकदिनकृत्यवृत्तावप्युक्तम्-" इह हि सदैव लोकाकाशप्रतिष्ठितानाद्यपर्यवसितभवचक्राख्यपुरोदरविपरिवर्ती जन्तुरनादिवनस्पतिषु सूक्ष्मनिगोदापरपर्यायेष्वनन्तानन्तपुद्गलपरावर्तान्समकाहारोच्छवासनिःश्वासोऽन्तर्मुहूर्तान्तर्जन्ममरणादिवेदनाबातमनुभवति इत्यादि । तथा xxxx एवं च तथाविधभव्यजन्तुरप्यनन्तकालमव्यवहारराशौ स्थित्वा कर्मपरिणामनृपादेशात्तथाविधमवितव्यतानियोगेन व्यवहारराशिप्रवेशत उत्कर्षेण बादरनिगोदपृथिव्यप्तेजोवायुषु प्रत्येकं सप्ततिकोटिसागरोपमाणि तिष्ठन्ति । एषा च क्रिया सर्वत्र योज्या । एतेम्वेवं सूक्ष्मेष्वसंख्यलोकाकाशप्रदेशसमा उत्सर्पिण्यवसर्पिण्यः" इत्यादि । पुष्पमालाबृहद्वृत्तावप्युक्तम्- ननु कथमित्यं मनुष्यजन्मातिदलमं प्रतिपाद्यते ? उच्यते-समाकर्णय कारणम् । "अव्यवहारणिगोएसु ताव चिठंति जंतुणो सव्वे । पढमं अणंतपोग्गलपरिअट्टे थावरत्तेणं ॥१॥ तत्तो विणिग्गया वि हु ववहारवणस्सइंमि णिवसंति । कालमणंतपमाणं अणंतकायाइभावेणं ॥२॥ अव्यवहारनिगोदेषु तावत्तिष्ठन्ति जन्तवः सर्वे । प्रथममनन्तपुद्गलपरावर्तान् स्थावरत्वेन । १॥ ततो विनिर्गता अपि च व्यवहारवनस्पती निवसन्ति । कालमनन्तप्रमाणमनन्तकायादिभावेन ॥ २॥.... Page #52 -------------------------------------------------------------------------- ________________ तत्तोषि समुहा पुढविजलानलसमीर ममि । असंखोसप्पिणिसप्पिणीओ णिवसति पत्तेयं ॥ ३ ॥ संखेज्जं पुण कालं वसंति विगलिदिए पत्तेयं । एवं पुणो णोवि य भमंति ववहाररासिंमि || ४ | " तल्लघुवृत्तावप्युक्तम् आदौ सूक्ष्मनिगोदे जीवस्यानन्तपुद्गलविवर्तान् । तस्मात्कालमनन्तं व्यवहारवनस्पतौ वासः ॥ १ ॥ उत्सर्पिणीरसंख्याः प्रत्येकं भूजलानिपवनेषु । विकलेषु च संख्येयं कालं भूयो भ्रमणमेव ॥ २ ॥ तिर्यक्पञ्चेन्द्रियतां कथमपि मानुष्यकं ततोऽपीह | क्षेत्रकुलारोम्यायुर्बुद्धयादि यथोत्तरं तु दुरवापम् ॥ ३ ॥ धर्मरत्नप्रकरणवृत्तावप्युक्तम् भ्यस्तुन्नमनार्थ प्रययौ नत्वा गुरून् समयविधिना । निषसाद यथास्थानकमथ सूरिर्देशनां चक्रे ॥ १ ॥ अव्यवहारिकराशौ भ्रमयित्वाऽनन्तपुद्गलविवर्तान् । व्यवहृतिराशौ कथमपि जीवोऽयं विशति तत्रापि ॥ २ ॥ बादरनिगोद-पृथिवी-जल- दहन - समीरणेषु जलधीनाम् । सप्ततिकोटाकोट्यः कायस्थितिकाल उत्कृष्टः ॥ ३ ॥ सूक्ष्मेष्वमीषु पञ्चस्ववसर्पिण्यो ह्यसंख्यलोकसमाः । सामान्यबादरेऽङ्गुलगणनातीतांशमानास्ताः ॥ ४ ॥ " इत्यादि ॥ संस्कृतनवतत्त्वसूत्रे ऽप्युक्तम् निगोदा एव गदिता जिनैरव्यवहारिणः । सूक्ष्मास्तदितरे जीवास्तान्यपि व्यवहारिणः ॥ १ ॥ " इति । ततोऽपि समुवृत्तां पृथिवी जला-नल- समीरमध्ये | असंख्योत्सर्पिण्यवसर्पिणीर्निवसन्ति प्रत्येकम् ॥ ३ ॥ संख्येयं पुनः कालं वसन्ति विकलेन्द्रियेषु प्रत्येकम् । एवं पुनः पुनरपि च भ्रमन्ति व्यवहारराशौ ॥ ४ ॥ Page #53 -------------------------------------------------------------------------- ________________ ४० " 86 तदेवंविधवचनैरनादिसूक्ष्मनिगोदस्यैवा सांव्यवहारिकत्वम्, अन्य पांच व्यावहारिकत्वमिति स्थितौ परोक्ता युक्तिरेकाऽवतिष्ठते । तत्र सिज्झति जन्तिया किर०" इत्यादिना व्यवहारराशितः सिद्धानामनन्तगुणत्वं व्यवस्थाप्य तदनन्तगुणत्वेन बादरनिगदिजीवाना मंत्र्यावहारिकत्वं च व्यवस्थापितम् । तदसत् सिद्ध्यवच्छिन्नव्यवहारसइयपेक्षया सिद्धानामनन्तगुणत्वसिद्धावपि सामान्यापेक्षया तदसिद्धेः, व्यवहारित्वभवन सिद्विगमनयोर पर्यवसितत्वं चानादिसुक्ष्मभिगोदान्नपतव्यवहारित्वाभिमुखजीवानां निर्गमान्नानुपपन्नम् । आवलिका संख्येयभागपुद्गलपरावर्तमानत्वेन व्यवहारिकाणां सर्वेषां सिद्ध्यापत्तिस्तु स्वात् । तत्राभव्यस्य व्यावहारिकत्वानुरोधेन निगोदत्वेन तिर्यक्त्वनपुंसकत्वादिना च कायस्थितिप्रतिपादकानां सूत्राणां व्यावहारिकविशेपविषयत्वं वा कल्पनीयम्, अन्यो वा कश्चित्सूत्राभिप्राय इत्यत्र बहुश्रुता एव प्रमाणम् । अवश्यं च सूत्राभिप्रायः कोऽपि मृग्यः, अन्यथा बहवो भव्यास्तावदेतावतः कालात्सिध्यन्ति, अन्ये तु स्वल्पात्, अपरें तु स्वल्पतरात् यावत्केचिन्मरुदेवीस्वामिनीवत्स्वल्पेनैव कालेन सिध्यन्ति | अभव्यास्तु कदाचिदपि न सिध्यन्ति, भवभावनावृत्यादिवचनादभव्यानां भव्यानां च यदुक्ताधिकसंसार भेदभणनं तन्नोपपद्येत । यत्तु परेणोक्तम् - यत्तु क्वचिदाधुनिकप्रकरणादौ प्रज्ञापनायागमविरुद्वानि वचनानि भवन्ति, तत्र तीर्थान्तरवर्तिनाम सद् ग्रहाभावादना भोग एव कारणम् । तथा अभव्या न व्यवहारिणो नाप्यव्यवहारिणः, किन्तु व्यवहारित्वादिव्यपदेशबाह्या इति ते व्यावहारिकमध्ये विवक्षितास्तेषां सम्यक्त्वप्रतिपतितानामनन्तभागवर्तित्वेनाल्पत्वादिति ॥ तदतिसाहसविजृम्भितम् अभिप्रायमज्ञात्वा प्राचीन प्रकरणविलापे महाशातनाप्रसङ्गात् । अभत्र्यानामपि व्यावहारिकबाहेर्भाव नियत कार्यस्थितिसंसारपरिभ्रमणानुपपत्तेर्यादृच्छिक कल्पनया समंजसत्वप्रसङ्गात्, नोव्यवहारित्व-नो अव्यवहारित्व परिभाषामात्रस्य चाभव्येष्विवोक्ताधिकसंसारिजीवेष्वपि कल्पयितुं चाशक्यत्वाच्च न किंचिदेतदिति दिग् ॥ ९ ॥ , 5 तदेवमभव्यस्याप्याभिग्रहिकं मिथ्यात्वं भवतीति प्रदर्शयितुमाभिग्रहिकस्य षड् भेदा उक्ताः । अथानाभिग्रहिकादीनामपि सामान्येन बहुप्रकारत्वं निर्दिशन्नेतेषु गुरुलघुभावं विवेचयति Page #54 -------------------------------------------------------------------------- ________________ अगभिग्गहिआईणवि आसयभेएण हुंति बहुभेआ। लहुआ तिणि फलओ एएसुं दुन्नि गरुआई ॥ १० ॥ अभिग्गहि आईणवित्ति । अनाभिग्रहिकादीनामपि मिथ्यात्वानामाशयभेदेन परिणामविशेषेण बहवो भेदा भवन्ति । तथाहिअनाभिग्रहिकं किंचित्सर्वदर्शन विषयम् - यथा ' सर्वाणि दर्शनानि शोभनानि ' इति । किंचिद्देशविषयम् — यथा ' सर्व एव श्वेताम्बर - दिगम्बरादिपक्षाः शोभनाः ' इत्यादि । आभिनिवेशिकमपि मतिभेदाभिनिवेशादि मूल भेदादनेकविधम्- जमालि गोष्ठामाहिलादीनाम् । उक्तं च व्यवहारभाष्ये— " इभेएण जमाली पुवि बुग्गाहिएण गोविंदो । संसग्गाए भिक्खू गोडामाहिल अहिणिवेसत्ति ।। " इति । -सांशयिकमपि सर्वदर्शनजैनदर्शन- तदेकदेशपदवाक्यादिसंशय• भेदेन बहुविधम् । अनाभोगोऽपि सर्वांश विषयाव्यक्तबोधस्वरूपो विव. क्षितकिंचिदंशाव्यक्तबोधस्वरूपश्चेत्यनेकविधः । न खलु महामोहशैलू. षस्यैको नर्तनप्रकारोऽस्तीति । एतेष्वाभिग्रहिकादिषु मिथ्यात्वेषु मध्ये श्रीण्यनाभिग्रहिक-सांशयिकाना भोगरूपाणि फलतः प्रज्ञापनीयतारूपं गुरुपारतन्त्र्यरूपं च फलमपेक्ष्य लघूनि, विपरीतावधारणरूपविपर्यासव्यावृत्तत्वेनैतेषां कुरानुबन्धफलकत्वाभावात् । द्वे आभिग्रहिकाभिनिलक्षणे मिथ्यात्वे गुरू, विपर्यासरूपत्वेन सानुबन्धक्लेशमूलत्वात् । उक्तं चोपदेशपदे " “ ऐसो अ एत्थ गुरुओ णाणज्झवसामसंसया एवं । जम्हा असप्पवित्ती एत्तो सव्वत्थणत्थफला || अनाभिग्रहिकादीनामपि आशयभेदेन भवन्ति बहुभेदाः । लघूनि त्रीणि फलतो एतेषु द्वे गुरू ॥ १० ॥ मतभेदेन जमालि: पूर्व व्युद्माहितेन गोविन्दः । संसर्गाद् भिक्षुर्गोष्ठा माहिल अभिनिवेशीति ॥ एष चात्र गुरुर्नानिध्यवसाय संशयानेयम् । यस्मादसत्प्रवृत्तिरितः सर्वत्रानर्थफला ॥ Page #55 -------------------------------------------------------------------------- ________________ दुष्प्रतीकारो ऽसत्प्रवृत्तिहेतुत्वेनैष विपर्यासोऽत्र गरीयान् दोष:, मबनध्यवसाय- संशयाववंभूतौ, अतत्त्वाभिनिवेशाभावेन तयोः सुप्रसीकारत्वेनात्यन्तानर्थसंपादकत्वाभावादित्येतत्तात्पर्यार्थः ॥ ४२ नन्वत्र माषतुषादीनां चारित्रिणामेव संशयानध्यवसाययोरसत्प्रवृत्त्यननुबन्धित्वमुक्तम्, तच्च युक्तम्, तेषां मिथ्यात्वमोहनीयानन्तानुबन्धिनां प्रबलबोधविपर्यासकारिणां प्रबलक्रियाविपर्यासकारिणां च तृतीयकषायादीनामभावात् । मिथ्यादृशां संशयानध्यवसाययोश्च न तथात्वं युक्तम्, विपर्यासशक्तियुक्तत्वात्तेषाम् । अत शुभपरिणामोअप लेषां फलतोऽशुभ एवोक्तः श्रीहरिभद्रसूरिभिः । तथाहि १ “ गेलमच्छ-भवविमोअम - विसन्नभोईण जारिसी एसो । मोहो होवि असुहो तफलओ एवमेसोचि || 39 जलत्यादि । गलो नाम प्रान्तन्यस्तामिषो लोहमयः कण्टको मत्स्यग्रहार्थं जलमध्ये संचारितः, तत्प्रसनप्रवृत्तो मत्स्यस्तु प्रतीत एव । ततो गलेनोपलक्षितो मत्स्यो गलमत्स्यः। भवाद्-दुःखबहुलकुयोनिलक्षणाद्दुःखितजीवान काकशृगालपिपीलिकादीन् तथाविधकुत्सितवचनसंस्कारात्प्राणव्यपरोपणेन मोचयत्युत्तारयaft भवविमोचक :- पाखण्डविशेषः । विषेण मिश्रमन्नं तद् भुङ्कते तच्छीलश्च यः सं तथाविधः । ततो गलमत्स्यश्च भवविमोचकश्च विषान्नभोजी चेति द्वन्द्वः, तेषां यादृश एष परिणामः प्रत्यपायफल एव । कुतः १ मोहादज्ञानात्पर्यन्तदारुणतया शुभोऽपि स्वकल्पनया स्वरुचिमन्तरेण तेषां तथाप्रवृतेरयोगात्सुन्दरोऽपि सन्नशुभः संक्लिष्ट एव । कुतः ? इत्याह- तत्फलतः- भावप्रधानत्वाद् निर्देशस्य तत्फलत्वाद्अशुभपरिणामफलत्वाद् । अथ प्रकृते योजयन्नाह - एवं गलमत्स्यादिपरिणामवदेषोऽपि जिनाज्ञोल्लङ्घनेन धर्मचारिपरिणामः तत्फलत्वादशुभ एव, आज्ञापरिनामशून्यतयोभयत्रापि समानत्वेन तुल्यमेव किल फलम् " इति ॥१०॥ एतदाशङ्कायामाह reमत्स्य-भवविमोचक विषान्नभोजिनां यादृश पत्रः । मोहात्शुभोsपि अशुभः तत्फलत एवमेष इति ॥ Page #56 -------------------------------------------------------------------------- ________________ ४३ मज्झत्थत्तं जायइ जेसिं मिच्छत्तमंदया एवि । ण तहा असप्पवित्ती सदंधणारण तेसिंपि ॥११॥ मज्झत्थत्तंति । मध्यस्थत्वं रागद्वेषरहितत्वं जायते येषां मिथ्यास्वमन्दतयाऽपि किंपुनस्तत्क्षयोपशमाद् इत्यपिशब्दार्थः । तेषामपि मन्दमिथ्यात्ववतामपि किं पुनः सम्यग्दृष्ट्यादीनाम् । न तथा दृ-विपर्यासनियतप्रकारेणासत्प्रवृत्तिः स्यात् । केन ? सदन्धज्ञातेन समी-चीनान्धदृष्टान्तेन । यथाहि -सदन्धः सातवेद्योदयादना भोगेनाऽपि मार्ग एव गच्छति, तथा निर्बीजत्वेन निर्बीजभावाभिमुखत्वेन वा मोहाप-कर्षजनितमन्द्रागद्वेषभावोऽना भोगवान्मिथ्यादृष्टिरपि जिज्ञासादिगुणयोगान्मार्गमेवानुसरतीत्युक्तम् । उक्तं च ललितविस्तरायाम् – “अनाभोगतोऽपि मार्गगमनमेव सदन्ध-न्यायेन - इत्यध्यात्मचिन्तकाः " । इदमत्र हृदयम् - यः खलु मिथ्यादृशामपि केषांचित्स्वपक्षनिबद्धोद्धरानुबन्धानामपि प्रबलमोहत्वे सत्यप्रि करण्यान्तरादुपजायमानो रागद्वेषमन्दतालक्षण उपशमो भूयानपि दृश्यते, स पापानुबन्धिपुण्य बन्धहेतुत्वात्पर्यन्त दारुण एव । तत्फलसुखव्यामूढानां तेषां पुण्याभासकमुपरमे नरकादिपातावश्यंभाषादित्यसत्पवृत्तिहेतुरेवायम् । यश्च गुणवत्पुरुषप्रज्ञापनाऽर्हृत्वेन जिज्ञासादिगुणयोगान्मोहापकर्षप्रयुक्तरागद्वेषशक्तिप्रतिघातलक्षण उपशमः स तु सत्प्रवृत्तिहेतुरेवाग्रहविनिवृत्तः सदर्थपक्षपातसारत्वादिति ॥११॥ यत एव मिथ्यात्वमन्दताकृतं माध्यस्थ्यं नासत्प्रवृत्त्याधायकम्., अत एव तदुपष्टम्भकमनाभिग्रहिकमिध्यात्वमपि शोभनभित्याह- इत्तो अभिग्गहिय भणिअं हियकारि पुव्वसेवाए। अण्णायविसेसाणं पढमिल्लयधम्ममहिगिच्च ॥१२॥ मध्यस्थत्वं जायते येषां मिथ्यात्वमन्दतयाऽपि । न तथाऽसत्प्रवृत्तिः सदन्धज्ञातेन तेषामपि ॥। ११ ॥ इतोsनाभिग्रहिकं भणितं हितकारि पूर्व सेवायाम् । ज्ञातविशेषाणां प्रथमधर्ममधिकृत्य ।। १२ ।। Page #57 -------------------------------------------------------------------------- ________________ इत्तोत्ति । इतः पूर्वोक्तकारणादज्ञातविशेषाणां देवगर्वादिविशेषपरिज्ञानाभाववतां प्राथमिकं धर्ममधिकृत्य-प्रथमारब्धस्थूलधर्ममाश्रित्य पूर्वसेवायां योगप्रासादप्रथमभूमिकोचिताचाररूपायां अनाभिग्रहिकं--- सर्वदेवगुर्वादिश्रद्धानलक्षणं मिथ्यात्वं हितकारि भणितम् , अनुषङ्गतः सद्विषयभक्तिहेतुत्वाद् , अविशेषश्रद्धानस्यापि दशाभेदेन गुणत्वात्। तदुक्तं योगबिन्दौअथ देवपूजाविधिमाह " पुष्पैश्च बलिना चैव वस्त्रैः स्तोत्रैश्च शोभनैः। देवानां पूजनं ज्ञेयं शौचश्रद्धासमन्वितम् ॥" पुष्पैर्जातिशतपत्रकादिसंभवैः, बलिना पक्वान्नफलापहाररूपेण, वस्त्रैः घसनैः, स्तोत्रैश्च शोभनैः स्तवनैः, चशब्दाश्चैवशब्दश्च समुच्चयार्थाः। शोभनैरादरोपहितत्वेन सुन्दरैर्देवानामाराध्यमानानां पूजनं ज्ञेयम् । कीदृशम् ? इत्याह'शौचश्रद्धासमन्वितम् । शौचेन शरीरवस्त्रद्रव्यव्यवहारशुद्धिरूपेण, श्रद्धया च बहुमानेन, समन्वितं युक्तमिति । " अविशेषेण सर्वेषामधिमुक्तिवशेन वा । __ गृहिणां माननीया यत्सर्वे देवा महात्मनाम् ॥" . अविशेषेण-साधारणवृत्त्या सर्वेषां-पारगत-सुगत-हर-हरि-हिरण्यगर्भादीनाम् । पक्षान्तरमाह-अधिमुक्तिवशेन वा । अथवा यस्य यत्र देवतायामतिशयेन श्रद्धा तद्वशेन । कुतः ? इत्याह-गृहिणाम्-अद्यपि कुतोऽपि मतिमोहादनिर्णीतदेवताविशेषाणां माननीया-गौरवार्ता यद् यस्मात्सर्वे देवा उक्तरूपाः, महात्मनां परलोक'प्रधानतया प्रशस्तात्मनामिति ॥ एतदपि कथम् ? इत्याह सर्वान्देवान्नमस्यन्ति नैकं देवं समाश्रिताः। जितेन्द्रिया जितक्रोधा दुर्गाण्यतितरन्ति ते ॥ सर्वान् देवान्नमस्यन्ति-नमस्कुर्वते । व्यतिरेकमाह-नैकं कंचन दैवं समाश्रिताः प्रतिपना वर्तन्ते । येन ते जितेन्द्रिया निगृहीतहषीका जितक्रोधा अभिभूतकोपा दुर्गाणि-नरकपातादीनि 'व्यसनानि, अतितरन्ति-अतिक्रामन्ति ते सर्वदेवनमस्कारः। Page #58 -------------------------------------------------------------------------- ________________ ४५ ननु नैते लोके व्यवद्रियमाणाः सर्वेऽपि देवा मुक्तिपथस्थितानामनुकूलाचरणा भवन्तीति कथमविशेषेण नमस्करणीयाः ? इत्याशङ्कयाह चारिसंजीवनीचारन्याय एष सतां मतः । नान्यथाऽष्टसिद्धिः स्याद् विशेषेणादिकर्मणाम् || प्ररूपायामध्ये संजीवनी - औषधिविशेषश्चारिसंजीवनी, तस्यावारश्ररणं स एव न्यायो दृष्टान्तश्चारिसंजीवनीचारन्यायः । एषो विशेषेण देवतानमस्करणीयताsपदेशः सतां शिष्टानां मतोऽभिप्रेतः । भावार्धस्तु कथागम्यः सा चेयमभिधीयते । अस्ति स्वस्तिमती नाम नगरी नागराकुला ॥ १ ॥ तस्यामासीत्सुता काचिद् ब्राह्मणस्य तथा सखी | तस्या एव परं पात्रं सदा प्रेम्णो गतावधेः ॥ २ ॥ तयोर्विवाहवशतो भिन्नस्थाननिवासिता । asar द्विजसुता जाता चिन्तापरायणा ॥ ३ ॥ कथमास्ते सखीत्येवं ततः प्राघूर्णिका गता । er विषादजलधौ निमग्ना सा तया ततः ॥ ४ ॥ प्रपच्छ किं त्वमत्यन्तविच्छायवदना सखि ! | तुयोचे पापसद्माऽहं पत्युर्दुभगतां गता ।। ५ ।। मा विषीद विषादोऽयं निर्विशेषो विषात् सखि ! | करोम्यनड्वाहमहं पतिं ते मूलिका बलात् ।। ६ ।। तस्याः सा मूलिकां दत्त्वा संनिवेशं निजं ययौ । rataमानसा तस्य प्रायच्छत्तामसौ ततः ॥ ७ ॥ अभूद् गौरुद्धुरस्कन्धो झगित्येव च सा हृद विद्राणाऽथ कथं सर्वकार्याणामक्षमो भवेत् ॥ ८ ॥ गोयुथान्तर्गतो नित्यं वहिधारयितुं सकः । . तयाssroar वटस्याधः सोऽन्यदा विश्रमं गतः ॥ ९ ॥ तच्छाखायां नभश्चारिमिथुनस्य कथंचन विश्रान्तस्य मिथो जल्पप्रक्रमे रमणोऽब्रवीत् ॥ १० ॥ मात्रै गौः स्वभावेन किन्तु वैगुण्यतोऽजनि । - पत्नी प्रतिबभाषे सा पुनर्नाऽसौ कथं भवेत् १ ॥ ११ ॥ Page #59 -------------------------------------------------------------------------- ________________ मूल्यन्तरोपयोगेन, क्वास्ते ! साऽस्य तरोरभः । श्रुत्वतत्सा पशोः पत्नी पश्चात्तापितमानसा ।। १२ ।। अभेदज्ञा ततश्चारिं सर्वा चासयेतुं तकम् । प्रवृत्ता सूलिकाऽऽभोगात्सद्योऽसौ पुरुषोऽभवत् ।। १३ ।। अजानाना यथा भेदं मूलिकायास्तया पशुः । चारितः सर्वतवारिं पुनर्नृत्वोपलब्धये ।। १४ ।। तथा धर्मगुरुः शिष्यं पशुप्रायविशेषतः । प्रवृत्तावक्षमं ज्ञात्वा देवपूजादिके विधौ ।। १५ ।। सामान्यदेवपूजादौ प्रवृत्ति कारयन्नपि । विशिष्टसाध्यसिद्ध्यर्थं न स्याद्दोषी मनागपि ॥ १६ ॥ इति । विपक्षे बाधामाह - 'न' नैव, 'अन्यथा' चारिसंजीवनीचारन्यायमन्तरेण: 'अत्र' देवपूजादौ प्रस्तुते ' इष्टसिद्धि: ' विशिष्टमार्गावताररूपा 'स्याद्' भवेद् अयं चोपदेशो यथा येषां दातव्यस्तदाह-' विशेषेण ' सम्यग्दृष्ट्यानुचितदेशनापरिहाररूपेण, ' आदिकर्मणाम् प्रथममेवारब्धस्थूलधर्माचाराणाम् । नात्यन्तमुग्धतया कंचन देवताविशेषमजानाना न विशेषप्रवृत्तेरद्यापि योग्याः, किन्तु सामान्यरूपाया एवेति ॥ " कदा विशेषप्रवृत्तिरनुमन्यते ? इत्याशङ्क्य आह गुणाधिक्यपरिज्ञानाद्विशेषेऽप्येतदिष्यते । अद्वेषेण तदन्येषां वृचाधिक्ये तथाऽऽत्मनः ॥ " , गुणाधिक्यपरिज्ञात् ' देवतान्तरेभ्यों गुणवृद्धेरवगमात् विशेषेऽप्यर्हदादो किं पुनः सामान्येन एतत्पूजनमिप्यते । कथम् ? इत्याह-' अद्वेषेण' अमत्सरेण ' तदन्येषाम् ' पूज्यमानदेवताव्यतिरिक्तानां देवतान्तराणां ' वृत्ताधिक्यें ' आ-चाराधिक्ये सति । ' तथा ' इति विशेषणसमुच्चये । ' आत्मनः स्वस्य देवता- न्तराणि प्रतीत्येति ॥ 1. 9 अत्र ह्यादिधार्मिकस्य विशेषाज्ञानदशायां साधारणी देवभक्ति रेवोक्ता दानाघिकारे पात्रभक्तिरप्यस्य विशेषाज्ञाने साधारण्येव, तज्ज्ञाने च विशेषत उक्ता । तथाहि Page #60 -------------------------------------------------------------------------- ________________ ४७ प्रसंस्था लिङ्गिनः पात्रमपचास्तु विशेषतः । स्वसिद्धान्ताविरोधेन वर्तन्ते ये सदैव हि ॥ ग्रतस्था हिंसाऽनृतादिपापस्थानविरतिमन्तः, लिङ्गिनो व्रतसूचकतथाविधनेपथ्यचन्तः पात्रमविशेषेण वर्तते । अत्रापि विशेषमाह-अपचास्तु स्वयमेवापाचकाः, हुनरुपलक्षणात्परैरपाचयितारः पश्यमानाननुमन्तारो लिङ्गिन एव विशेषेण पात्रम् । तथा ' स्वसिद्धान्ताविरोधेन' स्वशास्त्रोक्तक्रियाऽनुल्लङ्गनेन 'वर्तन्ते' चेष्टन्त, 'सदैव हि ' सर्वकालमेवेति ॥ इत्थं चास्यानाभिग्रहिकमपि गुणकारि संपन्नम् । तथा चानाभिप्रहिकमप्याभिग्राहककल्पत्वात्तीव्रमेवेति सुनिश्चितमित्यादि संमतिप्रदर्शनपूर्वं यः प्राह तन्निरस्तम् , मुग्धानां स्वप्रतिपत्तौ तस्य गुणत्वात्। सुनिश्चितमित्यादिना विशेषज्ञस्यापि मायादिना माध्यस्थ्यप्रदर्शनस्यैव दोषत्वप्रतिपादनाद् । न चास्याविशेषप्रतिपत्तिः सम्यग्दृष्टेरिव दुप्टेंति शनीयम् , अवस्थाभेदेन दोषव्यवस्थानाद् । अन्यथा साधोरिव सम्यग्दृशः साक्षाद्देवपूजादिकमपि दुष्टं स्यादिति विभावनीयम् । एतेन पृथिव्याद्यारम्भप्रवृत्तापेक्षया निजनिजदेवाराधनप्रवृत्तानामध्यवसायः शोभन:, देवादिशुभगतिहेतुत्यादित्यसत्, तथाभृताध्यवसायस्य शोभनत्वे सम्यक्त्वोच्चारिणो " कंप्पइ अण्णउत्थिए वा०" इत्यादिरूपेण मिथ्यात्वप्रत्याख्यानानुपपत्तिप्रसक्तेः। नहि शुभाध्यवसायस्य तद्वतोर्वा प्रत्याख्यानं संभवति, ततः शुभाध्यवसायोऽपि तेषां पापानुबन्धिपुण्यप्रकृतिहेतुत्वेन नरकादिनिबन्धनत्वान्महानर्थहेतुरेव । नानापेक्षिकमपि शुभत्वं घटते, स्वस्त्रीसङ्गपरित्यागेन परस्त्रीसङ्गाप्रवृत्तस्यैव बहुपापपरित्यागमन्तरेणाल्पपापपरित्यागस्याशुभत्वाद् । अत एव पृथिव्याद्यारम्भप्रवृत्तस्यापि सम्यग्दृशोऽन्यतीर्थिकदेवाचाराधनपरित्यागोपपत्तिरिति परस्यैकान्ताभिनिवेशो निरस्तः । उत्कटमिथ्यात्ववन्तं पुरुषं प्रतीत्य निजदेवाचाराधनप्रवृत्तेमहानर्थहेतुत्वेऽप्यनाग्रहिकमादिधार्मिकं प्रति तथात्वस्याभावात् , तस्याविशेषप्रवृत्तेदुर्गतरणहेतुत्वस्य हरिभद्रसूरिभिरेवोक्तत्वात् । प्रत्याख्यानं च पूर्वभूमिकायां शुभाध्यवसायहेतोरप्युत्तरभूमिकायां स्वप्रतिपन्नविशेषधर्मप्रतिबन्धकरूपेण भवति, नैताबना पूर्वभूमिकायामपि तस्य विलोपी युक्तः । यथाहि-प्रतिपक्ष Page #61 -------------------------------------------------------------------------- ________________ ४८ कृत्स्नसंयमस्य जिनपूजायाः साक्षात्करणनिषेधात् , तस्य स्वप्रतिपन्नचारित्रविरोधिपुष्पादिग्रहणरूपेण तत्प्रत्याख्यानेऽप्यकृत्स्नसंयमवता श्राद्धानां न तदनौचित्यम् , तथा प्रतिपन्नसम्यग्दर्शनानां स्वप्रतिपन्नसम्यक्त्वप्रतिबन्धकविपर्यासहेतुत्वेनाविशेषप्रवृत्तः प्रत्याख्यानेऽपि नाविधार्मिकाणां तदनौचित्यमिति विभावनीयम् । ___ नन्वेवमादिधार्मिकस्य देवादिसाधारणभक्तेः पूर्वसेवायामुचितत्वे जिनपूजावत्साधूनां साक्षात्तदकरणव्यवस्थायामपि तद्वदेवानुमोद्यत्वापत्तिरिति चेद । न, सामान्यप्रवृत्तिकारणतदुपदेशादिना तदनुमोद्यताया इष्टत्वात् , केवलं सम्यक्त्वाद्यनुगतं कृत्यं स्वरूपेणाप्यनुमोद्यमितरच मार्गवीजत्वादिनेत्यस्ति विशेष इत्येतच्चाने सम्यग् विवेचयिष्यामः ॥ १२॥ अनाभिग्रहिकस्य शोभनत्वमेव गुणान्तराधायकत्वेन समर्थयतिइत्तो अ गुणहाणं पढमं खलु लद्धजोगदिट्ठीणं। मिच्छत्तेवि पसिद्धं परमत्थगवेसणपराणं ॥ १३॥ __इतश्चानाभिग्रहिकस्य हितकारित्वादेव च मिथ्यात्वेऽपि खल्विति . निश्चये लब्धयोगदृष्टीनां मित्रादिप्रथमदृष्टिचतुष्टयप्राप्तिमतां परमार्थ. गवेषणपराणां मोकप्रयोजनानां योगिनां प्रथमं गुणस्थानमन्व) प्रसिं• दम् । अयं भावः-मिथ्यादृष्टयोऽपि परमार्थगवेषणपराः सन्तः पक्षपातं परित्यज्याद्वेषादिगुणस्थाः खेदादिदोषपरिहाराद् यदा संवेगतारतम्य. माप्नुवन्ति तदा मार्गाभिमुख्यात्तेषामिक्षुरस ककब-गुडकल्पा मित्रा तारा बला दीपा चेति चतस्रो योगदृष्टय उल्लसंन्ति, भगवत्पतञ्जलिभदन्तभास्करादीनां तदभ्युपगमात् । तत्र मित्रायां दृष्टौ स्वल्पो बोधो यमो योगाङ्गदेवकार्यादावखेदो योगबीजोपादानं भवोद्वेगसिद्धान्तलेख. नादिकं बीजश्रुतौ परमश्रद्धा सत्संगमश्च भवति, चरमयथाप्रवृत्तकरण सामर्थेन कर्ममलस्याल्पीकृतत्वात् । अत एवेदं चरमयथाप्रवृत्तकरणं . परमार्थतोऽपूर्वकरणमेवेति योगविदो विदन्ति ।.. इतश्च गुणस्थानं प्रथमं खलु लब्धयोगदृष्टीनाम् ।" मिथ्यावेजप प्रसिद्ध परमार्थगवेषणपराणाम् ॥ १३॥ Page #62 -------------------------------------------------------------------------- ________________ उक्तं च 64 अपूर्वासनभावेन व्यभिचारवियोगतः । ततोऽपूर्वमेवेदमिति योगविदो विदुः ॥ 99 अस्यां चावस्थायां मिथ्यादृष्टावपि गुणस्थानपदस्य योमार्थघटमीपद्यते । उक्तं च *" प्रथमं यद्गुणस्थानं सामान्येनोपवर्णितम् । अस्यां तु तदवस्थाय मुख्यमन्वर्थयोगतः ॥ " उक्तं तारायां तु मनाक् स्पष्टं दर्शनम्, शुभा नियमाः, तस्य जिज्ञासा, योगकथास्वविच्छिन्ना प्रीतिः, भावयोगिषु यथाशक्त्युपचारः उचितक्रियाsहानिः स्वाचारहीनतायां महात्रासः, अधिककृत्यजिज्ञासा च भवति । तथाऽस्यां स्थितः स्वप्रज्ञाकल्पिते विसंवाददर्शनान्नानाविषवृत्तेः कार्त्स्न्येन ज्ञातुमशक्यत्वाच शिष्टाचरितमेव पुरस्कृत्य " प्रवर्तसे । " नास्माकं महती प्रज्ञा सुमहान शास्त्रविस्तरः । शिष्टाः प्रमाणमिह तदित्यस्यां मन्यते सदा । " लायां दृष्टौ दृढं दर्शनम्, स्थिरसुखमासनम्, परमा तत्त्वशुश्रूषा, योग गोचरोऽक्षेपः, स्थिरचित्ततया योगसाधनोपायकौशलं च भवति । दीमायां दृष्टौ प्राणायामः, प्रशान्तवाहिता लाभादयोगोत्थानविरहः, तरयश्रवणम्, प्राणेभ्योऽपि धर्मस्याधिकत्वेन परिज्ञानम्, तत्त्वश्रवणतो गुरुभक्तेरुद्रेकात्समापत्त्यादिभेदेन तीर्थकृद्दर्शनं च भवति । तथा मित्रादृष्टिस्तृणाग्निकणोपमा न ततोऽभीष्टकार्यक्षमा, सम्यक् प्रयोगकालं यावदनबस्थानात्, अल्पवीर्यतया ततः पटुस्मृतिबीजसंस्काराधानानुपपत्तेः, विकलप्रयोगभावाद् भावतो वन्दनादिकार्यायोगादिति । तारादृष्टिर्गोमयाग्निकणसदृशी, इयमप्युक्तकल्पैव, तत्त्वतो बिशिष्टवीर्यस्थितिविकत्वाद् । अतोऽपि प्रयोगकाले स्मृतिपाडवासिद्धेः, तह Page #63 -------------------------------------------------------------------------- ________________ भावे प्रयोगवैकल्यात् , ततस्तथा तत्कार्याभावादिति । यलादृष्टिः काष्ठानिकणतुल्या, ईषद्विशिष्टोक्तबोधयात् , तद्भावेनात्र मनास्थितिवीर्ये अतः पटुमाया स्मृतिरिह, प्रयोगसमये तद्भावे चार्थप्रयोगमात्रप्रीत्या यत्नलेशभावादिति । दीपादृष्टिीपप्रभासदृशी, विशिष्टतरोफ़्तवार्यत्रयाद् , अतोऽत्रोदने स्थितिवीर्ये, तत्पद्व्यपि प्रयोगसमये स्मृतिः । एवं भावतोऽप्यत्र द्रव्यप्रयोगो बन्दनादौ, तथा भक्तितो यत्र भेदप्रवृत्तेरिति प्रथमगुणस्थानप्रकर्ष एतावानिति समयविदः । इत्थं चोक्तस्य योगदृष्टिसचयग्रन्थार्थस्यानुसारेण मिथ्यादृष्टीनामपि मिप्रादिदृष्टियोगेन तथापास्थानकत्वसिद्धेः, तथाप्रवृत्तेरनाभिग्रहिकत्वमेव तेषां शोभनमित्यापनम् ॥ १३ ॥ ननु योगदृष्ट्याऽपि मिथ्यावृशां कथं गुणभाजनत्वम् ? जनस्वप्राप्तिं विना गुणलाभासंभवाद् दृष्टिविपर्यासस्य दोषस्य सत्वाद् । अत एवोक्तम् " मिथ्यात्वं परमो रोगों मिथ्यात्वं परमं तमः । मिथ्यात्वं परमशत्रुर्मिथ्यात्वं पदमापदाम् ॥" इत्याशङ्कथाहगलिआसग्गहदोसा अविज्जसविज्जपयगया तेवि। सब्दण्णुभिचभावा जइत्तणं जंति भावेणं ॥ १४ ॥ __ गलिआसग्गहदोसत्ति । ते लब्धयोगदृष्टयो मिथ्यात्ववन्तोऽवेद्यसंवेद्यपदगता अपि तत्त्वश्रवणपर्यन्तगुणलाभेऽपि कर्मवज्रविभेदलभ्यानन्तधर्मात्मकवस्तुपरिच्छेदरूपसूक्ष्मबोधाभावेन वेद्यसंवेद्यपदाधस्तनपदस्थिता अपि भावेन जैनत्यं यान्ति वेद्यसंवेद्याः। वेद्यसंवेद्यपदयो'लक्षणमिदम् गलितासद्ग्रहदोषा अवेद्यसंवेद्यपदगतास्तेऽपि । सवेनभृत्यभावाद् यतित्वं यान्ति भावेन ॥ १४ ॥ Page #64 -------------------------------------------------------------------------- ________________ " " वेद्यं संवेद्यते यस्मिन्नपायादिनिबन्धनम् । पदं तद्वद्यसंवेद्यमन्यदेतद्विपर्ययात् ॥” इति । अस्यार्थः-वेद्यं वेद्यनीयं वस्तुस्थित्या तथाभावयोगिसामान्येनाविकल्पझानग्राह्यमित्यर्थः । संवेद्यते क्षयोपशमानुरूपं विज्ञायते यस्मिन्नाशयस्थानेऽपायादिनिबन्धनं नरकस्वर्गादिकारणं स्व्यादि तद् वेद्यसंवेद्यपदं निश्चितागमतात्पर्यार्थयोगिनां भवति । अन्यदवेधसंवेद्यपदम् , एतद्विपर्ययात्-उक्तलक्षणव्यत्ययाद स्थूलबुद्धीनां भवति ।। कथं ते भावजैनत्वं यान्ति ? इत्यत्र हेतुमाह-सर्वज्ञभृत्यभावात् सर्वत्र धर्मशास्त्रपुरस्कारेण तवक्तृतज्ञवकत्वान्युपगमात् । नन्वेमु. च्छिन्ना जैनाः, जैनव्यवस्थावायैरपि सधैर्नाममात्रेण सर्वज्ञाभ्युपगमात् तेषामपि जैनत्वप्रसङ्गादित्यतस्तेषां विशेषताह-गलितासग्रहदोषा इति । येषां ह्यसग्रहदोषात्स्वस्वाभ्युपगाथपुरस्कारस्तेषां रागद्वेषादिविशिल्पकल्पितसर्वज्ञाभ्युपगन्तृत्वेऽपि न भावजैनत्वम् । येषां तु माध्यस्थावदातबुद्धीनां विप्रतिपत्तिविषयप्रकारांशे नाग्रहस्तेषां मुख्यसर्वज्ञाभ्युपगन्तृत्वाद् भावजैनत्यं स्यादेव इति भावः। मुख्यो हि सर्वशस्तावदेक एव निरतिशयगुणवत्वेन तत्प्रतिपत्तित्वं यावतां तावता तद्भक्तत्वमविशिष्टमेव, सर्वविशेषाणां छल्मस्थेनामहादू दूरासमादिभेदस्य च भृत्यत्वजात्यभेदकत्वादिति। सदुक्तं योगदृष्टिसमुखये " न तत्त्वतो भिन्नमताः सर्वज्ञा बहवो यतः। मोहस्तदधिमुक्तीनां तद्भेदाश्रयणं ततः ॥" सर्वज्ञो नाम यः कश्चित् पारमार्थिक एव हि । स एक एव सर्वत्र व्यक्तिभेदेऽपि तत्त्वतः ॥ प्रतिपत्तिस्ततस्तस्य सामान्येनैव यावताम् । से सर्वेऽपि तमाफ्ना इति न्यायगतिः परा ॥ विशेषस्तु पुनस्तस्य कात्स्न्नासर्वदर्शिभिः । सर्वैर्न ज्ञायते तेन तमापन्ना न कश्चन ॥ तस्मात्सामान्यतोऽप्येनमभ्युपैति य एव हि । निर्व्याज तुल्य एवासौं तेनांशेनैव धीमताम् ।। Page #65 -------------------------------------------------------------------------- ________________ यथेकस्य नृपतेर्षहवोऽपि समाश्रिवाः। दूरासन्नादिभेदेन तभृत्याः सर्व एव ते ।। सर्वज्ञतत्वाभेदेन तथा सर्वज्ञवादिनः। सर्वे तत्तत्त्वगा ज्ञेया भिन्नाचारस्थिता अपि । न भेद एव तत्त्वेन सर्वज्ञानां महात्मनाम् । · पथा नामादिभेदेऽपि भाव्यमेतन्महात्मभिः ॥” इति । प.प परेषां सर्वज्ञभक्तेरेवानुपपत्तिः, तेषामप्यध्यात्मशास्त्रेषु चित्राचित्रविभागेन भक्तिवर्णनात् , संसारिणां विचित्रफलार्थिनां भानादेवेषु चित्रभक्तेः, एकमोक्षार्थिनां चैकस्मिन् सर्वज्ञे चित्रभक्त्युपपादनात् । तथा च हारिभद्रं वचः " चित्राचित्रविभागेन यच्च देवेषु वर्णिता। भक्तिः सद्योगशास्त्रेषु ततोऽप्येवमिदं स्थितम् ।। संसारिषु हि देवेषु भक्तिस्तत्कायगामिनाम् । सदतीते पुनस्तत्त्वे तदतीतार्थयायिनाम् ।। चित्रा चायेषु तद्राग-तदन्यद्वेषसंगता। अचित्रा चरमे त्वेषा शमसाराऽखिलैव हि ॥” इति । प्राप्यस्य मोक्षस्य चैकत्वात् तदर्थिनां गुणस्थानपरिणतितारतम्येऽपि न मार्गभेद इति, तदनुकूलसर्वज्ञभक्तावप्यविवाद एव तेषाम् । उक्तं - प्राकृतेण्विह भावेषु येषां चेतो निरुत्सुकम् । मवभोगविरक्तास्ते भवातीतार्थयायिनः ।।. एक एव तु मार्गोऽपि तेषां शमपरायणः। अवस्थाभेदभेदेऽपि जलधौ तीरमार्गवत् ॥ संसारातीततत्त्वं तु परं निर्वाणसंज्ञितम् । . तथैकमेव नियमाच्छब्दभेदेऽपि तत्त्वतः ।। सदाशिवः परं बह्म सिद्धात्मा तथा नेति च । शब्दैस्तदुच्यतेऽन्वर्थादेकमेवैवमादिभिः॥ तल्लक्षणाविसंवादाभिराबाधमनामयम् । निष्क्रियं च परं तत्वं यवो जन्माययोगवः ।। Page #66 -------------------------------------------------------------------------- ________________ ....शात निर्याणतत्वेऽस्मिन् न संगोहेन तत्त्वतः । प्रेक्षावा न तद्भक्तो विवाद उपपद्यते ॥” इति । मनु देशनाभेदान्नैकः सर्वज्ञः इति सर्वेषां योगिनां नैकसर्वज्ञभक्तत्वमिति चेद् । न, विनेयानुगुण्येन सर्वेषां देशनाभेदोपपत्तेः, एकस्या एव वा तस्या वक्तुरचिन्त्यपुण्यप्रभावेन श्रोतृभेदेन भिन्नतया परिणतः कपिलादीनामृषीणामेव वा कालादियोगेन नयभेदात्तद्वैधिश्योपपत्तेः, तन्मूलसर्वज्ञप्रतिक्षेपस्य महापापत्वात् । उक्तं च "चित्रा तु देशनैतेषां स्याद्विनेयानुगुण्यतः। यस्मादेते महात्मानो सर्वव्याधिभिषग्वराः ।। यस्य येन प्रकारेण बीजाधानादिसंभवः। साधुवन्धो भवत्येते तथा तस्य जगुस्वतः ॥ एकापि देशनैतेषां यद्वा श्रोतविभेदतः। अचिन्त्यपुण्यसामर्थ्यात्तथा चित्राऽवभासते ॥ पथाभन्यं च सर्वेषामुपकारोऽपि तत्कृतः। जायते वन्ध्यताऽप्येवमस्याः सर्वत्र सुस्थिता ॥ पद्वा तत्तन्नयापेक्षा तत्तत्कालादियोगतः । ऋषिभ्यो देशना चित्रा तन्मूलैषाऽपि तत्त्वतः ॥ सदभिप्रायमज्ञात्वा न ततोऽर्वाग्दृशां सताम् । युज्यते तत्प्रतिक्षेपो महानर्थकरः परः॥ निशानाथप्रतिक्षेपो यथाऽन्धानामसंगतः । सद्भेदपरिकल्पश्च तथैवार्वाग्दृशामयम् ॥ न युज्यते प्रतिक्षेपः सामान्यस्यापि तत्सताम् । आयोपवादतस्तु पुनर्जिताच्छेदाधिको मतः॥ कुदृष्टादि च नो सन्तो भाषन्ते प्रायशः क्वचित् । निश्चितं सारवच्चेव किन्तु सत्त्वार्थकृत्सना ॥” इति । मनु यद्येवंविधं माध्यस्थ्यं परेषां स्यात् तदा मार्गाभावजैनत्वं भवेत् , तदेव तु व्यवहारतो जैनमार्गानाश्रयणे दुर्घटमिति न तेषां माध्यस्थ्यमिति चेद् । न, मोहमान्छे परेषामपि योगिनामेतादृशमाध्यस्थ्यस्येष्टत्वादू, यदवं कालातीतवचनानुवादो योगविन्दो माध्यस्थ्य Page #67 -------------------------------------------------------------------------- ________________ मवलम्ब्युवमैदंपर्यव्यपेक्षया तत्त्वं निरूपगीयं स्यात् । कालातीतोऽप्यन दोऽब्रवीत् " अन्येषामप्ययं मार्गो मुक्ताविद्यादिवादिनाम् । अभिधानादिभेदेन तत्त्वनीत्या व्यवथितः ॥ मुक्तो बुद्धोऽर्हन वापि यदैश्वर्येण समन्वितः। तदीश्वरः स एव स्यात् संज्ञाभेदोऽत्र केवलम् ॥ अनादिशुद्ध इत्यादिर्यो भेदो यस्य कल्प्यते। तसन्त्रानुसारेण मन्ये सोऽपि निरर्थकः ॥ .. विशेषस्यापरिज्ञानाद् युक्तीनां जातिवादतः। प्रायो विरोधितश्चैव फलाभेदाच्च भावतः। अविद्याक्लेशकर्मादि यतश्च भवकारणम् । ततः प्रधानमेवैतत्संज्ञाभेदमुपागतम् ॥ अत्राषि: यो परो भेदश्चित्रोपाधिस्तथा तथा । गीयतेऽतीतहेतुभ्यो धीमतां सोऽप्यपार्थकः ।। ततः स्थानप्रयासोऽयं यत्तद्भेदनिरूपणम् ।। सामान्यमनुमानस्य यतश्च विषयो मतः ।।।। साधु चैतद् यतो नीत्या शास्त्रमत्र प्रवर्तकम् । स्थाऽभिधानभेदात्तु भेदः कुचितिकाग्रहः ॥" इत्यादि । अर्थतेषां भावजैनत्वे आज्ञाऽसंभवमाहदव्वाणा खलु तेसिं भावाणा कारणत्तओ नेया। जं अपुणबंधगाणं चित्तमणुट्टाणमुवइह ॥ १५॥ - दव्वाणत्ति । तेषामवेद्यसंवेद्यपदस्थानां भावजैनानां 'खलु' इति निश्चये भाषाज्ञायाः सम्यग्दर्शनादिरूपायाः कारणत्वतो द्रव्याज्ञा ज्ञेया२... पुनर्बन्धकोचिताचारस्य पारम्पर्येण सम्यग्दर्शनादिसायकत्वात् । । तदुक्तं चोपदेशपदे-.... .. द्रव्याज्ञा खलु तेषां भावाज्ञा कारणवतो ज्ञेया। पदमनबन्धकानां चित्रमनुष्यानसपदिष्टम् ॥ १५॥ Page #68 -------------------------------------------------------------------------- ________________ " 'गंठीगसत्तापुणवैधगाइआणपि दव्वओं आणा । गवरमिह दव्वसहो भइअव्वो समयणीईए ।। एगो अप्पाहन्ने केवलए चेव वहई एत्थ । अंगारमद्दगो जह दन्वायरिओ सयामव्यो । अन्नो पुण जोग्गचे चित्तेण य भेओ मुणेअब्बो । घेमाणिओववाओत्ति दव्वदेवो जहा साहू ।। सत्थामव्वादीणं गंठीगसत्ताणमप्पहाणत्ति । इयरेसि जोग्गयाए भावाणा कारणचेणं ॥" . अत्र हि द्रव्यशब्दस्य द्वावी-प्रधानभावकारणं मावशिविकलं केवलमप्राधान्यम् । संग्रहव्यवहारनयविशेषाद् विचित्रमेकमविकबद्धायुष्काभिमुखनामगोत्रलक्षणं तत्तत्पर्यायसमुचितभावरूपं योग्यत्वं च । तत्र प्रथमार्थनामव्यसकृद्बन्धकादीनां द्रव्यक्रियाभ्यासपराणां द्रव्याज्ञा । द्वितीयार्थेन चापूनर्बन्धकादीनामिति वृत्तितात्पर्यार्थः। । नन्वेवमपुनर्बन्धकानां द्रव्याज्ञा व्यवस्थिता, तथाऽपि भिन्नमार्गस्थानां मध्यस्थानामपि मिथ्यादृशां कथमेषा संभवति ?, जैनमार्गक्रिय यैवाव्युत्पन्नदशायामपुनर्बन्धकत्वसिद्ध बीजाधानस्यैव तल्लिङ्गत्वात् , तस्य च सर्वज्ञवचनानुसारिजिनमुनिप्रभृतिपदार्थकुशलचित्तादिलक्ष्यस्वाद् । तदुक्तमुपदेशपदवृत्तिकृता आणापरतंतेहि ता बीआहाणमेत्थ कायव्वं । धम्ममि जहासत्ती परमसुहं इच्छमाणेहिं ॥"- इति प्रन्थिगसत्त्वापुनर्बन्धकादीनामपि द्रव्यत आशा । केवलमिह द्रव्यशब्दो भक्तव्यः समयनीत्या ॥ एकोऽप्राधान्ये केवले एव वर्ततेऽत्र । अङ्गारमर्दको यथा द्रव्याचार्यः सदाऽभव्यः । अन्यः पुनर्योग्यत्वे चित्तेण च भेदतो ज्ञातव्यः । धैमानिकोपपात इति द्रव्यदेवो यथा साधुः। "तत्राभव्यादीनां प्रन्थिगसत्त्वानामप्रधानेति । इतरेषां योग्यतया भावाज्ञा कारणत्वेन ॥ आशापरतन्त्रैस्तस्माद्वीजाधानमत्र कर्तव्यम् । धर्मे यथाशक्ति परमसुखमिच्छद्भिः ॥ Page #69 -------------------------------------------------------------------------- ________________ गायों किदृण्वसा धर्मवीजानि चैवं शास्त्रान्तरे परिपठितानि रश्यन्ते जिनषु कुशल चित्तं तबमस्कार एव च । प्रणामादि च संशुद्धं योगबीजमनुत्तमम् ॥ उपादेयधियाऽत्यन्त संज्ञाविष्कम्भणान्वितम् । फलाभिसन्धिरहितं संशुद्धं ह्येतदीदृशम् ॥ आचार्यादिष्वपि ह्येतद्विशुद्धं भावयोगिषु । वैयावृत्यं च विधिवच्छुद्धाशयविशेषतः ॥ भवोद्वेगश्च सहजो द्रव्याभिग्रहपालनम् । तथा सिद्धान्तमाश्रित्य विधिवद् लेखनानि च ।......... लेखना पूजना दानं श्रवणं वाचनोद्ग्रहः। .. प्रकाशनाऽथ स्वाध्यायचिन्तना भावनेति च ॥.... दुःखितेषु दयाऽत्यन्तमद्वेषो गुणवत्सु च । .................. औचित्यासेवनं चैव सर्वत्रैवाविशेषतः ॥ इति । लालेतविस्तरायामप्युक्तम्-" एतत्सिद्धयर्थ तु यतिखव्यमादिकर्मणि, परिहर्तव्योऽकल्याणमित्रयोगः, सेवितव्यानि कल्याणनित्राणि, न लडनीयोचितस्थितिः, अपेक्षितव्यो लोकमार्गः, माननीया गुरुसन्ततिः, भवितव्यमेतत्तन्त्रेण, प्रवर्तितव्यं दानादौ, कर्तव्योदारपूजा भगवताम् , निरूपणीयः साधुविशेष', श्रोतव्यं विधिना धर्मशास्त्रम् , भावनीयं महायत्नेन, प्रवर्तितव्यं विधानतोऽवलम्बनीयम् , पर्यालोचनीयाऽऽयतिः, अवलोकनीयो मृत्युः, परिहर्तव्यो विक्षेपमार्गः, पतितव्यं योगसिद्धौ, कारयितव्या भगवत्प्रतिमा, लेखनियं भुवनेश्वरवचनम् , कर्तव्यो मङ्गलजापः, प्रतिपत्तव्यं चतुःशरणम् , गर्हितव्यानि दुष्कृतानि, अनुमोदनीयं कुशलम् , पूजनीया मन्त्रदेवता, श्रोतव्यानि सच्चेष्टितानि, भावनीयमौदार्यम् , चर्तितव्यमुत्तमज्ञानेन" एवंभूतस्य येह प्रवृत्तिः सा सर्वैव साध्वी मार्गानुसारीत्ययं नियमादपुनर्वन्धकादिस्तदन्यस्यैवंभूतगुणसंपक्षेऽभावादित्यत आह-यद् यस्माद् अपुनर्बन्धकानां चित्रमनेकविधमनुष्ठानमुपदिष्टम् , अतो भिन्नाचारस्थितानामपि तेषां द्रव्याज्ञाया नानुपपत्तिरिति । Page #70 -------------------------------------------------------------------------- ________________ इदमत्र हृदयम्--नत्यादिधार्मिकस्य विधिः सर्व एव सर्वत्रोपयुयते, किन्तु क्वचित्कश्चिदेवेति । भिन्नाचारस्थितानामप्यन्त शुद्धिमतामपुनर्बन्धकत्वमविरुद्वम्, अपुनर्बन्धकस्य हि नानास्वरूपत्वात् तत्ततन्त्रोक्ताऽपि मोक्षार्थी क्रिया घटते, सम्यग्दृष्टेश्व स्वतन्त्रक्रियेवेति व्यवस्थितत्वात् । तदुक्तं योगबिन्दुसत्रवृत्त्यो: अपुनर्बन्धकस्यैवं सम्यग्नीत्योपपद्यते । तत्तत्तन्त्रोक्तमखिलमवस्थाभेदसंश्रयात् ॥ अपुनर्वन्धकस्योक्तरूपस्यैवमुक्तरूपेण सम्यग्नीत्या शुद्धयुक्तिरूपया उपपद्यते -घटते । किम् ? इत्याह - ' तत्तत्तन्त्रोक्तं कापिल-सौगतादिशास्त्रप्रणीतं मुमुक्षुजन योग्यमनुष्ठानमखिलं समस्तम् कुतः ? इत्याह- अवस्थाभेदसंश्रयात् - अपुनर्वन्धकस्यानेकस्वरूपाङ्गीकरणत्वात्, अनेकस्वरूपाभ्युपगमे हि अपुनर्बन्ध - कस्य किमप्यनुष्ठानं कस्यामप्यवस्थायामवतरतीति । अथापुनर्बन्धकानन्तरं यद्भवति तद्दर्शयति स्वतन्त्रनीतितस्त्वेव ग्रन्थिभेदे तथा सति । सम्यग्दृष्टिर्भवत्युचैः प्रशमादिगुणान्वितः ॥ ८ 66 'स्वतन्त्रनीतितस्त्वेव जैनशाखनीतेरेव, न पुनस्तन्त्रान्तराभिप्रायेणापि, गन्थिभेदे ' रागद्वेषमोहपरिणामस्यातीवदृढस्य विदारणे, ' तथा ' यथाप्रवृत्या - दिकरणप्रकारेण 'सति ' विद्यमाने, किम् ? इत्याह-' सम्यग्दृष्टि: ' शुद्धसम्यक्रो' भवति ' संपद्यते । कीदृश: ? इत्याह- उच्चैः ' अत्यर्थं प्रागवस्थातः सकाशात् ' प्रशमादिगुणान्वितः ' उपशम-संवेग-निर्वेदानुकम्पाऽऽस्तिक्याभिव्यक्तियुक्त इति । • एवं परेषामपि माध्यस्थ्ये द्रव्याज्ञासद्द्भावः सिद्धः ।। १५ ।। ननु द्रव्याज्ञाऽपि सिद्धान्तोदित क्रियाकरणं बिना कथं परेषां स्यात् ? इत्यत आह 5 मग्गाणुसारिभावो आणाए लक्खणं मुणेयव्वं । किरिया तस्स णणियया पडिबंधे वावि उपगारे ॥ १६ ॥ मार्गानुसारिभाव आज्ञाया लक्षणं ज्ञातव्यम् । क्रिया तस्य न नियता प्रतिबन्धे वाऽप्युपकारे ।। १६ ।। Page #71 -------------------------------------------------------------------------- ________________ ५८ मग्गाणुसारिभावोति । मार्गानुसारिभावो निसर्गतस्तस्वानुकूलप्रवृत्तिहेतुः परिणाम आज्ञाया लक्षणं 'मुणेपव्वंति ज्ञातव्यम् । क्रिया स्वसमयपरसमयोदिताचाररूपा, तस्य मार्गानुसारिभावस्योपकारे प्रति बन्धे वा न नियता, स्वसमयोदित क्रियाकृतमुपकारं विनाऽपि मेघकुमारजीव हस्त्यादीनां तथाभव्यत्वपरिपा काहिताऽनुकम्पादिमहिम्ना मार्गानुसारित्वसिद्धेः, परसमयक्रियायां च सत्यामपि समुल्लसितयोगदृष्टिमहिम्नां पतञ्जल्यादीनां मार्गानुसारित्वाप्रतिघातात् । अत्र कश्चिदाह - ननु पतञ्जल्यादीनां मार्गानुसारित्वमशास्त्रसिद्धम्, उच्यते- नैतदेवम्, योगदृष्टिसमुच्चयग्रन्थ एवं योगदृष्ट्यभिधानात् तेषां मार्गानुसारित्वसिद्धेः । उक्तं च - " निरूपितं पुनर्योगमार्गज्ञैरध्यात्मविद्भिः पतञ्जलिप्रभृतिभिस्तपोनिन्तकल्मषैः प्रशमप्रधानेन तपसा क्षीणप्राय मार्गानुसारिबोधबाधकमोह मलैरिति " । उक्तं च – “योगमार्गज्ञेस्तपोनिर्युतकल्मषैः " — इति प्रतीकं विवृण्वता योगविन्दुवृत्तिकृताऽपि तेषां तदभिधानाच्चेति । अयमिह परमार्थः - अव्युत्पन्नानां विपरीतव्युत्पन्नानां वा परसमयस्थानां जैनाभिमतक्रिया यथाऽसग्रहपरित्याजनद्वारा द्रव्यसम्यक्त्वाद्यध्यारोपणेन मार्गानुसारिताहेतुः, तथा सद्ग्रहप्रवृत्तानां तेषामुभयाभिमतयमनियमादिस्वरूप शुद्धश्रियाऽपि पारमार्थिक वस्तुविषयपक्षपाताधानद्वारा । तथाहि - योपादेय विषयमात्रपरीक्षाप्रवणत्वादध्यात्मविदां तथा च नियतक्रियाया मार्गानुसारिभावजननेनैकान्तिकत्वमात्यन्तिकत्वं वा, तथा च जैनक्रियां विनाऽपि भावजैनानां परेषां मार्गानुसारित्वादाज्ञासंभवोऽविरुद्ध इति । युक्तं चैतद्, न चेदेवं तदा जैनक्रियां विना भावलिङ्गबीजाभावाद् भावलिङ्गस्यापि परेषामनुपपत्तावन्यलिङ्गसिद्धादि भेदानुपपत्तेः । यः पुनराह – परसमयानभिमतस्वसमयाभिमतक्रियैव असद्ग्रहविनाशद्वारा मार्गानुसारिताहेतुरिति, तदसत्, उभयाभिमताकरणनियमादिनैव पतञ्जल्यादीनां मार्गानुसारिताऽभिधानात्, व्युत्पन्नस्य मार्गानुसारितायां तत्त्वजिज्ञासामूलविचारस्यैव हेतुत्वात्, अव्युत्पन्नस्य तस्यां गुरुपारतन्त्र्याधानद्वारा स्वसमया क्रियाहेतुत्वे परसमयानभिमतत्वप्रवेशे प्रमाणाभावाच्च । भवाभिनन्दिदोषप्रतिपक्षा गुणा एव हि Page #72 -------------------------------------------------------------------------- ________________ नियता मार्गानुलारिताहेतवः, क्रिया तु क्वचिदुभयाभिमता, क्वचिच्च. स्वसमयाभिलतेत्यनियता, हेतुः परकीयसंमतेर्निजमार्गदायहेतुत्वं वा. व्युत्पन्नमभिनिविष्टं वा प्रति, न तु व्युत्पन्नमनभिनिविष्टं प्रतीति । ___यत्तु निश्चयतः परसमयबायानामेव संगमःनयसाराम्बडप्रमुखानां मार्गानुसारित्वं स्यात् , नान्येषामिति केषांचिन्मतम् , तत्तेषामेव प्रतिकूलम् , सद्ग्रहप्रवृत्तिजनितनैश्चयिकपरसमयबाह्यतया पतञ्जल्यादीनामप्यम्बडादीनामिव मार्गानुसारित्वाप्रतिघातात् । इयानेव हि विशेषो यदेकेषामपुनर्बन्धकत्वेन तथात्वम् , अपरेषां तु श्राद्धत्वादिनेति ॥१६॥ अयं मार्गानुसारिभावः कदा स्यात् ? इत्येतत्कालमानमाहमग्गाणुसारिभावो जायइ चरममि चेव परिअट्टे । गुणबुड्डीए विगमे भवाभिनंदिदोसाणं ॥ १७ ॥ मग्गाणुसारिभावोत्ति । भवाभिनन्दिदोषाणाम् " क्षुद्रो लोभरतिर्दीनो मत्सरी भयवान शटः । अज्ञो भवाभिनन्दी स्यानिष्फलारम्भसंगतः ॥" इति श्लोकोक्तानां विगमे सति गुणवृद्धया चरमपुद्गलपरावर्त एव मार्गानुसारिभाबो भवति । अपुनर्यन्धकाढ़ेर्मार्गानुसारिप्रौढप्रज्ञानुगतत्ववचनात् तस्य चैतावत्कालमानत्वात् । अत एव च नौषधप्रयोगकालश्चरमपुद्गलपरावर्त एवोक्तो व्यवहारतः , निश्चयतस्तु ग्रन्थिभेदकालस्तत्रापि ग्रन्थिभेदकाल एव न्यूनत्वेन पुरस्कृतः । तथा चोपदेशपदसूत्र वृती " घंणमिच्छत्तो कालो एत्थ अकालो उ होइ णायव्यो । कालो अ अपुणबंधगपभिई धीरेहि णिद्दिट्टो ॥ मार्गानुसारिभावों जायतें चरम एव परिवर्ते । गुणवृद्धया विगमे भवाभिनन्दिदोषाणाम् ॥ १७ ॥ घनमिथ्यात्वः कालोऽत्राकालस्तु भवति ज्ञातव्यः । कालश्चापुनर्बन्धकप्रभृति(रैर्निर्दिष्टः । Page #73 -------------------------------------------------------------------------- ________________ णिच्छयओ पुण एसो विन्नेओ गंठिभेअकालंमि । एयंमि विहिसयपालणाउ आरोग्गमेयाओ" घनं-महामेघावलुप्तसकलनक्षत्रादिग्रभाप्रसरभाद्रपदाधमावास्या मध्यभागसमुद्भूतान्धकारनिबिडं मिथ्यात्वं-तत्त्वविपर्यासलक्षणं यत्र स तथा, कालचरमपुद्गलपरावर्तव्यतिरिक्तशेषपुद्गलपरावर्तलक्षणः, अत्र-वचनौषधप्रयोगे, अकालस्तुअकाल एव भवति ज्ञातव्यः। चरमपुद्गलपरावर्तलक्षणस्तु तथाभव्यत्व्परिपाकतो घीजाधानोद्भदपोषणादिषु स्यादपि काल इति । अत एवाह-कालस्त्वयसरः पुनरपुनर्बन्धकप्रभृतिः । तत्रापुनर्बन्धकः “पावं ण तिव्वभावा कुणइ " इत्यादिलक्षणः आदिशब्दान्मार्गाभिमुख-मार्गपतितो गृह्यते । तत्र मार्गो ललितविस्तरायामनेनैव शास्त्रकृतेत्थंलक्षणो निरुपितः । 'मग्गदयाणं " इत्याद्यालापकव्याख्यायां मार्गश्चेतसौऽवक्रगमनम् , भुजंगमनलिकायामतुल्यो विशिष्टगुणस्थानावाप्तिप्रवणः स्वरसवाही क्षयोपशमविशेषौ हेतु-स्वरूप फलशुद्धामुखेत्यर्थः, तत्र पतितो भव्यविशेषो मार्गपतित इत्युच्यते, तदादिभावापन्नश्च मार्गाभिमुख इति । एतौ च चरमयथाप्रवृत्तकरणभागभाजावैव विज्ञेयौ । अपुनर्बन्धकोऽपुनर्बन्धककालः प्रभृतिर्यस्य स तथा धीरैस्तीर्थकरादिभिर्निर्दिष्टो व्यवहारत इति । निश्चयतो निश्चयनयमतेन पुनरेप पचनौषधप्रयोगकाले विज्ञेयः । कः ? इत्याह ग्रन्थिभेदकालस्तु ग्रन्थिभेदकाल एव, यस्मिन् काले पूर्वकरणानिवृत्तिकरणाभ्यां ग्रथिर्भिन्ना भवति तस्मिलवेत्यर्थः। कुतः १ यत एतस्मिन् ग्रन्धिभेदे सति विधिना-अवस्थोचितकृत्यकरणलक्षपोन, सदा सर्वकालं या पालना च वचनौषधस्य, तया कृत्वाऽऽरोग्यं-संसारध्याधिरोधलक्षणम् , एतस्माद्वचनौषधप्रयोगाद् भवति । अपुनर्बन्धकप्रभृतिषु पचनप्रयोगः क्रियमाणोऽपि न तथा सूक्ष्मबोधविधायकः, अनाभोगबहुलत्वात्तकालस्य । भिन्नग्रन्थ्यादयस्तु व्यावृत्ताहत्वेन निपुणबुद्धितया तेषु कृत्येषु वर्तभानास्तत्कर्मव्याधिसमुच्छेद्का जायन्त इति । ग्रन्थिभेदमेव पुरस्कुर्वन्नाह " इहरावि हंदि एअंमि एस आरोग्गसाहगो चेव । पोग्गलपरिअट्टद्धं जमूणमेअंमि संसारो ॥ निश्चयतः पुनरेष विज्ञेयो प्रन्धिभेदकाले । एतस्मिन् विधिशतपालनया आरोग्यमेतस्मात् ॥ २ पापं न तीवभावात्करोति ।। इतरथाऽपि खलु एतस्मिन्नेष आरोग्यसाधकश्चैव । पुद्रलपरावर्तार्द्ध यदूनमेतस्मिन् संसारः ॥ Page #74 -------------------------------------------------------------------------- ________________ इतरथापि विधैः सदापालनामन्तरेणापि, हन्दीति पूर्ववत् , एतस्मिन् ग्रन्थिभेदे कृते सत्येष वचनप्रयोग आरोग्यसाधकश्चैवभावारोग्यनिष्पादक एव संपद्यते । तथा च पठ्यते--- " लब्ध्वा मुहूर्तमपि ये परिवर्जयन्ति __सम्यक्त्वरत्नमतवद्यपदप्रदायि । यास्यन्ति तेऽपि न चिरं भववारिराशौ तद्विभ्रतां चिरतरं किमिहास्ति वाच्यम् ।। अत्र हेतुमाह- पुद्गलानामौदारिक- तेजस- भाषा-ऽऽनप्राण-मनः कर्मप्रहणपरिणतानां विवक्षितकालमादौ कृत्वा यावतां सामस्त्येनकजीवस्य ग्रहनिसर्गों संपद्यते स कालः पुद्गलपरावर्त इत्युच्यते, पुद्गलग्रहणनिसर्गाभ्यां परिवर्तन्ते परापरपरिणतिं लभन्ते तस्मिनिति व्युत्पत्तेः , तस्यार्द्ध यावद् यद् यस्मादूनं किंचिद्धीनम् , एतस्मिन् ग्रन्थिभेदे सति संसारिजीवानां तीर्थकराद्याशातनाबहलानामपि ।। अत्र दृष्टान्ताः कूलवालकगोशालकायो वाच्या इति । एवं चोत्कर्षतोऽप्यपार्धपुद्गलपरावर्तावशेषसंसारस्यैव मार्गानुसास्त्विमिति यत्केनचिदुक्तम् , तत्केनाभि-- प्रायेणेति विचारणीयं मध्यस्थैः । न वमपुनर्बन्धकापेक्षया कालभेदेन ग्रन्थिभेदस्य पुरस्करणमुपपद्यते, पराभिप्रायेणापापुद्गलावर्तकालमानस्योभयत्राविशेषाद् एवं वदतो भ्रान्तिमूलं तावच्चरमयथाप्रवृत्तकरणभागभाज़ामेवापुनर्बन्धकादीनामधिकारित्वभणनम् , तादृशानां तेषां सम्यक्त्वसंनिहितत्वाद् । अत एव " भवहेउनाणमेयस्स पायसो. सप्पविचिभावेणं । तह तयणुबंधओ चिय तत्तेपरनिंदणाइओ ॥" भवहेतुः संसारनिबन्धन ज्ञान-शास्त्राभ्यासजन्यो बोध एतस्य मिथ्यादृष्टेः,, कथम् ? इत्याह-प्रायशो बाहुल्येन, असत्प्रवृत्तिभाबेन-विपर्यस्तचेष्टाकरणात् ,. तस्य यदिह प्रायोग्रहणं तद् यथाप्रवृत्तकरणचरमविभागभाजां संनिहितग्रन्थिभेदानामत्यन्तजीर्णमिथ्यात्वज्वराणां केषांचिदुःखितदया-गुणवदद्वेष-समुचिताचारप्रवृत्तिसाराणां सुन्दरप्रवृत्तिभावेन व्यभिचारतारणार्थम् । तथेति हेत्वन्तरसमुच्चये। तदनुबन्धत एवासत्प्रवृत्यनुषन्धादेष । एतदपि कुतः ? इत्याह-तत्त्वेतरनिन्दना भवहेतुज्ञानमेतस्य प्रायशोऽसत्प्रवृत्तिभावेन । तथा तद्नुबन्धत एव तत्त्वेतरनिन्दनादितः ॥. Page #75 -------------------------------------------------------------------------- ________________ ६२ दितः । स हि मिथ्यात्वोपघातात्समुपात्तविपरीतरुचिः तच्चं च सद्भूतदेवतादिकमर्हस्यादिलक्षणम्, 'निंद' त्ति इतरबातस्त्वं तत्कुयुक्तिसमुपन्यासेन पुरस्करोति ततस्तच्वेतर निन्दनादितो दोषाद् भवान्तरेऽप्यसत्प्रवृत्तिरनुबन्धयुक्तस्यैव स्यादित्युपदेशपदवचनान्तरमनुसृत्यात्रानादिप्रवाहपतितस्य यथाप्रवृत्तकरणस्य चरमविभागः सम्यक्त्वप्राप्तिहेतुकर्मक्षयोपशमलक्षितावस्थाविशेषस्तद्वतां संनिहितग्रन्थिभेदानां स्वल्पकालप्राप्तव्यसम्यक्त्वानामत्यन्तजीर्णमिथ्यात्वज्वराणां सुन्दरप्रवृतिरिति भणनेन तद्व्यतिरिक्तानां तु सर्वेषामपि मिथ्यादृशामसुन्दर प्रवृत्तिरेवोक्तेति सूक्ष्मदृशा पर्यालोच्यमिति तेनोक्तम् । तत्रेदं विचारणीयम् - चरमत्वं यथाप्रवृत्तकरणस्यानन्तपुद्गलपरावर्त भाविनश्वरमैकावर्तमात्रेणापि निर्वाह्यम्, संनिहितग्रन्थिभेदत्वस्य तु स्वल्पकालप्राप्तव्यसम्यक्त्वाक्षेपकता । 46 आसन्ना चेयमस्योच्चैश्वरमाचर्तिनो यतः । भूयांसोऽमी व्यतिक्रान्तास्तदेकोऽत्र न किंचन ॥ आसन्ना चाभ्यर्णवर्तिन्येव इयमुक्तिरस्योच्चैरतीय चरमावर्तिनश्वरमपुद्गलपरावर्तभाजो जीवस्य यतः कारणाद् भूयांसोऽतीव बहवोऽमी आवर्ता व्यतिक्रान्ता अनादौ संसारे व्यतीतास्तत एकोऽपश्चिमोऽत्र 'न किंचन ' न किंचिद्भयस्थान - मेष इत्यर्थः 77 इति योगबिन्दुसूत्रवृत्तिवचनाच्चरमावर्तिन आसन्न सिद्धिकत्वस्यापि स्वल्पकालप्राप्तव्यसिद्ध्याक्षेपकत्वापत्तेः, आपेक्षिकासन्नतया समाधानं चोभयत्र सुघटमिति अथैकभविकाद्यचितयोग्यतानियतत्वाद् द्रव्याज्ञायाः सम्यक्त्वप्राप्त्यपेक्षया तदधिकव्यवधाने मिथ्यादृशो न मार्गानुसारितेत्ति निश्चीयते इति चेद् | न, असति प्रतिबन्धे परिपाके वा पुनर्बन्धकादेर्मार्गानुसारिणोऽभावाज्ञाव्यवधानेऽपि सति प्रतिबन्धादौ तद्वयवधानस्यापि संभवात् तत्कालेऽपि भावाज्ञाबहुमानाप्रतिघातात्, उचितप्रवृत्तिसारतया द्रव्याज्ञाया अविरोधाद्, अन्यथा चारित्रलक्षणाद् भावस्तवादेकभविकाद्यधिकव्यवधाने द्रव्यस्तवस्याप्यसंभवप्रसङ्गाद् भावस्तवहेतुत्वेनैव द्रव्यस्तवत्वप्रतिपादनात् । तदुक्तं पञ्चाशके " Page #76 -------------------------------------------------------------------------- ________________ ६३ ता भावत्ययऊ जो सो दव्वत्थओ इहं इहो । जो उण णेवं भूस अप्पहाणो परं होई || 11 इति । यदि च भावलेशयोगाद्व्यवहितस्यापि द्रव्यस्तवत्वमविरुद्धं तदा तत एव तादृशस्य मार्गानुसारिणो द्रव्याज्ञाप्यविरुद्वैव । यथाहिनिर्निदानं सूत्रविधिलक्षणेन भावस्तवानुरागलक्षणेन वा प्रकारेण जिन भवनाद्युचितानुष्ठानस्य द्रव्यस्तंवत्वमत्र्याहृतम्, एकान्तेन भावशून्यस्यैव विपरीतत्वात् । तथा अपुनर्बन्धकस्यापि भावाज्ञानुराग-भावलेशयुक्तस्य व्यवधानेऽपि द्रव्याज्ञाया न विरोध इति । अत एव भवाभिष्वङ्गाना भोगासंगतत्वात् अन्यावर्तापेक्षया विलक्षणमेव चरमावर्ते गुरुदेवादिपूजनं व्यवस्थितम् । तदुक्तं योगविन्दौ - एतद् युक्तमनुष्ठानमन्यावर्तेषु तद् ध्रुवम् । चरमे त्वन्यथा ज्ञेयं सहजाल्पमलत्वतः ॥ एकमेव ह्यनुष्ठानं कर्तृभेदेन भिद्यते । सरुजेतर भेदेन भोजनादिगतं यथा ॥ इत्थं चैतद् यतः प्रोक्तं सामान्येनैव पञ्चधा । विषादिकमनुष्ठानं विचारेऽत्रैव योगिभिः || विषं गरोऽननुष्ठानं तद्धेतुरमृतं परम् । गुर्वादिपूजाऽनुष्ठानमपेक्षादिविधानतः ॥ विषं लब्ध्याद्यपेक्षात इदं सच्चित्तमारणात् । महतोऽल्पार्थनाद् ज्ञेयं लघुत्वापादनात्तथा ॥ दिव्यभोगाभिलाषेण गरमाहुर्मनीषिणः । एतद्वितिनीत्यैव कालान्तरनिपाननात् ॥ अनाभोगवत चैतदननुष्ठानमुच्यते । संप्रमुग्धं मनोऽस्येति ततचैतद् यथोदितम् ।। एतद्ागादिदं हेतुः श्रेष्ठो योगविदो विदुः । सदनुष्ठानभावस्य शुभभावांशयोगतः ॥ जिनोदितमिति त्वाहुर्भावसारमदः पुनः । संवेगगर्भमत्यन्तममृतं मुनिपुङ्गवाः ॥ Page #77 -------------------------------------------------------------------------- ________________ एवं च कर्तृभेदेन चरमेऽन्यादृशं स्थितम् । पुद्गलानां परावर्ते गुरुदेवादिपूजनम् ।। यतो विशिष्टकर्ता यां तदन्येभ्यो नियोगतः । तद्योगयोग्यतो भेदादिति सम्यग् विचिन्त्यताम् ।। अत्र पूर्व ह्येकान्तेन योगायोग्यस्यैव देवादिपूजनमासीत् , चरमाचते तु समुल्लसितयोगायोग्यभावस्यति । चरमावर्तदेवादिपूजनस्यान्यावर्तदेवादिपूजमादन्यादृशत्वमिति वृत्तिकद विवृतवानेतेन । यत्त्वन्यतीर्थिकाभिमताकरणनियमादेः सुन्दरत्वेन भणनं तद् हिंसाद्यासक्तजनस्य मनुष्यत्वस्येव स्वरूपयोग्यतया व्यवहारतो मन्तव्यम् । निश्चयतस्तु मिथ्यागकरणनियमो हिंसाद्यासक्तजनमनुष्यत्वं वेत्युभयमपि संसारकारणत्वेनानर्थहेतुत्वादसुन्दरमेवेति यत्केनचिदुक्तम् , तदपास्तम् । न तादृशं वचनमभिनिवेशं विना संभवति, यतः पूर्वसेवाऽपि मुक्त्यद्वेषादिसंगता चरमावर्तभाविनी, निश्चयतःप्राच्यावर्तभावितद्विलक्षणा योगयोग्यतयाऽऽचार्यैरतिशयितोक्ता, किं पुनरकरणनियमस्य साक्षाद् योगाङ्गस्य वक्तव्यमिति । नहि मनुष्यत्वसदृशम करणनियमादिकम् , अन्येषामपि सदाचाररूपस्य तस्य सामान्यधर्मप्रविष्टत्वात् , सामान्यधर्मस्य च भावलेशसंगतस्य विशेषधर्मप्रकृतिस्वात् , मनुष्यत्वं चानीदृशम् । किं च-हिंसाद्यासक्तमनुष्यत्वस्थानीयं यदि मिथ्यात्वविशिष्टमकरणनियमादिकं तदा मेघकुमारजीवहस्त्यादिदयाऽपि तादृशी स्याद् , उत्कटमिथ्यात्वविशिष्टस्य तस्य तथात्वे चेष्टापत्तिः, अपुनर्बन्धकादीनामुत्कटमिथ्यात्वाभावात्पूर्षसेवायामपि च तेषामेवाधिकृतत्वात् । तदुक्तम्. "अस्यैषा मुख्यरूपा स्यात्पूर्वसेवा यथोदिता। कल्याणाशययोगेन शेषस्याप्युपचारतः ॥” इति । न चापुनर्बन्धकादेरपि न सम्यगनुष्ठानमिति शङ्कनीयम् , " सम्माणुठाणं चिय ता सव्वमिणंति तत्तओ णेयं । ण य अपुणबंधगाई मुत्तुं एयं इहं होइ ॥" सम्यगनुष्ठानमेव तस्मात्सर्वमिदं तत्त्वत्तो शेयम् । न चापुनर्बन्धकादि मुक्त्वा एतदिह भवति ॥ Page #78 -------------------------------------------------------------------------- ________________ सन्यगनुष्ठानमेवातानुकूलाचरणमेव, तत्-तस्मात्सर्व त्रिप्रकारमपि इदमगुष्ठानं तत्वतः-पारमार्थिकव्यवहारनयदृष्ट्या शेयम् । अत्र हेतुमाह-'न' नैव, यतोऽपुनर्बन्धक-मार्गाभिमुख-मार्गपतितान् मुक्त्वा एतदनुष्ठानमिहैतेषु जीवेषु भवति ' अपुनर्बन्धकादयश्च सम्यगनुष्ठानवन्त एव'-इति उपदेशपदसूत्रवृत्तिवचनाद् अपुनर्बन्धकादेः सम्यगनुष्ठाननियनप्रतिपादनात् त्रिप्रकारं अनुष्ठान सतताभ्यास-विषयाभ्यास-भावाभ्यासभेदात् । तत्र नित्यमेवोपादेयतया लोकोसरगुणावाप्तियोग्यतापादकमातापितृविनयादिश्रुत्तिः सतताभ्यासः। विषयेऽईलक्षणे मोक्षमार्गस्वामिनि वा विनयादिवृत्तिः स विषयाभ्यासः। दूरं भवादुद्विग्नस्य सन्यग्दर्शनादीनां भावानामभ्यासश्च भावस्याभ्यास इति । तच्च निश्चयतो मोक्षानुकूलभावप्रतिबद्धत्वाद् विषयगतमेवेत्यपुनर्वन्धकादिः सम्यगनुष्ठानवानेवेति योगमार्गोपनिषद्विद', येन चात्यन्तं सम्यक्त्वाभिमुख एव मिथ्यादृष्टिार्गानुसारी गृह्यते, तेनादिधार्मिकप्रतिक्षेपाद् अपुनर्बन्धकादयस्त्रयो धर्माधिकारिण इति मूलप्रबन्ध एव न ज्ञात्तः, सम्यक्त्वाभिमुखस्यैवापुनर्बन्धकस्य पृथग्गणने चारित्राभिमुखादीनामपि पृथग्गणनापत्त्या विभागन्याघातात् । तस्माद् यथा चारित्राद्वयवहि तस्थापि सम्यग्दृशः शमसंवेगादिना सम्यग्दृष्टित्वं निश्चीयते, तथा सम्यक्त्वाद् व्यवहितस्यापुनर्बन्धकादेरपि तल्लक्षैस्तद्भावो निधेयः। तल्लक्षणप्रतिपादिका धेयं पश्चाशगाथा " पावं ण निव्वभावा कुणइ ण बहु मराइ भवं घोरं । उचियष्ठिइं च सेवइ सव्वत्थवि अपुणवंधो ॥" ति । एतवृत्तिर्यथा-पापमशुद्धं कर्म, तत्कारणत्वाद् हिंसाद्यपि पापं तद् 'न' नैव तीवभावाद् गाढं संक्लिष्टपरिणामात्करोति विधत्ते, अत्यन्तोत्कटमिथ्यात्वादिथयोपशमेन लब्धात्मनैमल्यविशेषत्वाद् । तीब्रेति विशेषणादापनमतीवभावात्करोत्यपि, तथाविधकर्मदोषात् । तथा 'न बहु मन्यते' न बहु मानविषयी करोति 'भवं' संसारं 'घोरं ' रौद्रम् , तस्य घोरत्वावगमात् । तथा उचितस्थितिम्अनुरूपप्रतिपत्तिम् , चशम्दः समुच्चये, सेवते-भजते, कर्मलाघवात् सर्वत्रापि, आस्तामेकत्र, देशकालावस्थापेक्षया समस्तेष्वपि देवातिथि-माता-पितृप्रभृतिषु, पापं न तीनभायातकरोति, न बहु मन्यते भवं घोरम् । रविसस्थिति म षते मर्यापि अपुनर्षन्धः ॥ Page #79 -------------------------------------------------------------------------- ________________ ६६ मार्गानुसारिताऽभिमुखत्वेन मयूरशिष्टान्तादपुनर्वन्धक उक्तनिर्वचनो वी इस्येवंविधक्रियालिङ्गो भवतीति माथार्थ इति । न चापुनर्यन्धकस्य क्वचिन्मार्गानुसारितायाः क्वचिच तदभि सुखस्वदर्शने भ्रमकलुषितं चेतो विधेयम्, द्रव्यभावयोगाभिप्रायेणोभयाभिधानाविरोधात् । एतेन ' मार्गानुसारित्वात्' इत्यत्र धर्मबिन्दुप्रकरणे मार्गस्य सम्यग्ज्ञानादेर्मुक्तिपथस्यानुवर्तनादिति व्याख्यानात् बन्दारुवृत्तावपि मग्गाणुसारिअ'ति असद्ग्रहपरित्यागेनैव तत्वप्रतिपत्तिर्मार्गानुसारितेत्येव व्याख्यानाद् मिथ्यादृष्टेरकरणनियमाधिकारिrist मार्गानुसारित्वमित्यपास्तम्, पराभिमतस्य सम्यक्त्वाभिमुखस्थेवापुनर्बन्धादेः सर्वस्यापि धर्माधिकारिणो योग्यतया तस्त्रप्रतिपसेमार्गानुसारिताया अप्रतिघातात्, मुख्यतत्त्वप्रतिपत्तेश्च मेघकुमारजीवहस्यापि वक्तुमशक्यत्वात् । तस्मात्संगममय सारादिवदतिसंनिहितसम्यक्त्यप्राप्तीनामेव मार्गानुसारित्वमिति मुग्धप्रतारणंमात्रम्, अवर्षन्धकादिलक्षणषतामेव तथाभावाद, अन्यथा तादृशसंनिहितत्वानिश्वयेऽपुनर्बन्धका कुद्देशेनादिधार्मिकाचाराद्युपदेशीऽप्यु - च्छिद्येतेति सकल जैनप्रक्रियाबिलापापतिः । किं बीजादीनां चरमपुद्गलपरावर्त भावित्वस्य तत्प्राप्तायुत्कर्षत एकपुद्गलपरावर्तकाल मानस्य तेषां सान्तरेतरत्वभेदस्य च प्रतिपादनान्न सम्यक्त्वातिसंनिहितमेष मार्गानुसारित्वं भवतीति नियमः श्रद्धेयः । तदुक्तं पञ्चविंशिकायाम् बाइकमेण पुणो जायह एत्थ भव्वसत्ताणं । णियमा न अन्ना वि हुं इट्ठफलो कप्परुक्खुव्व ॥ १ ॥ बीजं विमस्स णेयं दद्दणं एयकारिणो जीवे । बहुमाणसंगयाए सुद्धपसंसार करणिच्छा ॥ २ ॥ are aणुबंधो अकलंको अंकुरो इहं णेओ । बीजादिक्रमेण पुनर्जायते एषोऽत्र भव्यसस्वानाम् । नियमाद् नान्यथाऽपि खलु इष्टफलः कल्पवृक्ष इध ॥ १ ॥ बीजमप्यस्य ज्ञेयं दृष्ट्वा एतत्कारिणो जीवान् । बहुमान संगतायाः शुद्धप्रशंसायाः करणेच्छा ॥ २ ॥ यङ्करः । Page #80 -------------------------------------------------------------------------- ________________ तुम दियो तषाय मेणा विद्या ॥ ३ ॥ सुपवती यता चित्ता पत्ताइ सरसिंगा होइ । तस्संपची पुष्कं गुरुसंजोगाइरूवं तु ॥ ४ ॥ तो सुदेसाईहिं होइ जो भावधम्मसंपत्ती । सं फलमिह विभेयं परमफलपसाहगं णियमा ॥ ५ ॥ बीजस्व संपत्ती जायइ चरमंमि चेय परिअहे । अचंतसुंदरा जे एसावि तओ ण सेसेसु || ६ || व य एअंमि अणंतो जुञ्जइ णेयस्य णाम कालुचि । उस्सप्पिणी अनंता हुंति जओ एगपरिअट्टे ॥ ७ ॥ बीजाइआ य एए तहा तहा संतरेतरा णेया । • तहमवत्तखित्ता एगंतसहाव बाहाए । " चि ॥ ८ ॥ एतेन यदुच्यते केनचिद् वीजादिप्राप्तौ मार्गानुसार्या सम्यक्स्वी पलम्भं संशित्वमेव न व्यभिचरतीति ' तदपास्तं द्रष्टव्यम् ॥ " संपणार्थ जुच्छा-गोंयमा ! जहमेणं अंतोमुहूत्तं, उकोसेणं सागरोवमसतपुडुत्तं सातिरेगं । " इत्यागमवचनात्संज्ञिकालस्योत्कर्षतः सातिरेकसागरोपमशतपृथक् मानत्वाद्, अपुनर्बन्धकपदस्यापुनर्वन्धकत्वेनोत्कृष्टकर्मस्थितिक्षपणार्थ पर्यालोचनायामप्येतदधिकसंसारावश्यकत्वाद् बीजादिप्राप्त पूर्व्यप्येक पुजलपरावर्तनियतानन्तोत्स व्यवसर्पिणीरूपकालमान निर्देशात् । काष्ठं पुनर्विज्ञेयस्तदुदायान्वेषणा चित्रा ॥ ३ ॥ as प्रसिध तथा चित्रा.......... तस्तंमाप्तिः पुयं गुरुसंयोगादिरूपं तु ॥ ४. ॥ ततः सुदेशनादिभिभैवति यो भावधर्मसंप्राप्तिः । तत्फलमिह विज्ञेयं परमफलप्रसाधकं नियमाद् ॥ ५ ॥ बीजस्यापि संप्राप्तिर्जायते चरम एव परावचें । अत्यन्तसुन्दरा यदेषाऽपि न शेषेषु ॥ ६ ॥ म. चैतस्मिन् अनन्तो युज्यते नैतस्य नाम काल इति । उत्सर्पिण्योऽनन्ता भवन्ति यत एकपरावर्ते ॥ ७॥ बीजादिका ज्ञेया तथा तथा सान्तरेतरा ज्ञेया । तथाभव्यस्वाक्षिप्ता एकान्तस्वभावबाधया ॥ इति ॥ ८ ॥ २ संक्षिनां प्रश्नः - मौसम ! अघन्येनान्तर्मुहूर्तम्, उत्कर्षेण लामरोपमशतपृथक्वं : साबिकम् । Page #81 -------------------------------------------------------------------------- ________________ न च पञ्चमारके ज्ञानपश्चकसद्भावाभिधानव जादिप्राप्तौ परमपुद्गलपरावर्तकालमानांभिधानेऽपि नोत्कर्षतस्तावदन्तरं तस्य लभ्यते इति वाच्यम् ,बीजादिप्राप्तौ चरमावर्तमान एव संसार इति परिपाट्याव्यापककालस्यैव लाभादधिकरणकालमानाभिप्रायेणेत्थमभिधानासंभवाद् अन्यथा सम्यक्त्वेऽप्येतावान् संसार इति वचनस्याप्यनवयत्वप्रसङ्गात् । किंच “ अचरमपरिअडेसु कालो भववालकालओ भणिओ। घरमो अ धम्मजुव्वणकालो तह चित्तभेओत्ति ॥" "ता बीजपुश्वकालो णेओ भववालकाल एवेह। इयरो उ धम्मजुव्वणकालो विहिलिंगगम्मचि ॥"--- इत्येतचतुर्थपञ्चमर्विशिकागाथाद्वयार्थविचारणया बीजकालस्य घरवर्तमानत्वमेव सिध्यति ॥ .. अपि च- "नवनीतादिकल्पस्तावेऽत्र निवन्धनम् । पुद्गलानां परावर्तश्चरमो न्यायसंगतः ॥". इति योगविन्दुवचनाचरमावर्तस्य घृतादिपरिणामस्थानीये योगे अक्षणादिस्थानीयत्वसिद्धौ सत्यन्यकारणसाम्राज्येऽपार्द्धपुद्गलपरावर्तमध्ये सम्यक्त्वादिगुणानामिव चरमावर्तमध्ये बीजोचितगुणानामप्युत्पत्तिः कदाप्यविरुद्धैव, कालप्रतिबन्धाभावादिति व्यक्तमेव प्रतीयते। अत एव हि भोगायचं यमनियमाराधनरूपां कापिलादिभिरभ्युपगर्ता पूर्वसेवाम "अत एव हि निर्दिष्टा पूर्व सेवाऽपि या परैः। सासमान्यगतामन्ये भवाभिष्वङ्गभावतः॥" चरमपरावर्तेषु कालो भवबालकालको भणितः । घरमश्च धर्मयौवनकालस्तथा चित्रभेद इति । . तस्मादू बीजपूर्वकालोयो भवबालकाल एवंह। . बरन धर्मपौवनकाणे विधिािसम्म पनि । Page #82 -------------------------------------------------------------------------- ________________ इति ग्रन्थेन परमावती सज्ञान्यतर परापतयसिनी इरिभद्रसूरिरम्पधातूं, ताकि पूर्व सेवाया पाईपुद्गलपरावर्तादिमानत्वे चासनतोपलक्षणाय तत्पूर्वकालनियतामेवैनामवक्ष्यद् ग्रन्थकार इति । अपि च“ मनागपि हि तन्निवृत्तौ तस्यापुनर्वन्धकत्वमेव स्याद् " - इति वचनात् मनागपि संसारासङ्गनिष्टत्तौ जीवस्यापुनर्बन्धकत्वं सिध्यति, तन्निवृत्तिम्धः मुक्त्यद्वेषेणापि स्यात् तस्य च चरमपुद्गलपरावर्त व्यवधानेनापि मोक्षहेतुत्वमुक्तम् । तथा च योगबिन्दुसूत्रवृत्ती " नास्ति येषामयं तत्र तेऽपि धन्याः प्रकीर्तिताः । 'भवबीजपरित्यागात्तथा कल्याणभागिनः ॥ 6. " " धन्याः ' नैव, ' अस्ति' विद्यते, ' येषां ' भ्रव्यविशेषाणाम्, अयं ' द्वेषः,. तत्र मुक्तौ, ' तेsपि ' किपुनस्तत्रानुरागभ्राज इत्यपिशब्दार्थः, धर्मधनलग्नाः प्रकीर्तिताः । पुनरपि कीदृशाः १ इत्याह- ' भवबीजपरित्यागात् मनाक् स्वगतसंसारयोग्यतापरिहाणेः सकाशात्, तथा ' तेनप्रकारेण चरमशुद्गलपरावर्त व्यवधानादिना 'कल्याणभागिनः ' तीर्थकरादिपदप्राप्तिद्वारेण श्रीवधर्मभाज इति ।। " 4 ܐ तथा च चरमपुङ्गलपरावर्तवर्तिनां मुक्त्यद्वेषतदूरागाक्षुद्रतादि-गुणवतां गलितकदाग्रहाणां सम्यक्त्वप्राप्तिसांनिध्यव्यवधानविशेषेऽपि सर्वेषाम पुनर्वन्ध कादीनामविशेषेण मार्गानुसारित्वमङ्गीकर्तव्यम् । तु " पेढमकरणोवर तहा अणहिनिविद्वाण संगया एसा " - इति वचनात्प्रथमकरणोपर्येव तत्त्वाभिनिवेशिनो भवन्तीति । 'प्रथमकरणोपरि वर्तमानानामपुनर्वन्धकादीनां शुद्धवन्दना भवति' इत्यभिधाय-“गो भावओ इमीए परोवि हु अवडपोग्गला अहिगो । संसारो जीवाणं हंदि पसिद्धं जिणमयंमि । ” 7. इत्यनेन प्रन्थेन शुद्धाध्यवसायशुद्धायां वन्दनायां सत्यामुत्कृष्टोऽष्यपार्द्धपुद्गलावर्ताधिकः संसारो जीवानां न भवतीति पञ्चाशके प्रो १. प्रथमकरणोपरि तथाऽनभिनिविष्टानां संगता पषा ॥ मो भावतोऽस्याः परोऽपि खलु अपार्द्धपुङ्गलादधिकाः । अंसारी जीवानामेव प्रसिद्धं जिनमते । Page #83 -------------------------------------------------------------------------- ________________ क्तम् , तपनपन्धकस्यावस्थाभेदेन विधिनस्याद् विधिशुद्धजेनक्रिया इराधकमपुनर्घन्धकमधिकृत्यावसेयम् ; सर्वस्यापुनर्षन्धकस्य प्रागुषतपुक्त्यैतापत्कालमानानियमाद् भावशुद्धजैनक्रियाया एष एतापत्कालनियतत्वात् । अत एवास्मिन्नर्थे "कोलमणंतं च सुए अद्धा परिअहओ अ देखणो। आसापणबहुलाणं उक्कोसं अंतरं होई ॥"इति संमतितयोद्भावितं वृत्तिकृता । मोक्षार्थितया नियमाणा हि-विधिशुद्धा जैनक्रिया उत्कर्षत एतावत्कालव्यवधानेन मोक्षं प्रापपतीति विषयविशेष एषः । भवति च भावाविशेषेऽपि विषयविशेषास्फलविशेषः, सामान्यसाधु-भगवहानादौ तदर्शनादिति श्रद्धेयम् । न. घेदेवं तदा स्वतन्त्रान्यतन्त्रसिद्धकियाकार्यपुनर्वन्धकभेदो न स्यादिति भावनीयं सुधीभिः। पदपि धीजाधानमपि ह्यपुनर्वन्धकस्य, न चास्यापि पुद्गलपरावर्तः संसार इति भगवतां सर्वसत्यनाथत्वेऽन्यतरस्माद् भगवतो बीजाधा-- नादिसिद्धेरल्पेनैव कालेन सर्वभव्यमुक्तिः. स्यादित्यत्र हेतुतयोक्तं सदपि भगवत्पदेयविचित्रबीजापेक्षया । अत एव पूर्वसेवादेः प्रथग्गण. नया बीजाधाने पुद्गलपरावर्ताभ्यन्तरसंसारभणनोपपत्तिः, अन्यथाऽ. रूपतरकालाक्षेपकतया, न चास्याप्यपार्द्धपुद्गलपरावर्ताधिका, संसार इत्येकोपन्यसनीयं स्यादिति सूक्ष्मधिया विभावनीयम् । ___ ये तु वदन्ति-" मिथ्यादृष्टीनां मार्गानुसारित्याभ्युपगमे तेषां गुणवत्त्वावश्यंभावाद् निथ्यात्वेऽपि गुणश्रेण्यभ्युपगम प्रसङ्गः" ।न चैतदिष्टम् , सम्यक्त्वप्रतिपतिमार पैव कर्मग्रन्थादौ गुणश्रेण्यभिधानादिति तेषामृजुबुद्धीनां हरिभद्राचार्योपदर्शितान्यर्थगुणस्थानपदप्रवृत्तिरेव मिथ्यात्वेऽपि गुणसभायसाक्षिणी गुणश्रेणी च धर्मपच्छादौ मिथ्याशामपि सम्यक्त्वोत्पत्त्याशुपलक्षितव द्रष्टव्यायदाचारवृत्तिकृदू-"इह मिथ्यादृष्टयो देशोनकोटीकोटिकर्मस्थितिकाच प्रन्थिकसस्वास्ते कालमनन्तं च श्रुते अर्धपरिवर्तश्च देशोनः। माशातनाबहुलानामुत्कृष्टमन्दरं भवति । Page #84 -------------------------------------------------------------------------- ________________ कमनिर्जरामाश्रित्य तुल्याः, धर्मपृच्छनोत्पनसंशास्तेभ्योऽसंख्येयगुणनिर्जरकर, खतोऽपि पिपृच्छिषुः सत्साधुजिगमिषुः, तस्मादपि क्रियाऽऽविष्टः प्रतिषद्यमानः, तस्मादपि पूर्वप्रतिपनोऽसंख्येयगुणनिर्जरकः इति" सम्यक्त्वोत्पत्तिापातेति । यदि चैतदयचनवलादेव चारित्रादाथिय सम्यक्त्वेऽप्यभिमुस्थप्रतिपद्यमान प्रतिपनत्रयस्यैव गुणश्रेणीसभावात् सम्यक्त्वानभिमुखमिथ्यादृष्टेने मार्गानुसारित्वमित्याग्रहस्तदा संगम-नयसारादेरपि मा. र्गानुसारित्वं न स्यात् । न हि भवान्तरव्यवधानेऽपि गुणश्रेण्यनुकूलमाभिमुख्यं संभवतीति सम्यक्त्वादिनियतगुणश्रेणि विनाऽपि मिथ्यारशामप्यल्पमोहमलानां संसारप्रतनुताकारिणी दयादानादिगुणपरिणतिर्मार्गानुसारितानिबन्धनं भवतीति प्रतिपत्तव्यम् । अत एय " भवाभिनन्दिदोषाणां प्रतिपक्षगुणैर्युतः । पर्द्धमानगुणः प्रायो ह्यपुनर्बन्धको मतः ।।" इति योगविन्दानुक्तम्, । अपुनर्थन्धकश्च प्रथमगुणस्थानावस्थाविशेष इति तत्र सर्वथा गुणप्रतिक्षेपवचनं निर्गुणानामेति मन्तज्यम् ॥ १७ ॥ तदेवं मार्गानुसारिमावस्य कालमानमुक्तम् , अथानेम सदाचारझियारुपेण ज्ञानदर्शनयोगायोगाभ्यां यथा चतुर्भङ्गी निष्पयते तथा एअम्मि नाणदंसणजोगाजोगेहिं देससव्वकओ। चउभंगो आराहगविराहगत्तेसु सुअसिद्धो ॥१८॥ एअम्मिति । एतस्मिन्- मार्गानुसारिभावे सदाचारक्रियारूपे ज्ञानदर्शनयोगायोगाभ्यामाराधकत्वविराधकत्वयोर्देशसर्वकृतश्चतुर्भङ्गसमाहारः श्रुतसिद्धः । तथाहि-१ मार्गानुसारिक्रियावान् ज्ञानदर्शनहीनश्च देशाराधक इति प्रथमो भङ्गः । २ ज्ञानदर्शनसंपन्नः क्रिया. हीनश्च देशविराधक इति द्वितीयः । ३ ज्ञानदर्शनसंपन्नः क्रियासंपन्नश्च एतस्मिन् शानदर्शनयोगायोगाभ्यां देशसर्वकृतः । चर्मङ्गमाराधकविराधकत्वयोः श्रुतसिद्धः ॥ १८॥ Page #85 -------------------------------------------------------------------------- ________________ सोराबक इति तृतीयः । ४ शानदर्शनासंपन्नः क्रिीम सर्वधिराधक इति चतुथे। । तथा व भगवतीसूत्रम्-- ___ " एवं खलु मए चत्तारि पुरिसजाया पण्णत्ता । तं जहा- १ सीलसंपो णामं एगे णो सुअसंपन्ने । २ सुअमंपन्ने णामं एगे णो सीलसंपो । ३ एमेसीलसंपनेवि सुअसंपन्नवि । ४ एगे णो सुअसंपन्ने णो सीलसंपन्ने । तत्थ णं जे ते पढमे पुरिसजाए से णं पुरिसे सीलवं असुअवं, उवरए अविण्णायध मे । एस पं गोअमा ! मए पुरिसे देसाराहए पण्णत्ते । तत्थ णं जे ले दुशे पुरिसजाए से पं. पुरिसे असीलवं सुअवं, अणुवरए विण्णायधम्मे । एस णं मोजमा ! मए पुरिते देसविराहए पण्णत्ते । तत्थ णं जे से तचे पुरिसजाए से णं पुरिसे सीलबं सुअचं, उबरएं विण्णायधम्मे । एस णं गोअगा! मए पुरिसे सव्याराहए पण्डो । सत्व णं जे से चउत्थे पुरिसजाए से णं पुरिसे असीलवं असुअवं, अणुवरए अविण्णायधम्मे । एस णं गोअमा मए पुरिसे सव्वविराहए पण्णतेत्ति " ॥ एतवृत्तिर्यथा-एवमित्यादि । एवं वक्ष्यमाणन्यायेन; 'पुरिसजाए चि पुरुषप्रकारः। 'सीलवं असुवंति, कोऽर्थः-' उवरए अविण्णायधम्मेत्ति उपरतो निवृत्तः स्वबुद्धया पापाद , अविज्ञातधर्मा भावतोऽनधिगतश्रुतज्ञानो बालतपस्वीत्यर्थः, गीतार्थानिश्रिततपश्चरणरतोऽगीतार्थ इत्यन्ये । 'देसाराहए ति स्तोकमंचं मोक्षमार्गस्याराधयतीत्यर्थः, सम्यग्बोधरहितत्वात् क्रियापरत्वाचेति । ' असीलवं असुअवंति कोऽर्थः-अणुवरए विण्णायधम्मे'त्ति पापादनिवृत्तो विज्ञातधर्मा चाविरतिसम्यग्दृष्टिरिति भावः। 'देसविराहए'त्ति स्तोकमंशं ज्ञानादित्रयरूपस्यमोक्षमार्गस्य तृतीयभागरूपं चारित्रं विराधयतीत्यर्थः , प्राप्तस्य तस्यापालनाद् १ एवं खलु मया चत्वारः पुरुषजाताः प्राप्ताः । तद् यथा- १ शीलसंपतो माम एको नो सुतसंपन्नः । २ श्रुतसंपभो नाम एको नो शीलसंपनः । ३ एकर शीलसंपन्नोऽपि भुतसंपन्नोऽपि । ४. एको नो श्रुतसंपन्नो नो शीलसंपन्नः । तत्र घ यः स प्रथमः पुरुषजातः स पुरुषः शीलवान् अधुतवान् , उपरतोऽविशातधर्मा। एष गौतम ! मया पुरुषो देशाराधकः प्रज्ञप्तः । तत्र यः स द्वितीयः पुरुषजातः स पुरुषः अशोलवान् श्रुतवान् , अपुनरतो विज्ञातधर्मा । एष गौतम ! मया पुरुषों देशविराधकः प्राप्तः । तत्र यः स तृतीयः पुरुषजातः स खलु पुरुषः शालवान् भुतवान् , उपरतो विशातधर्मा । एष खलु गौतम ! मया पुरुषः साराधका प्राप्तः । तत्र खलु यः स चतुर्थपुरुषजातः स खलु पुरुषोऽशीलवान् अश्रुतवान् , मनुपरनोऽविद्यालयो । एष खानु नौलम! मया पुरुषः सर्वविरांधकः प्रथम वि Page #86 -------------------------------------------------------------------------- ________________ अनापोवा । 'सध्याराहए ति सर्व त्रिप्रकारमपि मोक्षमार्गमाराधयतीत्यर्थः, शुतशब्देन ज्ञानदर्शनयोः संगृहीतत्वात् , न हि मिथ्यादृष्टिर्विज्ञातधर्मा तवतो भवति । एतेन समृदितयोः शीलश्रुतयोः श्रेयस्त्वमुक्तमिति" ॥ १८॥ अत्र प्रथमभङ्गस्वामिनं भगवतीवृत्त्यनुसारेणैव स्वयं विवृण्वन्नन्यमते दुपयितुमुपन्यस्यतिपटमो बालतवस्सी गियत्थाणिस्सिओ व अग्गीओ। अण्णे भणंतिलिंगीसमग्गमुणिमग्गकिरियधरो॥१९॥ पढमोत्ति । प्रथमः प्रथमभङ्गस्वामी ज्ञानदर्शनरहितः क्रियापरश्च देशाराधकत्वेनाधिकृतो बालतपस्वी परतन्त्रोक्तमुमुक्षुजनोचिताचार वान् वृत्तिकृन्मने । गीतार्थानिश्रितोऽगीतः-पदैकदेशे पदसमुदायोपचारादगीतार्थो वाऽन्येषामाचार्याणां मते । अस्मिंश्च सांप्रदायिकमतद्वये नातिभेद इत्यग्रे दर्शयिष्यते । अन्ये-संप्रदाययाह्या भणन्ति-लिङ्गीकेवललिङ्गभृत् समग्रमुनिमार्गक्रियाधरो मिथ्यादृष्टिरेव सन् कुतश्चिशिमितादीनजिनोतसाधुसामाचारीपरिपालनपरायणो देशाराधकः भाभस्वामीति । अयमेतेषामादायः-शाक्यादिमार्गस्थः शोलवाना न ददशाराधकः, प्रतिपक्षयदानुष्ठानाकरणेन जिनाज्ञाया पिराधकत्वा तदननकरणौवनाशायाः आराधकत्वमिति नियमात् शाक्यादिमाजोनुष्ठानस्य चानीहशत्वात् तदङ्गीकृत्यापि तत्करणाकरणाभ्यांजिनाज्ञाराधनविराधनयोरभावाद् , अन्यथा तन्मार्गानुष्ठानत्याजनेन जैनमार्गानुष्ठान व्यवस्थापनाऽयुक्तत्वप्रसङ्गात् । किं च-मिथ्यादृष्टीनां ज्ञानस्याप्यज्ञानत्वनैव तन्मापतितशीलस्याप्यशीलत्वेन प्रज्ञानत्वादन्यनार्गस्थानां शीलवत्त्वमेव नेति कुतस्तेषां देशाराधकत्वम् ? । अन्यभिक्षवो हि जीवाधास्तिक्यरहिताः सर्वथाऽचारित्रिण एवति । " सति एगेहिं भिवखुहिं गारत्था संजमुत्तरा०" इत्यादि यहुग्रन्थप्रसिद्धम् , अन्यथाऽन्यतीर्थिकाभिमतदेवादयोऽपि देवत्वादिना भ्युप प्रथमो पालतपस्वी गीतार्थानिश्रितो वाऽगीतः । अन्ये भणन्ति लिङ्गी समग्रमुनिमार्गक्रियाधरः ॥ १९ ॥ १ सन्ति एके भिक्षधी गौरवार्थाः संयमासाः ॥ . Page #87 -------------------------------------------------------------------------- ________________ ७४. गन्तव्या: प्रसज्येरन्, मोक्षमार्गभूतशीलस्योपदिष्टत्वात् । तरमाद् भव्या अभव्याश्च निखिल जैन सामाचार्यनुछानयुक्ता मिथ्यादृष्टय एव देशासधका ग्राह्याः, तेषां द्रव्यशीलस्यापि मार्गपतितत्वेन व्यवहारनयापेक्षया प्रशस्तत्वाद् । अत एवाराधकानां सतामेतेषां नवमग्रैवेयकं यावदुपपातो न विरुद्धः, अखण्डसामाचारीपरिपालनबलेन तत्रोत्पा दात् । यदागमः - " अहे मंते असंजयभविअदव्वदेवाणं.... यावत् - जहणणं भवणवासी उकासेण उवरिमगेविजयसुं "त्ति भ० श० २३२ वृत्येक देशो यथा - " तस्मान्मिथ्यादृष्टय एव भव्या अभव्याश्वासंयत भव्यद्रव्य देवाः श्रमणगुणधारिणो निखिलसामाचार्यनुष्ठाने युक्ता द्रव्यलिङ्गधारिणो गृह्यन्ते । ते ह्यखिलसामाचारीप्रभावत एवोपरितनग्रैवेयकेषूत्पद्यन्ते, असंयताश्च सत्यप्यनुष्ठाने चारित्रपरिणामशून्यत्वादिति " । इत्थं चैतदङ्गीकर्तव्यम् - जिनोक्तमनुष्ठानमन्तरेणाराधकत्वाभावाद् मिथ्यादृष्टित्वमन्तरेण बालतपस्वित्वाभावा-चेति ॥१९॥ एतन्मतं दूषयति तं मिच्छा, जं फलओ मुक्खं आराहगत्तमिह पगयं । तं च ण एगंतेणं किरियाए भावमुन्नाए ॥ २० ॥ तंमिच्छति । तत्संप्रदायवाद्योक्तं मतं मिथ्या, यद् यस्मादिह प्रकृतचतुर्भङ्गीप्रतिपादक भगवतीचे मुख्यं मोक्षासु फूलमाराधकत्वं प्रकृ तम् ज्ञान - क्रियान्यतर मोक्ष कारणवादिनामन्यतीर्थिकानां मतनिरासार्थं तत्समुचयवादे विशदीकरणायैतत्सूत्रप्रवृत्तेः । प्रत्येक ज्ञानक्रिस्वल्प सामर्थ्यस्य समुदितयोश्च तयोः सम्पूर्ण सामर्थ्यस्य प्रदर्शनार्थं देशाराधकादिचतुर्भङ्गयुपन्यासस्य सार्थक्यात्, प्रत्येकं स्वल्पसामर्थ्यस्याभावे च सिकतासमुदायात्तैलस्येव तत्समुदायादपि मोक्षस्यानुपपत्तेः । तदिदमाहाक्षेपसमाधानपूर्वं भाष्यकारः - १ अथ भगवन् ! असंयत भव्य द्रव्यदेवानां यावत् जघन्येन भवनवासिषु, परिग्रैवेयकेषु इति ॥ तन्मिथ्या, यत्फलतो मुख्यमाराधकत्वमिह प्रकृतम् । तच्च नैकान्तेन क्रियया भावशून्यया ।। २० ।। Page #88 -------------------------------------------------------------------------- ________________ " पत्तेमभावाओ णिबाणं समुदियासु ण जुत्त । नाणकिरियासु वातुं सिकतासमुदाये तेल्लं व ॥ वीसु ण सव्वह च्चिय सिकतातेल्लं व साहणाभावो । देसोबगारिया जा समवायमि संपुण्णा ॥” । आग्रिमगाथार्थो यथा-न च विष्वक् पृथक् सर्वथैव सिकताकणानां तैल इव साध्ये ज्ञानक्रिययोर्मोक्षं प्रति साधनत्वाभावः, किन्तु या च यावती च तयोर्मोक्षं प्रति देशोपकारिता प्रत्येकावस्थायामप्यस्ति सा च समुदाये संपूर्णा भवत्येतावान् विशेषः, अतः संयोग एव ज्ञानक्रिययोः कार्यसिद्धिरिति ॥ तच मुख्यमाराधकत्वपसंयतभव्यद्रव्यदेवानामेकान्तेन भावशू-- न्यया क्रियया न संभवतीति । यदि च देशाराधकत्वमभ्युदयापेक्षया . व्याख्ययं तदा सर्वाराधकत्वमध्यभ्युदयापेक्षयैव पर्यवस्यदिति न काचित्प्रयोजनसिद्धिः, प्रत्युत प्रत्येकपक्षविशेषसंघटनानुपपत्तिः। किं च'शीलवान् श्रुतवान् देशाराधकः' इत्यत्र योग्यताबलादपि मार्गानुसारी बालतपस्व्यव गृहीतु भुज्यते नान्यः, तद्गतभावशून्यक्रियायाः समुदा-- यादेशत्वादपुनर्बन्धकादिक्रियायामेव मोक्षसमुचितशक्तिसमर्थनाद् , अनुपचितशक्तिकोपादानकारणस्यैव देशत्वेन शास्त्रे व्यवहाराद्, अत एव मृद्रव्यमेव घटदेशो न तु तन्त्वादिर्दण्डादिर्वा । मोक्षोपादानवं च कि गाय योगमायामुपयोगरूपायावत्यन्यदेतत् ॥२०॥ अमुख्यारत्धकत्वाङ्गाकारेऽपि दोषान्तरमाहजइणोए किरियाए दवेणाराहगत्तपक्खे य । सव्वाराहगभावा होज्ज अभव्वाइलिङ्गीणं ॥ २१ ॥ प्रत्येकमभावाद् निवाणं समुदितयोनं यक्तम । • ज्ञानक्रिययोवक्तुं सिकतासमुदाये तलामव ॥ विष्वग न सवथव सिकतातलामेव साधनाभावः । देशोपकारता या समवाये संपूर्णा ॥ जैन्या क्रियया द्रव्येणाराधकत्वपक्षे च । सवाराधकभावो भवेद् अभव्यादिद्रव्यलिङ्गिनाम् ॥ २१ ॥ Page #89 -------------------------------------------------------------------------- ________________ जइणीए'ति । जैन्या क्रियया निखिलसाधुसामाचानुमानरूपमा द्रव्येणाराधकत्वपक्षे च देशाराधकत्वाभ्युपगमं चामध्यादिलिङ्गिनामभव्यादीनां द्रव्यलिङ्गधारिणां सर्वाराधकभावो भवेत् , कुतोऽपि प्रयोजनात्तेषां निखिलसाधुसामाचारीग्रहणे तस्याः पञ्चाररूपत्वाद् , द्रव्यतश्चारित्रस्येव द्रव्यतो ज्ञानदर्शनयोरप्याराधकत्वस्य तेषां बलादुपनिपाताद् । न हि ते सम्यक्त्वांशेऽनाराधका एव चारित्रांशे त्वाराधका इत्यर्धजरतीयन्यायाश्रयणं प्रेक्षावतां घटते । सम्यक्त्वांशे भावत: सम्यक्त्वाभावेनोत्सूत्रमाषण-व्रतभङ्गाद्यमावेन चाराधकपिराधकरवभावाभावादनाराधकत्वस्येव चारित्रांशेऽपि भावतश्चारित्राभाधन प्राणातिपातादिव्रतभङ्गाद्यभावेन चाराधकविराधकस्वभावाभावादनाराधकत्वस्याविशेषाद् द्रव्यतश्चोभयाराधकत्वाविशेषादिति । यत्तु तंषर्मा द्रव्यतोऽपि स्वेच्छाविशेषाद् व्रतांशस्यैव ग्रहणं न तु श्रद्धानांश इति परस्य मतम् , तदुन्मत्तमलपितम् , अखण्डसामाचारीपालनबलेनैव तेषां अवेयकोत्पादाभिधानादिति ॥ २१ ॥ दोषान्तरमप्याहतह णिण्हवाण देसाराहगभावो अवडिओ हुजा। तो परिभासा जुत्ता वित्तिं परिगिज्झ वुत्तुं जे॥२२॥ 'सह 'त्ति । तथेति दोषान्तरसमुच्चये । एकान्तद्रव्याफिययैवाराधकत्वाभ्युपगमे निलवानामभिनिवेशादिना परित्यक्तरस्नानापरीपिराधकत्वकालेऽपि देशाराधकस्वाभावो भवेद । यथा प्रतिज्ञातव्यक्रियया अपरित्यक्तत्वादिष्टापत्तौ को दोषः? इति चद्, व्यवहारविरोध एव, न हि सर्वविराधको देशाराधकश्च कोऽपि व्यवयिते । अथ द्रव्यक्रियामाश्रित्यैवाराधकत्व-विराधकत्वव्यवस्थाकरणात्सवबिराधकत्वं निलवानां नेष्यते एव, प्रतिपन्नचारित्रविषयकद्रव्याज्ञाभङ्गाभाबाद्देशाराधकत्वम् , उत्सूत्रभाषणेन सम्यक्त्वविषयकप्रतिपन्नजिनाज्ञापरित्या-- तथा निह्ववानां देशाराधकभावोऽवस्थितो भवेत् । ततः परिभाषा युक्ता वृत्ति परिग्रह्य वक्तुं हि ॥ २२ ॥ Page #90 -------------------------------------------------------------------------- ________________ ૭૭ विराधकत्वं चाविरुद्धमेव, अंशभेदादेकत्रैव सप्रतिपक्षोभयधर्मसमादेशाविरोधादिति चेद् । न, एवं सत्यसंयतभव्यद्रव्य देवानां निहवानामभव्यादीनां चोपपत्तिमधिकृत्य साम्याभावप्रसङ्गात् । अथ नास्त्येव तेषामुपपातसाम्यम्, ग्रैवेयकेष्वपि निह्वस्य देवदुर्गतितयोत्पादादू | देवदुर्गतत्वं च न केवलं देवकिल्बिषिकत्वादिनैव, तत्र तेषामभावाद्, किन्तु संमोहत्वेन । स च देवदुर्गतस्ततश्च्युतोऽनन्तकाल संसारे परिभ्रमति । यदागमः 46 'कंदष्पदेव किल्बिसअभिओगा आसुरी य संमोहा । तो देवदुग्ईओ मरणंमि विराहिआ हुंति ।। "त्ति । आतुरप्रत्याख्यानप्रकीर्णके व्याख्यादेशो यथा-" संमोह'ति संमोहयन्ति-उन्मार्गदेशनादिना मोक्षमार्गाद् भ्रंशयन्ति ये ते संमोहाः, संयता अप्येवंविधा देवत्वेनोत्पन्ना संमोहा एवं रूपा दुर्गतिः, ता एव देवदुर्गतयो मरणापध्यानादिना विराधिता भवन्ति, ततश्च्युता अनन्तसंसारं परिभ्रमन्तीति चेद् । न, अभव्यादीनामप्यकालवचनौषधप्रयोगात् प्राप्तग्रैवेयकोत्पादानां संमोह प्राबल्येन लुप्तसुखानां देवदुर्गतत्वाविशेषाद् । उक्तं चोपदेशपदे 66. कह णु अकालपओगे तो गेविजगाइ सुहासिद्धी । साहिगओसहजोगसोक्खतुल्ला मुणेयव्वा ॥ १ ॥ कुणइ इह संगिताए सदो सहजोगसुक्खमित्तं तु । तह एवं विष्णेयं अणोरपारंमि संसारे ॥ २ ॥ तत्तओ तयंपि हु सुक्खं मिच्छत्तमोहिअमइस्स । जह रोहवाहि गहिअस्स ओसहदेवे य तब्भावे ॥ ३ ॥ कन्दर्पदेव - किल्विषाभियोगा आसुरी च संमोहाः । ता देवदुर्गतयो मरणे विराधिता भवन्ति ॥ कथं न्वकालप्रयोगे इतो ग्रैवेयकादिसुखसिद्धिः । ननु साधिकौषधयोगसख्यतुल्या ज्ञातव्या ॥ १ ॥ करोतीह संक्षितया सदोषधयोग सौख्यमात्रं तु । तथैतद् विज्ञेयं अनवारपारे संसारे ॥ २ ॥ न च तत्त्वतस्तदपि खलु सौख्यं मिध्यात्वमोहितमतेः ॥ यथा रोद्रव्याधिगृहीतस्य..... Page #91 -------------------------------------------------------------------------- ________________ ७८ जह चेवोवहयनयणो सम्मं रूवं ण पासइ पुरिसो। तह चेा मिच्छदिही वि उलं सुक्खं ण पावेइ ॥ ४ ॥ असदभिणिवेसवसो णिओगओ ताण तत्तओ भोगो । सव्वत्थ तदुवघायावि सघारियजोगतुल्लोत्ति ॥५॥ एतस्माद्धि वचनादभव्यादीनामेव निलवाद्यपेक्षयाऽप्यकालवचनौषधप्रयोगेण मिथ्याभिनिवेशदाादतिदुःखितत्वेन क्लिष्टतरदेवदुर्गावं प्रतीयते, परेण त्वभव्यनिहवानामनाराधकत्वविराधकत्वाभ्यां वैपरीत्यमङ्गोकृतं प्रसज्यते च तत्प्रक्रिया द्रव्याज्ञापेक्षयाऽभव्यादीनामपि सवाराधकत्वात् तात्त्विकसुदेवत्वमेवेति यत्किंचिदेतत् । . अथ चारित्रापेक्षयाऽऽराधकत्वं द्रव्यप्रतिपत्त्यैव परिभाष्यते, ज्ञानदर्शनापेक्षया तु भावप्रतिपत्त्या ततोऽभव्यादीनां द्रव्यलिङ्गिनां देशाराधकत्वमेव । निहवानां च देशाराधकत्वं देशविराधकत्वं च ततो देशाराधकत्वापेक्षयोभयोपपातसाम्यं दुर्गतित्वनिबन्धनं चैकस्य साहजिकं मिथ्यात्वम् , अपरस्य च विराधनाजन्यमिति परिभाषायां को दोषः ? इति चेद् , नन्वेवं परिभाषाश्रयणावश्यकत्वे वृत्तिकृत्स्वारस्येनैव साऽऽश्रयणी या इत्यभिप्रायवानाह-तत् . तस्मादति परिगृय परिभाषा वक्तुं युक्ता । 'जे' इति पादपूरणार्थों निपातः । वृत्ती हि श्रुतशब्देन ज्ञानदर्शनयोः शीलशब्देन च प्राणातिपातादिक्रियाया एव परिभाषणाद् । अश्रुतवान् शीलवांश्च मार्गानुसार्यव बालतपस्वी पर्यवस्यतीति भावः। नहि द्रव्यलिङ्गधरोऽभव्यादिर्व्यवहारेण बालतपस्वी वक्तुं युज्यते । " तो एते. बालतवस्सिणो दृव्वेत्ति" महानिशीथे नागिलवचनं कुशीलेषु बालनिश्चयाभिप्रायकमवति । न चैकस्मिन्नेव वाक्ये देशाराधकत्वमशुद्धव्यवहारात् , तदुपपादकं बालतपस्वित्वं च निश्चयादिति वक्तुं युक्तम् , संदर्भविरोधात् , किन्तु निश्चयप्रायका यथवोपहतनयनो सम्यग् रूपं न पश्यति पुरुषः । तथेव मिथ्यादृष्टिविपुलं सोख्यं न प्राप्नोति ॥ ४ ॥ असदभिनिवेशवशो नियोगतस्तेषां तत्त्वतो भोगः। सर्वत्र तदुपघातादपि............योगतुल्य इति ॥ ५ ॥ १ तत एते बालतपस्विनो द्रष्टव्या इति । ....... Page #92 -------------------------------------------------------------------------- ________________ द्वयवहाराद्देशाराधकत्वं तदुपपादकं च मार्गानुसारियमनियमादिक्रियावत्वं बालतपस्वित्वमित्येवं संदर्भाविरोधः । न च व्यवहारे निश्चये प्रायकत्वाप्रायकत्वाभ्यां विशेषः शास्त्रासिद्ध इति व्यामूढधिया शङ्कनीयम् , योगबिन्दूपदेशपदादावेतद्विशेषप्रसिद्धः। नन्वस्यामपि परिभाषायां कथं बालतपस्विनो देशाराधकत्वम् , तद्गतमार्गानुसारिक्रियाया अपि मोक्षमार्गत्वाभावात् , तदंशचारित्रक्रियाया एवांशत्वादिति चेद् । न, संग्रहनयादेशादनुयोगद्वारसिद्धप्रदेशदृष्टान्तेन स्वदेशदेशस्यापि स्वदेशत्वाविरोधादिति सूक्ष्ममीक्षणीयम् ॥ २२॥ ___ नन्वन्यमार्गस्थशीलादिक्रियाया अपि जैनमार्गानुष्ठानत्वाभावाकथं तया देशाराधकत्वम् ? इत्यत्राहमग्गाणुसारिकिरिया जइणिचियभावओ उसम्वत्थ। जेणं जिणोवएसो चित्तो अपमायसारोवि ॥ २३ ॥ 'मग्गाणुसारिकरिय'त्ति । मार्गानुसारिणी क्रिया शीलदयादानादिरूपा सर्वत्र भावतस्तु जैन्येव, आदितो भगवत्प्रणीताया एव तस्याः सर्वचोपनिबन्धात् , मार्गानुसारिणां च तन्मात्र एव तात्पर्यात् । ते हि क्षीरनीरविवेककृतो हंसा इव निसर्गत एव शुद्धाशुद्धक्रियाविशेषग्राहिण इति कमियं जनो? इत्यत्र हेतुमाह-यद्-यस्माद् अप्रमादसारोऽपि-परमोपेयाप्रमादमुख्योद्देशोऽपि जिनोपदेशः चित्रः-पुरुषविशेषापेक्षयोचितगुणाधायकतया नानाप्रकारो यो यत्प्रमाणोपदेशयोग्यस्तस्य तावत्प्रमाणगुणाधानपर्यवसन्न इति यावत् । तदुक्तमुपदेशपदे एवं जिणोवएसो उचियाक्खाइ चित्तरूवोत्ति । अपमायसारया ए वि तो सविसओ मुणेयव्वो ॥ १ ॥ मार्गानुसारिक्रिया जैन्येव भावतस्तु सर्वत्र । येन जिनोपदेशश्चित्रोअमादसारोऽपि ॥ २३ ॥ __ एवं जिनोपदेश उचितापेक्षया चित्ररूप इति । अप्रमादसारतायामपि ततः स्वविषयो ज्ञातव्यः ॥ Page #93 -------------------------------------------------------------------------- ________________ एनवृत्तिर्यथा-एवं गुर व मणौ प्रव्रज्याप्रतिपश्यसहिष्णुत्वं सात जिनापदशः-सज्ञिप्रज्ञापनारूप उचितापेक्ष्या थो यत्प्रामाणस्योपदेशस्य योग्यरतदपेक्षया चित्ररूपो नानारूपतया प्रवर्तते इति प्राग्वत् । अप्रमादसारतायामपि अप्रमादः सारः करणीयतया यत्र जिनोपदेशे स तथा तस्य भावस्तता, सस्यामपि तत् तस्मात् सविषयः सगोचरो 'मुणेयव्यो'त्ति मुणितव्यः ।" यदा हि जिनोपदेशश्चिवरूपतया व्यवस्थितोऽममादसारोऽपि तदाऽपुनर्बन्धकादी निर्वाणमार्गप्रज्ञापनायोग्यानधिकृत्य केचित्सामान्यदेशनायाः, केचित्सम्यग्दृष्टिगुणयोग्यप्रज्ञापनायाः, केचिद्देशविरतिगुणस्थामाईप्ररूपणायाः, केचिनिर्द्धतचारित्रमोहमालिन्या अप्रमत्ततारूपप्रव्रज्यादेशनाया योग्या इति नाविषयाऽप्रमत्तताप्रज्ञापनेति । ततश्च मार्गानुसारिक्रियाऽपि भगवत्सामान्यदेशनार्थ इति भावतो जैन्येवेति प्रतिपत्तव्यम् ॥ २३ ॥ नन्वेवं भागवती सामान्य देशनामनुसृत्य प्रवर्तमानानां मध्याहशामपि सा मार्गानुसारिणी क्रिया सिद्ध्यनुदयादानादिका जैनी, पतञ्ज. स्याद्यक्तमनुसृत्य प्रवर्तमानानां तु सा कथं जैनी? जिनदेशनानसंधा नमूलप्रवृत्त्यनुपहित्तत्वादित्याशङ्कायामाहअण्णत्थवि जमभिण्णं अत्थपयंत जिणिंदमुअमूल। अण्गोवि तयणुसारी तो देसाराहगो जुत्तो ॥२४॥ 'अण्णत्थवित्ति । अन्यत्रापि पातञ्जलादिशास्त्रेऽपि यदःप पुरुषार्थोपयोगिवचनम् अभिन्नं -भगवद्वचनैकार्थं तजिनेन श्रु मृलम , तदनुसारेणैव तत्र तदुपनिबन्धात् । तथा च ततोऽपि जायमाना मागा नुसारिणी क्रिया वस्तुतो भगवद्देशनाविषयत्वेन भावतो जैन्येव । न हि मध्यस्थस्यान्योक्तत्त्वज्ञानं तत्फलप्रतिबन्धकम् , दृष्टिरागसहकृतस्यैव तस्य तथात्वात् । अत एव नाभिन्नार्थेऽन्योक्तत्वमात्रेण सर्वनय अन्यत्रापि यदभिन्नमर्थपदं तजिनेन्द्रश्रुतमूलम् । अन्योऽपि तदनुसारी ततो देशाराधको युक्तः ॥ २४ ॥ Page #94 -------------------------------------------------------------------------- ________________ ८९ बाद संग्रह हेतुचिन्ताज्ञानापादने माध्यस्थगुणान. साधुश्रावकाणां प्र सत्यद्वेषस्य तन्मूलदृष्टिवादमद्वेषमूलत्वेन महापापत्वात् । तदुक्तमुपदेशपदसूत्रवृत्त्योः - "' अत्थओ अभिनं अण्णत्था सहओवि तह चेत्र । तंभ सो मोहा विसेसओ जिणमयठिणं ॥ 27. 3 यात वचनभेदेऽप्यर्थमपेक्ष्या भिन्नभेकाभिप्रायम् तथा अन्वर्थाद् अनुगतार्थाच्छन्दतोऽपि शब्दसंदर्भमपेक्ष्य तथैव अभिनमेव । इह परसमये द्विधा वाक्यान्युपलभ्यन्ते । कानिचिदर्थत एवाभिन्नानि - ! अपई वेरणी अप्पा में कुडताली । अप्पा कामदुहा वेणू अप्पा से नंदणं वनं ॥ " भारतोकतानि इन्द्रियाण्येवं तत्सर्वं यत्स्वर्ग नरकाभौ । निगृहीतविशिष्टानि स्वर्गाय नरकाय च ।। आपदां प्रथितः पन्था इन्द्रियाणामसंयमः । तज्जयः संपदामये येनेष्टं तेन गन्यताम् ॥ " इत्यादीनि । कानिचिच्छन्दतोऽर्थतश्च- " जीवदया सबवणं " - इत्यादिभिः प्रसिरे इत्यादि वाक्यैः 46 सह यथा “ पञ्चैतानि पवित्राणि सर्वेषां धर्मचारि अहिंसा सत्यमस्तेयं त्यागो मैथुन ||" इत्यादीनि । , एवं स्थिते तस्मिन्नभिन्नार्थेऽकरण नियमादी वाक्ये विशिष्टक्षयोपशमादिचाक्येन सह प्रद्वेषः-' परसमयप्रज्ञापनेयम् ' इतीय मोहो मूढभावलक्षणो वर्तते बौद्धादिसामान्य धार्मिक जनस्यापि विशेषतो जिनमतस्थितानां सर्वनयवादसंग्रहामध्यस्थभावानीतहृदयाणां साधुवावकाणाम् ” । अत एवान्यत्राप्यनेनोक्तम्यदर्थतोऽभिसम्बधतोऽपि तथा देव । तस्मिन्प्रद्वेषे ओला विशेषतो जिनमतस्थितानाम् ॥ आत्मा नदी वैतरणी आत्मा से कुटशावली । आत्मा कामधेनुरात्मा से नन्दनं बनल ॥ ३ जीवदया पवन ॥ Page #95 -------------------------------------------------------------------------- ________________ "" गुणतस्तव तुल्ये संज्ञाभेदागमान्यथादृष्टिः । भवति यतोऽसावधमो दोषः खलु दृष्टिसंमोहः ॥ " इति एतत्सर्वं समर्थयन्नाह ८२ 46 संव्वायमूलं दुवालसँग जओ समक्खाये । रयणागरतुलै खलु तो सव्वं सुंदरं तंमि || सर्वप्रवादमूलं - भिक्षु कणभक्षाक्षपादादितीर्थान्तरीयदर्शनप्रज्ञापनानामादिन्कारणम् । किं तद् ? इत्याह- द्वादशाङ्गं - द्वादशानामाचारादीनामङ्गानां प्रवचनपुरुत्रावयवभूतानां समाहारो यतः कारणात्समाख्यातं सम्यक् प्रज्ञप्तम् । सिद्धनदीवाकरादिभिर्यतः पव्यते " उदघाविव सर्वसिन्धवः समुदीर्णास्त्वयि नाथ ! दृष्टयः । न च तासु भवान् प्रदृश्यते प्रविभक्तासु सरित्स्विवोदधिः ॥ " , अत एव रत्नाकरतुल्यं क्षीरोदधिप्रभृतिजलनिधिनिभम् खलु निश्रये, तस्मात् सर्वमपरिशेषसुन्दरं यत्किंचित्प्रवादान्तरेषु स उपलभ्यते तत्तत्र समयतारणीयम् । इत्यकरणनियमादीन्यपि वाक्यानि तेषु तेषु योगशास्त्रेषु व्यासकालातीतपतञ्जल्यादीनि प्रणीतानि जिनवचनमहोदधिमध्यलब्धो ' दयान्येव दृश्यानीति । तेषामवज्ञाकरणे सकलदुःखमूलभूताया भग चदवज्ञायाः प्रसङ्गात् न काचित्कल्याणसिद्धिरिति । यतु कश्चिदाह - " जैनानामकरण नियमपरिहारशङ्कानिरासार्थमेव तीर्थान्तरीयवर्णितत्वमुपवर्णितं नत्वन्यतीर्थिकेष्वकरणनियमोऽस्तीति भणितम् । वर्णनं च वर्णनीयवस्तुविषयक यथार्थज्ञानसापेक्षमेव, अन्यथा च तथाभूतवर्णनं सम्यगेव स्यात्, तथा च तद्दर्शनेऽपि धर्मसद्भावप्रसङ्गः । इत्थं च कपिलस्य पुरस्तान्मनागिहापि धर्मोऽस्तीति परिव्राजकदर्शनमधिकृत्य मरीचिवचनमुत्सूत्रं न स्यादिति । तदसत्, तीर्थान्तरीयाणा सर्वप्रवादमूलं द्वादशाङ्गं यतः समाख्यातम् । रत्नाकरतुल्यं खलु ततः सर्व सुन्दरं तस्मिन् ॥ Page #96 -------------------------------------------------------------------------- ________________ ८३ मपि सद्भूता करणनियमवर्णनस्य शुभभाव विशेष सापेक्षत्वेन मार्गानसारितया लेषु सामान्यधर्म सिद्धेः । शुभभावविशेषसापेक्षत्वं च तस्य: तो अकरण नियमो अण्णेहिवि वणिओं ससत्यमि । सुहभावविसेसाओ ण चैवमेसो ण जुत्तोति ।। " इति 66 उपदेशपदवचनेनैव प्रसिद्धम् । न चैवंविधस्तेषां शुभाध्यवसाय-स्तथाभूतमोहनीय क्षयोपशमंजनितत्वेन स्वयमेवोक्तो निरनुबन्धशुभ-प्रकृतिहेतुत्वाद नर्थ हेतुरेवेति परेण वक्तुं युक्तम् । निरुपधिभवबीज -- प्रहाणेच्छागोचरमार्गानुसारि शुभाध्यवसायस्य शुभानुबन्धिपुण्य निमितस्येने/तत्वात् । तदुक्तमन्धकाधिकारे योगबिन्दौ - " क्रोधाद्यवादितः शान्त उदात्तस्तु महाशयः । शुभानुवन्धिपुण्याच विशिष्टमतिसंगतः ॥ ऊहते यमतः प्रायों भवबीजादिगोचरम् ।' कान्तादिगतयादि तथा भोगीव सुन्दरम् ॥ " इति । अन एवं परेषानकरगति हेतुः शुभ भावविशेषो वज्रब दभेद्यः प्रशस्त परिणामभेद उपदेशपदवृत्तौ विद्रुतः । अयमेव स्प विशेषो यद्विशेषदेशवाति संघानं विनाऽपिं तद्विशेषपर्यवसायित्वमिति । अत एव मागीनुहारिणां परेषां जैनाभिमतप्रकारेण जीवाद्यनभ्युपगमान्न नास्तिकत्वम्, विप्रतिपत्त्रांशे पक्षपातपरित्यागे सति वस्तुतस्तभ्युपगमपर्यवसानाद् । अत एव शुभभावविशेषादकरण-निमवर्णनं मार्गानुसारिणामेव यदृच्छाप्रणयनप्रवृत्तानामर्वाचीनानां च प्रवाहपतितत्वेन घुणाक्षरन्यायेनैवाने जिनवचनविषयक परोपनिबन्धेऽप्यस्ति विशेषः । तदिदमुक्तं धर्मविन्दुवृत्तौ - " यच यदृच्छाप्रणयनप्रवृत्तेषु तीर्थान्तरीयेषु रागादिमत्स्वपि घुणाक्षरोत्किरणव्यवहारेण क्वचित्किचिदविरुद्धमपि वचनमुपलभ्यते मार्गानुसारिबुद्धौ वा प्राणिनि: क्वचित् सदपि जिनप्रणीतमेव, तन्मूलत्वात्तस्येति । एतेन घुणाक्षरन्यायेन जैनाभिमत वस्तुवर्णनानुकारि वर्णनमन्यतीर्थिकेषु भवत्य इतोऽकरणनियमो ऽन्यैरपि वर्णितः खशास्त्रे । शुभभावविशेषाद् न द्वेष न युक्तः इतिः ॥ ६ Page #97 -------------------------------------------------------------------------- ________________ प्रवचने प्रतीतमेवेति तेषामकरण नियमवचनमाकृतिमात्रमेवेत्यपास्तम् ।। नसारिदृष्ट्या तद्वर्णनस्य घुणाक्षरविलक्षणत्वाद् , औदयिकयोगदृष्ट्या सर्व विशेषावगाहिसम्यक्त्वाभावेऽपि सामान्यधर्मप्रदर्शनाविरोधात मान्यधर्मसत्ता च तेषु बौद्धादिसामान्यधार्मिकजनस्यागीति, पदवृत्तिकर्तुरेव वचनाद व्यक्तं प्रतीयते । एवं सति मागिहाणे धर्मोऽस्तीति मरीचिवचनस्योत्स्यत्वं न स्यादिति त्वसमीक्षताभिधानम् , स्वतन्त्रप्रमाणप्रतिपत्त्यनुवन्धिविषयनयाऽन्यदर्शने मनाम् धर्मस्याप्यमावेन तद्वचनस्योत्सूत्रत्वात् , तवृत्तिसामान्यधर्मऽपि भगवद्वचनस्यैव स्वतन्त्रप्रमाणत्वाद् । अथवा कपिलस्य बालत्वादन्यलिङ्गामेवान्यदर्शनत्वेन तेन प्रतीतम् , तत्र च स्वनिरूपित कारणता.. विशेषेण न कोऽपि धर्मोऽस्तीति भावासत्यत्वात् तद्रूचनस्योत्सन्नत्वाव्याघात इति यथालन्त्रं विभावनीयम् ।। अवैवमन्यदर्शने क्यचित्सत्यत्वम् , क्वचिच्चासत्यत्वमिति मिश्रत्वं स्याद नत्वेकान्तमिथ्यात्वम् , न चैवमिष्यते, तस्यैकान्तमिथ्यारूपस्यैवाभ्युपगमात् । तदुक्तं दशवकालिकनियुक्ती " संन्मदिट्टीउ सुअंमि अणुवउत्तो अहे उअं चेव । जं भासइ सा मोसा मिच्छदिट्ठीवि य तहेवत्ति ॥", एतद्वृत्तियथा-सम्यग्दृष्टिरेव श्रुते आगमेऽनुपयुक्तः प्रमादाद्यस्किचिदहेतुकं चैव युक्तिविकलं चैव भाषते ' तन्तुभ्यः पट एव भवति' इत्यादि, सा मुषा, विज्ञानादेरपि तत एव भावादिति । मिथ्यादृष्टिरपि तथैवोपयुक्तोऽनुपयुक्तो वा यद् भापते सा मृपैव घुणाक्षरन्यायेन संवादेऽषि " सदसतोरविशेषाद् यदृच्छोपलब्धेन्मनवत् ” इति गाथार्थः, इति चेद् । न, अनभिनिविष्टं प्रत्यन्यदर्शनस्य सर्वस्यैव फलतोऽप्रामाण्यात् , मार्गानुसारिणं प्रति च.सुन्दरवचनस्थ जैनवचनपर्यवसिततयाऽवशिष्टस्यान्यदर्शनस्यैकान्तमिथ्यात्वतादवस्थ्यात् । कश्चित्तु दृष्टिरागघिल्लुप्तबुद्धिः पातञ्जलादिगताकरणनियमादिवाक्यानां जिनवचनभूलत्वमनभिमन्यमानः “सव्वप्पवायमूलं," सम्पदृष्टिः भुतेऽनुपयुक्तोऽहेतुकं चैव ।। गद भाषा सा भषा नियालिराति च तथैवेति ॥ Page #98 -------------------------------------------------------------------------- ________________ म्याशुपदेशपदगाथायामिमामनुपपत्तिमुद्भावयति-'सर्वप्रवादानां मूलं द्वादशाङ्गम्' इत्यत्र प्रवादा नयवादविशेषास्ते च सर्वग्रहणेन शुभा अशुभाश्च ग्राह्याः । तत्र शुभा जीवरक्षायाभप्रायघटिताः, अशुभाश्च ततो विलक्षणाः तेषां च मूलं द्वादशाङ्गं श्रीवीरवचनाहोधितभी सुधर्म स्वामिसन्धिः न भवति , अशुभानामपि प्रवादानां प्रवृतेर्जिनवचनमूलकत्वप्रसक्त्या शुभानामियोपादेयता स्यादिति । ते च प्रवादाः शुभाः शुभरूपा अपि संख्यया च न संख्याकाः । तदुक्तम्-"जोवइआ वयण पहा" इत्यादि, तेषां प्रवृत्तिरनाक्प्रिवाहपतिता कथं जिनवचतमूलिका संभवति ?, प्रत्यक्षवाधात् । किं च-तेक सर्वेषामप्यवज्ञाकरणेन जिनावज्ञाऽभ्युपगमे जीवो हन्तव्यः इत्यादिनयप्रवादानामप्यवज्ञाकरणे तथाल्वापत्तिरितिः ॥ एतदन्यभावं कल्पयति-द्वाशाङ्गं हि सर्वोत्कृष्ट श्रुतज्ञानं केवलज्ञानदिवाकरस्य प्रकाशभूतं केवलज्ञानाभिक प्रत्यात्मवर्तित्वाधिकरणभेदेन भिन्नमपि स्वरूपत्तो न-भिन्नम् , किन्तु केवलज्ञान: मिवैकमेव, तुल्यविषयकस्वात् तुल्यसंबन्धित्वाच्च । उदयमधिकृत्य तु स्वरूपतोऽपि भिन्नमेव, सत्कारणस्थ क्षयोपशमस्य प्रत्यात्मभिन्नत्वात्, श्रुतज्ञानोदयस्य च क्षायोपशमिकत्वात् । वे च प्रवादा निजद्वादशाङ्गमूलका अपि सामान्यतो द्वादशाङ्गमूलका एवोच्यन्ते । यथा नाना जलसंभूतान्यपि कमलानि सामान्यतो जलजान्येक, अत एव सर्वप्रर बादानां मूलं द्वादशाङ्गसेवेति सामान्यतोऽभिहितम् , सर्वस्यापि द्वादशाङ्गस्य सर्वोत्कृष्टश्रुतत्वेन साक्षरसंनिपातात्मकत्वात् प्रवादा अपनाक्षत्मका एव । अत एव द्वादशाङ्गं रत्नाकरतुल्यम् , स्त्नाकरस्यैक तस्याप्यनेकजात्वीयशुभाशुभनयलक्षणवस्तूनामाश्रयत्वात् । परं मिथ्या: दृशां यद् द्वादशाङ्गं तत्स्वरूपत एव सुर्वनयाल्मकं सत्तामात्रवर्तित्वाद, न पुनः फलतोऽपि कस्यापि मिथ्यादृशः कदाचिदपि सर्वांशक्षयोपशमाभावात् , मिथ्यादृष्टिमात्रस्योत्कृष्टतोऽपि क्षयोपशमः सर्वांझक्षयोप्रशमलक्षणसमुद्रापेक्षया बिन्दुकल्पो भवति । यदुक्तं- जयति विजितसग०" इत्यादि । सम्यग्दृशां तु केषांचित्संयतानां फलतोऽपि द्वादशाङ्गस्य सर्वनयात्मकत्वम् , सर्वांशक्षयोपशमस्य संभवाद् । : यावन्तो वचन पथाः । Page #99 -------------------------------------------------------------------------- ________________ अन एव गौतमादयः सर्वाक्षरसंनिपातितः प्रवचने भणिताः, पर तेषां संयतानां सकलमपि द्वादशाङ्गं शुभनयात्मकत्वेनैव परिणमति, सावद्यनयविषयकानुज्ञादिवचनप्रवृत्तेरप्यभावाद् । एतेन सर्वेऽपि शाक्यादिप्रवादा जैनागमसमुद्रसंबन्धिनो बिन्दव इति भ्रान्तिरपि निरस्ता, “षट्शतानि नियुज्यन्ते पशूनां मध्यमेऽहनि,” इत्यादि प्रबादानामपि जैनागमम्मूलकत्वापत्त्या संयतानां सावद्यभाषाप्रवृत्तिप्रसक्तेः । तस्मात्सर्वांशक्षयोपशमसमुत्थद्वादशाजलक्षणसमुद्रस्य पुरस्तादन्यतीर्थिकाभिमतप्रवादाः समुदीता अपि बिन्दूपमा इत्यर्थो युक्तः, अन्यथा 'बिन्दुभावं भजन्ते' इति प्रयोगानुपपत्तिः स्यात् । अवयवावयवि-. नोरुपमानोपमेयभावेन वर्णने निजावयवापेक्षया महरवेऽप्यवयविनो गौरवाभावाद, नाङ्गाष्ठो हस्तावयवभावं भजते इति हस्तस्य स्तुतिः संभवति । किं च-समुद्रस्य बिन्दव इति भणनमप्यसङ्गतम् , समुद्रप्रभवा हि वेलाकलोलोम्योदयो भवन्ति न पुनबिन्दवः, ते चोत्पत्तिदंघाद् हस्तवस्त्रादिपापाराद्वा स्यादिति सोनुभवसिद्धम् । अन्यथा समुद्रानिगतविन्दाभिः समुद्रस्य न्यूनत्वापत्या तस्य गाम्भीर्यहानिः स्याद् इत्येवंस्थिते वृतिव्याख्यानसं तिरियम् यद् यस्मात्कारणाद् द्वादशाङ्गं रत्नाकरोपसया शुभाशुभसर्व प्रवादमूलम् , तस्मात्कारणात्स्वरूपतः फलताश्च यावत्सुन्दरमात्मनिष्ठाकरण नियमादिवाच्यवाचकं वाक्यादिकं तत्तलिन द्वादशाङ्गे, एवकारो गम्यः, द्वादशाङ्ग एव समवतारणीयं, तत्र वर्तते एवेत्यर्थः, द्वादशाङ्गस्य सर्वोत्कृष्टश्रुतत्वेन तद्ववापकभूतस्य सर्वसुन्दरात्मकत्वस्यावश्यंभावात् ; परं सम्यग्दृशां यावत्सुन्दरं तावत्सर्चमपि द्वादशाङ्गमूल कमुदितं भवति, फलतोऽपि शुभत्वात् , तदागमनविधिपरिज्ञानाच । तच्च खानुबन्धपुण्यप्रक्रतिहेतुः। मिथ्यादृशां तु स्वरूपतः क्वचिदंशे शुभत्वेऽपि फलतोऽन् भ वमेवेति । विरुद्धस्वरूपपरिणतयोरुभयोः सम्याग्मिथ्याशारकरणनियमयोरभेदेन भणनमुदितस्याकरणनियमस्यावज्ञया जिनावज्ञा स्यात् , साचालन्तससारहेतुरिति भणितम् । यथा मोक्षाचं स्वरूपतः शुभमपि मनुष्यत्वं संयतजनस्य फलतोऽपि शुभमेव, सोक्षप्राप्तिपर्यन्तं सुगतिहेतुत्वात् । तदेव मनुष्यत्वं व्याधादः फललोऽशुभमेव, जीवघातायसंयमहेतुत्वेन हर्ग Page #100 -------------------------------------------------------------------------- ________________ ८७ तिहेतुत्वात् । एवं सत्यपि भेदे द्वयोरपि मर्मुष्यत्वयोस्तुल्यतया भणनं संयतजनमनुष्यत्वस्यावज्ञया जिनावज्ञैव, जिनेनैव भेदेमाभिधानात् दृश्यते च लोकेऽपि लक्षणोपेत-तेदनुपेतयोर्मण्योस्तुल्यतया भणने लक्षणीपेतमणेरवजया तत्परिक्षकस्यावज्ञैवेति ॥ तदिदमखिलमकाण्डतुण्डता. ण्डवाउँम्बरमात्रम् , अनुपपत्तेरेवाभावात् । द्वादशाङ्गस्य विधिनिषेधविधया स्वसमयपरसमयप्रज्ञापनाविधया वाऽशुभाशुभसर्ववादमूलत्वे दोपाभावात्। न चाशुभानामपि प्रवादानांततः प्रवृत्तेस्तन्मूलकंतयोपादेयतासङ्गाःतजन्य प्रतिपत्तिविषयत्वर रस्य तन्मूलकत्वस्यो। पादेयत्वाप्रयोजकत्वात् , जिनवनविहितत्वस्यैवोपादेयतायां तन्त्रत्वात् । सर्वेषामपि परवादानामवज्ञाकरणे च न जिनविज्ञाऽभ्युएगम्यते, किन्तु तद्तसुन्दरप्रवादानामेवेति । 'जीवी हन्तव्यः' इत्यादि। नयवादानामवज्ञायां जिनावज्ञाऽऽपार्वनम सङ्गतमेवेति, ततो भारतन्तरकल्पनं निर्मूल कमेवासंगततरं च । अन्योक्ताकरणनियमावज्ञापन रिहारार्थं प्रकृतगाथोपन्यासात्परकल्पितभावस्य च तद्विपरीतत्वात तदनुसारेणोभयाकरणनियमवर्णनाभेद भगवदवज्ञाप्रसंङ्गात् , तद्भे दव्यक्तये अन्याकरणनियमवर्णनावज्ञाया एव न्याय्यत्वप्रसङ्गादिति । तथाऽपि तत्र किश्चिदुच्यते-डादशानां हि सर्वोत्कृष्टद्युनज्ञानं सन्तानभेदाविवक्षया गृह्यते तच्छुद्धज्ञानमेव ज्ञानाज्ञानसाधारणं वा ह्येतस्य सर्वप्रवादमूलत्वानुपपत्तिः, शुद्धाशुद्धयोरैक्यायोगाद् । अन्त्ये च संग्रहनयाश्रयणेन द्वादशाना सामान्यस्य वस्तुतः सर्वनयपवादात्मकल्पसिद्वावपि व्यक्त्यनुपसंग्रहापत्तिः । न हि यथा नानाजलोल्हनि जाल. जानि जलजत्वेनोच्यन्ते तथा 'जलं सर्वजलजोत्पादकम्' इत्यपि व्यवहार क्रियते, एवमेव हि सर्वप्रवादमूलं द्वादशाङ्ग्याम्इत्यपि न स्यात् । यदि चैकवचनेनापि व्यक्त्युपसंग्रहः क्रियते, वरिवाज च मिथ्यादृशां द्वादशाङ्गमत्यल्पक्षयोपशमात्मकं सर्वा शल्योपशमशुद्धसम्यग्दृष्टिद्वादशागरत्नाकरापेक्षया विन्दुतुल्यं व्यवस्थाप्यते, तदा केयं वाचोयुक्तिः ?, “ सर्वेऽपि शाक्यादिप्रवादा जैनागमसमुद्रसंबन्धिनो विन्दव इति श्रान्तिः' इति ज्ञानवास्ययोर्मियारूपनारबिशिष्टयोरेकत्र जैनागमसंबन्धित्वमगरत्र नेत्यत्र प्रणाभावान् , प्रत्युत Page #101 -------------------------------------------------------------------------- ________________ पाक्यमुत्सर्गतो न प्रमाणे नवाऽप्रमाणम् , अर्थापेक्षया तु तत्र प्रामा ण्यमप्रामाण्यं वा व्यवतिष्ठते इति कल्पभाष्यप्रसिद्धार्थानुसारेणादा सीनेषु वाक्यरूपपरमवादेषु तत्संबन्धित्वमत्यसुन्दरम् , साक्षात्प्रतिप क्षभूनेषु मिथ्याज्ञानरूपेषु प्रवाहेषु तदस्यन्तासुन्दरमिति भावभेदे च सति वाक्यरचनायां न विशेषः। 'सम्यग्दृष्टिपरिगृहीतं मिथ्याश्रुतमपि सम्यक्श्रुतम् । मिथ्याटष्टिपरिगृहीतं च सम्यक्श्रुतमपि मिध्याश्रुतम् ' इति सिद्धान्तब्यवस्थितत्वाच्छाक्यादिप्रवादेषु जैनागमोहतत्वरूपतत्संबधित्वाभ्युपगमस्य तदेकार्नुपूर्वीकरचनारूपसंबन्धाभावेन खण्ड त्वपाण्डित्यविजम्भितमेंय । नविर्भूतसंबन्धैन साधनां तद्वचनादसंयतत्वा पात्तैः , शुद्धाशुद्धधिवेकेन साधुभिस्तत्परिग्रहात् । न च 'शाक्यादि प्रवादी जैनागमसमुद्रसंबन्धिनो बिन्दवः' इति प्रवाहपतितमेव वचनम् ;. "पायति असमंजैसावि वयणेहि जहि परसमया। तुह समयमहोअहिणो ते मैदा बिंदुर्णिस्संदा ।" इत परमश्रावकेण धनपालपण्डितैनापीत्थमाभिधानात् । किं च "ज काविलं दरिसर्ण एॐ देवटिअस वत्तव्यं । सुद्धाअणतणयस्स उ परिसुद्धो पजवविअप्पो ।। दोहिवि णएहि णीर्थ सत्थमुलूएण तहवि मिच्छत् ।। जं सक्सियपहाणतणेणं अणुण्णाणिर्रवक्खें ।" इत्यादि संमंतिग्रन्धेऽपि शाक्यादिप्रवादानां जैनागममूलत्वे सुमन सिद्धम् ; तस्य द्रव्यार्थिक-पर्यायाथिकोमय भयरूपत्वात् । धचे सिद्धसैन: प्राप्नुवन्ति असमञ्जसा अपि थैर्वचनः परसमयाः। शव समयमहोदधीन ते मन्दा बिन्दुनिःस्यन्दा ॥ . यस्कोपिलं दर्शनभेतद् द्रव्यार्थिकख्य वक्तव्यम् । शुद्धोदनातनयस्य तु परिशुद्ध पर्यवविकल्पः ॥ द्वाभ्यां नयाभ्यां नीतं शास्त्रमुलूकेन तथाऽपि मिथ्यात्वम् : यस्वाधिषयप्रधानत्वेन अनुशानिरपेक्षम् ॥ Page #102 -------------------------------------------------------------------------- ________________ ८९ तित्ययरवयण संगहविसेसपत्थारमूलवागरणी । व्यओि अ पंज्जवणओ अ सेसा विअप्पासि ॥ " इति । " ( संमति नयकाण्ड. गा. ३) योक्तम् ' विन्दुभावं भजन्ते ' इति प्रयोगानुपपतिः, अवयघावयविनोरुपमानोपमेयभावे गौरवाभावादिति । तदसत्, नह्यत्र हस्ता द्यवयवसाधारणमवयवत्वम्, किन्तु समुदितेषु परप्रवादेषु तदेकदेशार्थत्वमिति गौरवाप्रतिघातात् । चोक्तम् —' समुद्रस्य बिन्दव इति भणनमप्यसंगतम् ' इत्यादि, तदपि असत्, समुद्रस्थानीयजैनमहाशास्त्रप्रभवकल्लोलस्थानीयाबान्तरशास्त्रेभ्यः सामान्यदृष्टिपवन प्रेरितपरसमयबिन्दृद्गमस्याविरोधात्, 'समुद्रान्निर्गतविन्दुभिः समुद्रस्य गाम्भीर्यहानि:' इति तु न पामरस्यापि संमतमिति यत्किचिदेतत् । एवकाराद्यध्याहारेण वृत्तिसंघटना तु वृत्तिदभिप्रायेणैव बिरुद्धा, 'अन्यत्र न सुन्दरम्' इत्यस्यार्थस्य वृत्तिकृदनभिप्रेतत्वात्, उदितानुदितयोः करणनियमयोरभेदेन भणनं यद्युदितस्याकरणनियमस्यावज्ञा तद्भेदवादिभगवदवज्ञापर्यंवसायिनी स्यात्, तदा तद्भेदवर्णनमपि सामान्याकरण नियमावज्ञा तद्भेदवादिभगवदवज्ञापर्यवसायिनी स्यात्, न हि तद्भेदमेव भगवान् वदति नाभेदमित्येकान्तोऽस्ति, भेदाभेदवादित्वात्तस्येति वक्रतां परित्यज्य विचारणीयम्; परगुणद्वेष एव भगवनामवज्ञेति । एतदर्थसमर्थनायैव हि 'सर्वप्रवादमूलं द्वादशाङ्गं रत्नाकर तुल्यम्' इत्यत्र " उद्घाविव इत्यादिसंमतितयोद्भावितं वृत्तिकृता । " अत्र पर: प्राह-यत्तु 'सर्वप्रवादानां द्वादशाङ्गं रत्नाकरतुल्यम्' इति समर्थनाय टीकाकारेण “ उद्घाविव सर्वसिन्धवः०" इत्यादिरूपं श्रीसिद्ध-: सेनदिवाकरवचनं संमतितयोद्भावितं तच्च विचार्यमाणमसंगतमिवाभाति । तथाहि यदि द्वादशाङ्गं रत्नाकरतुल्यम्, तर्हि नदीतुल्याः प्रवादा न भवेयुः, समुद्रान्नदीनामुत्पत्तेरभावात्, समुद्रस्य च नदीतीर्थकरवचन संग्रह विशेष प्रस्तारमूलव्याकरणी । द्रव्यार्थिकश्च पर्यवनयश्च शेषा विकल्पा अनयोः ॥ Page #103 -------------------------------------------------------------------------- ________________ पितृत्वापत्या नदीपतिः समुद्रः' इति कधिसमयव्याह तिप्रसस्तेः, समुद्रस्य गाम्भीर्यहानिप्रसक्तेश्च । तस्मात्स्तुतिकर्तुरभिप्रायोऽयम्हे नाथ ! ' त्वयि' सर्वज्ञे दृष्टयोऽन्यतीथिकानां निजनिजमार्गश्रद्धानलक्षणाः 'समुदीर्णाः' सम्यगुदयं प्राप्ताः तद्विषयो भगवान् जात "इत्यर्थः । अयं भावः-यत्किचिदकरणनियमादिकं जिनेन सुन्दरतया भपितम् , तदन्यतीर्थिकैरपि तथैव प्रतिपन्नम् । एतच्च साम्प्रतं नालिकेरादिफलाहारेणैकादशीपर्वोपवासं कुर्वाणा जैनाभिमतोपवासं सम्यक्तया मन्यन्ते, जैनाश्च तदुपवासं लेशतोऽपि न मन्यन्ते । अत एवं च 'न च तासु भवान् प्रदृश्यते' इति । तासु-अन्यतीर्थिकदृष्टिषु " भवान् न प्रश्यते' अन्यतीर्थिकश्रद्धानविषयीभूतं धार्मिकानुष्ठान गङ्गास्नानादिकं भवान् लेशतोऽपि न मन्यते इत्यर्थः । अन्यतीथिकानां दृष्टयो भगवति वर्तन्ते । तत्र दृष्टान्तमाह-यथोदधौ सर्वाः सिन्धयः समुदीर्णा भवन्ति-सम्यगुदयं प्राप्ताः स्युः, लोकेपि भर्तृसंबन्धेन स्त्रिय उदिता भवन्तीति प्रसिद्धेः। 'तासु भवान्नास्ति' इत्यत्र दृष्टान्तमाह-यथा प्रविभक्तासु सरित्सु नदीषु समुद्रो नास्ति । तासु च समुद्रो नावतरतीत्यर्थः । अनेनाभिप्रायेण स्तुतिः, न पुनरहदुपदिष्टप्रवचनद्वाराऽर्हत्सकाशाद्न्यतीर्थिकदृष्टयः समुत्पन्ना इत्यभिप्रायेणेति ॥ तदसत्, प्राचीनाचार्यव्याख्यामुल्लध्य विपरीतव्याख्यानस्यापसिद्धान्तत्वात् । तदाहुः श्रीहेमचन्द्रसूरयः " यदार्जवादुक्तमयुक्तमन्यैस्तदन्यथाकारमकारिशिष्यैः । न विप्लवोऽयं तव शासनेऽभूदहो अधृष्या तव शासनश्रीः ॥” इति । न चेदमुपदेशपदवृत्तिकृत एव दृषणदानम् , किन्तु " एक एव "मार्गाऽपि तेषां शमपरायणः।” इत्यादिवदतां श्रीहरिभद्रसूरीणां 'समाख्यातम्' इति पदसूचितग्रन्थकृदेकवाक्यताशालिश्रीसिद्धसेनदिवाकराणां तदनुसारिणामन्येषां चेत्यतिदुरन्तोऽयं कोऽपि मोहमहिमा । यावानुपपत्तिद्भाविता 'यदि द्वादशाङ्गं रत्नाकरतुल्यम्' इत्यादिना साऽनुपपन्ना, समुद्राजलं गृहीत्वा मेघो वर्षति, ततश्च नद्यः प्रवृद्धा सवनीति प्रतिद्धेः, परप्रवादानामपि नदीतुल्यानां जैनागमस्य समुद्र Page #104 -------------------------------------------------------------------------- ________________ पहीलार्थजालादाशिकक्षयोपशममेघालावृद्धिसंभवात्। एवं नदीतुल्यानां परप्रयादानां जैनागमसमुद्रमूलत्वे लोकनील्यापि बाधकाभावात् । अत एवन समुद्रप नदीपितृत्वापत्तिदोषोऽपि, लोकजील्याऽपि तदनपपतेः । यदि चोपमानबललभ्यधर्नेग तत्सहचरितानभितधर्मापत्तिः स्यात् , नह। चन्द्रोपमया जुवादी कलङ्कितत्वाद्यापत्तिरपि स्वादिति ।। न चैवं मेवात्माग्नदीनामिव जैनागमानुसारिक्षयोपशमात्याक् परवादानामनुपचितावस्थत्वा सङ्गः, इष्टत्यात् , जैनागमानुसारिनयपरिज्ञान धिनाज्नुपनिबद्धमिथ्यात्वरूपतयैव तेषां स्थितत्वात् । न चैवं जिनदेशनाया उपचितमिथ्यात्वमूलत्वेनानर्थमूलत्वापत्तिः, विश्वहितार्थिप्रत्रतावनुषङ्गतस्तदुपस्थितावपि दोषाभावाद् भावस्यैव प्राधान्यात् ।। तदुक्तमष्टके " इत्थं चैतदिहेप्टव्यमन्यथा देशनाऽप्यलम् ।' कुधर्मादिनिमित्तत्वाद्दोपायेव प्रसज्यते ॥” इति पराभिप्रायेण प्रकृतस्तुतिवृत्तव्याख्याने च त्वत्तः समुदी:इति वाच्ये ' त्वयि समुदीर्णाः' इति पाठस्य लिष्टत्वापत्तिः। किं च'एवं परेषां भगवदभिहितार्थ श्रद्धानं भगवतश्च तल्लेशस्याप्यश्रद्धानम्.' एतावता भगवत्यतिशयालाभः। सांप्रदायिके त्वर्थे 'भगवत्यन्यदृष्टयः समयतरन्ति, भवांश्च न तासु" इत्येवं स्खेतरसकलदर्शनार्थव्याप्यार्थप्रवचनव तृत्वरूपातिशयालाभ इत्युपमया व्यतिरेकालंकाराक्षेपात् दुष्टार्थकत्वं काव्यस्य स्यात् । किं च-एवमपि परेषां जिनाभिहितार्थश्रद्धानाभ्युपगमे सत्पशंसारूपरीजलाभाभ्युपगमप्रसङ्गः । न च तेषां क्वचिद् यथार्थजिनोक्तश्रद्धानेऽपि तत्प्रणेतहति देवत्वेन भावाभाबाद । देवो रागद्वेषरहितः सर्वज्ञ एव भवति नापरः, स चास्मदभिमतः सुगतादिरेवेति शाक्यादीनाम् , देवोहन्नेव, परमस्मन्मार्गप्रणेतेत्यादि च मिथ्यात्वबीजं दिगम्बरादीनामस्त्येवेति न तेषु धर्मसंभव इति वाच्यम् । तथापि तादृशपक्षपातरहितानां ' यः कश्चिद् रागादिरहितो विशिष्टपुरुषः स देवः' इत्यादिसंमुग्धश्रद्धानवतां भगवदभिहितकतिपयसुन्दरार्थग्राहिणां धर्मबीजसद्भावस्य प्रतिहन्तुमशक्य Page #105 -------------------------------------------------------------------------- ________________ स्वात् , औधिकयोगदृष्ट्या तत्प्रणीतवाक्येषु सुन्दरार्थमुपलभ्ये त्यस्याप्यादिधार्मिकत्वोपपत्तेश्चेत्यध्यात्मदृष्ट्या विचारणीयम् , तां विना वादप्रतिवादादिव्यापारात् तत्त्वाप्रतिपत्तेः । तदुक्तं योगबिन्दौ ९ वादांश्च प्रतिवादांश्च वदन्तो निश्चितांस्तथा । तत्त्वान्तं नैव गच्छन्ति तिलपीडकवद् गतौ ॥ अध्यात्ममत्र परम उपायः परिकीर्तितः। गतो सन्मार्गगमनं यथैव ह्यप्रमादिनः ॥” इति । नत्वेतदयुक्तम्-मिथ्यादृशां प्राणातिपातादिविनिवृत्तेरप्यधर्मपक्षे निर्वशितत्वात् तया तेषां देशाराधकत्वाभावात् । तदुक्तं सूत्रकृताङ्गे"अंहावरे तच्चस्स टाणस्स मीसगस्स विभंगे एवमाहिजइ, जे इमे भवंति आरण्णिआ" इत्यादि यावत् xxx “असव्वदुक्खप्पहीण मग्गे एगंतमिच्छे असाहु"त्ति । एतवृत्त्येकदेशो यथा-" अत्र चाधर्मपक्षेण युक्तो धर्मपक्षो मिश्र इत्युच्यते, तत्राधर्मस्येह भूयिष्ठत्वादधर्मपक्ष एव यैर्द्रष्टव्यः । एवदुक्तं भवतियद्यपि मिथ्यादृष्टयः कांचित्तथाप्रकारां प्राणातिषातादिविनिवृत्तिं विदधति, तथाप्याशयस्याशुद्धत्वादभिनवपित्तोदये सति शर्करामीश्रक्षीरपानवदूपरप्रदेशवृष्टिवद्विवक्षितार्थासाधकत्वानिरर्थकतामापद्यते, तथा मिथ्यात्वानुभावाद् मिश्रपक्षोऽप्यधर्मपक्ष एवावगन्तव्यः"। इत्यादीति चेत् । सत्यम्, नहि वयमपि सन्मार्गगह दिहेतुप्रबलमिथ्यात्वविशिष्टया प्राणातिपातादिविनिवृत्तिक्रियया देशाराधकत्वं ब्रूमः, किन्तु रागद्वेषासद्ग्रहादिमान्छेन मार्गानुसारिण्यैव तया । सा च सामान्यधर्मपर्यवसन्नाऽपि धर्मपक्षे न समवतरति, तत्र भावविरतेरेव परिगणनात्, तदभावे बालत्वात् , तदुक्तम-"अविरई पडुच्च बाले आहिजइ” त्ति । एतवृत्तिर्यथा-"येयमविरतिरसंयमरूपा सम्यक्त्वाभावान्मिथ्यादृष्टे व्यतो विरतिरप्यविरतिरेव, तां प्रतीत्य-आश्रित्य बालवद् बालोऽज्ञः, सदसद्विवेकविकलत्वाद् इत्येवसाधीयते व्यवस्थाप्यते वेति"। द्रव्यविरतिश्च मिथ्यात्वप्राबल्येऽप्राधान्येन, तन्मान्ये च मार्गानुसारित्वरूपप्राधान्येतापि संभवतीत्येवं विषयविभागप १ अथापरस्तृतीयस्य स्थानस्य मिश्रकस्य विभने एवमाख्यायते-य इमे भवन्ति आरपियकाः। असर्वदुःखप्रक्षीणमार्गमेकान्तमिथ्याऽसाध्विति ॥ २ अविरतिं प्रतीत्य बाल आधीयते । Page #106 -------------------------------------------------------------------------- ________________ यालोचनायां न कोऽपि दोष इति । अवश्यं चैतदङ्गीकर्तव्यम् , अन्यथा परस्य मार्गानुसारिणो मिथ्यादृष्टेविलोपापत्तिः, मिथ्यात्वसहिताया अनुकम्पादिक्रियाया अप्यकिंचित्करत्वाद् , 'यदीयानन्तानुबन्धिनां जीर्णत्वेन सम्यक्त्वप्राप्तिपतिबन्धकत्वं तेषां मार्गानुसारित्वम् , ते च सम्यक्त्वाभिमुखत्वेन सम्यवष्टिवदेवावसातव्याः' इति त्वावयोः सभानमिति । न चेदवं तदादिधार्मिकविधिः सर्वोऽप्युच्छिद्यतेति सर्वाभिनिविष्टचित्तानां मिथ्यादृशां दयादिकमदुष्टम् , अनभिनिविष्टानां तु मार्गानुसारितानिमित्तमिति ध्येयम् , सामान्यधर्मस्यापि सद्धर्मयोजप्ररोहत्वेनोक्तत्वात्। तदुक्तं धर्मविन्दौ "प्रायः सद्धर्मबीजानि गृहिष्येवंविधेवलम् । रोहन्ति विधिनोप्तानि यथा वीजानि सरिक्षतौ ॥ इति । एतेन 'जे अबुद्धा महाभागा वीरा असम्मत्तदंसिणो। असुद्धं तेर्सि परकंतं सफलं होइ सव्वसो ॥" इति सूत्रकृताऽष्टमाध्ययनगाथायां तेषां च बालानां यत्किमपि तपा-दानाध्ययन-नियमादिषु पराकान्तमुद्यमः कृतस्तदशुद्धम्-अविशुद्धकारि प्रत्युत कर्मबन्धाय, भावोपहतत्वाद् सनिदानत्वावनि, कुवैद्यचिकित्सावद् विपरीतानुबन्धित्वाचेति । सह फलेन कर्मबन्धेन वर्तते इति सफलं। सर्वश इति। सर्वा अपि क्रियास्तपोऽनुष्टानादिकाः, कर्मबन्धायैव इत्युत्तरार्द्धव्याख्यानात् ।' पण्डितानामपि त्यागादिभिलॊकपूज्यानामपि सुभटवादं वहतामपि सम्यक्त्वपरिज्ञानविकलानां सर्वक्रियावैफल्याद न मिथ्यादृशां केषामपि क्रियावसामपि लेशतोऽप्याराधकत्वम्' इत्यपास्तम् । एतेन भवाभिनन्दिनां मिथ्याहशां सर्वक्रियावैफल्यसिद्धावपि तद्विलक्षणानां भावानुपहतत्वेन देशाराधकत्वाप्रतिघातात् । एतेन 'मिथ्यादृशां सर्व कृत्यं निरर्थकम्' इत्यादी ये अबुद्धा महाभागा वीरा असम्यक्त्वदर्शिनः । अशुद्धं तेषां पराक्रान्तं सफलं भवति सर्वशः ॥ Page #107 -------------------------------------------------------------------------- ________________ न्यपि वचनानि व्याख्यातानि विशिष्टफलाभावापेक्षयाऽपि निरर्थकत्व वचनदर्शनात् । पव्यते - ०४ 3. " नाणं चरितहीणं लिंगरगहणं च दंसणविहू । संजमहीणं च वर्ष जो चरइ पिरत्थयं तस्स || " इत्यादि । अथ पोषमासे वटवृक्षात्रवृक्षयोः सहकारफलं प्रत्यकारणत्ववचनयोर्यया स्वरूपयोग्यता-सहकारियोग्यताऽभावेन विशेषस्तवा मिथ्यादृक्कृत्यचारित्रहीनज्ञानादिनिरर्थकतावचनयोरपि स्फुट एव विशेष इतिचेत्, तर्हि अयमपरोऽपि विशेषः परिभाव्यताम् । सहकारफलस्थानीयं मोक्षं प्रति भवाभिनन्दिमिध्यादृत्यं क्षवदयोग्यम्, अपुनर्षन्धकादिकृत्यं तु सहकाराहुरवत्पारम्पर्येण योग्यमिति सर्वमिदं निपुणं निभालनीयमम् ||२४|| C तदेवं श्रुतवांश्च बालतपस्वी देशाराधकः' इति वृत्तिगतः प्रथसपक्षः समर्थितः, अथ तद्वतं द्वितीयं पक्षं समर्थयति १ पक्खंतरम्मि भणिओ गीयत्थाणिस्सिओ अगीओ सो ॥ जो णभिणिविट्टचित्तो भीरू एतत्तई ॥ २५॥ पक्वंतरम्मित्ति | पक्षान्तरे-अन्येषामाचार्याणां व्याख्याने गीतानिश्रितोऽगीतार्थः स देशाराधको भणितः, योऽनभिनिविष्टचित्तःआत्मोत्कर्ष - परद्रोह - गुरु- गच्छादिप्रद्वेषमूलासग्रहाकलङ्कितचित्तः, भीरुः- कुतोऽपि हेतोरेका कि भावमाथ्र्यवपि स्वेच्छानुसारेण प्रवर्तमानोsपि खारसिक जिनाज्ञाभयः, एकान्तसूत्ररुचिः - अव्याकृत सूत्रमात्रानुसारी । पक्षान्तरे भणितो गीतार्थानिश्रितोऽगीतः सः । योऽनभिनिविष्टचित्तो भीरुरेकान्तसूत्ररुचिः ।। २५ ।। . ज्ञानं चारित्रहीनं लिङ्गग्रहणं च दर्शनविहीनम् । . संयमहीनं च तपो यश्चरति निरर्थकं तस्य ॥ Page #108 -------------------------------------------------------------------------- ________________ अयं भावः -- एकाकिनस्तावत्यावश्चारिचासंभव एव, स्वयं गोतास्वतन्निश्रितागीतार्थस्य वा चारित्रसंभवात् । न हि चारित्रपरिणामे सति गुरुकुलवासमोचनादिकम समञ्जसमापयते । उक्तं च पञ्चाशके- ताचरrरिंग एवं असमंजस इह होइ । आसवसिद्धियाणं जीवाण तहा य भणियभिणं ॥ नाम होड़ भागी थिरवरो दंसणे चरिते च । धन्ना आवकाहाए गुरुकुलवासं पण मुंचति ॥ ततः कष्टविहारिणोऽप्येकाकिनो गुरुकुलवासैकाकिविहारयागुणदोषविपर्यासमवबुध्यमानस्य खाभिनिवेशातपोरतस्याजागमिकत्वेनैकाकत्वेन च प्रवचननिन्दाकारिणः शेषसाधुषु पूजाविच्छेदाभिप्रायतश्च प्रायो बहसमीक्षितकारित्वेनाभिन्नग्रन्थित्वाद् बाह्यवदसाधुत्वमेव तदुक्तम् २ " जे उ तह जित्या सन्मं गुरुलाघवं अयागंता । साहा किरिया पवयविसावा खुद्दा || पायं अभिठी तमा (वो) उ तह दुक्करंपि कुष्यंता । झव्व ण ते साहू धंखाहरणेण विनेया ॥ त्ति ! 59 तथापि न सर्वेषां सदृशः परिणाम इति यस्यैकाकिनो विहारिणो नातिकरः परिणामः, किन्तु मृगपर्यदन्तर्गतस्य साधारपवादादिभीरुतयैव तथाविधकर्मवशाद् गच्छवास भीरुतयैवैकाकित्वं संपन्नम्, सूत्रततो न चरणपरिणामे एतदसमञ्जसामेह भवति । आसन्नसिद्धिकानां जीवानां तथा च भणितमिदम् ॥ ज्ञानस्य भवति भागी स्थिरतरो दर्शने चारित्रे च । धन्या यावत्कथायां गुरुकुलवासं न मुञ्चन्ति ॥ ये तु तथा विपर्ययार्थाः सम्यग् गुरुलाघवमजानन्तः । सद्ग्राहा क्रियारता प्रबचननिन्दावहा क्षुद्राः ॥ प्रायोऽभिन्नन्नन्थिः तपस्तु तथा दुष्करमपि कुर्वन्तः । वाह्या इव न ते साधवः ब्यांक्षाहरणेन विशेयः ॥ Page #109 -------------------------------------------------------------------------- ________________ ०३ रुचिश्च न निवृत्ता, तस्य खमत्यनुसारेण सदाप्रवृत्ते हज्ञानकष्टे पति किंचित कदाचित्परिणामविशेषवशादागमानुपात्यपि स्यात् । तदुक्तमुपदेशमालायाम् - “ अपरिणिच्छिय सुअणिहसस्स केवलमन्भिन्नसुत्तचारिस्स | सम्बुजमेणवि कयं अन्नाणतवे बहुं पंडइ ।। " इति । एतद्वृत्तिर्यथा - " - " अपरिनिश्चितः सम्यगपरिच्छिन्नः श्रुतनिकष आगमसद्भावो येन स तथा तस्य, केवलमभिन्नमविवृतार्थं यत्सूत्रं विशिष्टव्याख्यानरहितं सूत्रमात्रमित्यर्थः तेन चरितुं तदनुसारेणानुष्ठानं कर्तुं धर्मों यस्य सोऽभिन्नसूत्रचारी तस्य सर्वोद्यमेनापि समस्तयत्नेनापि कृतमनुष्ठानमज्ञानतपसि पञ्चाग्निसेवनादिरूपे बहु पतति स्वल्पमेवागमानुसारि भवति, विषयविभागविज्ञानशून्यत्वादिति ॥" " यद्यपि खमत्या प्रवर्तमानानां घुणाक्षरन्यायात्समागतं किंचिच्छुद्धमपि कृत्यं नागमानुपाति, अन्यथा निहृवानामपि तदापत्तेः; तथाऽपि शुद्ध कियाजन्यनिर्जराप्रतिबन्धकस्वमतिविकल्पे यत्किञ्चिदागमानुपाति शिष्टसंमतं च तत्प्रमाणम्, न तु मम्मतानुसारित्वेनै बागमः प्रमाणमित्येवंविधोऽनभिनिवेशविकल्प उत्तेजक इति न दोषः । तदेवंविधो गीतार्थनिश्रिततपश्चरणरतोऽगीतार्थः बालतपखी च शीलवान् श्रुतवान् मार्गानुसारित्वेन देशाराधक इत्युभयोः पक्षयोर्नातिविशेष इति द्रष्टव्यम् ॥ २५ ॥ ननु ' लौकिक मिथ्यात्वाल्लोकोत्तरमिध्यात्वं बलीय:' इति हे तोरुभयोर्महाभेद एव इत्यत आह लोइअमिच्छत्ताओ लोउत्तरियं तयं महापावं । इअ गंतो जुत्तो जं परिणामा बहुविअप्पा ॥२६॥ लौकिक मिथ्यात्वाल्लोकोत्तरिकं तद् महापापम् ! इत्येकान्तो न युक्तो यत्परिणामा बहुविकल्पाः ॥ २६ ॥ अपरिनिश्चितश्रुतनिकषस्य केवलमभिन्नसुत्रचारिणः । सर्वोमेनापि कृतमज्ञानतपसि बहु पतति ॥ Page #110 -------------------------------------------------------------------------- ________________ लोइ अमिच्छता ओत्ति | 'लौकिक मिथ्यात्वाल्लोकोत्तरिकं तत् मिथ्यात्वं महापापम्' इत्येकान्तो न युक्तः; येत्परिणामा बहुविकल्पा नानाभेदाः संभवन्ति । तथा च यथा लौकिक मिथ्यात्वं तीव्रमन्दादिभेदान्नानाविधं तथा लोकोत्तरमपीति न विशेष:, प्रत्युतं ग्रन्थिमैदानन्तरमल्पबन्धापेक्षया लोकोत्तरमेवाल्पपापमिति । तदुक्तं योगबिन्दुसूत्रवृत्त्योः " भिन्नग्रन्थैस्तृतीयं तु सम्यग्दृष्टेरतो हि न । पतितस्याप्यतो बोधो ग्रन्थिमुल्लङ्घय देशितः ॥ 'भिग्रन्यस्तृतीयं तु अनिवृत्तिकरणं पुनर्भवति । एवं सति यत्सिद्धं तदाह-सम्यष्टजीवस्य ' अतो हिं' अंत एवं करणत्रयलाभादेवं हेतोः ' ন' नैव 'पतितस्य ' तथाविधसंक्लेशात्परिभ्रष्टस्य अतो लभ्यते बन्धो ज्ञानावरणादिपुद्गलग्रहरूपः कीदृशः ? इत्याह-' ग्रन्थि ' ग्रन्थिभेदकालभाविनीं कर्मस्थितिमित्यर्थः, ' उल्लङ्घय ' अतिक्रम्य 'देशितः' सप्तति कोट्यादिप्रमाणतया प्रज्ञप्तः, " बंधे ण वोलह कयाह " इत्यादिवचनप्रामाण्यात् ॥ 33 ܐ “ एवं सामान्यतो ज्ञेयः परिणामोऽस्य शोभनः । मिथ्यादृष्टेरपि सतो महाबन्धविशेषतः || , एवं ' ग्रन्थेरुल्लङ्घनेन बन्धाभावात् ' सामान्यतः न विशेषेण ज्ञेयः परिणामोsस्य - सम्यग्दृशः ' शोमनः प्रशस्तो मिथ्यादृष्टेरि सतः' तथाविधमिथ्यात्वमोहोदयात् कुतः ? इत्याह-' महाबन्धविशेषतः ' इह द्विधा बन्धः; महाबन्ध इतरबन्धश्च । तत्रं मिथ्यादृष्टेर्महान्थे, शेषश्वेतरस्य । ततो महाशेषतोऽवस्थान्तरविशेषात् । इदमुक्तं भवति - लब्धसम्यक्त्वस्य प्राणिनो मिथ्याहgst न सामान्यमिथ्यादृटेरिवं बन्धः किन्तु कश्चिदत्यन्तन्यूनः ॥ नद्विशेष एव कुतः ? इत्याह "सागरोपमकोटीनां कोट्यो मोहस्य सप्ततिः । अभिन्नग्रन्थिबन्धो न त्वेकापीतरस्य तु ।। । १ बन्धेन नातिक्रामति Page #111 -------------------------------------------------------------------------- ________________ सागरोपमकोटीनां कोट्यो मोहस्य सप्ततिः कर्मग्रन्थप्रसिद्धा अभिन्नग्रन्थेजीचस्योत्कर्षतो बन्धो 'यद्' यस्मात्कारणात् 'न तु' न पुनरेकाऽपि सागरोपमकोटीवन्धः, “ इतरस्य तु' भिन्नग्रन्थेः पुनर्मिथ्यादृष्टेरपि सतः ॥ अथोपसंहरन्नाह तदत्र परिणामस्य भेदकत्वं नियोगतः। वाह्यं त्वसदनुष्ठानं प्रायस्तुल्यं द्वयोरपि ॥ . यतो ग्रन्थिमतिक्रम्यास्य न बन्धस्तत् तस्माद् 'अत्र' अनयोभिन्नग्रन्थीतरजीवयोर्विषये "परिणामस्य ' अन्तःकरणस्य भेदकत्वं भेदकभाको 'नियोगत' नियोगेन, 'बाह्यं तु बहिर्भवं पुनरसदनुष्ठानमर्थोपार्जनादि 'प्रायो' बाहुल्येन "तुल्यं' समं द्वयोरप्यनयोरिति” सैद्धान्तिकमतमेतद् । येऽपि कार्मग्रन्थि का भिन्नग्रन्थेरपि मिथ्यात्वप्राप्तावुत्कृष्टस्थितिबन्धमिच्छन्ति, तेषामपि मतेन तथाविधरसाभावात् तस्य शोभनपरिणामत्वे न विप्रतिपत्तिः। यद्यपि अल्पबन्धेऽपि भिन्नग्रन्थेरशुभानुबन्धान्मिथ्यात्वप्राबल्येऽनन्तसंसारित्वं संभवति, तथापि मन्दीभूतं लोकोत्तरमिथ्यात्वं संनिहितमार्गावतरणबीजं स्यादिति विशेषः। न चैवं “लौकिकमिथ्यात्वाल्लोकोत्तरमिथ्यात्वं शोभनं' इत्येकान्तोऽपि प्रायः, लोकोत्तरस्यपि भिन्नग्रन्थीतरसाधारणत्वात्, मुग्धामां परेषां मिथ्यात्वऋद्धिजनकतया लोकोत्तरमिथ्यात्वस्यापि महापापस्वेनोक्तत्वाच्च । यदागमः जो जहवायं ण कुणइ मिच्छदिही तओह को अण्फो। . बड्डेइ मिच्छत्तं परस्स संकं जमाणो॥” इति । तस्मादत्रानेकान्त एव श्रेयानिति ॥ २६ ॥ गीतार्थनिश्रितमपि देशाराधकमाह यो यथा वादं न करोति मिथ्याष्टिस्ततः खलु कोऽन्यः । पर्द्धयति मिथ्यात्वं परस्य शङ्कां जनयन् ॥ .... Page #112 -------------------------------------------------------------------------- ________________ पढमकरणभेएणं गंथासन्नो जई व सड्ढो वा। णेगमणयमयभेआ इह देसाराहगो णेओ ॥२७॥ - पढमत्ति। प्रथमकरणभेदेन यथाप्रवृत्तकरणावस्थाविशेषेण ग्रन्थ्यासनो ग्रन्थिनिकटवर्ती अपुनर्बन्धकादिभावशाली यतिर्वा श्राद्धो या इह प्रकृतविचारे नैगमनयभेदात्प्रस्थकन्यायेन-विचित्रावस्थाऽभ्युपगन्तृनैगमनयमतविशेषाश्रयणाद्देशाराधको ज्ञेयः। ... अयं भावः-नीतार्थस्तावत्प्रकृतिभद्रकत्वादिगुणवतां प्राणिनां योग्यताविशेषमवगम्य केबांचिजिन पूजा-तपोविशेष-प्रतिक्रमण-सामाधिकादि श्रावकधर्म समर्पयन्ति, केषांचिच्च प्रव्रज्यामपि; तेषां चाव्युत्पन्नइशायां सदनुष्ठानरागमात्रेग.तदनुष्ठानं.धर्ममात्रहत्तया पर्य. बत्यति । तदुक्तं पूजामधिकृत्य विशिकायाम्-. “पढमकरणभेएणं गंथासम्बस्स धम्ममित्तफलो। . साहुत्तगाइभाको जायइ तह नाणुबंधत्ति ॥” , तपोविशेषमाश्रित्योक्तं पश्चाशके " एवं पडिवत्तीए इत्तो मग्गाणुसारिभावाओं । चरणं विहिअं बहवे पत्ता जीवा महाभागा ।।" तथा प्रव्रज्यामाश्रित्य.तत्रैवोक्तम्- . “ दिक्खाविहाणमेंअं भाविज्जतं तु तंतणीईए । । सइअपुणवंधगाणं कुगाहविरहं लहु.कुणइ ॥"... प्रथमकरणभेदेन ग्रन्थ्यासन्नो यतिर्वा श्राद्धो वा। नैगमनयमतभेदादिह देशाराधको ज्ञेयः॥ २७ ॥ प्रथमकरणभेदेन प्रन्ध्यासनस्स धर्ममात्रफलो। साधुत्वकादिभावो जायते. नानुबन्ध इति ॥ . एवं प्रतिपत्त्येतः मार्गानुसारिभावात् । .. चरणं विहितं बहवो प्राप्ता जीवा महाभागाः ॥: दीक्षाविधानमेतद् भाव्यमानं तु तन्त्रनीत्या। मदपुनर्बन्धकयोः कुग्रहविरहं लघु करोति. ॥ . Page #113 -------------------------------------------------------------------------- ________________ {{ एतद्वत्तिर्यथा--दीक्षाविधानं जिनदीक्षाविधिरेतदनन्तरोक्तं भाविज्जतं तु' ति भाव्यमानमपि पालोच्यमानमपि आस्तामासेव्यमानं सद्बन्धकापुनबन्धकाभ्यामिति गम्यम् । अथवा भाव्यमानमेव नाभाव्यमानमपि, तुशवोऽपिशद्वार्थ एवकारार्थों वा, तत्रनीत्या-आगमन्यायेन, कयोः ? इत्याह-सकृदेकदा न पुनरपि च बन्धो मोहनीयकर्मोत्कृष्टस्थिति बन्धनं यास्तौ सकृदपुनर्बन्धको तयोः, सकद्वन्धकस्यापुनबन्धकस्य चेत्यर्थः । तथा यो प्रथाप्रवृजकरणेन ग्रन्थिप्रदेशमागतोऽभिन्नग्रन्थिः सकृदेवोत्कृष्टां सागरोपमकोटाकोटिसप्ततिलक्षणां स्थिति भन्त्स्यति असौ सकृद्धन्धक उच्यते, यस्तु तां तथैव क्षुपयन् ग्रन्थिप्रदेशमागतः पुनर्नतां मन्त्स्यति भत्स्यति च ग्रन्थि सोपुनर्बन्धक उच्यते । एतयोश्नाभिन्नग्रन्थित्वेन कुग्रहः संभवति, न पुनर्विरतसम्यग्दृष्ट्यादीनाम्, मार्गाभिमुखमार्गपतितयोस्तु कुनइसंभवेपि तत्त्याग एतद्भावनामात्रसाध्य इत्यत् उक्तं-सकृद्धन्धकापुनर्बन्धकयोरिति । एतयोश्च भावसम्यक्त्वाभावादीक्षायां द्रव्यसम्यक्त्वमेवमारोप्यते इति कुनहविहमसदभिनिवेश्वियोगं लघु शीघं करोति विधत्ते इति ॥” तथा च धर्ममात्रफलानुष्ठानवतां गीतार्थनिश्रितमाधुश्रावकाणा: मपि भावतोऽनधिगतश्रुतज्ञानत्वाच्छीलवत्त्वाच देशाराधकत्वमेव त: थैव परिभाषणात्, चारित्रमोहनीयक्षयोपशमविशेषाद्रावतोऽधिगतश्रुतज्ञानानां शीलवतां द्रव्यतोऽल्पश्रुतानामपि माषतुषादीनां त्वेवं सर्वाः राधकत्वमेव परिशिष्यते इति द्रष्टव्यम् ॥ २७॥ विवेचितः प्रथमो भङ्गः, अथ द्वितीयं भङ्गं विवेचयनाहदेसस्स भंगओ वा अलाहओ वा विराहगो बीओ। संविग्गपक्खिओ वा सम्मट्ठिी अविरओ वा ॥२८॥ __देसस्सत्ति । देशस्य मोक्षमार्गतृतीयांशभूतस्य चारित्रस्य गृहीत: स्य भङ्गादलाभाद्वा देशस्य विराधको ज्ञेयः। स च देशभङ्गापेक्षया संविनपाक्षिको देशाप्राप्त्यपेक्षया चावितसम्यग्दृष्टिः, तथा च ज्ञानदर्शनवत्त्वे सति चारित्रभङ्गप्राप्त्यन्यतरवत्त्वं देशविनाधकत्वमिति परिभाषितं भवति ॥ इत्थं च जिनोक्तानुष्ठानमधिकृत्यैव कृतप्रतिज्ञाः देशम्य भङ्गतो वा आराधको वा विराधको द्वितीयः । , संविग्नपाक्षिको वा सम्यग्दृष्टिरविरतो वा ॥ २८ ॥ Page #114 -------------------------------------------------------------------------- ________________ निर्वहण देशाराधकः, विरतिपरित्यागेनैव चाविरतसम्यग्दृष्टिरपि देश: विराधकः, “प्राप्तस्य तस्यापालना" इति वचनात् इत्युभयोरपि प्रकारयोः सविषयत्वेन प्रामाण्यसिद्धं 'यदप्रार्वा' इति विकल्पेन व्यारूयानं तत्केनाभिप्रायेण ? इति संशये सम्यगवक्तृवचनं वयमा श्रीतुकामाः स्म इति बोध्यम् , यतो यद्यप्राप्तिमात्रेण विभाधकत्वं स्यात् तहि चरकपरिव्राजकादीनां ज्योतिष्काव॑मुपपाताभावः प्रसज्येत, मोक्षकारणभूतानां सम्यग्ज्ञानादीनां त्रयाणां लेशतोऽप्यभावेन देश: विरतिसर्वविरत्योयुगपद्विराधकत्वात् । तथा ' द्वादशापर्यन्तनानाश्रुतावधिप्रवृत्यप्राप्तिमान् छद्रस्थसंयतो दूरे, केवल्यप्यप्राप्तजिनकल्यादेविराधकः प्रसज्येत' इति यत्परेण प्राचीनग्रन्थदूषणरसिकेण प्रोक्तं तत्परिभाषाज्ञानाभावविजृम्भितमिति द्रष्टव्यम् । यो यदप्राप्तिमान् स तद्विराधक इति व्यासौ च तत्र तात्पर्याभावात्, किन्लूक्तपरिभाषायामेव तात्पर्यात् । तत्फलं च देशविराधकत्वेन देशदयाराधकल्वाक्षेपः । बथा च पूर्व भङ्गादाधिक्यं लभ्यते, तेन देशविराधकल्वेऽविस्तसम्यग्दृष्टेर्देशाराधकादप्यधमत्वं स्यादित्यपास्तम्, परिभाषितस्य विराधकत्वस्याधमत्वाप्रयोजकत्वात् प्रत्युत देशद्वयाराधकत्वाक्षेपकतयोत्कर्षभयोजकत्वात् । न च परिभाषा न सुत्रनीतिसिति शनीयम् , “संव्यामगंध पारेचज निरामगंधोपरिव्वए" इत्यादीनां परिभाषासूत्राणामपि तन्प्रत्यवस्थापितत्वाद् । यदि च देशविराधकत्वं नैवं पारिभाषिकमङ्गीक्रियते, तदाऽनुपात्तव्रतः सम्यग्दृष्टिः कस्मिन् भङ्गेऽवतास्णीयः। न च नावतारणीय एव, सर्वाराधकादन्यत्र सहकारियोग्यताभावाभिधानाय त्रिभिरेव भडैः सर्वेषां तद्विलक्षणानां संग्रात्यत्वादिति सूक्ष्ममीक्षणीयम् ॥ २८ ॥ तृतीयचतुर्थभङ्गो विवेचयतितइए भंगे साहू सुअवंतो चेव सीलवंतो अ। उवयारा सड्ढोवि य भवामिणंदी चउत्थंमि ॥२९॥ तृतीये भके साधुः श्रुतवाश्चैव शीलवाँच । उपचारात् श्राद्धोऽपि च भन्नाभिनन्दी चतुर्थे ॥ २९ ॥ १ सामगन्धं परिस्थस्य निरामगन्धः परिमजेत् ॥(आचार) Page #115 -------------------------------------------------------------------------- ________________ तइए भंगेत्ति। श्रुतयाँश्चैव शीलवाँश्च साधुस्तृतीयभङ्गे साराधक लक्षणे समवतारणीयः, उपरतत्वाद् भावतो विज्ञातधर्मत्वाच्च विप्र-: कारस्यापि मोक्षमार्गस्याराधकत्वात् । श्राद्धोऽपि चोएचारासृतीयभङ्गएव, देशविरतौ सर्वविरत्युपचारात् ज्ञानदर्शनयोश्चाप्रतिहतत्वात् । तत्र च चतुर्थभङ्गे सर्वविराधकलक्षणे भवाभिनन्दी क्षुद्रत्वादिदोषवान् देशतोऽप्यनुपरतो मिथ्यादृष्टिरिति ॥ २९ ॥ ___ अत्र केचिद्वदन्ति यो मिथ्यादृष्टिरन्यमार्गस्थः स सर्वविराधको . भवतु, यस्तु जैनमार्गस्थः स भवाभिनन्द्यपि न तथा, व्यवहारस्य : बलवत्त्वात् , “ ववहारोवि हु बलवन्तोः" इति वचनमामाण्यादितिः । तन्मतनिराकरणार्थमाह--. भावो जेसिमद्धो ते ववहारद्वियापि एरिसया। णिच्छयपरंमुहो खलु ववहारो होइ उम्मग्गो॥३०॥ भावोत्ति । भावश्चित्तपरिणामो येषामशुद्धः-अपुनर्यन्धकाचुत्ती- ... नत्वेन लेशेनापि निश्चयास्पर्शी ते व्यवहारस्थिता अपि-स्वाभिमतैहिकप्रयोजनार्थ व्यवहारमाश्रिता अपि ईदृशकाः सर्वविराधका एव, निश्चयपराङ्मुखः खलु व्यवहार उन्मार्गों भवतीति न तेषां लिष्टकर्मणां स त्राणायेति । यस्तु व्यवहारो बलवानभ्यधाथि स निश्चयप्रापको न तु तदप्रापकः । अत एव अधिधिनायभ्यासो विधेयः, दुःषमायां विधेदुर्लभत्वात् , तस्यैव चाश्रयणे मार्गाच्छे देवसइत्याद्यशास्त्रीयाभिनिवेशपरित्यागार्थ विधियन्त एक व्यवसाहतुः शास्त्रे कर्तव्यातयोपदेशितः। तदुक्तं पश्चाशके " औलोइऊण एयं तंतं पूवाघरेण सरीहि । विहिजत्तो कायवो मुद्धाण हियडया सम्मं ।।" इति । भावो, येषामशुद्धस्ते व्यवहारस्थिता अपीदृशकाः । : निश्चयपराङ्मुखः खलु व्यवहारो भवत्युन्मार्गः ॥ ३०॥ १ व्यवहारोऽपि. खलु बलवान् । ' आलोच्य एतं तन्त्रं पूर्वापरेण सूरिभिः । विधियन्तः कर्तव्यो मुग्धानां हितार्थाय सम्यग-. ... .. . Page #116 -------------------------------------------------------------------------- ________________ १०३ एतद्द्वृत्तिर्यथा-"आलोच्य - विमृश्यैवं पूर्वोक्तन्यायेन तन्त्रवचनम् कथम्? इत्याह- पूर्वश्च - तन्त्रस्य पूर्वी भागोऽपरश्च तस्यैवापरो भागः पूर्वापरं तेन, सप्तम्यर्थे वा एनप्रत्यये सति पूर्वापरेणेति पूर्वापरभावयोरित्यर्थः, तयोरविरोधेनेति यावत् । अनेन चालोचनमात्रस्य व्यवच्छेदः, तस्य तत्त्वावबोधासमर्थत्वादिति सूरिभिराचार्यैः पण्डितैर्वा विधौ विधाने वन्दनागतवेलाद्याराधनरूपे यत्न उद्यमो विधियत्नः स कर्तव्यो विधातव्यो विमुक्तालस्यैः । स्वयं विधिना वन्दना कार्या, अन्येऽपि विधिनैव तां विधापयितव्या इत्यर्थः । किमर्थमेतदेवम् ? इत्याह- मुग्धा - नामव्युत्पन्नबुद्धीनां हितं श्रेयस्तपो योऽर्थः स हितार्थस्तस्मै हितार्थाय सम्यगविपरीततया । यदा हि गीतार्था विधिना स्वयं वन्दनां विदधति, अन्यश्च तथैव विधापयन्ति, तदां मुग्धबुद्धयोऽपि तथैव प्रवर्तन्ते, प्रधानानुसारित्वान्मार्गाणाम् ॥” आह च तथा “ जो उत्तमेहिं मग्गो पहओ सो दुक्करो न सेसाणं । आयरिअं मि जयंते तयणुचरा के णु सीयंति ॥ जे जत्थ जया जइआ बहुस्सुआ चरणकरणउज्जुत्ता । जं ते समायरंती आलंबणं तिव्वसद्धाणं || " 'जय'त्ति दुषमादौ, 'जइअ'त्ति दुर्भिक्षादाविति । तथाप्रवृत्ता ते वन्दनाधनजन्यं हितमासादयन्ति तद्विराधनाजन्यद्रव्यपापेभ्यश्च मोचिना भवन्तीति । अयं चोपदेशोऽसमञ्जसतया स्वयं वन्दनां विदधानांस्तथाऽनवासापुनर्बन्धकाद्यवस्थेभ्यस्तथाविधजिज्ञासादितलिङ्गविकलेभ्यो जनेभ्यस्तां प्रयच्छतः सूरीन् वीक्ष्य आचार्येण विहितः, एवं हि तत्प्रवृत्तौ तेषामन्येषां चानर्थोऽसमञ्जस क्रियाजन्या च शासनापभ्राजना मा भूदित्यभिप्रायेणेति गाथार्थ । इति । अत एव च कालानुभावाज्जैन प्रवचनेऽप्यल्पस्यैव जनस्याराधकस्य दर्शनात् जिनाज्ञारुचिशुद्धेष्वेव भक्तिमानादिकार्यमिति पूर्वाचार्या बदन्ति ॥ १ २ य उत्तमैर्मार्गः प्रहतः स दुष्करो न शेषाणाम् । आचार्ये जयति तदनुचराः के नु सीदन्ति ॥ थे यत्र यदा यदा बहुश्रुताश्चरणकरणोपयुक्ताः । ते समाचरन्ति आलम्बनं तीव्रश्रद्धानाम् | Page #117 -------------------------------------------------------------------------- ________________ उक्तं चोपदेशपदे १४ 64 एवं पाएण जणा कालणुभावों हपि सख्यवि । जो सुंदरति तम्हा आणासुद्धेसु पडिबंधो ।। " ति ॥ एतद्वृत्तिर्यथां — एवमनन्तरोक्तोदाहरणवलीयो बाहुल्येन जना लोकाः के लानुभावाद्वर्तमानकालसामर्थ्याद् इहापिजैनमतेऽपि सर्वेऽपि साधवः श्रावका नो-नैव सुन्दरा वर्तन्ते किन्त्वेनाभोगादिदोषाच्छात्र प्रतिकूलवृत्तय इति पूर्ववद तसात्कारणादाज्ञाशुद्धेषु — सम्यगधीत जिनागंमा चारवंशाच्छुद्धिमागतेषु साधुषु श्रावकेषु च बहुमानः कर्तव्य इति ॥ ३० ॥ नन्वेवं विधिविकलब्यवहारस्याराधकत्वाप्रयोजकत्वेऽपि विविशुः द्वव्यवहारस्य भावहीनस्याप्यारीधकत्वप्रयोजकत्वे किं बधिकं परं प्रति) तस्य निश्चयप्रापकत्वाद् इत्यत आह भावुझियववहारा ण किंपि आराहगत्तणं होई । भावो उ वोहिबीज सव्वण्णुमयमि धोवोवि ॥ ३१ ॥ भावोज्निति । भावोज्झितव्यवहाराद् मेवाभिनन्दिनां द्रव्यव्रतधारिणां विधिसमग्रादपि न किमप्याराधकत्वं भवति परं प्रति निश्चयप्रापकस्यापि तस्य स्वकार्याकारित्वाद् । भीवस्तु सर्वज्ञमते स्तोकोsपि बोधिबीजम्, विशेषधर्मविषयस्य स्तोकस्यापि भावस्य विशेषफलत्वाद् | अ एवापूर्वा धर्मचिन्ताऽपि प्रथमं समाधिस्थानमुक्तम् । १ तदुक्तं समवायाङ्गे - " धम्मचिता वां से असमुप्पण्णपुव्वा समुप्पा सव्वं धम्मं जाणित्तए "ति ॥ एतद्द्वृत्तिर्यथा — “तंत्र धर्मा जीवादिद्रव्याणां संयोगोत्पादादयः स्वभावास्तेषां चिन्ता-अनुप्रक्षा, धर्मस्यें वा श्रुतचारित्रात्मकस्य सर्वज्ञभाषितस्य 'हरिहराभावोज्झितव्यवहारान्न किमप्याराधकत्वं भवति । भावस्तु बोधिबीजं सर्वज्ञमते स्तोकोऽपि ॥ ३१ ॥ एवं प्रायेण जना कालानुभावादिहापि सर्वेऽवि । न सुन्दरा इति तस्मादासा युद्धेषु प्रतिबन्धः ॥ धर्मचिन्ता वा तवात् समुत्पथरा सबै धर्मे हातुन ॥ Page #118 -------------------------------------------------------------------------- ________________ १०५ दिनिगदितधर्मेभ्यः प्रधानोऽयम्' इत्येवं चिन्ता, वाशब्दो वक्ष्यमाणसमाधिस्थानापेक्षया विकल्पार्थः ‘से' इति, यः कल्याणभागी तस्य साधोरसमुत्पन्नपूर्णापूर्वस्मिन्ननादावतीतकालेऽनुपजाता, तदुत्पादे झपार्द्धपुद्गलपरावर्तान्ते कल्याणस्यावश्यंभावात् समुत्पद्येत - जायेत । किं प्रयोजना चेयम् ? अत आह— सर्वं निरवशेषं धर्म जीवादिद्रव्यस्वभावमुपयोगोत्पादादिकं श्रुतादिरूपं वा ' जाणित्तए ' ज्ञपरिज्ञया ज्ञातुं ज्ञात्वा च प्रत्याख्यानपरिज्ञया परिहरणीयधर्मं परिहर्तुम् । इदमुक्तं भवति - धर्मचिन्ता धर्मज्ञानकरणरूपा जायते इति ॥ " अत्रापूर्वधर्मचिन्तायां उत्कर्षतोऽपार्द्धपुलपरावर्त व्यवधानेन 'कल्याणकारणत्वमुक्तम्, अन्यत्र च मुक्त्यद्वेषादिगुणानां चरमपुद्गल'परावर्त व्यवधानेनेति प्रवचनपूर्वापर भाबपर्यालोचनया गुणसामान्यस्य 'चरमावर्तमानत्वमस्माभिरुन्नीयते । यदि चैवमपि स्वतन्त्रपरतन्त्रसा`धारणापुनर्बन्धकादिगुणानामपार्द्धपुद्गलपरावर्तमानत्वमेव सकलगीता संमतं स्यात् तदा नास्माकमाग्रह इत्यस्यां परीक्षायामुपयुक्तैर्भवितव्यं गीतार्थैः प्रवचनाशातनाभीरुभिः ॥ ३१ ॥ तदेवं विवेचिता चतुर्भङ्गी, अथास्यां को भङ्गोऽनुमोद्यः ? को वा न ? इति परीक्षते - तिणि अणुमोयणिज्जा एएसुं णो पुणो तुरियभंगो। जेण मणुमोयणिज्जो लेसोवि हु होइ भावस्स ॥३२॥ तिष्णित्ति । एतेषु देशाराधकादिषु चतुर्षु भङ्गेषु त्रयो भङ्गा । देशाराधक - देशविराधक - सर्वाराधकलक्षणा अनुमोदनीया न पुनस्तुरीयो भङ्गः सर्वबिराधकलक्षणः, येन कारणेन भावस्य लेशोऽपि ह्यनुमोदनीयः, न चासौ सर्वविराधके संभवति, देशाराधकादिषु तु मार्गानुसारिभावविशेषसंभवात्, तदनुमोदनीयत्वे तद्द्वारा तेषामभ्यनुमोदनीयत्वमावश्यकमिति भावः ||३२|| अथ किमनुमोदनीयत्वम् ? का चानुमोदना । इत्येतल्लक्षणमाहयोऽनुमोदनीया एतेषु न पृनस्तुरीयभङ्गः । येनानुमोदनीयो लेशोऽपि हि भवति भावस्य || ३२ ॥ Win Page #119 -------------------------------------------------------------------------- ________________ अणुमोअणाइ विसओ जंतं अणुमोअणिजयं होइ। सो पुण पमोअमूलो वाचारो तिण्ह जोगाणं ॥३३॥ 'अणुमोअणाइ'त्ति । अनुमोदनाया विषयो यद्वस्तु तदनुमोदनीयं भवति । तद्विषयत्वं च भावस्य साक्षाद् भावप्रधानत्वात्साधूनाम् । तदुक्तमोघनियुक्तौ " परमरहस्समिमाणं समत्तगणिपिडयझरिअसाराणं । परिणामयं पमाणं णिच्छयमवलंबमाणाणं ॥'ति । - तत्कारणक्रियायाश्च तदुत्पादनद्वारा। यद् हारिभद्रं वचः___ " कंजं इच्छंतेण अणंतरं कारणंपि इट्ठति । 'जह आहारजतित्ति इच्छंतेणेहमाहारो ॥"त्ति । पुरुषस्य च तत्संबन्धितयेति तत्त्वतः सर्वत्र भावापेक्षमेवानुमोदनीयत्वं पर्यवस्यति । साऽनुमोदना पुनः प्रमोदमूलो हर्षपूर्वकस्त्रयाणां योगानां कायवाङ्मनसां व्यापारो रोमाञ्चोद्गम-प्रशंसा-प्रणिधानलक्षणो न तु मानसव्यापार एव, अनुमोदनाया अपि योगभेदेन त्रिविधायाः सिद्धान्तप्रतिपादनात् । मानसव्यापारस्यैवानुमोदनात्वे प्रशंसादिसंवलनादनुमोदनाफलविशेषानुपपत्तेश्च । न च यथा नैयायिकैकदेशिनां 'मङ्गलत्वादिकमानसत्वव्याप्या जातिस्तथाऽस्माकमनुमोदनात्वमपि तथेति, त्रयाणामपि योगानांहर्षमूलो व्यापारोऽनुमोदनेति वस्तुस्थितिः यश्चानुमोदनाव्यपदेशः कचिच्चित्तोत्साहे एव प्रवर्तते स सामान्यचाचकपदस्य विशेषपरत्वाद् निश्चयाश्रयणाद्वैत्यवधेयम् ॥ ३३ ॥ अनुमोदनीया विषयो यद्वस्तु तदनुमोदनीयं भवति । स पुनः प्रमोदमूलो व्यापारो त्रयाणां यागानाम् ॥३३॥ परमरहस्यमेषां समस्तगणिपिटकक्षरितसाराणाम् । परिणामः प्रमाणं निश्चयमवलम्बमानानाम् ॥ कार्यमिच्छता अनन्तरं कारणमिष्टमिति । यथाऽऽहारजतृप्तिमिच्छता इहाहारः ॥ Page #120 -------------------------------------------------------------------------- ________________ एवं सति योऽनुमोदनाप्रशंसयोर्विषयभेदेन भेदमेवाभ्युपगच्छति तन्मतनिरासार्थमाहसामनविसेसत्ता भेओ अणुमोअणापसंसाणं। जह पुढवीदव्वाणं ण पुढो विसयम्स भेएणं ॥३४॥ 'सामनविसेसत्त'त्ति । अनुमोदनाप्रशंसयोः सामान्यविशेषत्वात् सामान्यविशेषभावाद्भेदः, यथा पृथिवीद्रव्ययोः। द्रव्यं हि सामान्यं, पृथिवी च विशेषः। एवमनुमोदना सामान्यं प्रशंसा च विशेष इत्येतावाननयोर्भेदः, न पुनः पृथग् विषयस्य भेदेनात्यन्तिको भेदः, प्रशंसाया अनुमोदनाभेदत्वेन तदन्यविषयत्वासिद्धेः । नहि घटप्रत्यक्षं प्र. त्यक्षभिन्नविषयमिति विपश्चिता वक्तुं युक्तम् , न च मानसोत्साहरूपाऽनुमोदनाया अपि प्रशंसाया भिन्नविषयत्वनियमः, प्रकृतिसुन्दरस्यैव वस्तुनः सम्यग्दृशामनुमोदनीयत्वात्प्रशंसनीयत्वाच्च । न चानुमोदनायाः स्वेष्टसाधकमेव वस्तु विषयः, तादृशस्यैव तपःसंयमादेरारम्भपरिग्रहादेर्वा विरतैरविरतैश्वानुमोदनात्, न तु परेष्टसाधकम् , आत्मनश्वानिष्टसाधनमपि निजधनापहारस्याप्यनुमोदनीयत्वापत्तेः। प्रशंसायाश्चेष्टमनिष्टं च वस्तु विषयः, इष्टस्य धार्मिकानुष्ठानस्यानिष्टस्य चाज्ञाबाह्यस्य वस्तुनः प्रशंसाव्यवस्थितेः। भवति हिनिजकायोदिनिमित्तमसद्गुणस्यापि प्रशंसा । अत एवायमागमोऽपि___“चउहि ठाणेहिं असंते गुणे दीवेज्जा, १ अब्भासवत्तियं २ परछंदाणुवत्तियं ३ कजहेउ ४ कयपडिकइए"त्ति । ___ सा चेयमनिष्टप्रशंसातिचाररूपापि प्रयोजनविशेषेण कस्यचिकादाचित्की स्यादित्येतदपि वचनं शोभनम् , स्वारसिकप्रशंसाया अनिष्टाविषयत्वात् , पुष्टालम्बनकानिष्टप्रशंसाया अपीष्टविषयत्वपर्यवसानात् । न हि किंचिज्जात्येष्टमनिष्टं वा वस्तु विद्यते, किंतु परिणा सामान्यविशेषत्वाद् भेदोऽनुमोदनाप्रशंसयोः । यथा पृथिवीद्रव्ययोः, न पृथग् विषयस्य भेदेन ॥ ३४ ॥ चतुर्भिः स्थानैरसन्तो गुणान् दीपयेत् , १ अभ्यासप्रत्ययं २ पर-- च्छन्दानुवर्तित्वं ३ कार्यहेतु ४ कृतप्रतिकृत्याः इति ॥ Page #121 -------------------------------------------------------------------------- ________________ १०८ मविशेषेण भजनीयमिति । यदुवाच कल्पाकल्पविभागमाश्रित्य वाचकमुख्य: किश्चिच्छुद्धं कल्प्यमकल्प्यं स्याद्कल्प्यमपि कल्प्यम् ।। . पिण्डः शय्या वस्त्रं पात्रं वा भेषजायं वा ॥"इति । मोहप्रमादादिनानिष्टविषयत्वं च प्रशंसाया इवानुमोदनाया, अपि भवतीति न कोऽपि विषयभेदः । न चानिष्टविषयतावच्छदेनोपचारानुपचारप्रवृत्त्याऽनयोरतिचारभङ्गभावाद् भेदः, अभिमतोपचारे-- णातिचारत्वाभावात् । अन्यथा " 'संथरणमि असुद्ध-दोण्हवि गिण्हंतदितयाणहियं । आउरदिट्ठतेणं तं चेव हियं असंथरणे ॥". इत्यादौ कारणिकाशुद्धग्रहणप्रशंसाया अप्यतिचारबलप्रसङ्गाद ।। अनभिमतोपचारादतिचारभङ्गयोस्तु परिणामभेदः प्रयोजको न तु विषयभेद इति यत्किंचिद्रेतत् । शास्त्रेऽपि प्रशंसा अनुमोदनाविशेष: एव गीयते। ___तदुक्तं पश्चाशकवृत्तिकृता-" जंइणोवि हु दव्वत्थयभेओ. अणुमोअणेण अत्थित्ति”-इति प्रतिकं विवृण्वता यतेरपि-भावस्तवारूढसाधोरपि न केवलगृहिण एव । हुशरोऽलंकृतौ । द्रव्यस्तवभेदो, द्रव्यस्तवविशेषोऽनुमोदनेन जिनपूजादिदर्शनजनितप्रमोदप्रशंसादिलक्षणयाऽनुमत्या अस्ति विद्यते इतिशब्दो वाक्यपरिसमाप्तमिति ॥ ___ एवमनुमोदनाप्रशंसयोर्विषयभेदाभावे सिद्धेऽनुमोदनीयप्रशंस-. बीयघोर्विषमव्याप्ति परिहरन्नाह-- तेणमणुमोअणिज्जं पसंसणिज्जं च होइ जाईए। सुद्धं किचं सव्वं भावविसिटुं तु अन्नपि ॥३५॥ तेनानुमोदनीयं प्रशंसनीयं च होइ जात्या । शुद्धं कृत्यं सर्व भावविशिष्टं त्वन्यदपि ॥ ३५ ॥ १ संस्तरणे अशुद्धं वयोरपि गृहद्ददतोरहितम् । आतुरदृष्टान्तेन तदेव हितमसंस्तरणे ॥ २ यतेरपि खलु द्रव्यस्तवभेदोऽनुमोदनेन ॥ Page #122 -------------------------------------------------------------------------- ________________ " तेणं 'ति । तेनानुमोदनाप्रशंसयोर्विषयभेदाभावेनानुमोदनीयं प्रशंसनीयं च सर्व शुद्धं स्वरूपकृत्यं दया दान-शीलादिकं च जात्या स्वरूपयोग्यताऽवच्छेदकरूपेण भवति। यद्पावच्छेदेन यत्र सुन्दरत्वज्ञानं तद्पविशिष्टप्रतिसंधानस्य तद्रूपावच्छिन्नविषयकर्षजनकत्वाद् । अत एव शुद्धाहारग्रहणदानादिव्यक्तीनां सर्वासामसुन्दरत्वेऽपि कासांचिचाशुद्धाहारदानादिव्यक्तीनामप्यवादकालभाविनीनां सुन्दरत्वेऽपि साधोः शुद्धाहारग्रहणं सुन्दरम् , श्रावकस्य च शुद्धाहारदानमित्ययमेवोपदेशो युक्तो न त्वशुद्धाहारग्रहणदानोपदेशोऽपि, सामान्यपर्यवसायित्वात्तस्य; सामान्यपर्यवसानस्य च स्वरूपशुद्ध एव वस्तुन्युचितत्वात् , स्वरूपशुद्धं हि वस्तु जात्याऽप्यनुमोद्यमानं हितावहमिति । भावविशिष्टं तु-अपुनर्बन्धकादिभावसंवलितं तु, अन्यदपि विषयशुधादिकमपि वस्त्वनुमोद्यम् । 'भावविशिष्टा क्रिया सुन्दरा' इत्यादिप्रशंसया भावकारणत्वेन विषयशुद्धादावपि कृत्ये स्वोत्साहसंभवात् । न चैवमपुनर्वन्धकोचितविषयशुद्धकृत्येऽपि साधोः प्रवृत्यापत्तिः, स्वाभिमततत्तद्धर्माधिकारीष्टसाधनत्वेन प्रतिसंहितेऽधस्तनगुणस्थानवर्त्यनुष्ठाने स्वोत्साहसंभवेऽपि स्वाधिकाराभावेन तत्राप्रवृत्तेः। अत एव 'शोभनमिदमेतावजन्मफलमविरतानाम् इतिवचनलिङ्गगम्यस्वोत्साहविषयेऽपि जिनपूजादौ श्राद्धाचारे न साधूनां प्रवृत्तिरिति बोध्यम् । इत्थं च भावानुरोधांदपुनर्बन्धकादेरारभ्यायोगिकेवलिगुणस्थानं याव-- त्सर्वमपि धर्मानुष्ठानमनुमोदनीयं प्रशंसनीयं चेति सिद्धम् ॥ उक्तं चोपदेशपदसूत्रवृत्त्योः तो एअंम्मि पयत्तो ओहेणं वीअराअक्यणमि ।। बहुमाणो कायन्वो धीरेहिं कयं पसंगेणं ॥" " तत् तस्माद् एतस्मिन् धर्मबीजे प्रयत्नो यत्नातिशयः 'कर्तव्यो धीरैः । इत्युत्तरेण योगः । किंलक्षणः प्रयत्नः कर्तव्यः ? इत्याशङ्कय आह-ओधेन सामान्येन वीतरागवचने वीतरागागमप्रतिपादितेऽपुनर्बन्धकचेष्टाप्रभृत्ययोगिकेवलिप तत एतस्मिन् प्रयत्न ओघेनः वीतरागवचने । बहुमानः कर्तव्यो धीरैः कृतं प्रसङ्गेन ॥ Page #123 -------------------------------------------------------------------------- ________________ ११० र्यवसाने तत्तचित्रशुद्धसमाचारे बहुमानो भावप्रतिबन्धः क्षयोपशमवैचित्र्यान्मृदुमध्याधिमात्रः कर्तव्यो धीरैर्बुद्धिमाद्भिः । उपसंहरबाह-कृतं प्रसङ्गेन पर्याप्तधर्मबीजप्रख्यापनेनेति । भावानुरोधेन ह्यनुष्ठानस्यानुमोदनप्रशंसे विहिते, भावश्चापुनर्वन्धकाधनुष्ठाने नियत एव, अन्ततो मोक्षाशयस्यापि सत्त्वात् , तस्याप्यचरमपुद्गलपरावर्ताभावित्वेन मोहमलमन्दतानिमित्तकत्वेन शुद्धत्वात् । तदुक्तं विंशिकायाम् "मोक्खासओवि णण्णत्थ होइ गुरुभावमलपहावेणं । जह गुरुवाहिविगारेण जाउ पच्छासओ सम्मं ॥” इति .. अन्यत्र चरमपुद्गलपरावर्तादन्यत्र । ततो विषयशुद्धादिकं त्रिविधमप्यनुष्ठान प्रशस्तमिति सिद्धम् ॥ उक्तं च विंशिकायामेव विसयसरूवणुबंधेण होइ सुद्धो तिहा इहं धम्मो। जंता मुक्खासयाओ सव्वो किल सुन्दरों ओ॥” इति विषयशुद्धादिभेदश्वायं योगबिन्दावुपदर्शितः " विषयात्मानुबन्धैस्तु त्रिधा शुद्धमुदाहृतम् । अनुष्ठानप्रधानत्वं ज्ञेयमस्य यथोत्तरम् ॥. आधे यदेव मुक्त्यर्थ. क्रियते पतनाद्यपि ।. तदेव मुक्त्युपादेयलेशभावाच्छुभं मतम् ॥ द्वितीयं तु यमायेव लोकदृष्ट्या यादिकम् । न यथाशास्त्रमेवेह सम्यगज्ञानाद्ययोगतः॥ तृतीयमप्यदः किन्तु तत्त्वसंवेदनानुगम् । प्रशान्तवृत्त्या सर्वत्र दृढमोत्सुक्यवर्जितम् ॥” इति । ननु भवतु विषयशुद्धाद्यनुष्ठानत्रयमपुनबन्धकादौ कथंचित्सुन्दरम, तथापि वीतरागवचनप्रतिपादितस्यैव तद्गतस्यानुष्ठानस्यानुमोद्यत्वं मोक्षाशयोऽपि नान्यत्र भवति गुरुभावमलप्रभावेण । यथा गुरुव्याधिविकारेण जातपथ्याशयः सम्यक् ॥ विषयस्वरूपानुबन्धैन भवति शुद्धो विधेह धर्मः । यत्ततो मोक्षाशयात्सर्वः किल सुन्दरो शेयः॥ १ Page #124 -------------------------------------------------------------------------- ________________ नान्यस्य, “जो चेव भावलेसो सो चेव भगवओ अणुमओ।" इत्यत्र भगवद्वहुमानरूपस्यैव भावलेशस्यानुमोद्यत्वप्रतिपादनादिति चेद् । न, अन्यत्रापि भवाभिनन्दिदोषप्रतिपक्षमोक्षाशयभावस्य तत्त्वतो भगवद्वहुमानरूपत्वाद् ' भवनिर्वेदस्यैव भगवद्वहुमानत्वाद्' इति ललितविस्तरापञ्जिकावचनात् , खरूपशुद्धं चानुष्ठानं सर्वत्रापि तत्त्वतो भगवत्प्रणीतमेवेति, तत्प्रशंसया भवत्येव भगवद्वहुमानः । व्युत्पन्ना ह्यन्यशास्त्रे कथंचिदुपनिबद्धानपि मार्गानुसारिगुणान् भगवत्मणीतत्वेनैव प्रतियन्ति । तदाहुः श्रीसिद्धसेनसूरयः" सुनिश्चितं यः परतन्त्रयुक्तिषु स्फुरन्ति याः काश्चन सूक्तसंपदः । तदेव ताः पूर्वमहार्णवोद्धृता जगत्प्रमाणं जिनवाक्यविग्रुषः ॥ "इति नन्दिवृत्तावप्येवमेवोक्तम्-" परदर्शनशास्त्रेष्वपि हि यः कश्चित्समीचीनार्थः 'संसारासारता-स्वर्गादिहेतुप्राण्यहिंसादिरूपः स भगवत्प्रणीतशास्त्रेभ्य एव समुद्धृतो वेदितव्यः । न खल्वतीन्द्रियार्थपरिज्ञानमन्तरेणातीन्द्रियः प्रमाणाबाधितार्थः पुरुषमात्रेणोपदेष्टुं शक्यते, अविषयत्वाद् । न चातीन्द्रियार्थपरिज्ञानं परतीर्थिकानामस्तीत्यग्रे वक्ष्यामः । ततस्ते भगवत्प्रणीतशास्त्रेभ्यो मौलं समीचीनमर्थलेशमुपादाय पश्चादभिनिवेशवशतः स्वमत्यनुसारेण तास्ताः प्रकियाः अपश्चितवन्तः । उक्तं च स्तुतिकारेण-" सुनिश्चित०" इत्यादि। .. . ननु दयादिवचनानि परमते तत्त्वतो जिनवचनमूलान्यपि स्वस्वमताधिदैवतवचनत्वेन परिगृहीतत्वादेव नानुमोदनीयानि, अत एव मिथ्यादृष्टिभिः स्वस्वदैवतबिम्बत्वेन परिगृहीतार्हत्प्रतिमाऽप्युपासकदशाङ्गादिष्ववन्धत्वेन प्रतिपादितेति चेत् । अत्र वदन्ति सम्प्रदायविदः यथा मिथ्यापरिगृहीता तीर्थकृत्प्रतिमा मिथ्यात्वाभिवृद्धिनिवारणाय न विशेषेण नमस्क्रियते, सामान्येन तु “अं किंचि माम तित्थं० " इत्यादिना “ जाँवंति चैइआई०" इत्यादिना चाभिवन्द्यते एव, तत्त्वत ___य एव भावलेशः स एव भगवतोऽनुमतः ॥ २ यत्किचिद् नाम तीर्थ० । ३ यावन्ति चैत्यानि० ॥ Page #125 -------------------------------------------------------------------------- ________________ ११२ स्वासामपि तीर्थत्वात् जिनबिम्बत्वाच्च । तथाऽत्रापि मिथ्यादृशां गुणाः सर्वेषां जीवानां दयाशीलादिकं शोभनम् ' इत्येवं सामान्यरूपेणानुमोद्यमानाः केन वारयितुं शक्यन्ते ? इति । युक्तं चैतत्, धर्मबिन्दुसुत्रत्योरपि सद्धर्मदेशनाधिकार साधारण्येन लोकलोकोत्तरगुणप्रशंसाप्रतिपादनात् । तथाहि " साधारणगुणप्रशंसेति " ॥ “ साधारणानां `लोकलोकोत्तरयोः सामान्यानां गुणानां प्रशंसा- पुरस्कारो देशनार्हस्याग्रतो विधेया । यथा C प्रदानं प्रच्छनं गृहमुपगते संभ्रमविधिः प्रियं कृत्वा मौनं सदसि कथनं चाप्युपकृतेः । अनुत्सेको लक्ष्म्या निरभिभवसाराः परिकथाः श्रुते चासंतोषः कथमनभिजाते निवसति ।। " - इति । इयं च पुरुषविशेषानुपग्रहात्सामान्यप्रशंसैवेति । यद्यप्यत्रापि 'वाक्यार्थस्य विशेष एवं पर्यवसानम्, तथाऽपि साधारणगुणानुरागस्यैवाभिव्यङ्ग्यत्वान्न मिथ्यात्वाभिष्टद्धिरिति द्रष्टव्यम् । स्यादत्र परस्येदमाशङ्का-एवं संति मिथ्यादृष्टेः पुरुषविशेषस्य दयाशीलादिगुणपुरस्कारेण प्रशंसा न कर्तव्या स्यात्, अन्यतीर्थिकपरिगृहीतार्हत्प्रतिमाया विशेषेणावन्द्यत्ववद् अन्यतीर्थिकपरिगृहीतगुणानामपि विशेषतोsप्रशंसनीयत्वात् । दोषवत्त्वेन प्रतिसंघीयमाने पुरुषे तद्गतगुणप्रशंसायास्तद्गतदोषानुमतिपर्यवसितत्वात् । अत एव सुखशीलजनवन्दनप्रशंसयोस्तद्गतप्रमादस्थानानुमोदनापत्तिरुक्ता । 46 किइकम्मं च पसंसा सुहसीलजणमि कम्मबंधाय । " जे जे पमायठाणा ते ते उवबूहिया हुंति ॥ इत्यादिना आवश्यकादाविति ॥ तत्र ब्रूमः - यदि नाम तद्गतदोषज्ञानमेव तत्प्रशंसायास्तदीयतदोधानुमतिपर्यवसायकमिति मिध्यादृष्टिगुणप्रशंसात्यागस्तवाभिमतस्तदाऽविरतसम्यग्दृष्टेः सम्यक्त्वादिगुणप्रशंसाऽप्यकर्तव्या स्यात्, तद्ग ताविरतिदोषज्ञानात्तस्यास्तदनुमतिपर्यवसानात् । कृतिकर्म च प्रशंसा सुखशीलजे कर्मबन्धाय । ये ये प्रमादस्थानानि ते ते उपबृंहितानि भवन्ति ॥ १ Page #126 -------------------------------------------------------------------------- ________________ अथाविरतसम्यग्दृष्टयादावविरत्यादेनं स्फुटदोषप्रतिसन्धानमेव च तद्गतप्रशंसाया दोषानुमतिपर्यवसानबीजम् , अत एव शैलकराजर्षिप्रभृतीनां पार्श्वस्थत्वादिस्फुटदोषप्रतिसन्धाने हीलनीयत्वमेवोक्तं शास्त्रे न तु गुणसामान्यमादाय प्रशंसनीयत्वम्, तत्कालीनतत्पशंसाया दोषानुमतिरूपत्वादित्यविरतसम्यग्दृष्टयादीनां सम्यक्त्वादिगुणानुमोदनेन दोष इति चेत् । तर्हि मार्गानुसारिणां मिथ्यादृशां मिथ्यात्वमपि न स्फुटो दोषः, तत्त्वेतरनिन्दनायुपहितप्रबलमिथ्यात्वस्यैव स्फुटदोषत्वादिति तद्गतगुणप्रशंसायामपि न दोषः, । अवश्यं चैतदित्थं प्रतिपत्तव्यम् , अन्यथा मेघकुमारजीवहस्तिनोपि दयागुणपुरस्कारेण प्रशंसानुपपत्तिरिति । अन्यतीर्थिकपरिगृहीतत्वं चाहत्प्रतिमायामिव दयादिगुणेषु न स्फुटो दोषः, दयादिगुणानामभिनिविष्टान्यतीर्थिकसाक्षिकत्वाभावेन मिथ्यात्ववृद्धिनिबन्धनत्वाभावात् , प्रत्युत तत्वतो जिनप्रवचनाभिहितत्वप्रतिसन्धानेन तदस्फुटीकृतमेव । अतः 'स्तोकस्थापि भगवदभिमतस्य गुणस्पोपेक्षा न श्रेयसी' इत्यध्यवसायदशायां तत्प्रशंसा गुणानुरागातिशयद्वारा कल्याणायहा । अत एव गुगानुरागसंकोचपरिहाराय स्तोकगुणालम्बनेनापि भक्त्युद्धानं विधेयमित्युपदिशन्ति पूर्वाचार्याः। तदुक्तं बृहत्कल्पभाष्यवृत्त्योः देसणनाणचरित्तं तवविणयं जत्थ जत्तियं पासे । ___ जिणपन्नत्तं भत्तीए पूयए तं तहिं भावं ।। " दर्शनं च निःशङ्कितादिगुणोपेतं सम्यक्त्वं, ज्ञानं चाचारादि, चारित्रं च मूलोत्तरगुणानुपालनात्मकं दर्शनज्ञानचारित्रं द्वन्द्वैकवद्भावः । एवं तपश्चानशनादि, विनयश्वाभ्युत्थानादिरूपस्तपोविनयम् । एतदर्शनादि यत्र पार्श्वस्थादौ पुरुषे यावत् यत्परिमाणं स्वल्पं बहु वा जानीयात् , तत्र तमेव भावं जिनप्रज्ञप्तं स्वचेतसि व्यवस्थाप्य तावत्यैव भक्त्या कृतिकर्मादिलक्षणया पूजयेद् ” इति ।। तेन मार्गानुसारिकृत्ये सर्वमपि भावयोगादनुमोदनीयं प्रशंसनीयं चेति सिद्धम् ॥ ३५ ॥ दर्शनशानचारित्रं तपोविनयं यत्र यावत्यावें । जिनप्रज्ञप्तं भक्त्या पूजयेद् तं तत्र भावम् ॥ Page #127 -------------------------------------------------------------------------- ________________ ११४ ततश्च 'मिथ्यादृशां गुणा न ग्राह्याः' इति कदाग्रहः परित्याज्य इत्यभिप्रायेणाह- . इअ लोइअलोउत्तर सामन्नगुणप्पसंसणे सिद्धे। मिच्छदिट्ठीण गुणे ण पसंसामोत्ति दुव्वयणं ॥३६॥ 'इअ 'त्ति । इत्यमुना प्रकारेण लौकिकलोकोत्तरसामान्यगुणप्रशंसने सिद्धे इष्टसाधनत्वेन व्यवस्थिते 'मिथ्यादृष्टीनां गुणान्न प्रशंसा मः' इति दुर्वचनं गुणमात्सर्यादेव, तथावचनप्रवृत्तेः । न च नैवंभूतं मात्सर्यादेवोच्यते, किन्तु सम्यग्दृष्टिमिथ्यादृष्टिसाधारणगुणप्रशंसया विशेषगुणातिशयभङ्गापत्तिभयादेवेति शङ्कनीयम् । एवं सति विरताविरतसाधारणसम्यक्त्वादिगुणप्रशंसाया अपि परिहारापत्तेः, तथापि विरतविशेषगुणातिशयभङ्गापत्तिभयतावदस्थ्यादिति ॥ ३६ ॥ दुर्वचनत्वं चास्य व्यक्त्या तत्प्रशंसाविधायकसद्वचनबाधात्सिध्यतीति तदुपदर्शयति मग्गाणुसारिकिचं तेसिमणुमोअणिजमुवइटुं। सिवमग्गकारणं तं गम्मं लिंगेहिं धीरेहिं ॥३७॥ "मग्गाणुसारित्ति । मार्गानुसारिकृत्यं तेषामपि मिथ्यादृशामप्यनुमोदनीयमुपदिष्टं भगवता। तदुक्तं चतुःशरणप्रकीर्णके "अहवा सव्वं चिय वायरायवयणाणुसारि जं सुकडें । कालचएवि तिविहं अणुमोएमो तयं सव्वं ॥" । इति लौकिकलोकोत्तरसामान्यगुणप्रशंसने सिद्धे । मिथ्यादृष्टीनां गुणान् न प्रशंसाम इंति दुर्वचनम् ॥ ३६ ॥ मार्गानुसारिकृत्यं तेषामनुमोदनीयमुपदिष्टम् । शिवमार्गकारणं तद् गम्यं लिङ्गैधीरैः ॥३७॥ अथवा सर्वमेव वीतरागवचमानुसारि यत्सुकृतम् ।। कालत्रयेऽपि त्रिविधमनुमोद्यामस्तत्सर्वम् ॥ Page #128 -------------------------------------------------------------------------- ________________ एतवृत्तियथा-" अथवेति सामान्यरूपप्रकारदर्शने । 'चिय'त्ति एवार्थे । ततः सर्वमेव वीतरागवचनानुसारि जिनमतानुयायि यत्सुकृतं जिनभवन-बिम्बकारणः-तत्प्रतिष्ठा-सिद्धान्तपुस्तकलेखन-तीर्थयात्रा-श्रीसंघवात्सल्य-जिनशासन-- प्रभावना-ज्ञानायुपष्टम्भ-धर्मसांनिध्यक्षमामार्दवसंवेगादिरूपं मिथ्याहसंबन्थ्यपि मार्गानुयायिकृत्यं कालत्रयेऽपि त्रिविधं मनोवाक्कायैः कृतं कारितमनुमतं च यदभूद् भवति भविष्यति चेति तत्तदित्यर्थः, तत्सर्व निरवशेषमनुमन्यामहे हर्षगोच-. रतां प्राययाम इति ॥" ननु मार्गानुसारिकृत्यं न जैनाभिमतधार्मिकानुष्ठानानुकारिमिथ्यादृष्टिमार्गपतितं क्षमादिकम् , किन्तु सम्यक्त्वाभिमुखगतं जैनाभिमतमेव, तच्च सम्यग्दृष्टिगतानुष्ठानान्न पार्थक्येन गणयितुं शक्यमित्याशङ्कायामाह-तन्मार्गानुसारिकृत्यं शिवमार्गस्य ज्ञानदर्शनचारित्रलक्षणस्य कारणं धीरैनिश्चितागमतत्त्वैर्लिङ्गैः " पावं ण तिव्व भावा कुणई" इत्याधपुनर्बन्धकादिलक्षणैर्गम्यम् । अयं भावः-सम्यग्दृष्टिकृत्यं यथा वस्तुतश्चारित्रानुकूलमेवानुमोदनीयं तथा मार्गानुसारिकृत्यमपि सम्य क्वानकूलमेव । स्वल्पकालप्राप्तव्याफलज्ञानं च तत्रानुमोदनीयतायां न तन्त्रम् , किन्तु खलक्षणज्ञानमेव । तथा च यत्र भवाभिनन्दिदोषप्रतिपक्षगुणानामपुनर्बन्धकादिलक्षणानां निश्चयस्तत्र मार्गानुसारिकृत्यानुमोदनायां न बाधकम् , विविच्याग्रिमकालभाविफलज्ञानस्य प्रवर्तकत्वे तु छद्मस्थस्य प्रवृत्तिमात्रोच्छेदप्रसङ्ग इति । अत एव मार्गानुयायिकृत्यं लक्षणशुद्धं जिनभवनकारणायेवोक्तम् , तस्यैव मोक्षमार्गकारण-.. त्वाद् । मोक्षमार्गो हि भावाज्ञा सम्यग्दर्शनादिरूपा, सत्कारणं चापुनर्बन्धकचेष्टा द्रव्याज्ञा । तत्र भावाज्ञा मोक्षं प्रति कारणत्वेनानुमोदनीया, द्रव्याज्ञा तु कारणकारणत्वेनेति न कश्चिद्दोष इति । तदिदमुक्तं व्यक्तैवाराधनापताकायाम् अह दुक्कडगरहानलज्ञामियकम्मिधणो पुणो भागइ (?) सुकडाणुमोअणं तिव्वसुद्धपुलयंचियसरीरो ॥ १ ॥ १ पापं न तीवभावात्करोति ॥ अथ दुष्कृतगर्दाऽनलध्यातकर्मन्धनः पुनः...... । सुकृतानुमोदनं तीवशुद्धपुलकाञ्चितशरीरः ॥ १ ॥. Page #129 -------------------------------------------------------------------------- ________________ ११६ सबुद्ध (सु) अइस अअट्टमहापाडिहेर धम्म कहा । तित्थपवत्तणपभिई अणुमोए म जिनिंदाणं ॥ २ ॥ सिद्धत्तमणंताणं वरदंसणनाणसुक्ख विरिआई । इगतीसं सिद्धगुणे अणुमन्ने सव्वसिद्धाणं || ३ || पंचविहं आयारं देसकुलाईगुणे य छत्तीसं । सिस्से अत्थभासणमुहं सूरीण अणुमोए ॥ ४ ॥ अंगाण उवंगाणं पण्णसुअछेअमूलगंथाणं । उवज्झायाणं अज्झावणाइ सव्वं समणुमने ॥ ५ ॥ समिईगुत्तीमहव्वयसंजमजइधम्मगुरुकुलणिवासं । उज्जअविहारपमुहं अणुमोए समणसमणीणं ॥ ६ ॥ सामाइअपोसहाई अणुव्वयाई जिदिविहिपूयं । एक्कारपडिमपभिई अणुमन्ने सहसणं ॥ ७ ॥ जिणजम्माइसु ऊसकरणं तह महरिसीणं पारणए । जिण सासणंम भत्ती मुहं देवाण अणुमने ॥ ८ ॥ तिरियाण सविरई पताराहणं च अणुमोए । सम्मदंसणलंभं अणुमन्ने तारयाणंपि ॥ ९ ॥ चतुस्त्रिंशद्बुद्धातिशयाष्टमहाप्रातिहार्यधर्मकथा !! तीर्थप्रवर्तनप्रभृतीरनुमोदयामि जिनेन्द्राणाम् ॥ २ ॥ सिद्धत्वमन्तानां वरदर्शनज्ञानसौख्यवीर्याणि । एकत्रिंशतं सिद्धगुणान् अनुमन्ये सर्वसिद्धानाम् ॥ ३ ॥ पञ्चविधमाचारं देशकुलादिगुणांश्च षट्त्रिंशतम् । शिष्येषु अर्थभाषणमुखं सूरीणामनुमोदे ॥ ४ ॥ अङ्गानामुपाङ्गानां प्रकीर्ण कश्रुतच्छेद मूलग्रन्थानाम् । उपाध्यायानामध्यापनादि सर्वे समनुमन्ये ॥ ५ ॥ समिति-गुप्ति- महाव्रत-संयम- यतिधर्म-गुरुकुलनिवासम् । उद्युक्तविहारप्रमुखं अनुमोदे श्रमणश्रमणीनाम् ॥ ६ ॥ सामायिक प्रौषधादि अणुव्रतानि जिनेन्द्रविधिपूजाम् । एकादशप्रतिमाप्रभृतीरनुमन्ये श्राद्ध श्राद्धानाम् ॥ ७ ॥ जिनजन्मादिषूत्सवकरणं तथा महर्षीणां पारणकम् । जिनशासने भक्तिप्रमुखं देवानामनुमन्ये ॥ ८ ॥ तिरयां देशविरतिं पर्यन्ताराधनं च अनुमोदे | सम्यग्दर्शन लाभमनुमन्ये तारकानामपि ॥ ९ ॥ Page #130 -------------------------------------------------------------------------- ________________ ११७ साणं जीवाणं दारुइत्तं सहावविणिअत्तं । तह पयणुकसायत्तं परोवयारित भव्वत्तं ॥ १० ॥ दक्खिनदयालुत्तं पियभासित्ताइ विविहगुणणिवहं । विमकारणं जं तं सव्वं अणुमयं मुज्झ ॥ ११ ॥ पञ्चसूत्र्यामप्युक्तम् - 4.6. “ अणुमोएमि सव्वेसिं अरहंताणमणुट्ठाणं, सव्वेसिं सिद्धाणं सिद्धभावं, सच्चेसिं आयरिआणं आयरं सव्वेसिं उवज्झायाणं ( सुत्तप्रयाणं सव्वेसि साहूणं साहूकिरियं सव्वेसिं सव्वेसिं सावगाणं मुक्खसाहणजोए, सव्वेंसिं देवयाणं सव्वेसिं जीवाणं होउकामाणं कल्लाणासयाणां मग्गसाहनजोए । होउ मे एसा अणुमोअणा ॥” " एतद्वृत्तिर्यथा-“अनुमोदेऽहमिति प्रक्रमः । सर्वेषामर्हतामनुष्ठानं धर्मकथादि, सर्वेषां सिद्धानां सिद्धभावमव्याबाधादिरूपम्, एवं सर्वेषामाचार्याणामाचारं ज्ञानाचारादिलक्षणम्, एवं सर्वेषामुपाध्यायानां सूत्रप्रदानं सद्विधिवद् एवं सर्वेषां साधूनां साधुक्रियां सत्स्वाध्यायादिरूपाम्, एवं सर्वेषां श्रावकाणां मोक्षसाधनयोगान् वैयावृत्त्यादीन एवं सर्वेषां देवानामिन्द्रादीनां सर्वेषां जीवानां सामान्येनैव भवितुकामानामासन्नभव्यानां कल्याणाशयानाम्, एतेषां किम् ? इत्याह-‍ :-मार्गसाधनयोगान् सामान्येनैव कुशलव्यापारान् 'अनुमोदे ' इति क्रियानुवृत्तिः । भवन्ति चैतेषामपि मार्गसाधनयोगाः, मिथ्यादृष्टीनामपि गुणस्थानकत्वाम्युपगमाद् | अनभिग्रहे सति प्रणिधिशुद्धिमाह - भवतु ममैषाऽनुमादनेत्यादि ॥ अत्र हि सामान्येनैव कुशलव्यापाराणामनुमोद्यत्वमुक्तमिति मिथ्याद्दशामपि स्वाभाविकदानरुचित्वादिगुणसमूहो व्यक्त्याऽनुमोद्यो न तु तद्विशेष एवाश्रयणीयः । यत्तु दानमपि परेषामधर्मपोषकत्वादशेषाणां जीवानां दानरुचित्वं स्वभावविनीतत्वम् । तथा प्रतनुकषायत्वं परोपकारित्व-भव्यत्वं ॥ १० ॥ दाक्षिण्यदयालुत्वं प्रियभाषित्वादिविविधगुणनिवहम् । शिवमार्गकारणं यत्तत्सर्वमनुमतं मम ॥ ११ ॥ १ २ अनुमोदे सर्वेषामर्हतामनुष्ठानम्, सर्वेषां सिद्धानां सिद्धभावम्, सर्वेषामाचार्याणामाचारम्, सर्वेषामुपाध्यायानां सूत्रप्रदानम्, सर्वेषां साधूनां साधुक्रियाम्, सर्वेषां श्रावकाणां मोक्षसाधनयोगान् सर्वेषां देवतानां सर्वेषां जीवानां भवितुकामानां कल्याणाशयानां मार्गसाधनयोगान् । भवतु मे एषाऽनुमोदनेति । " Page #131 -------------------------------------------------------------------------- ________________ ११८ धिकरणमिति दानरुचित्वादिगुणेष्वपि विशेषाश्रयणमावश्यकमित्यासन्नसम्यक्त्वसंगमनयसारादिसशसाधुदानादिनैव दानरुचित्वादिलं ग्राह्यमिति परस्याभिमतम् , तदसत् । भूमिकाभेदेन दानविधेरपि भेदात् , सम्यग्दृष्टिं प्रति प्रासुकैषणीयादिदानविधेरिवादिधार्मिकं प्रति " पात्रे दीनादिवर्गे च" इत्यादेरपि दानविधेः प्रतिपादनात् । ततः सामान्येन कुशलव्यापारा आदिधार्मिकयोग्या एव ग्राह्या इति युक्तं पश्यामः। एतेन पुण्यप्रकृतिहेतोरेवानुमोद्यत्वे क्षुत्तृट्सहन-रज्जुग्रहणविषभक्षणादीनामप्यनुमोद्यत्वापत्तिः । पुण्यप्रकृत्युदयप्राप्तस्यैव धर्मस्यानुमोद्यत्वे च चक्रवर्तिनः स्त्रीरत्नोपभोगादेरप्यनुमोद्यत्वापत्तिः । सम्यक्त्वनिमित्तमात्रस्थ चानुमोद्यत्वेऽकामनिर्जराव्यसनादेरप्यनुमोयत्वापत्तिः। "अणुकंय-कामणिजर-बालतवो-विणय-दाण-विभंगे। संजोगविप्पओगे वसणसव-इड्डिसक्कारे ॥”. . इत्यादिनाऽनुकम्पादीनामपि सम्यक्त्वप्राप्तिनिमित्तप्रतिपादनात्। धर्मबुद्ध्या क्रियमाणस्यैवानुष्ठानस्यानुमोद्यत्त्वे चाभिग्रहिकमिथ्याशा धर्मबुद्ध्या क्रियमाणस्य जैनसमयत्यजनत्याजनादेरप्यनुमोद्यत्वापत्तिरिति 'सम्यक्त्वाभिमुखस्यैव मार्गानुसारिकृत्यं साधुदानधर्मश्रवणाद्यनुमोद्यम् , नत्वन्यमार्गस्थस्य क्षमादिकमपि " इति परस्य कल्पनाजालमपास्तम् , सामान्येनैव कुशलव्यापाराणामादिधार्मिकयोग्यानामनुमोद्यत्वप्रतिपादनात्, असत्कल्पनाऽनवकाशात्, तीव्रप्रमादादि. शवलस्य सम्यक्त्वस्येव तीव्राभिनिवेशदुष्टस्य मोक्षाशयादेरप्यननुमोद्यत्वेऽपि जात्या तदनुमोद्यत्वाऽनपायादिति फलतः स्वरूपतवानुमोद्यत्वविशेषव्यवस्था, न काप्यनुपत्तिरिति... यस्त्वाह-सम्यग्दृष्टय एव क्रियावादिनः शुक्लपाक्षिकाश्च न तु मिथ्यादृष्टय इति तेषां कृत्यं किमपि नानुमोरामिति । तेन न सुष्टु दृष्टम् , धर्मरुचिशालिनां सम्यग्दृशां मिथ्यादृशां चाविशेषेण क्रियावादित्वस्य शुक्लपाक्षिकत्वस्य च प्रतिपादनात् ॥ अनुकम्पाऽकामनिर्जरा-बालतपो-विनय-दानविभंगम् । संयोगविप्रयोगौ व्यसनोत्सवर्द्धिसत्कारम् ॥ Page #132 -------------------------------------------------------------------------- ________________ ११९ तदुक्तं दशाश्रुतस्कन्धचूर्णै- " जो अकिरियावाई सो भविओवा, णिमा पक्खिओ । किरियावादी पियमा भविओ णियमा सक्कपक्खिओ अंतो पुग्गलपरिअट्टस्स णिमा सिज्झिहिति, सम्मदिट्ठी वा मिच्छदिट्ठी वा हुजत्ति || " एतत्समंतिपूर्वमुपदेशरत्नाकरेऽप्येवमुक्तम्-तथाहि - "केचित्संसारवासिनो जीवा देवादिगतौ च्यवनादिदुःखभग्ना भोक्षसौख्यमनुपमं ज्ञात्वा तदर्थजातस्पृहाः कर्मपरिणतिवशादेव मनुष्यगतिं प्रापुः । तत्र चैकः प्रथमः कुगुरूपदिष्टशास्त्रार्थभाविततयाऽभिगृहीतमिध्यात्वे दिग्मोहसमतत्त्वव्यामोहवान् पूर्वोक्तमिथ्याक्रियासु मनोवाक्कायधनादि बलवत्तया भृशमुद्युक्तो विष्णुपुराणोक्तशत धनुर्नृपादिदृष्टान्तेभ्यो वेदपुराणामुक्तिभ्यश्च संजात जिनधर्मद्वेषात्स्वज्ञानक्रियागर्वाच्च यक्षतुल्यं सम्यग्गुरुं तदुपदेशांश्च दूरतः परिहारादिनाऽवगणय्य सर्वेभ्यः प्रागेवेष्टपुरसमं मोक्षं गन्तुं समुत्थितो ज्ञानक्रियादि गर्वादिनाऽन्यदर्शनिसंसर्गाला पजप्रायश्चित्तभिया मार्गमिलितसम्यक्पथिकतुल्यान् जैनमुनिश्राद्धादीन सुमार्गमपृच्छन् यथा यथा प्रबलपादत्वरितगतिसमा अनअन्तजीव पिण्डात्मक मूलक-सेवालादिभेोजनाग्निहोत्रादिका मिथ्यात्व - क्रियाः प्रबलाः कुरुते, तथा तथा तजनित महारम्भजीवघातादिपापकर्मावेशादश्वग्रीवनृपतिपुरोहितवद् गाढ गाढतरगाढत मदुःखमयकुमानुष्यतिर्यग्नरकादिकुगति पतितो दुर्लभयोधितयाऽनन्तचतुरशितिलक्षजीवयोनिषु भ्राम्यन् शिवपुराद् भृशं दुरवर्त्यैव जायते पुनरनन्तेम कालेन तत्रागामुकत्वात् । “किरियाबाई णियमा भविओ, णियमा सुक्कपक्खिओ, अंतो पुगलपरिअहस्स नियमा सिज्झिहिति, सम्मदिट्ठी वा मिच्छादिट्ठी वा हुजा " ॥ - इति दशाश्रुतस्कन्धचूर्ण्य पासकप्रतिमाधिकारादिवचनात् क्रियारुचित्वेनावश्यं शिवगामितया यथाप्रवृत्तकरणादुत्तीर्णोऽपूर्वकरण १ योऽक्रियावादी स भव्यो वा नियमात्कृष्णपाक्षिकः । क्रियावादी नियमाद् भव्यो नियमाच्छुक्लपाक्षिकः, अन्तःपुद्गलपरावर्तस्य गियमात्सेत्स्यति, सम्यग्दृष्टिर्वा मिथ्यादृष्टिर्वा भवेद्दिति ॥ २ क्रियावादी नियमाद् भव्यः, नियमाच्छुक्लपाक्षिकः, अन्तः पुद्गल परावर्तस्य नियमात्सेत्स्यति, सम्यग्दृष्टिर्वा मिथ्यादृष्टिर्वा भवेदिति ॥ Page #133 -------------------------------------------------------------------------- ________________ सूर्योदये स्वं भ्रान्तं मन्यमानोऽकामनिर्जरायोगादिना कथंचिन्मनुजभवं पाप्य कर्मक्षयोपशमवशाजाततत्त्वान्वेषणश्रद्धो मिश्रादिगुणस्थानकयोगादपगतदिगमोहसममिथ्यात्वहेतुकतत्त्वव्यामोहः कथमपि यक्षसमसद्गुरुं प्राप्य तदुपदेशबहुमानादवगतं ज्ञानादिमोक्षमार्ग तदनुगतसम्यगनुष्ठानादिना भजमान उत्कर्षतः पुद्गलपरावर्तमध्ये परेभ्यः पश्वेभ्योऽपि मित्रेभ्यः पश्चादनन्तेन कालेन स्वेष्टपुरसमं मोक्षमवाप्नोतीति। ... ननु यद्यप्येवं दशाश्रुतस्कन्धचूर्ण्यनुसारेण क्रियावादिनः सम्यग्दष्टि-मिथ्यादृष्टयन्यतरत्वमुत्कर्षतोऽन्तःपुद्गपरावर्तमानसंसारत्वेन शुक्लपाक्षिकत्वं च नियमतो लभ्यते, अक्रियावादिनश्च नियमान्मिथ्यादृष्टित्वं कृष्णपाक्षिकत्वं च तथापि नात्र निश्चयः कर्तुं पार्यते, अन्यत्रापार्द्धपुद्गलपरावर्ताधिकसंसारस्यैव कृष्णपाक्षिकत्वप्रतिपादनात् । - तदुक्तम् जेसिमवड्डो पुग्गलपरिअट्टो सेसओ उ संसारो। ते सुकपक्खिआ खलु अहिए पुण कण्हपक्खिया ।" “ येषामपार्द्धपुद्गलपरावर्त एव शेषः संसारस्तत ऊर्ध्व सेत्स्यते ते शुक्लपाक्षिकाः क्षीणप्रायसंसाराः । खलुशदो विशेषणार्थः । प्राप्तदर्शना अप्राप्तदर्शना वा सन्तीति विशेषयति । अधिके पुनरपार्द्धपुद्गलपरावर्तात्संसारे कृष्णपाक्षिकाः क्रूरकर्माण इत्यर्थः ॥” इत्यादिश्रावकप्रज्ञप्तिवृत्ती योगबिन्दुवृत्तावप्युक्तम् । तत्रापि शुक्लपाक्षिकोपार्द्धपुद्गलपरावर्तान्तर्गतसंसारः । यत उक्तं "जेसिमबड्डो पुग्गल०" इत्यादि। ततो हि क्रियावादिनः शुक्लपाक्षिकत्वं भजनीयमेव लभ्यते, अक्रियावादिनोऽपि नियमतः कृष्णपाक्षिकत्वमिति विघटते एव; अपार्धपुद्गलपरावर्ताभ्यन्तरीभूतसंसाराणामप्यक्रियावादिनां संभवात् , तस्यापि कृष्णपाक्षिकत्वभजनाया एव संभवात् । नास्तिकत्वपक्षो ह्यक्रियावादः " अस्थित्ति किरियवाई वयन्ति णस्थित्ति अकिरियवाई"त्ति वचनात्। १ येमापपार्धः पुद्गलपरावतः शेषस्तु संसारः। . ते शुक्लपाक्षिकाः खलु अधिके पुनः कृष्ण पाक्षिकाः॥ २ अस्तोति क्रियावादिलो वदन्ति, मास्तोति अक्रियावादिनः ॥ Page #134 -------------------------------------------------------------------------- ________________ १२१ स च कर्मवैचित्र्यवशादल्पतरभवानामपि प्रदेश्यादिवद् भवतीति । अत एव भगवत्यां "सुक्कपक्खिया जहा सलेस्स"त्ति सलेश्यातिदेशेन शुक्लपाक्षिकस्याप्यक्रियावादसंभब उपदर्शितः। तथा च सलेश्याधि. कारप्रश्ननिर्वचनसूत्रम् " सेलेस्सा णं भंते जीवा किं किरियावादी ? पुच्छा। गोपमा । किरियावादीवि, जाव वेणइअवादीवि"त्ति ॥ नत इमामनुपपत्तिं दृष्ट्वा भगवत्यर्थ एव मनो देयम् । भगवत्यां हि सम्यग्दृष्टय एव क्रियावादिनः प्रतिपादिताः, " मिच्छट्टिी जहा कण्हपक्खिया” इत्पत्तिदेशात् । ___ " कण्हपक्खिआ णे भंते जीवा कि किरियावादी ? पुच्छा । गोयमा णो किरियावादी, अकिरियावादीवि अन्नाणियवादीवि वेणइअवादीवि"त्ति-वचनास्कृष्णपाक्षिकाणां च क्रियावादित्वप्रतिषेधादिति । युक्तं चैतत् , सूत्रकृताङ्गेऽपि समवसरणाध्ययननिर्युक्तावित्थं प्रतिपादितत्वात् । तथा त तत्पाठः " सम्मद्दिट्ठी किरियावादी मिच्छा य सेसगा वादी । जहिऊण मिच्छवायं सेवह वादं इमं सर्च ॥" 'इति चेत् । मैवम् । एकशास्त्राधलम्बनेनापरशास्त्रदूषणस्य महाशातनारूपस्वाद उभयशास्त्रसमाधानस्यैव न्याय्यत्वात् । तत्र भगवत्या सूत्रकृतनियुक्तौ च क्रियावादिविशेषस्यैव ग्रहणाद् (अत्र) अक्रियावादिसा. मान्यस्य ग्रहणान्न ग्रन्थविरोधः । तदुक्तं भगवतीवृतौ-"एते च सर्वेऽप्यन्यत्र यद्यपि मिथ्यादृष्टय एधोक्तास्तथापीह क्रियावादिनः सम्यग्दृ१ शुक्लपाक्षिका यथा सलेल्या इति । सलेश्या भगवन् ! जीवाः किं क्रियावादिनः ? प्रश्नः । गौतम ! क्रियावादिनोऽपि यावत् वैनथिकवादिनोऽपीति ॥ ३ कृष्णपाक्षिका भगवन् जीवाः किं क्रियावादिनः ? प्रश्नः । गौतम ! नोकियावादिनः, अक्रियावादिनोऽपि, अशानिकवादिनोऽपि वैनथिकवादिनोऽपीति । सम्यग्दृष्टयः क्रियावादिनो मिथ्या च शेषका वादिनः । हिल्या मिथ्यावादं सेवचं वादमिमंसत्यम् ॥ Page #135 -------------------------------------------------------------------------- ________________ १२२ 3 टयो ग्राह्याः सम्यगस्तित्ववादिनामेव तेषां समाश्रयणात् " इति । सूत्रकृतवृत्तावप्युक्तम्- " नतु च क्रियावाद्यप्यशीत्युत्तरशतभेदोऽपि तत्र तत्र प्रदेशे कालादीनभ्युपगच्छन्नेव मिथ्यावादित्वेनोपन्यस्तस्तत्क 'थमिह सम्यग्दृष्टित्वेनोच्यते ? उच्यते स तत्र ' अस्त्येव जीवः' इत्येवं सावधारणतयाऽभ्युपगमं कुर्वस्तथा 'काल एवैकः सर्वस्यास्य जगतः कारणं' तथा ' स्वभाव एव नियतिश्च पूर्वकृतमेव पुरुषाकार एव इत्येव'मपरनिरपेक्षतयैकान्तेन कालादीनां कारणत्वेनाश्रयणान्मिथ्यात्वम् । तथाहि - ' अस्त्येव जीवः' इत्येवमस्तिना सह जीवस्य सामानाधिकरयाद् यदस्ति तज्जीव इति प्राप्तम्, अतो निरवधारणपक्षसमाश्रयणादिह सम्यक्त्वमभिहितम् । तथा कालादीनामपि समुदितानां परस्परसत्यपेक्षाणां कारणत्वेनेहाश्रयणात्सम्यक्त्वमिति । ननु च कथं कालादीनां प्रत्येकं निरपेक्षाणां मिथ्यात्वस्वभावत्वे सति समुदितानां सम्यक्त्वसद्भावः ?, न हि यत्प्रत्येकं नास्ति तत्समुदाये भवितुमर्हति सिकतातैलवत् । नैतदस्ति, प्रत्येकं पद्मरागादिमणिष्वविद्यमानाऽपि रत्नावली समुदाये भवन्ती दृष्टा, न च दृष्टेऽनुपपन्नं नामेति यत्किंचिदेतदित्यादि ॥ " या च क्रियावादिसामान्यस्यान्तः पुद्गलपरावर्ताभ्यन्तरसंसारत्वेन नियमतः शुक्लपाक्षिकत्वानुपपत्तिः सा क्रियारुचिरूपेण शुक्लपक्षेण शुक्लपाक्षिकत्वमवलम्ब्य परिहर्तव्या । अत एवाक्रियावादिनो नियमात्कृष्णपाक्षिकत्वमपि संगच्छते, क्रियापक्ष एव शुक्लोऽक्रियापक्षस्तु कृष्ण इति । अन्यथा निरवधारणपक्षाश्रयणे क्रियावादिवदक्रियावाद्यपि सम्यग्दृष्टिः स्यात् । अथवोत्कृष्टतः पुद्गलपरावर्त संसारिजातीयत्वमत्र शुपाक्षिकत्वं तदधिकसंसारिजातीयत्वं च कृष्णपाक्षिकत्वं विवक्षितमित्यदोष इति प्रतिभाति । तत्वं तु बहुश्रुता विदन्ति ॥ यत्तच्यते- केनचिदकामनिर्जराङ्गत्वान्न मिध्यादृशां किमपि कृत्यमनुमोदनीयमिति । तदसत् मिथ्यादृशामपि प्रकृतिभद्रकत्वादिगुणari 'कर्मक्षयो मे भूयाद् इतीच्छ्या स्वयोग्यशीलतपः प्रभृति सदनुष्ठानकारिणां सकामनिर्जराऽनपायात् । सह कार्मेण मोक्षाभिलाषेण वर्तते या सा सकामा, तद्विपरीता त्वकामेति हि सकामा कामयोर्निर्जरयोर्लक्षणम् । Page #136 -------------------------------------------------------------------------- ________________ १२३ "" तदुक्तं योगशास्रवृत्ती- “ सा निर्जरा द्वधा । सह कामेन 'निर्जरा में भूयाद्' इत्यभिलाषेण युक्ता सकामा, न त्विहलोकपरलोकफलादिकामेन युक्ता, तस्य प्रतिषिद्धत्वात् । यदाहु:- "नो इहलोगट्टयाए तव महिडिजा ” इत्यादि इत्येका निर्जरा । द्वितीया त्वकामा कामेन पूर्वोक्तेन वर्जितेति । CL न च वाच्यं " ज्ञेया सकामा यमिनामकामा त्वन्यदेहिनाम् इत्यनेन योगशास्त्रस्यैव वचनान्तरेण यतीनामेव सकामा निर्जरा सि ध्यति मिथ्यादृशां तु कर्मक्षयाग्रर्थं तपःकष्टं तन्यतामप्यकामैवेति । ज्ञेया सकामा यमिनाम् " - इत्यादिना वचनस्योत्कृष्ट कामनिर्जरास्वामिकथनपरत्वाद् उत्कृष्टा हि सकामनिर्जरा तेषामेव भवेदिति । अन्यथा देशविरसम्यग्दृशां चाकामनिर्जरैव प्राप्नोति तेषामपि यमिशब्दाव्यपदेश्यत्वेन विशेषाभावाद् । न चैतदिष्टम्, तस्मादेतद्वचनमुत्कृष्टसकामनिर्जराधिकारिकथनपरमिति न दोषः । किं च ज्ञेया सकामेत्यादिश्लोकव्याख्यानेऽप्यकामनिर्जराखामिनो निरभिलाषे विरभिप्रायं च कष्टं सहमाना एकेन्द्रियादय एवोक्ताः, न तु बालतपत्र्यादय मिवाशोऽपि । तथाहि-सकामा निर्जराऽभिलाषवतां यमिनां यतीनां विज्ञेया । ते हि कर्मक्षयार्थं तपस्तप्यन्ते । अकामा तु कर्मक्षयलक्षणफरुनिरपेक्षा निर्जरा अन्यदेहिनां यतिव्यतिरिक्तानामेकेन्द्रियादीनां प्रामिनाम् । तथाहि - एकेन्द्रियाः पृथिव्यादयो बनस्पतिपर्यन्ताः शीतोष्ण-वर्षजनित्राद्यभिघातच्छेद भेदादिनाऽसद्वेद्यं कर्मानुभूय नीरसं तस्वदेशेभ्यः परिशाटयन्ति, विकेलन्द्रियाश्च क्षुत्पिपासा शीतोष्णवा-सादिभिः पवेन्द्रियास्तिर्यञ्चश्च च्छेद भेददाहशस्त्रादिभिः, नारकाञ्च त्रिविधया वेदना, मनुष्याश्च क्षुत्पिपासाव्याधिदारिद्र्यादिना, देवाच पराभियोगकिल्विषत्वादिनाऽसद्वेद्यं कर्मानुभूय स्वप्रदेशेभ्यः परिशाटयन्तीत्येषामकामनिर्जरेति ॥ 5 समयसारसूत्रवृत्योरप्येवमेदोक्तम् । तथाहि " इदानीं निर्जरा सत्यं निगद्यते - " अणुभूअरसाणं कम्म पुग्गलाणं परिसडणं शिजरा ।" १ न इहलोकार्थं तपोऽधितिष्ठेत् । २ अनुभूतरसानां कर्मपुङ्गलानां परिशटनं निर्जरा Page #137 -------------------------------------------------------------------------- ________________ उपभुक्तविपाकानां परिशटनमात्मप्रदेशेभ्यः प्रच्यवनं निर्जरा । अथ तस्या भेदावाह-सा दुविहा पण्णता सकामा अकामा य । सह कामेन 'निर्जरा मे भूयाद्' इत्यभिलाषेण न त्विह परलोकादिकामेन युक्ता सकामा। अनन्तरोक्तकामवर्जिता त्वकामा। चशब्दः समुच्चये। उपायात्स्वतोऽपि वा फलानामिव कर्मणां पाकस्य भावान्निर्जराया इदं द्वैविध्यमिति भावः। तत्राकामा केषाम् ? इस्याह-" तत्थ अकामा सव्वजीवाणं " निर्जराभिलाषिणां तापस्तप्यमानानां सकामनिर्जरेति वक्ष्यमाणत्वाद् तद्व्यतिरिक्तानां सर्वेषां जीवानामकामा, कर्मक्षयलक्षणाभिलाषवर्जितत्वाद् । एतदेव चतुर्गतिगतजन्तुषु व्यक्तीकुर्वन्नाह । तथाहि-" ऐगिदिआई तिरिआ जहासंभवं छेअ-भेअ-सी-उण्ह-वास जल ग्गिछुहा-पिवासा-कसंकुसाईएहिं, नारगा तिविहाए वेअणाए, मणुआ छुहा पिवासावाहि-दालिद्द-चारगणिरोहणाइणा, देवा पराभिओग-किब्बिसत्ताइणा असायावेअणिशं कम्ममणुभविउं: पडिसाडिति तेसिमकामणिज्जरा ॥". " तथाहीति पूर्वोक्तस्यैचोपक्षेपे । छेद-भेद-शीतोष्ण-वर्ष-जलाग्निक्षुधापिषासा-कशाङ्कुशादय एकन्द्रियादिषु पञ्चेन्द्रियपर्यन्ततिर्यक्षु योज्या । नारकाणां त्रिविधा वेदना क्षेत्रजाऽन्यान्योदीरित-परमाधार्मिकजनितस्वरूपा । 'वाहित्ति व्याधिः, चारकनिरोधः कारागारग्रहः । शेषं सुबोधम् । सकामनिर्जरामाह-सका माणिजराषुण गिजराभिलासीण अणसण-ऊणोयरिआ-रसञ्चाय-कायकिलेस-पसंलिणआभेअं छविहं बाहिरं पायच्छित्त-विणअ-वेयावच्च-संसज्झाय-झाण-विउस्सग्गभेअं छविहमाभितरं च तवं तवंताणं । निर्जराभिलाषिणामनशनादिभेदं षड्विधं बाह्यं प्रायश्चित्तादिभदं षड्विधमाभ्यन्तरं च तपस्तप्यमानानां भवति सकामा निर्जरेति संटंक इत्यादि ॥” १ सा द्विविधा प्रक्षप्ता सकामा अकामा च । २ तत्राकामा सर्वजीवानाम् । ३ एकेन्द्रियादयस्तिञ्चो यथासंभवं छेद-भेद-शीतोष्ण-वर्षा जलाशि-क्षुधा पिपासा-कशा-ऽङ्कुशादिभिः, नारकास्त्रिविधया घेदनया, मनुजाः क्षुधा-पिपासा. च्याधि-दारिद्य-चारकनिरोधनादिना, देवाः पराभियोग-किल्विषत्वादिना अशातावेदनोयं कर्मानुभूय प्रतिशाटयन्ति तेषामकामनिर्जरा । ४ सकामनिर्जरा पुनर्निर्जगभिलाषिणामनशनोदरिका-रसत्याग-कायक्लेश-प्रतिसंलोनताभेदं षाविधं बाह्यं प्रायश्चित्त-विनय-चैयावृत्य-संस्वाध्याय-ध्यान-व्युत्सर्गभेदं पविधमाभ्यातरं तपस्सप्यमानानाम् ॥ Page #138 -------------------------------------------------------------------------- ________________ न चात्रापि तपसः सकामनिर्जरारूपत्वप्रतिपादनाद् मिथ्याहशां च तदभावान्न सकामनिजरेति वाच्यम् , मिथ्यादृशामपि मार्गानुसारिणां तपश्चान्द्रायणं कृच्छ्रम्' इत्यादिना तपसः प्रतिपादनात् । किं चमार्गानुसार्यनुष्ठानमात्रमेव सकामनिर्जरायां बीजम् , अविरतसम्यग्दष्टयनुरोधात् न त तपोमात्रमेवेति न काप्यनुपपत्तिः । अत एव स्फुट मोक्षाभिलाषसत्त्वेऽपि मिथ्यादृशांप्रबलासद्ग्रहदोषवतांतदभाववतामादिधार्मिकाणामिव फलतो न सकामनिर्जरा, मार्गानुसार्यनुष्ठानाभावात् , तदभावपि च स्वाभाविकानुकम्पादिगुणवतां मघकुमारजीवहस्त्यादीनां फलन सायाधि नेति विभावनीयम् । युक्तं चैनत् पञ्चस्वनु ठानेषु तद्धत्वमृतानुष्ठानयोरिव सकामनिर्जराङ्गत्वव्यवस्थितः । अत एवानुचितानुष्ठानमकामनिर्जराङ्गमुक्तम् । तथा च धर्मबिन्दुसूत्रवृत्तिवचनम् । " अननुष्ठानमन्यदकामनिर्जराङ्गमुक्तविपर्ययादिति "॥ अननुष्ठानमनुष्ठानमेव न भवति, 'अन्यद् ' विलक्षणमुचितानुष्ठानाद् । तर्हि कीदृशं तत् ? इत्याह-' अकामनिर्जराङ्गम् ' अकामस्य निरभिलाषस्य तथाविधवलीवर्दादेरिव या निर्जरा कर्मक्षपणा तस्या अङ्गं निमित्तम् । ननु मुक्तिफल. योर्निर्जरयोः कुलः ? ___ इत्याह-'उक्तविपर्ययाद्' उदग्रविवेकाभावेन रत्नत्रयाराधनाभाघादिति ॥ उचितानुष्ठानं च साध्वादीनां यथाशुद्धचारित्रपालनादीकं तथा मार्गानुसारिणां मिथ्याशामपि सामान्यतः सदाचारादिकम् , भूमिकाभेदनौचित्यव्यवस्थानात् , ततोऽधिकारिभेदेन यद् यदोचितमनुष्ठानं तत्तदा साक्षात्पारम्पर्येण वा निर्वाणफलमिति सकामनिर्जराङ्गन् । यद्यानुचितं " तदनुचित प्रतिपती नियमादसदभिनिवेशोऽन्यत्रानाभोगमात्रादिति ॥"-वचनात् अभिनिवेशसह कृतत्वेन विपरीतफलमिति तत्त्वतोऽकामनिर्जराङ्गामिति मन्तव्यम् । इत्थं च “ तओ भणियं नाइलेग, जहा मा वच्छ । तुमं एतेणं परिओसमुवयासु । जहा अहयं आसवारेग परिमुसिओ अकामणिजराएवि किंवि कन्मस्खओ हवइ किंपुण जं वाललवणं । ता एते बालतवस्सिगो दट्टये, जओ णं किंचि उस्सु तुम्मग्गयारित्त १ नतो भागतं नागिलेण, यथा मा घत्स! त्वमेतेन परितोषमुपयाहि । यथाऽहमश्ववारेण परिमुषितोऽकामनिर्जरयाऽपि किंचित्कर्मक्षयो भवति किं पुनर्थ बालसपसा ? । तस्मादते बालतपस्विनो द्रष्टव्याः । यतः खलु किंधितुत्सूत्रोन्मार्गचारित्व Page #139 -------------------------------------------------------------------------- ________________ मेएसि य दीसइ"। इत्यादि महानिशीथचतुर्थाध्ययनवचनाद् अकाम-- निर्जराजन्यात्कर्मक्षयाद बालतपोजन्यस्य तस्य भूयस्त्वास द्वेः। “ अणुकंपकामणिज्जरबालतवे दाणविगंयविभंगे।" इत्यादौ सम्यक्त्वप्राप्तहेतु-. " महव्वयअणुबएहि य बालतबाकामणिजराए य । देवाउअं णिबंधई सम्मदिट्टी य जो जीवो ॥”इत्यादौ देवायुः कारणेषुः च भेदेनाभिधानादकामनिर्जरा-बालतपसो भेदो यः प्रोच्यते स स्वरूपभेदं निजनिजफलभेदं चापेक्ष्यबालतपः सर्वमेवाकामनिर्जराङ्गमिति परस्य भान्ति निरासाय । तत्वनस्तु यदुचितानुष्ठानं तन्नाकामनिर्जराङ्गम् , यच्चानुचितानुष्ठानं तन्निर्वाणानङ्गत्वात्फलतो बालतपो वोच्यतामकामनिर्जराङ्गं वा नात्र कश्चिद्विशेष इति युक्तं पश्यामः॥ किंच-मिथ्यादृष्टीनामपि मार्गसाधनयोगा गुणस्थानकत्वाभ्युपग-- मादेव हरिभद्राचार्यैः प्रदर्शिताः, तथा चे तेषामपि सकामनिर्जसयां न बाधकम् , गुणलक्षणायास्तस्याः कुशलमूलत्वात् । तदुक्तं तत्वार्थभाष्ये नवमाध्याये-निर्जरा वेदना विपाक इत्यनान्तरम् । स द्विविधोऽ.. बुद्धिपूर्वः कुशलमूलश्च । तत्र नरकादिषु कर्मफलविपाको योऽबुद्धिपूर्वकप्तमवद्यतो ऽनुचिन्तयेद् अकुशलानुबन्ध इति । तप परिपहजयकृतः कुशलमूलस्तं गुणतोऽनुचिन्तयेत् -शुभानुबन्धो निरनुबन्धो वेति ।' एवमनुचिन्तयन् कर्मनिर्जरगायव 'घटते ॥” अत्र ह्यकुशलानुबन्धो विपाक इत्यकामनिर्जरायाः कुशलमूलश्च सकामनिर्जरायाः संज्ञान्तरमेवेति । अथ मिथ्यादृष्टर्बुद्धिरवुद्धिरेवेति न बुद्धिपूर्विका निर्जरेति चेद् । न, मार्मानुसारिण्या बुद्धेरबुद्धित्वेनापह्नोतुमशक्यत्वाद; अन्यथा माषतुषादीनामप्यकामनिर्जरा प्र. सङ्गात् , तेषां निर्जराया अबुद्धिपूर्वकत्वात्फललो बुद्धिसद्भावस्य चोभयत्राविशेषाद् । उचितगुणस्थानपरिणतिसत्त्वे फलतो बुद्धिमत्त्वमया'धितवेति । मेतेषां च दृश्यते । १ अनुकम्पाऽकामनिर्जराबालतपो दानविनयविभङ्गाः । महाव्रताणुव्रतैश्च बालतपोऽकामनिर्जराभ्यां च । देवायुर्निबध्नाति सभ्यगाष्टिश्च यो जीव: ॥ - ? Page #140 -------------------------------------------------------------------------- ________________ " गुणठाणगपरिणामे संत तह बुद्धिमपि पाएण । जायइ जीवो तप्फलमवेक्खमने उ णियमत्ति ॥" गुणविशेषस्य जीवदयादिरूपस्यात्मनि परिणामे सति, तथेति समुच्चये बुद्धिमानपि युक्तायुक्तविवेचनशेमुषीपरिगतोऽपि न केवलधर्मसारः सदा भवति प्रायेग वाहत्येन जायते जीवः । महतामयनाभोगसंभवेन कदाचित्कृत्येवबुद्धिमत्त्वमपि के सचिस्यादिति प्रायोग्रहणम् । अत्रैव मतान्तरमाह-तत्फलं बुद्धिमत्त्वफलं स्वपिवर्गादिप्राप्तिलगमपेक्ष्यान्ये पुनराचार्या नियमोऽवश्यंभावो घुद्धिमञ्चस्य आआभागेऽपि गुणस्थानपरिगतौ सत्यामिति वते । अयमभिप्राय:-संपन्ननिर्बणबतारिगामाः प्राणिनो जिनभणितभिदेमिति श्रद्दधानाः कचिदर्थेऽनाभोगबहुलतया अगर कोषाद् वितयश्रद्धानवन्तोऽपि न सभ्यक्त्वादिगुणभ.भाजो जायन्ते । , यथोक्तम् "सम्मघवी जीवो उवइट्ठ पवयणं तु सद्दहइ । सद्दइइ असम्भावं अयाणमाणो गुरुणिओगा॥" ... बुद्धिमत्त्वे सति व्रतपरिणामफलमाविकलमुपलभन्त एवेति । यथा च सम्यग्दृष्टयादिगुणस्थानावान्तरपरिणतितारतम्येऽपि बुद्धिमत्वतामान्यफलाभेदस्तथा मार्गानुसारिणां मिथ्यादृशां मिथ्यात्वगुणस्थानावान्तरपरिणतितारतम्येऽपि । अत एवापुनर्बन्धकादीनामादित एवारम्यानाभोगतोऽपि सदन्धन्यायेन मार्गगमनमेवेत्युपदिशन्त्यध्यात्मचिन्तकाः । यत्तु मिथ्याशां सकामनिर्जरासंभवे सम्यग्दृष्टिमिथ्याहष्टयोरविशेषप्रसङ्ग इति केनचिदुच्यते, तदसत् । एवं सति मिथ्याष्ट्यादीनां सयोगिकेवलिपर्यन्तानां शुक्ललश्यावत्वेनाविशेषप्रसङ्गात् । अवान्तरविशेषान्न तदविशेष इति चेत् । सोऽयं प्रकृतेऽपि तुल्यः, सम्यग्दृष्टिनिर्जराऽपेक्षया मिथ्यादृष्टिनिर्जराया अल्पत्वस्याभ्युपगमादिति यथाशास्त्र भावनीयम् ॥ ४१॥ गुगस्थानकपरिणामे सति तथा बुद्धिमानपि प्रायेण । मायत जीवस्तत्फल मपेक्ष्यान्ये तु नियम इति ॥ . सम्यग्दृष्टिर्जीव उपदिष्टं प्रवचनं तु श्रद्दधाति । श्रद्दधात्यसद्भावमजानन् गुरुनियोगात् ॥ Page #141 -------------------------------------------------------------------------- ________________ १२८ नन्वेव मिथ्यादृशां गुणानुमोदमेन परपाखण्डिप्रशंसालक्षणः स म्यक्त्वातिचारः स्यादित्याशङ्कां परिहर्तुमाह परपाखंड पसंसा इह खलु कवि वमइआरो । सो तम्मयगुणमोहा अणवत्थाओ व होज्जाहि ४२ पर पाखंडपसंसति । एवमुक्तप्रकारेण इह मार्गानुसारिगुणानुमा दने परपाखण्डिप्रशंसाऽतिचारः कोऽपि न स्यात् । यतः स परपाखण्डप्रशंसातिश्चारस्तन्मताः परपाखण्डिमात्र संमता ये गुगा अग्निहोत्रपञ्चा साधनादयस्तेषु मोहोऽज्ञानं तत्त्वतो जिनप्रणीततुल्यत्वादिमिथ्याज्ञानलक्षणं ततो भवेत्, 'परपाखण्डिनः परदर्शनिनः प्रशंसा इत्यत्र व्युत्पत्तावर्थात् पाखण्डताऽवच्छेदकधर्मप्रशंसाया एवातिचारलाभाद् । यथा हि ' प्रमादिनो न प्रशंसनीया:' इत्यत्र प्रमादिनां प्रमादितावच्छेदकधर्मेणाप्रशंसनीयत्वं लभ्यते न त्वविरतसम्यग्दृष्टयादीनां सम्यक्त्वादिनाऽपि, 'तथा पाखण्डिनो न प्रशंसनीया: ' इत्यवापि पाखण्डिनां पाखण्डतावच्छेदकधर्मेणैवाप्रशंसनीयत्वं लभ्यतं न तु मार्गानुसारिणां क्षमादिगुणेनापि । अभिनिवेशविशिष्टक्षमादिगुणानामपि पाखण्ड तावच्छेदकत्वमेवेति तद्रूपेण प्रशंसायामध्यतिचार एव । अत एवोग्रकष्टकारिणा मध्याज्ञोल्लङ्घनप्रवृत्तीनां दोषावहत्त्वमुक्तं " 'तेसिं बहुमाणेणं उम्मग्गमोअणा अणिफला । तन्हा तित्थयराणाठिए जुत्तोत्थ बहुमाणो ॥ - इत्यादिना श्रीहरिभद्रसूरिभिः । वा अथवा, अनवस्थया मार्गअंगलक्षणयाऽतिचारो भवेद् । मुग्धपर्षदि क्षमादिगुणमादायापि मिथ्यादृष्टिप्रशंसायां परदर्शनिभक्तत्वप्रसङ्गादेकै कासमञ्जसाचाराद्, एवं मागच्छेदापत्तेः । अत एवाभिमुखमुग्धपर्षद्गतस्य परपाखण्डि परपाखण्डप्रशंसा इह खलु कोऽपि नैवमतिचारः । स तन्मतगुणमोहाद् अनवस्थया वा भवेद् ॥ ४२ ॥ तेषां बहुमानेनोन्मार्गमोदनाऽनिष्टफला । तस्मात्तीर्थकराज्ञास्थितेषु युक्तोऽत्र बहुमानः ॥ Page #142 -------------------------------------------------------------------------- ________________ १२९ संवन्धिकष्टप्रशंसादिना महानिशीथे परमाधार्मिकमध्योत्पत्तिरुक्ता। तथा च तत्पाठः- . . . ज भिक्खू वा भिक्खुणी वा परपासंडीणं पसंर्स करेजा, जेयाविणे गिण्डवाणं पसंसं करेजा, जे णं णिण्हवाणं आययणं पविसेजा, जे णं णिण्हवाणं गंथ-सत्थ-पय-क्खरं वा परवेजा, जेणं णिण्हवाणं संतिए कायकिलेसाइए तवे इ वा संजमे इ वा नाणे इ वा विन्नाणे इ वा सुए. इ वा पंडित्ते इ वा अभिमुहमुद्धपरिसागए, सिलाहेजा सेवि य णं परमाहम्मिएसु उववजेजा, जहा सुमतित्ति" ॥ . तथा च यः स्वस्य परेषां च गुणानुरागवृद्धिकारणमवगम्यव जिनप्रणीतक्षमादिगुणगणमादाय मार्गानुसारिणां मिथ्यादृशां प्रशंसां करोति तस्य न दोषगन्धोऽपि, प्रत्युत 'अहो सकलगुणसारं जिनप्रवचनम्' इति धर्मोन्नतिरेव स्यादिति भावः ॥४२॥ अथ भवन्तु मिथ्यादृशामपि केऽपि गुणास्तथापि हीनत्यादेव ते नानुमोद्या इत्याशङ्काशेषं निराकर्तुमाहजइ हीणं तेसि गुणं सम्मत्तधरो ण मन्नइत्ति मई। ता कस्सवि सुहजागं तित्थयरोणाणुमनिजा॥४३॥ __जइ हीणति । यदि होनं तेषां मिथ्यादृशां गुणं क्षमादिकं न मन्यते नानुमन्यते सम्यक्त्वधरः, उत्कृष्टपदत्वादिति तव मतिः स्यात् तदा कस्यापि शुभयोगं तीर्थकरो नानुमन्येत, तीर्थकरापेक्षया सर्वेषामपि छमस्थानामधस्तनस्थानवर्तित्वात् । न चैतदिष्टम् , तत उपरितनगुणस्थानस्थानामपि सर्व मार्गानुसारिकृत्यमनुमोदनीयमेव । यच्च यदि हीनं तेषां गुणं सम्यकत्वधरो न मन्यते मतिः। ततः कस्यापि शुभयोगं तीर्थकरो नानुमन्येत ।। ४३ ॥ १ यो भिक्षुर्भिक्षुकी वा परपाखण्डिनां प्रशंसां कुर्यात् , योऽपि च निलवानां प्रशंसां कुर्यात् , यः खलु निहवानांमायतनं प्रविशेत् , यः खलु निहवानां ग्रन्थशास्त्र-पदाक्षरं वा प्ररूपयेत् , यः खलु निहवानां सत्कं कायक्लेशादिन् तपा वा संयम वा ज्ञानं वा विज्ञानं या भुतं या पाण्डिल्यं वा अभिमुखमुग्धपषद्गतः भाषेत सोऽपि च परमाधार्मिकेषु उपरोत, प्रथा सुमतिरिति ।।... Page #143 -------------------------------------------------------------------------- ________________ सम्यक्त्वगुणविशेषप्रदर्शनार्थ मिथ्यादृग्गुणमात्रस्य शास्त्रेऽकिंचिकरत्वप्रतिपादनं नैतावता सर्वथा तद्विलोप एव सिध्यति, चारित्रगुणविशेषप्रदर्शनार्थ "दसारसीहस्स य सेणियस्स पेढालपुत्तस्स य सच्चइस्स । - अणुत्तरा दंसणसंपया सिया विणा चरित्तेण हरं गई गया ॥"इत्यादिना सम्यक्त्वस्यापि तत्प्रतिपादनादिति द्रष्टव्यम् ॥४३॥ तदेवमन्येषामपि मार्गानुसारिगुणानामनुमोद्यत्वसिद्धौ सम्यग्दृशाऽन्येषां गुणा नानुमोद्या एवेत्युत्सूत्रं त्यक्तव्यम् , स्तोकस्याप्युत्लूत्रस्य महानर्थहेतुत्वादित्युपदेशमाहता उस्मुत्तं मुत्तुं अणुमोइजा गुणे उ सबसि। जं.थोवावि तओ लहेज दुख्खं मरीइव्व ॥४४॥ ता उस्सुत्तति । तत् तस्मात्कारणादुत्सूत्रं मुक्त्वा, तुरेवकारार्थः स च “सर्वेषाम्' इत्यनन्तरं योज्यः; सर्वेषामेव गुणाननुमोदेत; भव्य इति शेषः । यद् यस्मात्स्तोकादपि तत उत्सूत्रान्मरीचिरिव दुःखं लभते । मरीचिर्हि " कैविला इत्थंपि इहयंपि” इति स्तोकादप्युत्सूत्रात्सागरोपमकोटाकोटीमानसंसारपरिभ्रमणजन्यदुःखं लब्धवान् , सतो यो मार्गानुसार्यनुमोदनां लुम्पन्नुत्सूत्रसहस्रवादी तस्य किं वाच्यमिति भावः ॥ - अत्र केचिदाहुमरिचिरुत्सूकाद् दुःखं लब्धवानिति वयं न सहामहे, उत्सूत्रस्य नियमतोऽनन्तसंसारकारणत्वात् , तेन चासंख्येयसंसाराजनात् , तत उत्सूत्रमिश्रितमेवेदं मरीचिवचनं नतृत्सूत्रमिति प्रतिपत्त तत उत्सूत्रं मुक्त्वाऽनुमोदेत गुणान् सर्वेषाम् तु । यत्स्तोकादपि ततो लभेत दुःखं मरीचिरिव ॥ ४४ ॥ १ दशारसिंहस्य च श्रेणिकस्य पेढालपुत्रस्य च सत्यकेः । अनुत्तरा दर्शनसम्पद् स्याद् विना चारित्रेणाधरां गतिं गता,॥ . ३ कपिल ! इत्थमप्यत्रापि । Page #144 -------------------------------------------------------------------------- ________________ व्यम् । तथाहि-साधुधर्मे द्विरुक्तेऽपि साधुधर्मानभिमुखेन कपिलेन युष्मत्समीपे कश्चिद्धर्मोऽस्तीति पृष्टे, आवश्यकवृत्त्यभिप्रायेण तु भवदर्शने किंचिद्धर्मोस्तीति पृष्टे अहो ! अयं प्रचुरकर्मा द्विरुक्तोऽपि साधुधर्मानभिमुखो मदुचितः सहायः संवृत्त इति विचिन्त्य मम देशविरतिधर्मोस्तीत्यभिप्रायेण मनागिहाप्यस्तीति मरीचिरुक्तवान् । तत्र मरीचेयदि देशविरतिविमर्शना नाभविष्यत् तर्हि मनागिति नाभणिष्यत् । एतद्वचनं परिव्राजकवेषे सति परिव्राजकदर्शने किंचिद्धर्मव्यवस्थापक संपन्नम् । इह शब्दस्यास्पष्टार्थवाचकत्वेन श्रोतुः कपिलस्य परिव्राजकदर्शनेऽपि किंचिद्धर्मोऽस्तीत्यवबोधात्, अन्यथा कपिलः परिव्राजकवेषं नाग्रहीष्यत् , तस्य धर्मचिकीर्षयैव तद्वेषोपादानात् , राजपुत्रत्वे नान्यत्कारणसंभवात् , ततश्च कापिलीयदर्शनप्रवृत्तिः। सा च कपिलस्य मरीचरन्येषां च महानर्थकारणम् , कुप्रवचनरूपत्वात् । तदेवंभूतं व चनमुत्सूत्रमिश्रं, मरीच्यपेक्षया सूत्रत्वेऽपि कपिलापेक्षया ( उत् ) सूत्रत्वात् । मम पार्वे मनाग धर्मोऽस्तीति देशविरतस्य मरीचेरभिप्रायान्मरीच्यपेक्षया हि सत्यमेवैतत् , परिव्राजकदर्शने धर्मोऽस्तीति कपिलस्य बुद्धिजनकत्वेन कपिलापेक्षया चासत्यरूपमेवेति । तदसत् , उत्सूत्रकथनाभिप्रायेण प्रवृत्तस्यास्य वचनस्य मायानिश्रितासत्यरूपस्योत्सूत्रत्वाद् । आपेक्षिकसत्यासत्यभावाभ्यामुत्सूत्रमिश्रितत्वाभ्युपगमे च भगवद्वचनस्यापि तथात्वप्रसङ्गात् । तदपि हि भगवतस्तद्भक्तानां चापेक्षया सत्यं पाखण्डिनां चापेक्षयाऽसत्यमिति । अथ भगवता वचनं परस्यासत्यबोधाभिप्रायेण न प्रयुक्तमिति नोत्सत्रम् , मरीचिना तु प्रकृतवचनं कपिलस्यासत्यबोधाभिप्रायेणैव प्रयुक्तम्। स येवं ज्ञातवान-एतन्मद्वचनं कपिलस्य परिव्राजकदर्शने धर्मबुद्धिजनक भविष्यतीत्येवमेवायं बोधनीय इति, कथमन्यथाऽस्य परिव्राजकवेषमदास्यद् ? इति महद्वैषम्यमिति चेत् । हन्त तर्हि उत्सूत्रमेवेदं प्राप्तमिति गतमुत्सूत्रमिश्रेण । द्रव्यतोऽसत्यस्य किशलयपाण्डुपत्राद्युवापरूपसूत्रवचनस्यैव द्रव्यतः सत्यस्य प्रकृतवचनस्योत्सूत्ररूपस्यापि मिश्रत्वायोगात् शुद्धाशुद्धद्रव्यभावाभ्यां मिश्रत्वाभ्युपगमे जिनपूजादायपि मिश्रपक्षाभ्युपगमप्रसङ्गाच । अथ देशविरत्यभिशयेण मदपेक्षया Page #145 -------------------------------------------------------------------------- ________________ १३२ " मया सत्यं वक्तव्यम्, परिव्राजकवेषाभिप्रायेण कपिलापेक्षया त्वसत्यमित्येवं भावभेदादेवेदमुत्सूत्रमिश्रमिति चेत्, न, एतादृशभावयोरेकदाऽसंभवात् उपयोगथयौगपद्याभ्युपगमस्यापसिद्धान्तत्वाद् । एक एवायं समूहालस्वनोपयोग इति चेत्, तर्हि केन कस्य मिश्रत्वम् ? | नियमतः पदार्थद्वयापेक्षयैतदिति विषयभेदादेकत्रापि मिश्रत्वमिति चेत् । तर्हि गतं केवलेनोत्सूत्रेण, सर्वस्याप्यसत्याभिप्रायस्य धर्म्यंशे सत्यत्वात् "सर्वं ज्ञानं धर्मिण्यभ्रान्तं प्रकारे तु विपर्ययः” इति शास्त्रीयप्रवादप्रसिद्धेः । तर्हि प्रकार भेदादस्तु मिश्रत्वम्, एकत्रैव वचने सत्यासत्यबोधकत्वावच्छिन्नप्रकार भेदोपरक्ताभिप्रायापश्लेषादुत्सूत्रमिश्रत्वसंभवादिति चेत् । न, सूत्रकथनांशेऽभिप्रायस्य प्राबल्येऽनुत्सूत्रस्योत्स्चकथनांशे तत्प्राबल्ये चोत्सूत्रस्यैवं संभवान्मिथ्याव्यपदेशेन मिश्रस्थानवकाशाद् । अन्यथा 'क्रियमाणं न कृतम्' इत्यंशेऽसत्यं प्रतिपादयामि इतरांशे च सत्यमिति मिथ्याव्यपदेशेन वदतो जमाल्यनुसारिणोऽपि नोत्सूत्रं स्यात् किन्तूत्सूत्रमिश्रमिति महदसमञ्सजम् । अपि च- इदं मरीचिचचनमुत्सूत्रमिश्रमिति वदता मूलत एव जैनी प्रक्रीया न ज्ञाता । यतः सूत्रोत्सूत्रव्यवस्था तावच्छून भाव भाषामाश्रित्य क्रियते । स्रा च सत्यासत्यानुभयरूपत्वात् त्रिविधैव दशवैकालिकनिर्युक्त्यादिसिद्धान्तप्रतिपादिता । पराभिप्रायेण तु मिश्ररूपाया अपि तस्याः सिद्धौ भगवद्भद्रबाहूक्तविभागव्याघातप्रसङ्ग इति न किंचिदेतत् । इत्थं च मरीच्यपेक्षया मरीचेरनुत्सूत्रमेवेदं वचनं कपिलापेक्षया च विपर्यासबुद्धिजनकत्वज्ञानेऽपीत्यमुच्यमानमेतद्वचनं ममोत्सूत्रमिति परिज्ञानाभावात्कथंचिदना भोगहेतुकमुत्सूत्रमिति वदतो माता व मे वन्ध्या चेति न्यायापात इति द्रष्टव्यम् । किंच - तस्योत्सूत्राभोगो नासीदित्यपि दुःश्रद्धानम्, व्युत्पन्नस्य तस्य तादृशा स्पष्टवचनेऽप्युत्सूत्रत्वप्रत्ययावश्यकत्वाद् । न च साधुभक्तस्य तस्य तथोत्सूत्र भाषणमसंभाव्यमिति शङ्कनीयम्, कर्मपरिणतेर्विचित्रत्वाद् । अस्पष्टत्वं च तत्राभिमतानभिमतविधिनिषेधावधारणक्षमत्वलक्षणं न, उत्सूत्राभोगाभावात्; किन्त्वनभिमतनिषेधांशे देशविध्यारोपप्रयोजकतथाविधसंकले शात् । अत एव स्फुटाप्ररूपणमप्यस्पास्पष्टताख्यजातिविशेषशालिन् Page #146 -------------------------------------------------------------------------- ________________ १३३ सूत्ररूपण एव पर्यवस्यति । तदुक्तं पाक्षिकसप्ततिकावृत्तौ - उत्सूत्र'प्ररूपणायाः संसारहेतुत्वात् । यथोक्तम् फुडपागडम कहंतो जहट्ठियं बोहिलाभमुवहणइ । जह भगवओ विसालो जरामरणमहो अहिआसि ॥ " ि किंच-इहत्ति देशविरत्यभिप्रायेण वोक्तमिति निर्णीतम् । उपदेशमालावृत्तौ " कपिल ! इहान्यात्रपीति ” मत्संबन्धिन साधुसंबन्धिनि चानुष्ठाने धर्मोऽस्तीति भणनात् । न च तत्र 'साधुसंबन्धिनि ' इति भणनेन ' मत्संबन्धिनि देशविरत्यनुष्ठाने धर्मोऽस्ति ' इत्येवाभिप्राय इति वाच्यम् | जिनधर्मालसं ज्ञात्वा शिष्यमिच्छन् स तं जगौ - मार्गे जैनेsपि धर्मोऽस्ति, मम मार्गेऽपि विद्यते इति हैमवीरचरित्रवचनात्खमार्गेऽपि तेन धर्माभिधानात् । स्वमार्गश्च तस्य स्वपरिगृहीतलिङ्गाचारदक्षणं कापिलदर्शनमेव । तत्र च मार्गे नियतकारणताविशेषसंबन्धेन धर्ममात्रमेव नास्ति कुतो देशविरत्य नुष्ठानम् ? इत्युत्सूत्रमेवैतदिति । अनियमाभिप्रायेण त्वस्योत्सूत्र परिहारेऽम्यलिङ्गः दि सिद्धाभ्युपगमाच्चारित्रादेरपि तत्राभ्युपगमापत्तिरिति न किंचिदेतत् । एतेन कविला 'इत्थंपि'त्ति अपिशब्दस्यैवकारार्थत्वान्निरुपचरितः खल्वत्रैव साधुमार्गे, 6 इहयंपि' त्ति स्वल्पस्त्वन्नापि विद्यते । स ह्येवमाकर्ण्य तत्सकाश एव प्रव्रजितः। मरीचिनाऽप्यनेन दुर्वचनेन संसारोऽभिनिर्वर्तित इति ज्ञानसागरसूरिवचनमपि व्याख्यातं तत्रापि मार्गभेदाभिप्रायेणैव धर्मभेदाभिधानाद् । नहि साधुश्रावकयोर्मार्गभेदेन धर्मभेदः संभवदुक्तिको - पीति विचारणीयम् । यत्तु मरीचिवचनमिदमावश्यकनियुक्ती दुर्भाषितं नतृः सूत्रमिति नेदमुत्सूत्रं वक्तव्यमिति केनचिदुच्यते । तदसत् दुर्भाषितपदस्या नागमिकार्थोपदेशे रूढत्वात्, तदुत्सूत्रताया व्यक्तत्वात् । तदुक्तं पञ्चाशक सूत्रवृत्यो: १ स्फुटप्रकटमकथयन् यथास्थितं बोधिलाभमुपहन्ति । सथा भगवतो विशाल जरामरणमहों अधिकमासीत् ( ? ) Page #147 -------------------------------------------------------------------------- ________________ व्याख्या-संविग्नो भवभीरुरनुपदेशं नञः कुत्सितार्थत्वेन कुत्सितोपदेशमागमबाधितार्थानुशासनं न ददाति - परस्मै न करोति, तद्दाने संविग्नत्वहानिप्रसङ्गात् । किंभूतः सन् १ इत्याह- दुर्भाषितमनागमिकार्थोपदेशं कटुविपाकं दारुणफलं दुरन्तसंसारावहं मरीचिभवे महावीरस्येव, जानन् - अवबुध्यमानः । को हि पश्यन्नेवात्मानं कूपे क्षिपतीत्यादि । तथा श्रावकदिनकृत्यवृत्तावप्युक्तम् - " विपरीतप्ररूपणा उन्मार्गदेशना । इयं हि चतुरन्तादभ्र भवभ्रमणहेतुर्मरीच्यादेरिवेति ॥ " धर्मरत्नप्रकरणसूत्रवृत्त्योरप्युक्तम् १३४ “ 'संविगोवसं ण देइ दुब्भासिंयं कडुविवागं । जाणतो तंमिता अतहक्कारो उ मिच्छत्तं ॥ 93 २ “ ज्वलज्ज्वालानल प्रवेशका रिनरसाहसादप्यधिकमतिसाहसमेतद्वर्तते यदुसूत्रप्ररूपणा - सूत्रनिरपेक्षदेशना कटुविपाका दारुणफला जानानोऽवबुध्यमानोऽपि दीयते - वितीर्यने निर्देशो निश्वयः सूत्रबाह्ये- जिनेन्द्रानुक्तेऽर्थे - वस्तुविचारे । " दुब्भासिएण इक्केण मरीह दुक्खसागरं पत्तो । भणिओ कोडाकोडी सागरसरिणामधिजाणं ॥ उस्सुत्तमायरंतो बंधइ कम्मं सुचिक्कणं जीवो । संसारं च पवढइ, मायामोसं च कुव्वइ य ॥ १ ॥ उम्मग्गदेसओ मरगणासओ गूढहिययमाइलो | सढसीलो असलो तिरिहउं (अगई) बंधइ जीवो ॥ २ ॥ संविग्नोऽनुपदेशं न ददाति दुर्भाषितं कटुविपाकम् । जानन् तस्मिंस्तथा अतथाकारस्तु मिथ्यात्वम् । अतिसाहसमेतद् यदुत्सूत्रप्ररूपणा कटुविपाका । जनानो ह्यपि दीयते निर्देशः सूत्रबाह्येऽर्थे ॥ दुर्भाषितेनैकेन मरीचिर्दुःखसागरं प्राप्तः । भणितः कोटाकोटीसागरसदृग्नामधेयानाम् ॥ उत्सूत्रमाचरन् बध्नाति कर्म सुचिकणं जीवः । ससारं च प्रवर्धते मायामृषा च करोति च ॥ १.७. ३ ४ " अइसाहसमेयं जं उस्सुत्तपरूवणा कडुविवागा । जाते हि विदिज्जइ विदेस्सो सुतवज्झत्थे || " " Page #148 -------------------------------------------------------------------------- ________________ १३५ उम्मग्गदेणार चरणं णासंति जिणधरिंदाणं । चावण्णदंसणा खलु नहु लब्भा तारिसा दहुं ।। ३ ।। ” इत्यागमवचनानि श्रुत्वाऽपि स्वाग्रहग्रस्तचेतसो यदन्यथा (अ) क्षते विदधति च तन्महासाहसमेव, अनवक्पारासारसंसारपारोदर विवरभाविभूरिदुःखभाराङ्गीकारादिति ॥ तथा श्राद्धविधिवृत्तावप्याशातनाधिकारे प्रोक्तम्" एतासु चोत्त्रभापणार्हद्गुर्वाद्यज्ञादिर्महत्याशातनाऽनन्तसंसारहेतुथ साचद्याचार्य मरीचि - जमालि-कूलवालकादेवि । यतः -- उस्मानाणं बोहणासो अगंतसंसारो । पाणचरवि धीरा उस्तुतं ता ण भासति || fareervaari आयरिअं गणहरं महिडीय | " इत्यादि ॥ तथा योगशास्त्राप्युक्तम्- "भगवानपि हि भुवनगुरुरुन्मार्गदेशात्सागरोपमकोटाकोटी यावद्भवे भ्रान्तस्तत्काऽन्येषां स्वपापप्रतीकारं कर्तुमशक्नुवतां गतिरिति । तथा तत्रैव- "अल्पादपि मृषावादाद् " इत्यस्य व्याख्या - " या त्वत्वस्यापि मृषावादस्य महानर्थहेतुत्वे संमतिवचनमिदमुपदर्शितम् अहह सयलन्नपावा वितहपनवणमणुमवि दुरंतं । जं मरीभव उवजिय-दुक्कय अवसेस - लेस वसा || १ ॥ उमार्गदेशको मार्गनाशको गूढहृदयमायावान् । roties सशल्यः तिर्यग्गतिं बध्नाति जीवः ॥ २ ॥ उन्मार्गदेशनया चरणं नाशयन्ति जिनवरेन्द्राणाम् । व्यापन्नदर्शनाः खलु नैव लब्धा तादृशा दृष्ट्वा ॥ ३ ॥ १ उत्सूत्रभावकानां बोधिनाशोऽनन्तसंसारः । प्राणत्यागेऽपि धीरा उत्सूत्रं ततो न भाषन्ते ॥ तीर्थकर प्रवचनश्रुतमाचार्य गणधरं महर्द्धिकश्च । अहह सकलान्यपापाद् वितथप्रज्ञापनमण्वपि दुरन्तम् । यम्मरीचिभवे उपार्जितदुष्कृतावस्त्रे सलेशषशात् ॥ १ ॥ सुरस्तुतगुणोऽपि तीर्थकरोऽपि त्रिभुवने अतुल्यमल्लोऽपि । गोपादिभिरपि बहुशः कदर्थितस्त्रिजगत्प्रभु... गो-ब्राह्मण-‍ -भ्रूणान्तका अपि केचिदिष्ट दृढप्रहारादयः । बहुपापा अपि च सिद्धा किल तस्मिन्नेव भवे । २ Page #149 -------------------------------------------------------------------------- ________________ १३६ सुर अगुणोवि तित्थंकरोवि तिहुअण अतुल्लमल्लोवि गोवा हिं वि बहुसो कयत्थिओ तिजयपहु तंसित्थी || २ || गोवंभणभूणंतगावि केई इह दढपहाराई । बहुपावा वि य सिद्धा सिद्धा किर तंमि चैव भवे ॥ ३ ॥ तथोपदेशरत्नाकरेऽपि प्रोक्तम् त्ति | तथा केषां चिद्देशना पुनः प्रस्तावौचित्यादिसर्वगुणसुभगा परं केवलेनोत्सूत्रप्ररूपणदूषणेन कलिता, साऽपि पुरनिर्द्धमनतुल्या, अमेध्यलेशेन निर्मलजलमिवात्सूत्रले प्ररूपणेनापि सर्वेऽपि गुणा यतो दूषणतामिव भजन्ति, तस्य विषमविपाकत्वाद् । यदागम: - " दुब्भासिएण the " इत्यादि । तथा तत्रैव प्रदेशान्तरे प्रोक्तम् - " केचिद् गुरव आलंबनं विनैव सततं बहुतरप्रमाद सेवितया कुचारित्रिणः देशनायामष्यचातुर्यभूतश्च यथा तथाविधाः पार्श्वस्थादयः, यथा वा मरीचिः " कविला इत्यपि इहयंपि" इत्यादिदेशनाकृद् । देशनाचातुर्यं चोत्सूत्रप रोहारेण सम्यक् सभाप्रस्तावौचित्यादिगुणवत्त्वेन च ज्ञेयम्" इत्यादि । " धम्मोकि यत्तु कश्चिदाह - उत्सूत्रलेशवचनसामर्थ्यादेव प्रतीयते मरीचेर्यचनं न केवलमुत्सूत्रं किन्तूत्सूत्रमिश्रमिति । तन्न, एवं सति "जो चैव भावलेसो सो चेव भगवओ बहुमओ" ति पञ्चाशकवचनाद् य एव मावलेशो भगवहूहुमानरूपो द्रव्यस्तवाद् भवति स भगवतो मुख्यवृत्त्याऽनुमत इत्यर्थप्रतीतौ तत्र भावलेशस्याभावमिश्रितस्य भगवद्बहुमतत्वापत्तेः; तस्मालेशपदमपकर्षाभिधायकं न तु मिश्रितत्वाभिधायकमिति मन्तव्यम् । स्यादयमभिप्रायः - धर्मस्यापि शुभानुबन्धादिति आह सबलओ होइ " इत्यादिना शास्त्रे शबलत्वमुच्यते, शबलत्वं च मिश्रत्वमेव मरीचिवचनस्यापि कुदर्शनप्रवृत्त्या शुभानुबन्धान्मिश्रत्वमविरूद्धम्, कुदर्शनप्रवृत्तेरेव तस्य संसारवृद्धिहेतुत्वेनावश्यकचूर्णायुक्तत्वादिति । सोऽयं दुरभिप्रायः, यतः इत्थं सति फलत एवेदमुत्सूत्रं स्याद् न तु स्वरूपतः, उच्यते स्वरूपतोऽपीदमुत्सूत्रत्वादेव च संसारहेतुरिति १ यश्चैव भावलेशः स एव भगवतो बहुमत इति । २ मोऽपि शो भवति । Page #150 -------------------------------------------------------------------------- ________________ यक्तिश्चिदेतत् । अत एव श्राद्धप्रतिक्रमणसूत्रर्णावपि " पडिसिद्धाणं करणे" इति व्याख्याने विपरीतप्ररूपणा विविच्य तत्कृताशुभफलभागित्देन मरीचिरिच दृष्टान्ततयोपदर्शितः। तथाहि-"विवरीअपरूवणाए" त्ति च शब्दः पूर्वापेक्षया " विवरीअं वितहं उस्सुत्तं भण्णइ, परूवण्णा पत्रचणा देसनत्ति णे पजाया" विपरीता चासौ प्ररूपणा च विपरीतप्ररूपणा तस्यां सत्या प्रतिक्रमणं भवति सा चैवरूपा " सिवायमए समए परबगंतवायमहिगिश्च । उस्सग्ग-ववायाइसु कुग्गहरूवा मुणेयव्वा ॥१॥ पिंडं असोहयंतो अचरित्ती इत्थ संसओ णस्थि । चारित्तंमि असंते सव्वा दिक्खा निरस्थिया ॥२॥ एवं उस्सग्गमेव केवलं पण्णवेइ । अपवायं च चेइअपूआकजा जइणा विहु वयरसामिणव्य किल । अभियमुअमरीण व चीपासे विन हुदोसो ॥ ३॥" " लिंगावसेसमितेवि वंदणं साहुणा वि दायव्वं । मुक्कधुरा संपागडसेकी इच्चाइ वयणाओ॥" अहवा१ विपरीतं वितथं उत्सूत्रं भण्यते, प्ररुपणा प्रज्ञापना देशनेति एषां पर्यायाः । स्याद्वादमये समये प्ररूपणैकान्तवादमधिकृत्य । उत्सर्गापवादादिषु कुप्रहरूपा ज्ञातव्या ॥ १ ॥ पिण्डमशोधयन्नचारित्री अत्र संशयो नास्ति । चारित्रेऽसति सर्वा दीक्षा निरर्थका ॥ २ ॥ एवमुरतर्गमेव केवलं प्रज्ञापयति । अपवादं च चैत्यपूजाकार्यान् यतिनाऽपि खलु वनस्वामिनेव किल। अनिकसूतसूरिणेष चैत्यावासेऽपि नैव दोषः ॥ ३ ॥ लिजावशेषमात्रेऽपि चन्दनं साधुनाऽपि दातव्यम् । मुक्तधूः संप्रकटसेवी इत्यादि वचनात् ॥ अथवा Page #151 -------------------------------------------------------------------------- ________________ ११३८ ...: पासत्यो सन्न-हाछंदे कुसीले सबले तहा। दिट्ठीएवि इमे पंच गोयमा न निरिक्खए ॥ .. . जो जहावायं न कुणइ मिच्छदिट्ठी तओ हु को अभो। ___ . वड्डेइ य मिच्छत्तं परस्स संकं जणेमाणो ॥ इचाइ णिच्छयमेव पुरओ करेइ । किरियाकारणं न नाणं, नाणं वा न किरिया, कम्म पहाणं न ववसाओ वा कम्मं, एगनेण णिञ्चमणिचं वा दबमयं पञ्जायमयं सामनरूवं विसेसरूवं वा वत्थु पयासेइ, एवंविहा एगंतवायप्पहाणा परूवणा विवरीयपरूवणा भवंइ । अओ तेसिं पडिक्कमणंति चउत्थो हेऊ । इयमयुक्ततरा दुरन्तानन्तसंसारकारणम् । यदुक्तमागमे दुभासिएण इकेण मरीइ दुक्खसागरं पत्तो । भमिओ कोडाकोडी सागरसरिणामाधिजाणं ।। अत्र कश्चिदाह-नन्वत्र दुरन्तानन्तशब्दो दुःखलभ्यान्तत्वेनान्ताभावेन चासंख्यातानन्ताभिधायको विरुद्धार्थाविति कथमेतदुपपत्तिरिति सभ्रान्तः “वणस्सइ कायमइगओ उक्कोसं जीवो उ संवसे काल-। मणंतदुरंतं समय गोअम ! मा पमाएह ॥" पार्श्वस्थो सन-यथाछन्दाः कुशीलः शबलस्तथा । दृष्ट्याऽपि इमान् पञ्च गौतम ! न निरीक्षते ॥ यो यथावादं न करोति मिथ्यादृष्टिस्ततः खलु कोऽन्यः । वर्द्धयति च मिथ्यात्वं परस्य शङ्कां जनयन् ॥ इत्यादि निश्चयमेव पुरतः करोति । क्रियाकारणं न ज्ञानं, ज्ञानं वा न क्रिया, कर्म प्रधानं न व्यवसायो वा कर्म, एकान्तेन नित्यमनित्यं वा द्रव्यमयं पर्यायमयं सामान्यरूपं विशेषरूपं वा वस्तु प्रकाशयति, एवंविधा एकान्तवादप्रधाना प्ररूपणा विपरीतप्ररूपणा भवति । अतस्तेषां प्रतिक्रमणमिति चतुर्थो हेतुः । दुर्भाषितेनैकेन मरीचिर्दुःखसागरं प्राप्तः । म्रान्तः कोटाकोटी सागरसदृग्नामधेयानाम् ॥ घनस्पतिकायमतिगत उत्कृष्टं जीवस्तु संवसेत्कालम् । अनन्तं दुरेन्तं समयं गौतम मा प्रमाद्य ॥ Page #152 -------------------------------------------------------------------------- ________________ १३९ इत्यादावनन्तशब्दसमानाधिकरणस्य दुरन्तशब्दस्य दर्शनाद् दुरन्तानन्तवचनस्यातिशयितानन्तवाचकत्वेन विरोधाभावाद् । इत्थं सति विपरीतप्ररूपणाया दुरन्तानन्तसंसारकारणत्वे मरीचिदृष्टान्तो-पन्यासस्य साक्षात्तस्यासंख्यातभववाचकप्रमाणविरोधेनानुपपत्तिस्तु तस्या दुरन्तानन्तसंसारकारणत्वोपलक्षितायुक्त तरत्वोपनयनाभिप्रायेण निरसनीया । यतु श्रावकस्य बिपरीतप्ररूपणाया अग्र प्रकृतत्वात्तस्य चानाभो-गाद् गुरुनियोगाद्वा तत्संभवात्तथाषिषष्टिपरिणामाभावान्नासावन-न्तसंसारहेतुः, अत एव श्रावकप्रतिक्रमणसूत्रस्य पृत्तौ केवलं दुरन्त-शब्दस्यैषामिवानम् । या च विपरीतप्ररूपणा मार्गपतितानामनन्त-संसारहेतुः सा सभाप्रबन्धेन धर्मदेशनाधिकारिणां त्वेन लोकपूज्यानामाचार्यादीनां कुतश्चिनिमित्तान्निजलादिहानिभयेन, सावधाचार्यादीनामिव परविषयक मात्सर्येण, गोष्टामाहिलादीनामिव तीर्थकृ-द्वचनस्याश्रद्धाने, जमाख्यादीनामिषा भोगपूर्विकासातव्या । ते चेहाविकाराभावेनानुक्ता अत्यनन्तसंसारित्वेन स्वत एव भाव्या । येन कारणेन कस्यचिदना भोगमूलकमप्युत्सूत्रं कुदर्शनप्रवृतिहेतुत्वेन दीर्घसंसारहेतुरपि भवति, तेन दुरन्तसंसारमधिकृत्य मरीचिरिव दृष्टान्ततया दर्शितः । तस्य च तथाभूतमप्युत्सूत्रं तथैव संजातम्, श्रीआयश्यकचूर्णावपि तथैवोक्तत्वात्; अन्यथा द्विश्रादिभवभाषिमुक्तीनामपि सुनिप्रभृतीनामनन्त संसारित्यवक्तव्यताऽऽपसी जैनप्रक्रियाया मूलत एवोच्छेदः स्यादित्यादि परेणोक्तं तदसत् । श्रावकस्यापि " जणस्स धम्मं परिकहेइ "ति वचनाद् गुरूपदेशात्ततया धर्मकथनाधिकारित्वश्रवणात्कर्मपरिणतिवैचित्र्येण तस्यापि गुरूपदेशायत्ततां परित्यज्य कथंचित्सावद्याचार्यादीनामिव विपरीतप्ररूपणासंभवात् तस्याश्च स्वरूपतोऽनन्त संसारकारणत्वात् तत्प्रतिक्रमणार्थमिहेत्थमुपनिबन्धाद् । न चान्यत्र दुरन्ताभिधानमनन्तत्वप्रतिक्षेपकम्, दुरन्तत्वस्यानन्तत्वाविरोधित्वाद् । अनन्तसंसाराधिकाराभावादिह दृष्टान्तानु किरिति तु प्रकृतग्रन्थस्य खण्डनं न तु मण्डनम् । सा चायुक्ततरा, 'दुरन्ता१ जनस्य धर्मे परिकथयति । Page #153 -------------------------------------------------------------------------- ________________ नन्तसंसारहेतुः' इत्यवस्थितपाळल्यागेनैव सदृष्टान्नाध्याहारसंभवात् तस्मादूक्तोपलक्षणव्याख्यानरीत्यैव प्रकृतोपनयसमर्थनं न्याय्यम् । ईरशोत्सूत्रवचने स्वरूपतोऽनन्तासंसारहेतुत्ववचने चरमशरीरिक्रियमापारम्मेऽपि स्वरूपतो नरकहेतुत्ववचनवत् प्रक्रिया विरोधादिति सम्यब्रिभावीयम् । इत्थं च "आयरिअपरंपरएण आगयं जो उ आणुपुबीए । . कोइ छोयवाई जमालिणास व पासीहि ॥” " आचार्याः श्रीसुधर्मस्वामि-जंबूनाम-प्रभवार्यरक्षितावास्तेषां परम्परा-प्रणालिका पारम्पर्य तेनागतं यद-याख्यानं सूत्राभिप्रायस्तद्यथा-व्यवहारनयाभिप्रायेण क्रियमाणमपि कृतं भवति । यस्तु कुतर्कदध्मातमनसा मिथ्यात्वोपहतदृष्टितया छेकबुद्धया-निपुणवुद्ध्या 'कु. शाग्रीयशेमुषीकोऽहम् ' इति कृत्वा कोपयति दूषयति-अन्यथा तमर्थ सर्वज्ञप्रणीतमपि व्याचष्टे ‘कृतम्' इत्येवं याद्-वक्ति वचनम् । नाहि मृत्पिण्डक्रियाकाल एव घटो निष्पद्यते, कर्मगुणव्यपदेशानामनुपलब्धेः, स एवं छेकवादी-'निपुणोऽहम्' इत्येवंवादी पण्डिताभिमानी जमालिनाशं-जमालिनिह्नववत्सर्वज्ञमतविगोपको विनङ्खयति-अरघट्टघटीय'नन्यायेन संसारचक्रवालं बंभ्रमिष्यति" इत्यादि सूत्रकृताइयथातभ्याध्ययननियुक्तिवृत्तिवचनमात्रमवलम्ब्य ये जमालेररघघटीयन्त्रन्यायेन संसारचक्रवालभ्रमणे साध्ये दृष्टान्ततयोपदर्शितत्वाद दृष्टान्तस्य च निश्चितसाध्यधर्मवत्त्वात् तस्यानन्तसंसारित्वसिद्धिरिति यदन्ति ते पर्यनुयोज्याः । नन्वयमपि दृष्टान्तः प्रागुक्तमरीचिदृष्टान्तबदुपलक्षणपर एवेत्यरघघटीयन्त्रन्यायोपलक्षितसंसारचक्रवालपरिभ्रमणसाध्येनायुक्त इति कथमस्माद्भवताभिष्टसिद्धिः ? अन्यथाऽरघघटीयन्त्रन्यायोऽत्र प्रकरणमहिम्ना पुन: पुनश्चतुर्गतिभ्रमणपर्यवसित इति चतुर्गतिभ्रमणमपि जमालेरनेन न्यायेन सिध्येत् । यत्तु यस्यैकेन्द्रियादिषु पुनः पुनरुत्पादे द्राधीयसी संसारस्थितिस्तमुद्दिश्यैवायं न्यायः प्रवर्तते आचार्यपारम्पर्येणागतं यस्तु आनुपूर्व्या । कोपयति च्छेकवादी जमालिनाशामिव नश्यति । Page #154 -------------------------------------------------------------------------- ________________ एव पुण एवं खलु अभाणपमायदोसओ णेयें। जं दीहकालठिई भणिआ एगिदियाईण ॥"-ति उपदेशपदे व्याख्यायां एकेन्द्रियादिषु दूरमनुजस्वलक्षणास्वरघट्टघटीयन्त्रन्यायक्रमणे पुनः पुनरावर्तते । तदपि कुतः सिद्धम् ? इत्याह यद् यस्मात्कारणाद्राधीयसी कायस्थितिः पुनः पुन त्या लव काये उत्पादलक्षणा भणिता प्रतिपादिता सिद्धान्ले एकेन्द्रियादीनां जातीनामिति ॥ तत एकेन्द्रियादिजास्याश्रितस्यैवारयघटीयन्त्रन्यायस्यायणान्न दृष्टान्तदाष्टन्तिकोषम्यमिति । तदसत् । तत्र मनुजत्वगतिदौर्लभ्याधिकारादरघघटीयन्त्रन्यायसामान्यस्यैकेन्द्रियादिजातिमात्रैण विशेषविवक्षायामप्यत्र सर्वज्ञमतविकोपकस्य चतुरशितिलक्षजीवयोनिसंकुल संसारपरिभ्रमणाधिकारास्पुनः पुनर्गतिचतुष्टयभ्रमणाश्रितस्यैव विवक्षितत्वाद् । अत एव श्रुतविराधनातश्चातुर्गतिसंसारपरिभ्रमणं भवतीति स्फुटमेवान्यनाभिहितम् , जमालिदृष्टान्तश्च तत्रोपन्यस्त इति । लथाहि "इचेयं दुवालसंग गणिपिडगं तीते काले अणंता जीवा आणाए विराहेत्ता चातुरंतसंसारकतारं अयुपरिअर्टिसु १। इच्चेयं दुकालसंगं गणिपिड़गं पडुप्पने काले परिता जीवा आणाए विराहिता चातुरंतसंसारकतारं अणुपरिअति २। इले दुवालसंग गणिपिष्डगं अणाराए काले अणंता जीवा आमाए विराहिता बाजरंससंसारकतारं अनुपरिअष्टि (हि तित्ति" नन्दिसूत्रे ।। एतत्तिर्मलयपिरिकृता, यथा-इशेयमित्यादि हस्येलद्धादशाङ्गं गणिपिटकमतीतकालेऽनन्ता जीका आज्ञाया प्रथोक्तपारितालनासावेन विराध्य चातुरन्त१ एतत्पुमरेवं खलु अमानप्रमावदोक्लो शेयम् । यदीर्घकालस्थितिमणिता सकेन्द्रियादीनाम् ॥ इति २ इत्येवं बावशाङ्गं गणिपिटकमतीते काले अनन्ता जीवा आझाया घिराध्य चातुरन्तसंसारकान्तारमनुपर्यटनू १ । इत्येवं द्वादशाङ्गं गणिपिटकं प्रत्युत्पले काले परित्ता जोबा आज्ञाया विराभ्य चातुरन्तसंसारकान्तारमनुपर्यटन्ति २ । इत्येवं बादशाङ्गं गणिपिस्कमनामते काले अनन्तम बीमा ओशाया विनय बास्त्रसंसारकान्सारमनुपर्थविष्यतीति । Page #155 -------------------------------------------------------------------------- ________________ १४२ संसारकान्तारं विविधशारीरमानसानेकदु 'खविटपिशतसहखदुस्तरं भवगहनं अणुपरिअहिंसुति अनुपरावृत्तवन्त आसन् । इह द्वादशाङ्गं सूत्रार्थोभयभेदेन त्रिविधं, द्वादशाङ्गमेवाज्ञा आज्ञाप्यते जन्तुगणो हितप्रवृत्तौ यया साऽऽज्ञेति व्युत्पत्तेः, ततः मा त्रिधा, तद्यथा- सूत्राज्ञा अर्थाज्ञा तदुभयाज्ञा । संप्रत्यगृषामाज्ञान्तं विराधनाश्चिन्त्यते - यदाऽभिनिवेशतोऽन्यथा सूत्रं पठति तदा सूत्राज्ञाविराधना । सा च यथा जमालिप्रभृतिना यदाऽभिनिवेशवशतोऽन्यथा द्वादशाङ्गार्थं रूपयति तदाज्ञाविराधना सा च गोष्ठामा हिलादीनामिवावसातम्या । यदा पुनरभिनिवेशवशतः श्रद्धाविहीनतया हास्यादितो वा द्वादशाङ्गस्य सूत्रमर्थं च विकुट्टयति तदोभयाज्ञाविराधनाः सा च दीर्घसंसारिणामभव्या दी) नामनेकधा विज्ञेयेति । तथाऽभिनिवेशतोऽन्यथा पाठादिलक्षणया विराधनया विराध्यातीते कालेऽनन्ता जीवाचातुरन्त संसारं नारक तिर्यग्ग्ररामर विविधवृक्षजालदुस्तरं भवावटी गहन गित्यर्थ अनुप रानृतवन्त असन् जमालिवद् | अर्थाज्ञायाः पुनरभिनिवेशतोऽन्यमपणादिलक्षणया विराधनया गोष्टामाहिलवदिति तु हारिभवामेतद्ताकमिति ॥ तस्मादुपलक्षणव्याख्यान एव यथोक्तदृष्टान्तोपपतिरिति सातंव्यम् । 99 यतु आशातनाबहुलानां नियमेनानन्तसंसारी भवनीति ज्ञापना मेवेदं जमालिदृष्टान्तोपदर्शनं, चातुरन्तशब्दस्तु संसारविशेषणत्वेन संसारस्वरूपाभिधाय को न पुनः सर्वेषामप्याशातनाकारिणां गतिचतुष्टयाभिधायकः; नहि गतिचतुष्टयगमनमेवानन्त संसारित्याभिव्यञ्जकं, अन्वयव्यतिरेकाभ्यां व्यभिचारात्, तस्माद् गत्यादीनां प्रति प्राणिनं भिन्नत्वान्न तौल्यमिति परेणात्र समाधानं क्रियते, तदसंबद्धवाग्वादमात्रम् । चतुरन्तशब्दार्थस्य संसारविशेषणत्वे चतुरतसंसारपरिभ्रमणस्य विशिष्टसाध्यस्य पर्यवसानात् चतुरन्तान्वितसंसारस्य भ्रमणेऽन्ययात् तथा च दृष्टान्ते जमालौ साध्यवैकल्पदोषानुद्वात् । नहि विशिष्टे साध्ये विशेष्यांशसद्भावमात्रेण दृष्टान्ते साध्यवैकल्यदोष उद्धर्तुं शक्यते । अनभिज्ञस्यार्हचैत्यानगारशब्दाभ्यामेकस्यैवार्थस्य योधनमित्यभ्युपगमे च प्रेक्षावतामुपहासपात्रत्वापत्तिः । गत्यादीनां च यथा प्रति प्राणिनं भिन्नत्वं तथा संसारस्याप्यध्यवसायविशेषाद् भिन्नत्वं किं नेष्यते ? “ उम्मगमग्गसंपट्ठियाणं" इत्यादिनोत्सूत्र भाषिणां नियमादनन्त ससारसिद्धौ च Page #156 -------------------------------------------------------------------------- ________________ सीअलविहारओ खलु भगवंतासापणाणिआगेण । .. . ' तत्तो भवो अणतो किलेस बहुलो जओ भणि ॥ "तित्थयरपत्यगलुअं" इत्याशुपदेशपदवचनाच्छीतलविहारिणां पावस्थादीनां नियमादनन्तसंसारापत्तिरिष्यते च, तत्र परिणामभेदादेद इत्यमायध्यवसायप्रत्ययः संसारविशेषो महानिशीथोक्तरीत्या अद्धयः । किंव-अरवघटीयन्त्रन्यायेन यत्र संसारपरिभ्रमणप्रदर्शनं तत्र नियनादनन्तसंसार इत्यभ्युपगमे उत्सूत्रभाषिणामिव कामासस्तानामपि नियनतोऽनन्तसंसाराभ्युपगमप्रसङ्गः, तेषामपि संसारभ्रमणे तन्न्यायप्रदर्शनात् । तदुक्तमाचाराङ्गशीतोष्णीयाध्ययनवृत्ती-" संचिचमाणा पुरिति गम्भ" इत्यवयवव्याख्याने "तेन-कामोपादानजनितेन कर्मणा संसिच्यमाना आपूर्वमाणा गर्भावभीन्तरमुपयान्ति-संसारचक्रवालेऽरघट्टघटीयन्वन्यायेन पर्यटन्त आसते" इत्युक्तं भवतीति एवमनेकेषु प्रदेशेष्विस्थमभिधानमन्तीति न किंचिदेतत् । ___ यच्च " जैनाली में भंते देवताओ देवलोगाओ आउक्खएणं जाव कहिं उववज्जिहि ? गोषमा ! जसारि पंच तिरिक्खजोणिय-मणुअ-देवभवगहणाई संसार अणुपरिभहिता तओ पच्छा सिज्झिहिति । " " इत्यत्र चत्वारो द्वीन्द्रियादयः पञ्च चैकेन्द्रियाः पृथिव्यादयस्ते च ते तिर्यग्योनिकाश्च तेषु देवमनुष्येषु भवग्रहणानि भ्रान्त्या” इति व्याख्यानादत्र च तीर्थकराशातनाकृतोऽधिकृतत्वाद् भवानन्त्यलक्षणबहुत्वस्य स्पष्टत्वाद् भगवत्यपेक्षथैव जमालेरनन्तभवसिद्धिरिति परस्य मतं तदपूर्वबुद्धिपाटवमूलम् , । एतादृशस्य गम्भीरार्थत्य वृत्तिकृताऽस्पष्टीकृतस्य स्वयमेव स्पष्टीकरणात् कथं चायं तपखी नाकलयत्येतावदपि यदम् चतुःपञ्चशब्दो भवग्रहणसमानाधिकरणोभिजविभक्त्यन्तौ व्यस्तो. समासान्तःपतिततिर्यग्योनिकशब्दस्य विशेषणतामापद्यते इति । न चेमौ न विभक्त्यन्ताविति शीतलविहारतः खलु भगवदाशातनानियोगेन । ततो भोऽनन्तः क्लेशबहुलो यतो भणितम् ॥ तीर्थकरप्रवचनश्रुतं x x x x॥ २ जमाली भगवन् ! देवताया देवलोकादायुःक्षयेण यावत्स्य उत्पत्स्यते ? गौतम ! चत्वारि पञ्च तिर्थग्यानिक मनुज देवभवग्रहणानि संसारमनुपर्यट्य ततः पश्चात्सेत्स्यतीति ॥ Page #157 -------------------------------------------------------------------------- ________________ घाच्यम् , विभक्त्यन्तमन्तरेण शसन्तचतुःशब्दनिष्पन्नस्य 'चज्ञारि" इति शब्दस्य सर्वथाऽसिद्धेः । नाण्यत्रालुप्समोसोऽस्तीति, एतेन चतसृषु पञ्चसु च जातिषु तिर्यग्मनुजदेवभवग्रहणानीति भणनादनन्तभवसिद्धिरित्यप्यपास्तम् , 'चत्तारि' इत्पत्र द्वितीयायहुवचने सप्तमीषावचनार्थस्वस्य पश्च' इत्यमन्तरसप्तमीयहुवचनलोपस्य समुच्चयार्थकचकाराध्याहारस्य च प्रसङ्गात् । किञ्च-चतुःपञ्चशब्दयोः संख्यायाचकयोंय॑क्तिवचनत्वेन कुतस्ताभ्यां जातिरुपस्थितिरिति विभावनीयम् । यदि च जमालेग्नन्तः संसारः सूत्रे वक्तव्योऽभविष्यत् तदा 'तिरिय-मणुस्सदेवेसु अणंताई भवग्गहणाई संसारमणुपरिअट्टित्ता तओ पच्छी सिज्झिस्सइ' इत्यादि । अथवा "जहा मोसाले मंसलिपुत्ते तहेव रइअवजं संसारमणुपरिअहिता तओ पच्छा सिज्झिस्सइ” इत्यादि मणनीयमभयिष्यत् । अन्यथा नवसु जातिषु भवग्रहणेन भ्रमणादपि कुत आलन्त्यलाभःमयभिरपि चारेः तत्पूर्तिसंभवात् , प्रतिव्यक्तिभ्रमणं नाक्षरबलाल्लभ्यते बाधितं च । सर्वतिर्यग्देवमनुजेषु स्वेच्छांमात्रेण नियतानन्ततियेग्योनिकभवग्रहणाश्रयणे च किं सूत्रावलम्बनव्यपदेशेन ? स्वकल्पनाया महत्स्वाध्यारोपस्य महदाशातनारूपत्वात् । एतेन " च्युत्वा ततः पञ्चकृत्वो भ्रान्त्वा तिर्यग्नुनाकिषु । अवाप्तबोधिर्निर्वाणं जमालिः समवाप्स्यति ॥"इति हैमवीरचरित्रीयश्लोके पश्चकृत्वशब्दः पञ्चवाराभिधायकः, स च तियक्शब्देन योजित सन् जमालिस्तिर्यग्योनौ पञ्चवारान् यास्यसीत्यर्थाभिधायकः संपला, तथा चे तियग्योनी वारपूर्तिमनुजादि गत्यन्तरभवान्तरप्राप्तिमन्तरेण न भवति, सा च प्राप्तिराशातनाबहुलस्य जमालेरनन्तकालान्तरितय स्थाद , एवं पञ्चवारगमनेऽनन्तभवग्रहणमनन्तगुणमपि संभवति । मनुजगतिवारपूर्तिस्तूंत्कर्षतोऽपि सप्ताष्टमवैरैव स्याद् । देवनारकयोस्त्वनन्तरं पुनरुत्पादाभावेनैव भवेन धार १ तिर्यग्मनुष्यदेवेषु अनन्तानि भवग्रहणानि संसारमनुपर्थव्य ततः पश्चात्सेत्स्यति ॥ २: यथा गोशालो. मंशालिवस्तष नैरविकवर्जः संस्मरमपर्यट्य सतः पश्चात्सेत्स्यति ॥ Page #158 -------------------------------------------------------------------------- ________________ १४५ पश्च " पूर्तिः स्याद् इत्यादि कापि परकल्पना दूरमपास्ता वेदितव्या । कृत्वः' इत्यस्य तिर्यक्शब्देनैव योजनाया असंभवात्, द्वन्द्वसमासमर्यादया प्रत्येकमेव तदन्वयाद् भवग्रहणव्यक्त्यपेक्षस्यं पञ्चवारत्वस्यानरन्तवारग्रहणेषु जात्यपेक्षसंकोचन समर्थयितुमशक्यत्वात् तादृशशाविनाऽनुपपत्तेः । नह्येकत्रानन्तवार भवग्रहणाभ्युपगमेऽप्येकवारणमेव वक्तुं युक्तम्, स्थानभेदेन तत्स्थानावच्छिन्नाधिकृनक्रियाजन्यव्यापारोपहित काललक्षणवार भेदाद् ; विजातीयस्थानगमनान्तरिततज्जातीयस्थानावच्छिन्नभ्रमणक्रियाजन्यभवग्रहणव्यापारोप हितो यावान् कालस्तावत एकवारत्वाभ्युपगमे च “तिर्यक्ष्वनन्तवारं भ्रान्तः” इति वदन एव व्याघातः । किंच एवं “ बहवो जीवा नित्य निगादेष्वनन्तवारं जन्ममरणानि कुर्वन्ति ” इत्याद्यखिलप्रबचनविलोपप्रसङ्ग इति न किंचिदेतत् । किंच- ' च्युत्वा ततः पञ्चकृत्वः' इत्यादिश्लोकैकवाक्यतया हि ' चत्तारि पंच' इत्यादिभगवती सूत्रं त्वया व्याख्यातुमिष्टम्, तथा च तत्र विजातीयभवान्तरिततया तिर्यक्षु पञ्चवारमेवानन्तभवग्रहणसि द्विरिति सर्वेषामपि प्रत्यनीकामीदृशमेव संसारपरिभ्रमणं सिध्येत् नत्वनन्तान्यान्यभवान्तरित भवबहुलम् ; यतो “ देवकिब्बिसिया णं ते ताओ देवलांगाओ आउक्खणं भवक्खएणं ठिइक्खएणं अनंतरं चयं चत्ता कहिं गच्छिति ? कहिं उववज्जिति । गोयमा ! जाव चत्तारि पंच णेरइय-तिरिक्खजो - णिय- मणुस्स- देवभवग्गहणाई संसारं अणुपरिअट्टित्ता तओ पच्छा सिज्झंति, जाव अंत करंति" त्ति त्वया सामान्यसूत्रमङ्गीक्रियते ततश्चोक्तस्य 'चत्तारि पंच' इत्यादिविशेषसूत्रस्य नारकगतिप्रतिषेधमात्रेणैव विशेषोऽभ्युपगम्यते नत्वधिकः कश्चिदपीति । . अथास्त्वन्यत्रं यथा तथा भगवत्यपेक्षया तु जमालेरनन्ता एव भवा लभ्यन्ते, यतो यावच्छन्दः सामान्यसूत्रेऽस्ति, तस्य च प्रयोगः १ देवकिल्बिषकास्ते तस्माद्देवलोकादायुःक्षयेण भवक्षयेण स्थितिक्षयेण अनन्तरं त्रयं च्युत्वा व गमिष्यति ? क्व उत्पत्स्यते ? गौतम् ! यावच्चत्वारि पञ्च नैरयिकतिर्यग्योनिक- मनुष्य देवभवग्रहणानि संसारमनुपर्यस्य ततः पश्चात्सेत्स्यति यावदन्तं करिष्यतीति । Page #159 -------------------------------------------------------------------------- ________________ १४६ कचिद्विशेष्यत्वेन कचिच्च विशेषण त्वेन स्यात् , तत्र विशेष्यत्वेन प्रयुकतो यावच्छब्द उक्तगणसंबन्धिभ्यामाधन्तपदाभ्यां विशिष्टः सन्नेव गणमध्यवर्तिनां पदार्थानां संग्राहको भवति । यथां-जमाली णं अणगारे आरसाहारे विरमाहारे अन्ताहार पंताहारे लूहाहार तुच्छाहारे अरसजीवी विरसजोत्री जाव तुच्छजीवी उवसंतजीवी पसंतजीवी विचित्तजीवी? हता." इत्यादि. सामान्य सूत्रोक्तस्य गणत्याद्यन्त शब्दाभ्यां विशिष्टो 'गोअमा! जम:लोणं अगगारे आसाहारे जाव विचित्तजीवीति मत्रोक्तवाक्यगतो यावच्छ इस्तस्य च समादित्वेन बुद्धिस्थवाचकत्वान्मध्यवर्तिनामी पहाथीनां नानारूपाणां नानासंख्याकानां संग्राहकत्वम् , एवमाद्यन्त. शम्मपोराप गणानुरोधेन भिन्नत्वमेव बोध्यं न पुनर्यावच्छन्दोऽपि घटपटादितन्नियतपदार्थवाचक इति । विशेषणभूतस्तु यावच्छन्द उक्तपदवाच्यानामर्थानां देशकालादिनियामको भवति । तत्र देशनियाम. कत्वं-याव पञ्चविंशनियोजनानि पतनं तावद्गन्तव्यमित्यादौ । कालनियामकत्वं च-" जाव णं से जीव सया समिअं तं तं भावं परिणमइ ताव च णं से जीव आरमइ सार नइ समारमा" इत्यादी प्रसिद्धम् । विशेषणाव. विशेष्यत्वस्वरूपविकलस्तु यावच्छब्दो डित्थडवित्यादिवदर्थशून्य एव स्थात् ; नदिह यावच्छन्दो नानथको नवा विशेष्यभूतः, आद्यन्तशदा. भगमांवशिष्टत्वाद; विशेष्यभूनस्य च तस्य त्याभ्यां विशिष्टस्यैव प्रयोगात् किन्तु विशेषणभूतः; 'प्राक् पतितं विशेषणम्' इति वचनात् स चात्राधिकारात्कालनियामक इति । यावत्कालं चतुःपंचसूत्रे स स्थावरजातिषु नारकातयग्योनिकमनुजदेवानां भवग्रह गानि यत्तदोर्नि: त्याभिसंबंधात् तावत्कालं संसारमनुपरावृत्त्य ततः पश्चात्सेत्स्यन्ति, यावत्सबंदुःवानामन्नः करिष्यन्तोति सामान्य नूत्रार्थः पर्यवस्यति । एवं सामान्य सूत्रोक्तानुसारेण विशेषसूत्रेऽपि कालनियमार्थं तावच्छब्दबद् यावच्छब्दोऽप्यध्याहारार्थः, नावदन्तरेण वाक्यद्वयानुपपत्त्या २ जमालेरनारमाहाग विरसाहारा अन्ताहारः प्रान्ताहारो रूक्षाहारस्तु. च्छाहारोऽरसजावा विरसजिवी यावतुच्छजिवा उपशान्ताजवा प्रशान्तजिव विचित्रजिवा, आमिति । १ यावत्त जोव सदा समितं तं तं भावं परिणम ते, तावश्च स जॉब आरभने समारभो। Page #160 -------------------------------------------------------------------------- ________________ · १४७ कालनियमानुपपत्तिरिति व्यक्तैव सामान्यसूत्रादिष विशेषसूत्रादप्यनन्तभवसिद्धिरिति-चेत् , तदिदमसिद्धमसिद्धेन साधयतो महातार्कि कत्वमायुष्मतः। यतो 'जाव चत्तारि' इत्यादावपि शमन्तचतुःपञ्चपदसमानाधिकरणभवग्रहणपदेोत्तरद्वितीयाविभक्तरेव "कालाध्वनोळप्तौ" [सिद्ध ०.२-२-४२] इत्यनुशासनात्कालनियमसिद्धौ न पुनस्तदभिधानाय यावच्छब्दप्रयोगः, अर्थपुनरुक्ततयोः प्रसङ्गात् , तस्मात्तदनुरोधेन तावच्छब्दस्य विशेषसूत्रे यावत्तावच्छब्दयोश्चाध्याहारकल्पनाऽतिजघन्यैवेति। नन्वेवं " स्थितेर्गतिश्चिन्तनीया” इति यावच्छन्दस्य सूत्रस्थस्य कोऽर्थः ? इति चेत् , ततो देवलोकादायुःक्षयादिनां च्युत्वेति पूर्वप्रकान्तपदसमुदायार्थ एवेत्यवेहि । अथैवं गणसंबन्ध्याद्यन्तपदबिशिष्टस्यैव यावच्छब्दस्य पूर्वप्रक्रान्तगणवाक्यार्थवाचकत्वमिति व्युत्पत्तिभङ्ग इति चेत्, न । तादृशनियमे प्रमाणाभावात् , पूर्वप्रकान्तवाक्यार्थवाचकत्वे यावच्छब्दस्य खसंबन्धिपदोपसंदानमात्रस्य ग्राहकत्वेनापेक्षितत्वाद् । अत एव कचिद्गणसंबन्ध्याद्यन्तपदविशिष्टादिव कचिदन्त्यपदविशिष्टादपि यावच्छब्दात्तदुपस्थितिः। तथाहि एगंतपंडिए णं मणुस्से किं णेरइआउं पकरेइ ४ ? पुच्छा । गोअमा ! एगंतपडिए णं मणुस्से आउअं सिअ पकरेइ, सिअ णो पकरेइ । जइ पकरेइ णो णेरइआउअं पकरेइ, णो तिरिणो मणु (स्से ), देवाउअं पकरेइ । णो णेरइआउथं किच्चा रइएसु उववजइ णो तिरिणो मणुस्से, देवाउअं किच्चा देवेसु उववजइ । से केणटेणं जाव देवाउअं किच्चा देवेसु उववजइ ? । गोअमा। एगंतपंडिअस्स णं मणुस्सस्स केवलमेव दो गतीओ पण्णत्ताओ, अंतकिरिया चेव कप्योववत्तिया चेव, से तेणद्वेणं गोअमा ! जाव देवाउअं किच्चा देवेसु. उववजइत्ति ॥" अत्र हि यावच्छब्दस्य न गणसंबन्ध्याद्यन्त्यपदविशिष्टतथैव पूर्व प्रक्रान्तवाक्यार्थवाचकत्वं किन्तु खसंबन्ध्यन्त्यपदोपसंदानादेव, तद्वदिहापि चत्वारि पंचेत्यादिस्वसंवन्धिपदोपसंदानाद् यांवच्छन्दस्य पूर्वप्रक्रान्तवाक्यार्थवाचकत्वे न किंचिद् बाधकमिति युक्तं पश्यामः । Page #161 -------------------------------------------------------------------------- ________________ १४८ किंच-सूत्रे द्योतकरचनारूपमति यावत्पदं दृश्यते । यथा स्कन्दकाधिकारे-" भावओ णं सिद्धे अणंता नाणपजवा अणंता दंसणपजवा जाव अणंता अगुरुअलहुअपज्जवा०” इत्यत्र नह्यत्र गणमध्यस्थस्यान्यस्यार्थपरामर्शी यावच्छब्देन कर्तुं शक्यते, यतो स गणस्तावदित्थमुपदर्शितः " भावओ णं जीवे अणंता नाणपजवा अणंता दंसणपजवा अणंता चरित्तपजवा अणंता गरुअलहुअपञ्जवा अणंता अगरुअलहुअपज्जव त्ति”। तत्र ज्ञानदर्शनपर्यायाः सिद्धस्य साक्षादेवोक्ताः, चारित्रपर्यायाश्च तस्य न संभवन्ति " णो परभविए चरिते" इत्यत्र सिद्धानां चारित्रस्य व्यक्तमेव निषिद्धत्वाद् । गुरुलघुपर्यायाश्चौदारिकशरीराण्याश्रित्य व्याख्याता इति तेऽपि सिद्धस्य न संभवन्ति । अगुरुलघुपर्यायाश्च कार्मणादिद्रव्याणि जीवखरूपं चाश्रित्य व्याख्याताः, तत्र कार्मणादिद्रव्याश्रितास्ते सिद्धस्य न संभवन्ति, जीवस्वरूपं त्वाश्रित्य सर्वांशशद्धास्ते संभवन्ति परं तेऽपि साक्षाच्छब्देनोक्ता इति यावच्छब्दवाच्यं नावशिष्यते इति ततो यथा तत्र वाक्यार्थद्योतक एव यावच्छब्दस्तद्वदिहापि स्यादिति किमनुपपन्नमिति निपुणधिया निभालनीयं प्रेक्षावद्भिः। किं च-'जाव चत्तारि पंच' इत्यादिसूत्रमपि नरकोपपातातिरिक्तविशेषाभावमादाय परिमितभवजनालिजातीयदेवकिल्बिषिकविषयं जमालिसादृश्यप्रदर्शनायोपन्यस्तं न तु देवकिल्बिषिकसामान्यविषयमिति संभाव्यते, अन्यथा “ अत्थेगइआ अणादीयं अणवदग्गं दीहमद्धं चाउरंतं संसारकतारं अणुपरिअति" इत्यग्रिमसूत्राभिधानानुपपत्तेः, ततो 'अत्थेगइआ' इत्यादिकमपरिमितभवाभिधायकं 'जा चत्तारि' इत्यादिकं च परिमितभवाभिधायकमिति युक्तम् , भवति हि सामान्याभिधानस्याप्येकविशेषप्रदर्शने तदितरविशेषपरत्वम्। यथा 'ब्राह्मणा भोजयितव्याः' इति वचनस्य कौण्डिन्येतरबाह्मणभोजनविधिपरत्वमिति। यत्तु 'अत्थेगइआ' इत्यादिसूत्रमभव्यविशेषमधिकृत्यावसातव्यं, तयञ्जकं तु अन्ते निर्वाणाभणनमेवेति परेणोच्यते । तदसत् , अन्ते निवोणाभणनादीदृशसूत्राणामभव्यविशेषविषयत्वे-" असंबुज्झे णं अणगारे आउअवज्जाओ सत्तकम्मपगडीओ सिढिलबंधणबद्धाओ घणियबंधणबद्धाओ पकरेइ, हस्तकालठितिआओ दीहकालठितिआओ. पकरेइ, मंदाणुभागाओ तिव्वा Page #162 -------------------------------------------------------------------------- ________________ १४९ भागाओ करे, (बहुपदेसगाओ) अप्पपदेसगाओ पकरेइ । जाउयं च णं कम्मं eिr बंध, सिअ णो बंधइ, असायावेअणिज्जं च णं कम्मं भुज्जो भुज्जो उवचिइ, अणाइयं च णं अणवदग्गं दीहमद्धं चाउरंत संसारकंतारमणुपरिअट्टइ । कोह - सट्टे णं भंते जीवे किं बंधइ ? किं पकरेइ ? किं चिणइ ? किं उवचिणइ ? संखा । हवसट्टे णं जीवे आउअवज्जाओ सत्तकम्मपगडीओ सिढिलबंधणबद्धाओ, एवं जहा पढमस्स णं असंबुड्डस्स अणगारस्स जाव अणु परिअट्टइ | माणवसट्टे णं जीवे एवं चेव, एवं मायावसट्टेवि, एवं लोभवसट्टेवि, जाव अणुपरिअट्टह" इत्यादिसुत्राणामपि तथात्वापदेरिति । ननु यद्येवं 'चत्तारि पंच' इत्यादिसूत्रे जमालेनीनन्तभवविषयता तदा निर्विषयता स्यात्, चतुःपञ्चशब्देभ्योऽत्रैकार्थानभिधानादिति चेद्, । न, " सिअ भंते ! जाव चत्तारि पंच पुढवीकाइआ एगतओ साहारण - सरीरं बंधंति, एगतओ पच्छाहारेति परिणामंति वा सरीरं बंधंति ? णो इण . समट्ठे । इसिअ भंते चत्तारि पंच आ उक्काइआ एवं सिअ भंते जाव चत्तारि पंच काइआ " इत्यादिषु सूत्रेषु भगवत्यां " जया णं भंते ! तेसिं देवाणं इंदे चमर से कहमिआणि पकारे ? गोयमा ! जावचत्तारि पंच सामाणिआ तं ठाणं उवसंपज्जित्ता णं विहरंति" इत्यादिजीवाभिगमसूत्रे ऽन्येषु च बहुषु स्थानेषु तयोः 'सत्तट्ठ भवग्गहणाई सत्तट्ठपयाई” इत्यत्र सप्ताष्टपदयोरिव संकेतविशेषादेकसंख्यावाचकत्वसिद्धेः । 'पंच तिरिक्खजोणिय - मणुस्स - देवभवरगहणाई ' इत्यादिकोऽप्यादर्शान्तरे पाठोऽस्ति, तत्र च शङ्कालेशस्याप्यभाव एव । 44 नन्वेवमपि ' पञ्चशब्दो गतिश्रयानुरोधेन त्रिगुणितः किं पञ्चदशतयाऽभिधायकः ? उत तिर्यग्योनिकदेवसंबन्धिनौ द्वौ भवौ एक मनुजसंबन्धी, अथवा त्रयो भवास्तिर्यक्संबन्धिन एको देवसंबन्धी एकश्च मनुष्य संबन्धीत्येवं पञ्चभवाभिधायकः ? ' इत्येवं संदेहानिवृत्तिरेवेति चेद् । न, शास्त्रव्युत्पन्नस्यैतादृशसंदेहानुदयाद्, द्वन्द्वसमासस्य सर्वपदप्रधानत्वेन प्रत्येकमेव पञ्चसंख्याऽन्वयाद्, अनेनैव वाऽभिप्रायेण व्युत्वा ततः पञ्चकृत्वः ततः पञ्चकृत्व इत्याद्यभिधानात् " जिणणाहेण भणियं सुरतिरियन रेसु पंचवेलाओ । भमिऊण पत्तबोही लहिंही निव्वाणसुक्खाई ॥ 59 Page #163 -------------------------------------------------------------------------- ________________ १५० इति श्री अभयदेवसूरि संतानीयगुणचन्द्रगणिकृते प्राकृत वीरचरित्रेऽपीत्थमेवोक्तम् । “ तिर्यग्मनुष्यदेवेषु भ्रान्त्वा स कतिचिद् भवान् भूत्वा महाविदेहेषु दूरान्निर्वृत्तिमेष्यति । ” इत्युपदेशमालाकर्णिकायामपीत्थमेव निगदितम् । अत्र यत्परेणोच्यते -' कतिचिद् भवान्' इति यद् भणितं तत्कि - ल्बिषिकदेवभवाच्च्युतो जमालिरनन्तरं सर्वलोकगर्हणीयान् मनुष्यादिदुर्गतिसंबन्धिनः कतिचिद् भवानवाप्य पश्चात्सूक्ष्मैकेन्द्रियादिषु यास्पतीति ज्ञापनार्थमेव । तथा चागमोऽपि— " लध्धूगवि देवत्तं उववन्नो देवब्बिसे । तत्थवि से न याणे किं मे किच्चा इमं फलं ” ॥ १ ॥ तत्तोवि से चत्ताणं लब्भि ही एलमूअगं । णारगं तिरिक्खजोणिं वा बोही जत्थ सुदुल्लाहा ॥ २ ॥ - इति " तदतिकदाग्रहविजृम्भितम् अत्र तिर्यगादिषु प्रत्येकं परिमित भ वभ्रमणस्य व्यक्तमेवाभिधानात्, इच्छामात्रेणावशिष्टानन्तभवकल्पनस्याप्रामाणिकत्वात्, स्थूलभवाभिधानमात्रमेतदित्यत्र प्रमाणाभावात् । न च दूरान्निर्वृत्तिमेष्यतीति वचनानुपपत्तिरेवात्र प्रमाणम्, आसन्नतादूरतयोरापेक्षिकत्वात् । किंच-दूरपदं विनाऽप्येवंविधोऽर्थोऽन्य श्र दृश्यते । तदुक्तं सर्वानन्द सूरिविरचितोपदेशमालावृत्ती " तिर्यक्षु कानपि भवानतिवाह्य कांश्विदेवेषु चोपचितसंचितकर्मवश्य' । लब्ध्वा ततः सुकृतजन्मगृहे विदेहे जन्मायमेष्यति सुखैकखनिर्विमुक्तिम् ।।” - इति यत्तु जमालेः साक्षात्तीर्थकरदूषकस्यापि पञ्चदश भवाः, सुबाहुकुमारस्य च जिनाज्ञाराधकस्यापि षोडश भवा इति जिनाज्ञाराध गपक्षया तद्विराधनमेव सम्यगिति परस्याभिधानं तदविवेकमूलम् । एवं हि हारिप्रभृतीनां घोरपापकारिणां तद्भवमुक्तिगामित्वम् आनंदादीनां च देवमनुजभवप्राप्तिक्रमेणेति सुकृतापेक्षया दुष्कृतमव सम्यगिति वदतोऽपि मुर्ख कः पिदध्यादिति । यदपि साधुभक्तस्य द्रव्यतस्तीर्थकृतोऽपि मरीचः कापिलीयदर्श नप्रवृत्तिहेतुसंदिग्धोत्सूत्र भाषणनिमित्तदुर्वचनमात्रेणाप्येकेन्द्रियादिष्व , Page #164 -------------------------------------------------------------------------- ________________ १५९ संख्येयभवभमणं जमालेश्व साक्षात्तीर्थकर दूषकस्यापि पञ्चदश भदा इति महदसमञ्जसमिति परेणोद्धुष्यते तदपि तथाभव्यताविशेषादेव न पर्यनुयोग र्हम्, अन्यथा संदिग्धोत्सूत्र भाषिणाऽपि मरी गर्नरकदुःखप्राप्तिः, निश्चितत्सूत्र भाषिणश्च जमालेनेंयमित्यत्र भवतोऽपि किमुउत्तरं वच्यमिति रागद्वेषरहितेन चेतसा चिन्तनीयम् । दोघही संज्ञायां वृत्तौ तु " ततश्च्युनञ्चत्वारि पंच तिर्यग्मनुदेवभवग्रहणानि संसारमनुपर्यट्य महाविदेहे सेत्स्यति " - इति शब्दसंदर्भेण भगवती सूत्रालापकानुवाद्येव दृश्यते । सिद्धर्षीयोपदेशमालाटीकास्त्वादर्शमेात्पाठभेदो दृश्यते । तथाहि - " आजीवन्ति द्रव्यलिङ्गेन लोकमित्याजीवका निह्नवास्तेषां गणो गच्छस्तेषां नेता नायको गुरुरित्यर्थः, राज्यश्रियं प्रहाय - परित्यज्य प्रव्रज्यां गृहीत्वा चशब्दादागमं चाधीत्य जम लिर्भगवज्जामाता हितमात्मनोऽकरिष्यत् 'यदि' इत्यध्याहारः, ततो न-नैव वचनीये निन्द्यत्वे इह लोके प्रवचने वाऽपनिथ्य [। तथाहि - मिथ्यात्वाभिनिवेशादसौ भगवद्वचनं क्रियमाणं कृम् इत्य श्रद्वानः ' कृतमेव कृतम् ' - इति विपरीत प्ररूप गालक्षणादहिताचरणदेव लोकमध्ये वचनीये पतितोऽतिदुष्करतपोविधानेऽपि किल्यिपदेवत्वं भवं चनन्तं निर्वर्तितवान् ” - इत्यनं केषुचिद्वादशेषु पाठो दृइयो, "विपरीत प्ररूपणादहिताचरणादेव 'निह्नवान्यम् ' - इति लोकमध्ये वचनीयं पतितोऽनिदुष्कर तपांविधानेऽपि किल्बिषदेवत्वं निर्व. तितवान् । " - इत्ययमपि क्वचिद्रादर्श पाठो दृश्यते, कचिच " तथ्यमि त्याभिनिवेश.दसौ भगवद्वचनं 'क्रियमाणं कृतम् ' - इत्यश्रद्वधानः कृनमेव कृतम् ' - इति विपरीत प्ररूपणलक्षणादहिताचरणादेव 'निह्नवीअन्' इति लोक ध्ये वचनीये पतितोऽनिदुष्कर तपांविधानेऽपि किविषदेवत्वं भवं चानन्तं निर्वर्तितवान् । उक्तं च प्रज्ञप्नो- " जइ णं भी जमली अणगारे अरहासारे जाव कम्हा णं लंतए कप तेरससागरोवम ठिइ सु किन्वसिसु देवताए उबवन्ने ? गोयमा ! जमाली णं आयरिअप डिणीए इत्यादि यावत् । जमाली णं भंते ! ताओ देवलोगाओ आउक्खएणं जाव कहि उववज्जिहति ? गोयमा ! पंचतिरिक्खजोणियमणुस्सदेवभवग्गहणाई संसारनणुपरिआत्ता तओ पच्छा सिज्झिहिति । " इत्येवंभूतः पाठोऽस्ति । हेयोपादे Page #165 -------------------------------------------------------------------------- ________________ १५३ यवृत्तावपि केषुचिद्वादशैव्वयमेव पाठोऽस्ति । आदर्शान्तरे च - " अतिदुष्करतपोविधानेऽपि किल्बिषदेवत्वं निर्वर्तितवान् " - इति । उक्तं च प्रज्ञप्ती - "जड़ णं भंते ०" इत्यादि रचनया पाठोऽस्ति । एवंस्थिते मध्यस्था गीतार्था इत्थं प्रतिपादयन्ति यदुत भगवत्यादिबहुग्रन्धानुसारेण परिमितभवत्वं जमालेर्ज्ञायते, सिद्धर्षीयवृत्तिपः टविशेषाद्यनुसारेण चानन्तभवत्वमिति, तत्त्वं तु तत्त्वविद्वेद्यमिति; परं भगवती सूत्रं प्रकृतार्थेन विवृतमस्ति तत्सांमुख्यं च वीरचरित्रादिग्रन्थं तेषु दृश्यते, संप्रतिदर्शनं त्वर्थद्वयाभिधानप्रक्रमेऽप्येकार्थापुरस्कारेणापि संभवति । यथा नानाकारं कायेन्द्रियम्, असंख्येयभेदत्वात्, अस्य चान्तर्बहिभेदो न कश्चित् । प्रायः प्रदीर्घसंस्थितं कर्णाटकायुधं क्षुरप्रस्तदाकारं रसनेन्द्रियम्, अतिमुक्तक पुष्पदलचन्द्रकाकारं किंचित्सकेसरवृत्ताकारमध्यविनतं घ्राणेन्द्रियम्, किंचित्समुन्नतमध्यपरिमण्डलाकारं धान्यमसूचच्चक्षुरिन्द्रियम्, पाथेयभाण्डकयवनालिकाकारं श्रोत्रेन्द्रियं नालिककुसुमाकृति चावसेयम्, तत्रायं खकायपरिमाणं द्रव्यमनश्च, शेषाण्यझुलासंख्येपभागप्रमाणानि सर्वजीवानाम् । तथा चागमः - ' 66 फासिंदिए णं भंते किंठिए पण्णत्ते ? गोयमा ! णाणासंठाणसंठिए । जिन्भदिए णं भंते किं संठिए पण्णते ? गोयमा ! खुरप्पसंठिए । घाणेंदिए णं भंते किंसंठिए पण्णत्ते ? गोयमा ! अतिमुत्तयचंदगसंठिए पण्णत्ते । चक्खुरिदिए णं भते किंसंठिए पण्णत्ते ? गोमा ! मर चंदसंठिए । सोइदिए णं भंते किंसंठिए पण्णत्ते ? गोयमा ! कलंबु आपुकसंठिए पगते " - इति । अत्र होन्द्रियसंस्थानं तत्परिमाणं चेति तुकान्तं संमतिप्रदर्शनं तु पूर्वार्थ एवेत्येवं सिद्धर्षीयवृत्त्यादर्शविशेषेऽपि जमाले रनन्तभवस्वामित्वप्रदर्शनं चतुरन्तसंसारकान्तारदृष्टान्तत्वप्रदर्शन सदृशम्, सूत्रसंमतिस्तु, देवकिल्बिषिकत्वांश एवइत्ययमर्यो न्याय्योऽन्यो वा तत्र कश्चित्सुंदरोऽभिप्राय इति यथा बहुश्रुताः प्रतिपादयन्ति तथा प्रमाणीकर्तव्यं न तु कुविकल्पचक्रेण ग्रन्थकदर्थना कर्तव्या । 66 "" यत्तु वस्तुगत्या समयभाषया तिर्यग्योनिकशब्द एवानन्तभवाभिधायको भवति । यदुक्तं तिर्यग्योनीनां च - इनि तत्वार्थ सूत्रभाष्यवृत्ती - " तिर्यग्योनयः पृथिव्यप्तेजोवायुवनस्पति द्वि Page #166 -------------------------------------------------------------------------- ________________ १५३ त्रिचतुःपञ्चेन्द्रियास्तेषां परापरस्थिती इत्यादियावत्साधारणवनस्पतेरनन्ता अप्युत्सर्पिण्यवसर्पिण्यः " - इत्यादीनि परेणोक्तं ते त्वनाकलितग्रन्थानां विभ्रमोपादकं प्रेक्षावतां तूपहासपात्रम् । परापरभवस्थितिकायस्थितिविवेकस्य तत्र प्रतिपादितत्वात्, उत्कृष्टकायस्थितेरेव तिर्यग्योनीनामनन्तपर्यवसानात् प्रकृते च भवग्रहणाधिकारात् न तत्कायस्थितिग्रहणं कथमपि सम्भवतीति किं पल्लवग्राहिणा समधिक विचारणयेति कृतं प्रसक्तानुप्रसक्त्या ॥ ४४ ॥ तदेवं मरीचेरिव स्तोकस्याप्युत्सूत्रस्य दुःखदायित्यादन्येषां गुणानुमोदनं न कर्त्तव्यम् ' - इत्युत्सूत्रं त्याज्यम्, कर्त्तव्या च गुणानुमोदना सर्वेषामपीति व्यवस्थापितम्, अथ सूत्र भाषकाणां गुणमाह सुत्तं भाताणं णिचं हिययडिओ हवइ भयवं । हिययामि तंमि यणियमा कल्ला संपत्ती ॥४५॥ 'सुतं भसंताणं'ति । सूत्रं भाषमाणानां नित्यं निरन्तरं भगवांस्तीर्थङ्करो हृदयस्थितो भवति, भगवदाज्ञाप्रणिधाने भगवत्प्रणिधानस्यावश्यकत्वात्, आज्ञयोः ससम्बन्धिकत्वात् । हृदयस्थिते च तस्मिन् भगवति सति नियमान्निश्चयात् कल्याणसम्पत्तिः, समापत्यादिभेदेन तीर्थकृद्दर्शनस्य महाकल्याणावहतायाः पूर्वाचार्यैः प्रदर्शितत्वादिति ||४५|| कल्याणप्रापकत्वं च हृदयस्थितस्य भगवतोऽनर्थनिराकरणद्वारा स्यादित्यन्वयव्यतिरेकाभ्यां तस्यानर्थनिराकरणहेतुत्वगुणमभिष्टुवन्नाह हिययट्ठिओ अ भयवं, छिंदइ कुविगप्पमत्तभत्तस्स । तयभत्तस्स उ तंमिवि भत्तिमिमा होइ कुविगप्पो ॥ 'हिययहिओअ'त्ति | हृदयस्थितश्च भगवानात्मभक्तस्य स्वसेवकस्य कुविकल्पं कुतर्काभिनिवेशरूपं छिनत्ति । दुर्निवारो हि प्राणिनामनासूत्रं भाषमाणानां नित्यं हृदयस्थितो भवति भगवान् 1 हृदयस्थिते तस्मिंश्च नियमात्कल्याणसंपत्तिः ॥ ४५ हृदयस्थितश्च भगवान् छिनत्ति कुविकल्पमात्मभक्तस्य । तदभक्तस्य तु तस्मिन्नपि भक्तिमिषाद् भवति कुविकल्पः ॥ ४६ ॥ Page #167 -------------------------------------------------------------------------- ________________ १५४ दिभवपरम्परापरिचयान्मोहमाहात्म्यजनितः कुविकल्पः, केवलं भगवद्भक्तिरेव तमुच्छिद्य तदुत्पादं निरुद्धय वा तत्कृताशुभविपाकान्निस्तारयतीति । तदुक्तमन्यैरपि " पुण्ये मनः कस्य मुनेरपि स्यात् प्रमाणमेतस्य हि दृश्यवृत्ति । तचिन्तिचित्तं परमेश्वरस्तु भक्तस्य हृष्यत्करुणो रुणद्धि ॥” इति । अन्वयप्रदर्शनमेतद् । व्यतिरेकमाह-तदभक्तस्य तु कुतर्काध्माततया भगवद्भक्तिरहितस्य तु तस्मिन्नपि सकलदोषरहिते जगजीवहिते भगवत्यपि भक्तिमिषाल्लोकसाक्षिककृत्रिमभक्तिव्यपदेशात्कुविकल्पो. ऽसद्दोषाध्यारोपलक्षणो भवतीति भगवतो हृदयेऽवस्थानाभावादिति भावः ॥ ४६॥ कथं भगवत्यपि भक्तिमिषात् कुविकल्पो भवतीत्याहजेणं भणंति केइ जोगाउ कयावि जस्स जीववहो। सो केवली ण अम्हं सो खलु मक्खं मुसावाई॥४७॥ . 'जेणं'ति । येन कारणेन भणंति केचिद् यदुत यस्य योगात्कदाचिदपि जीववधो भवति सोऽस्माकं केवली न भवति । स खलु साक्षान्मृषावादी, जीववधं प्रत्याख्यायापि तत्करणात् । इदं हि भक्तिवचनं मुग्धैर्ज्ञायते, परमार्थतस्तु भगवत्यसदोषाध्यारोपात् कुविकल्प एवेति भावः ॥ ४७ ॥ एतन्निराकरणार्थमुपक्रमतेते इय पजणुजुज्जा कह सिद्धो हंदि एस णियमो भे। जोगवओ दुव्वारा हिंसा जमसक्कपरिहारा ॥४८॥ येन भणन्ति केचिद् योगाद् कदापि यस्य जीववधः । से केवली नास्माकं, स खलु साक्षान्मृषावादी ॥ ४७ ।। ते इति पर्यनुयोज्या कथं सिद्धो हंदि एष नियमो भवताम् । योगवतो दुर्वारा हिंसा यदशक्यपरिहारा ॥ ४८ ॥ Page #168 -------------------------------------------------------------------------- ________________ १५५ ' ते इय'त्ति । ते एवं वादिनः पर्यनुयोज्याः प्रतिप्रष्टव्या इत्यमुना प्रकारेण यदुत एव नियमो यस्य योगात् कदाचिदपि जीववधो भवति स न केवलीत्येवंलक्षणः कथं ते भवतां सिद्ध: ? यद्यस्मात्कारणाद् योगवतः प्राणिन आत्रयोदशगुणस्थानमशक्यपरिहारा हिंसा दुर्षारा, योगनिरोधं विना तस्याः परिहर्त्तुमशक्यत्वात्, तदीययोगनिमित्तकहिंसानुकूल हिंस्य कर्मविपाकप्रयुक्ता हि हिंसा तदीययोगाद् भवन्तौ केन वार्यतामिति । अथैवं सर्वेषामपि हिंसाऽशक्यपरिहारा स्यादिति श्वेत्, न । अनाभोगप्रमादादिकारणघटितसामग्रीजन्यायास्तस्या आभोगाप्रमत्ततादिना कारणविघटनेन शक्य परिहारत्वाद्, योगमात्रजन्यायास्त्वनिरुद्धयोगस्याशक्य परिहारत्वादिति विभावनीयम् । " नन्वीश्यां जीवविराधनायां जायमानायां केवलिना जीवरक्षा प्रयत्नः क्रियते न वा ? आये न क्रियते चेत्, तदाऽसंयतत्वापत्तिः । क्रियते चेत् तदा चिकीर्षितजीवरक्षणाभावात्प्रयत्नवैफल्यापत्तिः; सा च केवलिनो न सम्भवति, तत्कारणस्य वीर्यान्तरायस्य क्षीणत्वाद्, अत एव देशनाविषयकप्रयत्नविफलतायां केवलिनः केबलित्वं न सम्भवतीति परेषां सम्यक्त्वाद्यलाभे धर्मदेशनामप्यसौ न करोतीत्यभ्युपगम्यते । तदुक्तमावश्यकनियुक्तौ " सव्वं च देसविरई सम्मं पिच्छइ य होइ कहणाउ । हराअमूललक्खो ण कहेइ भविस्सर ण तं वत्ति ॥ १ ॥ " ततः क्षीणवीर्यान्तरायत्वादशक्यपरिहारापि जीवविराधना केवलिनो न सम्भवतीति चेत् ॥ न, यथाहि - भगवतः सामान्यतः सर्वजीवहितोद्देशविषयोऽपि वाक्प्रयत्नः खल्पसंसारिष्वेव सफलो भवति, न तु बहुलसंसारिषु, प्रत्युत तेषु कर्णशूलायते । यत उक्तं सिद्धसेनदिवाकरै: : 64 सद्धर्म्मबीजवपनानघकौशलस्य यल्लोकबान्धव । तवापि खिलान्यभूवन् । तनाद्भुतं खगकुलेष्विह तामसेषु स्याशवो मधुकरीचरणावदाताः || १ ||” इति । सर्वा च देशविरतिं सम्यक् पश्यति च भवति कथनात् । इतरथा अमूललक्ष्यो न कथयति ... Page #169 -------------------------------------------------------------------------- ________________ अत एव च लोकनाथत्वमपि भगवतो वीजाधानादिसंविभक्तभव्यलोकापेक्षया व्याख्यातं ललितविस्तरायाम् , अनीशि नाथत्वानुपपत्तरिति । न चैतावता भगवतो वाक प्रयत्नस्य विफलत्वं, शक्यविषय एव विशेषतः साध्यत्वाख्यविषयतया तत्प्रवृत्तेस्तत्फलवत्यव्यवस्थितेः। सामान्यतः सर्वजीवरक्षाविषयोऽपि भगवतः कायप्रयत्नो विशेषतः शक्यजीवरक्षाविषयत्वेन सफलः सन् नाशक्यविषये वैफल्यमात्रेण प्रतिक्षेप्तुं शक्यत इति । न चाधिकृतविषये वाक्प्रयत्नो न विफलः, स्वल्पसंसार्यपेक्षया साफल्याद् , इतरापेक्षया वैफलस्य तत्रावास्तवत्वाद् ; अशक्यपरिहारजीवविराधनायां तु तद्रक्षाप्रयत्नः सर्वथैव विफल इति वैषम्यमिति तत्र वीर्यान्तरायक्षयवैफल्यापत्तिरिति तत्साफल्यार्थ भगवद्योगानां हिंसायां स्वरूपायोग्यत्वमेवाभ्युपेयमिति शङ्कनीयम् । एवं सति हि भगवतः क्षुत्पिपासापरीषहविजयप्रयत्नः क्षुत्पिपासानिरोधं विना विफल इति वीर्यान्तराय क्षयवैफल्यापत्तिनिरासार्थे भगवतः क्षुत्पिपासयोरपि स्वरूपायोग्यत्वं कल्पनीयमिति दिगम्बरस्य वदतो दूषणं न दातव्यं स्यादिति । यदि च क्षुत्पिपासयोर्निरोद्धुमशक्यत्वात् तत्परीषहविजयप्रयत्नो भगवतो मार्गाच्यवनादिस्वरूपेणैव फलवानिति विभाव्यते तदाऽशक्यपरिहारजीवविराधनाया अपि त्यक्तुमशक्यत्वात् , तत्र जीवरक्षाप्रयत्नस्यापि भगवतस्तथा स्वरूपेणैव फलवावमिति किं वैषम्यम् ? इत्थं च-" तस्स असं चेययओ संचययओ अ जाई सत्ताई जोगं पप्प विणस्संति । णत्थि हिंसाफलं तस्स ।।” तस्यैवंप्रकारस्य ज्ञानिनः कर्मक्षयार्थमुद्यतस्यासश्चेतयतोऽजानानस्य, किं ? सत्त्वानि, कथं ? प्रयत्नं कुर्वताऽपि, कथमपि न दृष्टो व्यापादितश्च । तथा सञ्चेतयतो जानानस्य कथम् ? अस्त्यत्र प्राणी ज्ञातो दृष्टश्च, न च प्रयत्नं फुर्वताऽपि रक्षितुं पारितः, ततश्च तस्यैवंविधस्य यानि सत्त्वानि योगं कायादिव्यापारं प्राप्य विनश्यन्ति । न च नास्ति तस्य साधोहिंसाफलं साम्परायिकं संसारजननमित्यर्थः । यदि परमीर्याप्रत्ययं कर्म भवति, १ तस्यासंचेतयतः संचेतयतश्च यानि सत्त्वानि योगं प्राप्य विनश्यन्ति, नास्ति हिंसाफलं तस्य ॥ Page #170 -------------------------------------------------------------------------- ________________ तच्चैकस्मिन् समये क्षिपतीत्योपनियुक्तिसूत्रवृत्तिवचने " न च प्रयत्न कुर्वतापि रक्षितुं पारितः” इति प्रतीकस्य दर्शनाजीवरक्षोपायानाभोगादेव तदर्थोपपत्तेः केवलिभिन्नस्यैव ज्ञानिनो योगानामीर्यापथप्रत्यय कर्मबन्धानुकूलसत्त्वहिंसाहेतुत्वं सिद्ध्यति, नतु केवलिन इति निरस्तम् । न च प्रयत्नं कुर्वतापीत्यनेन प्रयत्नवैफल्यासिद्धिः, निजकायव्यापारसाध्ययतनाविषयत्वेन तत्साफल्याद् , अन्यथा तेन केवलिनो वीर्याविशुद्धिमापादयतो निर्गन्थस्य चारित्राविशुद्ध्यापत्तेः, तस्याप्याचार रूपप्रयत्नघटितत्वाद् यतनात्वेन चोभयत्र शुद्ध्यविशेषाद् । न चाशक्यजीवरक्षास्थलीययतनायां तद्रक्षोपहितत्वाभावो रक्षोपायानाभोगस्यैव दोषो नतु निर्ग्रन्थस्य चारित्रदोषः, लांतकस्य तु केवलित्वान्न तदनाभोगः सम्भवतीति तद्योगा रक्षोपहिता एव स्त्रीकर्तव्या इति घाच्यम् । तथाविधप्रयत्नस्यैव जीवरक्षोपायत्वात् , केवलिनापि तदर्थमुल्लङ्घनप्रलङ्घनादिकरणात् ___ तदुक्तं प्रज्ञापनायां समुद्घातानिवृत्तस्य केवलिनः काययोमचापाराधिकारे___ "कायजोगं जुंजमाणे आगच्छिा वा, गच्छेज वा, चिहेजवा, णिसीएजवा, तुअट्टिज वा, उल्लंघेज्ज वा; पलंघेज्ज वा, पाडिहारियपीढफलगसेज्जासंथारं पञ्चप्पिणिज्जत्ति ॥” अत्र उल्लचेज वा पलंघेजवे'त्येतत् पदव्याख्यानं यथाअथवा विवक्षितस्थाने तथाविधसम्पातिमसत्त्वाकुलां भूमिमवलोक्य तत्परिहाराय जन्तुरक्षानिमित्तमुल्लङ्कन प्रलङ्घनं वा कुयोत् । तत्र सहजात्पादविक्षेपान्मनागधिकतरः पादविक्षेप उल्लङ्घनं, स एवातिविकटः प्रल्लङ्घनमिति । स च जीवरक्षोपायः प्रयत्नो निर्ग्रन्थेन ज्ञात एवेति तस्याशक्यपरिहारजीवहिंसायां तद्रक्षाविघटको नानाभोगः, किं त्वशक्तिः, सा च योगापकर्षरूपा निग्रंथस्नातकयोः स्थानौचित्येनाविरुखेति प्रतिपत्तव्यम् ॥ यदि च तादृशरक्षोपायाः केवलियोगा एव, तदनाभोगश्च निग्रन्थस्य तद्विघटक इति वक्रः पन्थाः समाश्रीयते तदा प्रेक्षावतामुपहासपात्रता युष्मतः, यत एवमनुपायादेव तस्य तद्रक्षाभाव इति वक्तव्यं स्यानतूपायानाभोगादितिं कारणवैकल्यमेव हि कार्यविघटने तन्त्रं न तु कारणज्ञानवैकल्यमपि । न च केवलियोगानां Page #171 -------------------------------------------------------------------------- ________________ १५८ स्वरूपत एव जीवरक्षाहेतुत्वमित्यपि युक्तिमद् , उल्लङ्घनप्रलङ्घनादिवैफल्यापत्तेः, केवलियोगेभ्यः स्वत एव जीवरक्षासिद्धौ तत्र तदन्यथासिद्धेः, अनुपायविषयेऽपि क्रियाव्यापाराभ्युपगमे च कोशादिस्थितिसाधनार्थमपि तदभ्युपगमप्रसङ्गात् । यदि च साध्वाचारविशेषपरिपालनार्थ एव केवलिनोऽसौ व्यापारो न तु जन्तुरक्षानिमित्तः, तस्याः स्वतः सिद्धत्वेन तत्साधनोद्देशवयात् , जन्तुरक्षानिमित्तत्वं तूपचारादुच्यते, मुख्यप्रयोजनसिद्धेश्च न तद्वैफल्यमिति च वक्रकल्पना त्वयाऽऽश्रीयते, तदा 'स्वशस्त्रं स्वोपघाताय'ति न्यायप्रसङ्गः। एवं ह्यशक्यपरिहारजीवहिंसास्थलेऽपि साध्वाचारविशेषपरिपालनार्थस्य भगवत्प्रयत्नस्य सार्थक्यसिद्धौ ‘संचेययओ अ जाइं सत्ताई जोगं पप्प विणस्संती'त्यत्र छद्मस्थ एवाधिकृत इति स्वप्रक्रियाभङ्गप्रसङ्गात् । तस्मादाभोगादनाभोगाद्वा जायमानायां हिंसायां प्राणातिपातप्रत्ययकर्मयन्धजनकयोगशक्तिविघटनं यतनापरिणामेन क्रियत इत्येतदर्थप्रतिपादनार्थं " न च प्रयत्नं कुर्वतोऽपि रक्षितुं पारितः” इत्युक्तम् । अत एव सूत्रेऽपीत्थमेव व्यवस्थितम् । तथाहि " वज्जेमित्तिपरिणओ संपत्तीएवि मुच्चई वैरा । अवहंतो वि ण मुच्चइ किलिट्ठभावोऽतिवायस्स ॥” इति ॥ एतवृत्तिर्यथा-वर्जयाम्यहं प्राणातिपातादीत्येवं परिणतः सन् सम्प्राप्तावपि, कस्य ? अतिप्राप्तस्य प्राणिप्राणविनाशस्थत्युपरिष्टात् सम्बन्धः, तथा विमुच्यते वैरात् कर्मबन्धाद् । यः पुनः क्लिष्टपरिणानः सोऽव्यापादयन्नपि न मुच्यते वैरादिति ज्ञात्वा जीवघातस्येर्यापथप्रत्ययकर्मबन्धजनने यतनापरिणामस्य सहकारित्वप्रतिपादनार्थ 'न च प्रयत्नं कुर्वतापि रक्षितुं पारितः' इत्युक्तमित्यपरे ॥ यत्तु वर्जनाभिप्राये सत्यनाभोगवशेन जायमानो जीवघातो द्रव्यहिंसात्मको न कर्मधन्धहेतुः, वर्जनाभिप्रायस्य कारणं तु जीवघाते नियमेन दुर्गतिहेतुकर्मवन्धो भवतीत्यभिप्राय एव, अन्यथा सुगतिहेतुषु ज्ञानादिष्वपि वर्जनाभिप्रायः प्रसज्यते । केवलिनस्तु वर्जनाभिप्रायो न भवत्येव, सर्वकालं सामायिकसातवेदनीयकर्मबन्धकत्वेन दुर्गतिहेतुकर्मवन्धाभावस्य निर्णीतत्वात् तस्माजीवघातस्तन्जनितकर्मवन्धभावश्चेत्युभयम Page #172 -------------------------------------------------------------------------- ________________ १५९ प्यनाभोगवन्तं तं संयतलोकमासाद्यैव सिद्ध्यतीति परस्य मतं तदसद् । वर्जनाभिप्रायस्य भगवतः प्रज्ञापनावृत्तावेवोक्तत्वात्, स्वकीयदुर्गतिहेतुकर्मन्धहेतुत्वाज्ञानेऽपि स्वरूपेण वर्जनीये वर्जनाभिप्रायस्य भगवत उचित प्रवृत्तिप्रधान सामायिकफलमहिम्नैव सम्भवाद् ; अन्यथाऽनेषणीपरिहाराभिप्रायेोऽपि भगवतो न स्याद् अनेषणीयस्यापि स्वापेक्षया क्लिष्टकर्मबन्धहेतुत्वनिश्चयांत्, तथा च 'तत्थणं रेवत्तए गाहा वइणीए मम अट्ठाए दुवेको असरीरा उवक्खाया तेहिं णो अट्ठोत्ति । " अनेपणीयपरिहाराभिप्रायाभिव्यञ्जकं प्रज्ञप्तिसूत्रं व्याहन्येत, तस्माद्यथोचितकेवलिव्यवहारानुसारेण वर्जनाद्यभिप्रायस्तस्य सम्भवत्येव; प्रयत्नसाफल्यं तु शक्यविषयापेक्षया नन्वितरापेक्षयेति मन्तव्यम् । एतेन केवलज्ञानोत्पत्तिसमय एव केवलिना सर्वकालीनं सर्वमपि कार्यं नियतकारणसामग्रीसहित मेव दृष्टं तत्र केवलिना निजप्रयत्नोऽपि विवक्षितजीवरक्षाया नियतकारणसामन्यामन्तर्भूतो दृष्टोऽनन्तर्भूतो वा आये haeप्रयत्नस्य वैफल्यं न स्यात्, तस्य तस्या नियतकारणसामग्ज्यन्तभूतत्वेन दृष्टत्वाद् द्वितीये विवक्षितजीवरक्षार्थं केवलिनः प्रयत्न एव न भवेत्, केवलिना तत्सामज्यनन्तर्भूतत्वेन दृष्टत्वादिति न च प्रयत्न कुर्वनापि रक्षितुं न पारित इति वचनं छद्मस्थसंयतमधिकृत्यवैति कल्पनाऽप्यपास्ता स्वव्यवहारविषयनियतत्वेनैव केवलिना स्वप्रयत्नस्य दृष्टत्यादिति दि ॥ ४८ ॥ ननु जीवहिंसा गर्हणीयाऽगर्हणीया वा ?, अन्त्ये लोकलोकोत्तरव्यवहारबाधः | आये च गहणीयं कृत्यं भगवतो न भवतीति भगवतस्तदभावसिद्धिरित्याशङ्कायामाह == खीणे मोहे नियमा गरहाविसओ ण होइ किव्वंति । साण जिणाणंति मई दव्ववहे होड णिव्विसया ॥४९॥ क्षीणे मोहे नियमाहाविषयां न भवति कस्यापि । सा न जीनानामिति मतिद्रव्यवधे भवति निर्विषया ॥ ४९ ॥ १ तत्र च क्षेत्र गाथापतनोते मदर्थं द्वो कपोतशरीरौ उपख्यातौ, ताभ्यां नाथं इति ॥ Page #173 -------------------------------------------------------------------------- ________________ १६० खीणे मोहे'त्ति क्षीणे मोहे निस्सत्ताकीभूते मोहनीयकर्मणि नियमान्निश्चयेन गर्हविषयः । कृत्यं गहणीयं प्राणातिपातादिकर्म न भवति, कस्यापि प्राणिनः । तदुक्तमुपदेशपदे " इत्तो अवीयरागों ण किंचि वि करेइ गरहणिजंतु"त्ति । ' एतवृत्त्येकदेशो यथा-इतस्त्वित एवाकरणनियमात्कृतरूपाद्वीत. रागः क्षीणमोहादिगुणस्थानवर्ती मुनिन नैव किञ्चिदपि करोति जीवघातादिकं सर्व गहणीयं त्ववद्यं देशोनपूर्वकोटीकालं जीवन्नपीति इति हेतोः।” सा हिंसा जिनानां विगलितसकलगहणीयकर्मणां क्षीणमोहवीतरागाणां न भवतीति तव मतिः केवलं भावप्राणातिपातनिषेधापेक्षया सविषया स्याद् , द्रव्यवधे तु निर्विषया भवति, तस्याशक्यपरिहारत्वेनागहणीयत्वात् ; द्रव्यभावोभयरूपस्य केवलभावरूपस्य च प्राणातिपातादेव्रतभङ्गरूपत्वेन शिष्टलोकगहणीयत्वादशिष्टगर्दायाश्चाप्रयोजकत्वात् । क्रूरकर्माणो हि न स्वयंभूरयं किन्तु मनुष्य इति, कथमस्य देवत्वम् ? कवलाहारवतो वा कथं केवलित्वम् ? इत्यादिकां भगवतोऽपि गहीं कुर्वन्त्येवेति । न चेदेवं तदोपशान्तमोहगुणस्थानवर्तिनो गर्हणीयप्राणातिपाताद्यभ्युपगमे यथाख्यातचारित्रविलोपप्रसङ्गः ।। अथोपशान्तमोहवीतरागस्य मोहनीयसत्ताहेतु कः कदाचिदना-: भोगसहकारिकारणवशेन गर्दापरायणजनस्य प्रत्यक्षत्वाद् गहणीयो जीवघातो भवत्येव, नतु यथारख्यातचारित्रलोपस्तेन भवति, उत्सूत्रप्र. वृत्तेरेव तल्लोप हेतुत्वात् । न च प्रतिषिद्धप्रतिषेवणमात्रेणोत्सूत्रप्रवृत्तिः, किन्तु साम्परायिकक्रियाहेतुमोहनीयोदयसहकृतेन प्रतिषिद्धप्रतिषेवणेन, । सा चोपशान्तवीतरागस्य न भवति, तस्या मोहनीयानुदयजन्येर्यापथिकीक्रियया बाधितत्वात् ; उत्सूत्रप्रवृत्तोर्यापथिकोक्रिययोः सहानवस्थानाद् । यदागमः-.. ____ " जस्स णं कोहमाणमायालोमा वुच्छिण्णा भवन्ति तस्स णं इरियावहिया किरिया कज्जति । तहेव जाव उस्सुत्तं रीयमाणस्स संपराइआ किरिया कज्जति, से णं अहा सुत्तमेव रीय(य)इत्ति ॥" १ यस्य खलु क्रोधमानमायालोमा व्युच्छिन्ना भवन्ति, तस्य खलु इर्यापथिको क्रिया कार्या, तथैव यावत् उत्सूत्रं रीय मानस्य साम्परायिका क्रिया कार्या । स खलु यथासूत्रं रोयते ॥ Page #174 -------------------------------------------------------------------------- ________________ १६१ ८८ २ तथाऽस्मादुत्सूत्रप्रवृत्तिप्रतिबन्धिका भावत ईर्यापथिकी क्रियैव, यथाख्यातचारित्रप्रतिबन्धिका च मोहनीयोदयजन्या साम्परायिकी क्रिया भवतीति सम्यकुपर्यालोचनायामुपशान्तवीतरागस्य नोत्सूत्रवृत्तिर्नवा यथाख्यातचारित्रहानिरिति चेत् । न, द्रव्यवधस्य गर्हणीयत्वे प्रतिषिद्धप्रतिषेवणरूपत्वे च तेनोपशान्तमोहस्यापि यथाख्यात चारित्रस्य निर्ग्रन्थत्वस्य च विलोपप्रसङ्गस्य वज्रलेपत्वात् । परिहारविसुद्धिय संजय पुच्छा, गो० णो पडिसेवए होज्जा, अपडिसेवए होज्जा । एवं जाव अहक्खाय संजए कसायकुसीले पुच्छा, गो० णो पडिसेवए होज्जा, अपडिसेवए हुज्जा, एवं नियंठेवि, एवं सिणाए वि ।" इत्याद्यागमेन प्रतिषिद्धप्रतिषेवणस्योपरितनचारित्र निर्ग्रन्थत्रयविरोधिताप्रतिपादनात् संयमप्रतिकूलार्थस्य सञ्ज्वलनकषायोदयात् सेवकः - प्रतिषेवक इति प्रतिषेवणाद्वारे व्याख्यानात् प्रतिषेवणाविशेषेणैव यथाख्यातचारित्रादिविरोधव्यवस्थितेः ॥ अनाभोजद्रव्य हिंसायाः प्रतिषिद्वप्रतिषेवणरूपत्वे उपशान्तमोहवृत्तित्वे च न बाधकमिति चेत् । न, प्रतिषेवापद विषयविभागेऽनाभोगजप्रतिषेवाया अपि परिगणनाद् । यदागमः- -" २ दसविहा पडिसेवणा पण्णत्ता । तं० - दप्प- प्पमाय - ऽणाभोग - आउरे आवईइ य संकिए सहसक्का (र) -भय- प्पदोसा य वीमंसत्ति । " तस्माद्द्रव्यहिंसायाः प्रतिषेवणारूपत्वाभ्युपगमे तवाप्युपशान्तमोहस्य प्रतिषेवित्वं स्यादित्यप्रति • षेवित्वव्याप्ययथाख्यातचारित्र निर्ग्रन्थत्वयोस्तत्र का प्रत्याशा ? मोहोदय विशिष्टप्रतिषेवणत्वेनोत्सूत्रप्रवृत्तिहेतुमभ्युपगम्य वीतरागे मोहसत्ताजन्यप्रतिषेवणाश्रयणेऽपसिद्धान्तादिदोषा दुर्द्धरा एव प्रसज्येरन्, मोहोदयसत्ताजन्योत्सूत्रप्रवृत्तिहेतुप्रतिषेवणाभेदस्य कापि प्रवचनेऽश्रुतत्वात् प्रत्युत कषायकुशीलादिपरिहारविशुद्धिकाद्युपरितननिर्ग्रन्थसंयमत्रयस्याप्रतिषेवित्वाभिधानाद् । मोहोदयमात्रमपि न प्रतिघेवणाजनकमिति तत्सत्ताजन्यप्रतिषेवणवार्त्तापि दूरोत्सारितैवेति तस्या उत्सूत्रप्रवृत्तिहेतुत्वे मोहोदयविशिष्टत्वं तन्त्रमित्यत्र सूत्रसम्म तिप्रदर्शनमत्यसमञ्जसम्, ततः पुलाकबकुशमति सेवाकुशीलत्रयनृत्यपकृष्टसंयमस्थाननियत संज्वलनोदयव्याप्य एव व्यापारविशेषः प्रतिषेवणारूपः स्वीकर्त्तव्यः, स एव च साधूनां गर्हणीय 3 १ परिहारविशुद्धिकसंयते पृच्छा, गौतम ! न प्रतिषेवको भवेत्, अप्रतिषेवको भवेद्, एवं यावत् यथाख्यातसंयते कषायकुशीले पृच्छा, नो प्रतिषेवको भवेद अप्रतिषेो भवेत् । एवं निर्ग्रन्थेऽपि, एवं स्नातकेऽपि ॥ २ दशविधा प्रतिषेवणा प्रशप्ता, सद् यथा दर्प- प्रमादा-नाभोगा-35 तुरापदश्च शङ्कितः उहात्कार-भय-प्रद्वेषाश्च-विमर्श इदि । ૧ Page #175 -------------------------------------------------------------------------- ________________ इति । " इत्तो अ वीयरागो ण किंचि वि करेइ गरहणिज्जं तु । ” - इत्यनेन तदत्यन्ता. भाव एव वीतरागस्य प्रतिपाद्यते, न तु द्रव्यहिंसाभावोऽपीति प्रतिपत्तव्यम् ॥४९॥ एतदेव स्फुटीकुर्वन्नाह - 'प्रकरणणियमावेक्खं एवं नणिति प्रपमिसेवाए । इत्तो जिणाण सिद्धी न दववहस्स परिसेहो ॥५॥ 'अकरणणियमावेक्खं ' ति । ' एतद्वीतरागो न किञ्चिद् गर्हणीयं करोति' इत्यकरणनियमापेक्षं भणितमुपदेशपदे, तंत्र तस्यैवाधिकाराद्, अकरणनियमश्च पापशरीरकार्श्यहेतुराजयक्ष्मरोगस्थानीयः क्षयोपशम विशेषः, स च ग्रन्थिभेदादारभ्य क्षीणमोहं प्रवर्द्धते, यथा यथा च तत्प्रवृद्धिस्तथा तथा पापमवृत्त्यपकर्ष इति arrate मोक्षरूपस्याकरण नियम स्यात्यन्तोत्कर्षस्य सिद्धौ पापप्रवृत्तेरत्यन्तापकर्ष इति तत्र पापप्रवृत्त्यत्यन्ताभावः सिद्धयतीति सूत्रसन्दर्भेणैव तत्र स्फुटं प्रतीयते । तथाहि २ " पावे अकरणणियमो पायें परतन्निवित्तिकरणाओ । ओ य गंटिओ भुज्जो तयकरणरूवो उ ॥ १ ॥” कियदन्तरे च 44.3 देसविरइगुणठाणे अकरणणियमस्स एव सन्भावो । सव्व विरइगुणठाणे विसिद्वतरओ इमो होइ ॥ १ ॥ जं सो पहाणतरओ आसयभेओ तओ एसो ॥ तो चि सेढीए ओ सव्वत्थवि एसो ॥ २ ॥ तो अवीयरागो ण किंचि वि करेइ गरहणिज्जं तु । ता तग्गखवणाइकप्पमो एस विष्णेओ ॥ ३ ॥ " त्ति तथा चेतो वचनादप्रतिषेवाया जिनानां सिद्धिः प्रतिषेवारूपपापस्यैवामवृत्तेः पूर्वगुणस्थानेष्वपकर्षतारतम्याजिनानां तदत्यन्तापकर्षसम्भवाद् नतु द्रव्यवधस्य प्रतिषेधः, तस्यापकर्षतारतम्यादर्शनाद्; नहि सम्यग्दृष्टिदेशविरत्यादियोगाज्जायमानायां द्रव्यहिंसायामपकर्षभेदो दृश्यते, येन जिनेषु तदत्यन्ताभावः सि १ अकरणनियमापेक्षमेतद् भणितमिति अप्रतिषेवायाः । इतो जिनानां सिद्धिर्नतु द्रव्यवधस्य प्रतिषेधः ॥ ५० ॥ २ पापे अकरणनियमः प्रायः परतनिवृत्तिकरणात् । शेयश्च ग्रन्थिभेदो भूयस्तद्करणरूपस्तु ॥ ३ देशविरतिगुणस्थाने अकरणनियमस्य एव सद्भावः । Page #176 -------------------------------------------------------------------------- ________________ १६३ येद् अभ्यन्तरपापप्रतिषेवणे तु प्रतिगुणस्थानं महानेव भेदो दृश्यत इति केवलिनि तदत्यन्ताभावसिद्धिरनाबाधैवेति ॥ ५० ॥ वे वीतरागपदेनोपशान्तमोहोऽपि वृत्तिकृता कथं न गृहीतः ? तस्याप्यप्रतिषेवित्वाद्-इत्याशङ्कायामाह - 'परिणयवयणमिणं, जं एमो होइ खीणमोहंमि । समसेढी पुरा, एमो परिषिणि हवे ॥ ५१ ॥ 'परिणिधिवयणमिणं 'ति । परिनिष्ठितवचनं सम्पूर्णफलवचनमेतद्, यदेषोऽकरणनियमः क्षीणमोहे भवतीति । उपशमश्रेण्यां त्वयमकरण नियमः परिनिष्ठितो न भवेत् तस्याः प्रतिपातस्य नियमात्, तत्राकरणनियमवैशिष्ट्या सिद्धेः, परिनिष्ठित विशिष्टाकरणनियमाधिकारादेव क्षीणमोहादिर्वीतरागो वृत्तिकृता विवक्षित इति न कोऽपि दोष इति भावः । परिनिष्ठिताप्रतिषेवित्वफलभागित्वादेव च क्षीणमोहस्य कषाय कुशीलादेर्विशेषोऽप्रतिषेवित्वं वा भगवतोऽभिधीयमानमपकृष्यमाणसकलपापाभावोपलक्षणमिति स्मर्त्तव्यम् ॥ ५१ ॥ वीतरागो गर्हणीयं पापं न करोतीति वचनाद् गर्हणीयपापाभावः श्रीणमोहस्य सिद्ध्यति, गर्हणीयं च पापं द्रव्याश्रव एव तस्य गपरायणजनस्य प्रत्यक्षत्वादिति द्रव्याश्रवाभावस्तत्र सिद्ध एव, अत एव क्षोणमोहस्य कदाचिदनाभोगमात्रजन्यसम्भावनारूडाश्रवच्छायारूप दोषसम्भवेऽपि न क्षतिः, तस्याध्यवसायरूपस्य छद्मस्थज्ञानगोचरत्वेनागर्ह गीयत्वाद्, गर्हणीयद्रव्याश्रवाभावादेव तत्र वीतरागत्वाहाने : - इत्याशङ्कायामाह - 'व्वासवस्स विगमो गरहा विसयस्स जइ तहि हो । ता जावगयं पावं पडवन्नं प्रत्थम्रो हो३ ॥ ५२ ॥ सर्वविरति गुणस्थाने विशिष्टतरश्चायं भवति ॥ १ ॥ यत्स प्रधानतर आशयभेदश्च तत एषः । इत एव श्रेण्यां ज्ञेयः सर्वत्राप्येष ॥ २ ॥ इतश्च वीतरागो न किंचिदपि करोति गर्हणीयं तु । ततस्तद्गतिक्षपणादिकल्प एव विज्ञेयः ॥ १ परिनिष्ठितवचनमिदं यदेषो भवति झीण मोहे | उपशमश्रेण्यां पुनः - एष परिनिष्ठितो न भवेद् ॥ २ द्रव्यास्त्रत्रस्य विगमो गर्हाविषयस्य यदि तभेदः । art भावगत पाप प्रतिपन्नमर्थतो भवति ॥ ५२ ॥ Page #177 -------------------------------------------------------------------------- ________________ 'दवासवस्स'त्ति । गाविषयस्य द्रव्याश्रवस्य विगमो यदि तहिति तत्र क्षीणमोहे इष्टोऽभिमतो भवतस्तर्हि अर्थतोऽर्थापत्या भावगतं पापं तत्र प्रतिपन्नं भवति, गर्हणीयपापत्वावच्छिन्नं प्रति वन्मते मोहनीयकर्मणो हेतुत्वात् , तन्निवृत्तौ गर्हणीयपापनिवृत्तावप्यगर्हणीयभावरूपपापानिवृत्तेः, अगर्हणीयपापेऽप्यनाभोगस्य हेतुत्वात् तनिवृत्तौ केवलिनस्तनिवृत्तिः । क्षीणमोहस्य त्वाश्रवच्छायारूपम गर्हणीयपापमभ्युपगम्यत एवेति न दोष इति चेत्, न । अभ्यन्तरपापमात्रस्य गर्हापरायणजनाप्रत्यक्षत्वेन त्वन्मतेऽगर्हणीयत्वात् तत्सामान्येनाभोगस्य हेतुत्वात् । मोहाजन्यागर्हणीयपापेऽनाभोगस्यान्यत्र च तत्र मोहस्य हेतुत्वान्न दोष इति चेत्,न । गर्हणीयपापहेतोर्मोहस्यागर्हणीयपापहेतुत्वाभावाद्, अन्यथा तजन्यगईणीयागर्हणीयोभयस्वभावैकपापप्रसङ्गादिति न किश्चिदेतत् ॥ ५२ ॥ द्रव्याश्रवस्य मोहजन्यत्वमेव व्यक्त्या निराकुर्वनाह'णियणियकारणपजवा दवासवपरिणई ण मोहाओ। शहरा दवपरिग्गहजुओ जिणो मोहवं हुज्जा॥५३॥ व्याख्या-द्रव्याश्रवाणांमाणातिपात-मृषावादादीनां परिणतिर्निनिजकारणानि यानि नोदनाभिवातादियोगव्यापारमृषाभाषावर्गणाप्रयोगादीनि तत्पभवा सती न मोहान्मोहनोयकर्मणो भवति-मोहजन्या नेत्यर्थः । क्वचित्प्रवृत्यर्थं मोहोदयापेक्षायामपि द्रव्याश्रवखावच्छिन्ने मोहनीयस्याहेतुत्वाद्, अन्यथाऽऽहारसंज्ञावतां केवलाहारप्रवृत्तौ बुभुक्षारूपमोहोदयापेक्षणात्कवलाहारखावच्छिन्नेऽपि मोहस्य हेतुखात् केवली कवलभोज्यपि न स्यादिति दिगम्बरसगोत्रखापत्तिरायुष्मतः।। ____ अथ कवलाहारस्य वेदनीयकर्मप्रभवसान तत्र मोहनीयस्य हेतुत्वम्, आश्रवस्य तु मोहप्रभवलपसिद्धेर्द्रव्याश्रवपरिणतिरपि मोहजन्यैव, तत्रोदितं चारित्रमोहनीयं भावाश्रवहेतुरसंयतानां सम्पद्यते, संयतानां तु प्रमत्तानामपि सत्तावर्तिचारित्रमोहनोयं द्रव्याश्रवमेव सम्पादयति, सुमङ्गलसाधोरिवाऽऽभोगेनापि जायमानस्य तस्य ज्ञानाद्यर्थमत्यापवादिकत्वेन तजन्यकर्मबन्धाभावात्संयमपरिणामस्यानपायेनाविरतिपरिणामस्याभावात्तदुपपत्तेः । या तु तेषामारम्भिकी क्रिया सा न १ निजनिजकारणप्रभवा द्रव्यानवपरिणतिर्न मोहात् । इतरथा द्रव्यपारिग्रहयुतो जिनो मोहवान् भवेत् ॥ ५ ॥ Page #178 -------------------------------------------------------------------------- ________________ जीवघातजन्या, किन्तु प्रमत्तयोगजन्या; “ 'सही पमत्तजोगो आरंभोति वचनात्; अन्यथाऽऽरम्भिकी क्रिया कस्यचित्पमत्तस्य कादाचित्क्येव स्यात्, तत्कारणस्य जोपघातस्य (कस्य )चित्कादाचित्कखात, अस्ति चारम्भिकी क्रिया प्रमत्तगुणस्थानं यावदनवरतमेव । किश्च-यदि जीवघातेनारम्भिकी क्रिया भवेत् । वदाऽपरोऽप्रमतो दरे, उपशान्तवीतरागस्याप्यारम्भिकी क्रिया वक्तव्या स्याद: अस्ति च तस्य सत्यपि जोवधाते ईपिथिक्येव क्रियेति न जीवघातात्संयवस्यारम्भिको क्रिया, किन्तु प्रमत्तयोगादिति स्थितम् । स च प्रमत्तो योगः प्रमादैभवति । ते च प्रमादा अष्टधा शास्त्रे प्रोक्ताः-१ अज्ञान-२ संशय-३ विपर्यय-४ राग५ देष-६ मतिभ्रंश-७ योगदुष्पणिधान-८ धर्मानादरभेदात् । ते चाज्ञानवर्जिताः सम्यग्दृष्टेरपि सम्भवन्तोऽतः प्रमत्तसंयतपर्यन्तानामेव भवन्ति न पुनरममत्तानामपि, प्रमादाप्रमादयोः सहानवस्थानात् । तेनेहाष्टासु प्रमादेषु यौ रागद्वेषौ प्रमादत्वेनो. यात्तौ (तो) योगानां दुष्पणिधानजननद्वाराऽऽरम्भिकीक्रियाहेतू ग्राह्यौ: तयोश्च तथाभूतयोः फलोपहितयोग्यतया जीवघातं प्रति कारणवस्य कादाचित्कत्वेऽपि स्वरूपयोग्यतया तथात्वं सार्वदिकमेव । यद्यपि सामान्यतो रागद्वेषावप्रमत्तसंयतानामपि कदाचित्फलोपहितयोग्यतयापि जीवघातहेतू भवतस्तथापि तेषां तौ न प्रमादौ; यतनाविशिष्टया प्रवृत्त्या सहकृतयोस्तयोरारम्भिकीक्रियाया अहेतुखाव: तदप्यनाभोगसहकृतयतनाविशिष्टयो रागद्वेषयोर्योगानां दुष्पणिधानजनने साम •भावात् , सम्यगोर्यया प्रवृत्या तयोस्तथाभूतसामर्थ्यस्यापहरणात् , । न चैवं प्रमत्तानां सम्भवति, तेषामयतनया विशिष्टयोस्तयोर्योंगानामशुभताजनकत्वेनारम्भिकीक्रियाहेतुखाद्, अत एव प्रमत्तानां विनाऽपवादं जीवघातादिकं प्रमादसहकृतानाभोगजन्यम् । तदुक्तं दशवैकालिकवृत्तौ-"अयतनया चरन् प्रमादानाभोगाभ्यां प्राणिभूतानि हिनस्तीति " । ततः संयतानां सर्वेषां द्रव्याश्रव एव भवति । तत्र प्रमत्तसंयतानामपवादपदप्रतिषेवणावस्थायामाभोगेऽपि ज्ञानादिरक्षाभिप्रायेण संयमपरिणामानपायाद्रव्यखम्, अन्यावस्थायां खनाभोगाद् । अप्रमत्तसंयतानां खपवादानधिकारिणां घात्यजीवविषयकाभोगप्रमादयोरभाव एवेत्यदिनाभोगसहकृतमविशेषितं मोहनीयं कर्मैव जीवघातादिकारणं सम्पन्नम्, तयोरेकतरस्याभावेऽप्यप्रमत्तसंयतानां द्रव्याश्रवो न भवत्येवेति ततः प्रमत्तान्तानां प्रमादाद् अप्रमत्तानांतु मोहनीयानाभोगाभ्यां द्रव्याश्रवपरिणतिरिति सिद्धमिति ॥ १ सर्वः प्रमत्तयोग आरम्भ इति. . Page #179 -------------------------------------------------------------------------- ________________ १६६ मोह विना द्रव्याश्रवपरिणतिर्न स्वकारणप्रभवा केवलिनः सम्भवतीति चैतत्राह- इतरथा द्रव्याश्रत्रपरिणतेम हजन्यख नियमे द्रव्यपरिग्रहेण वस्त्रपात्ररजोहरणा दिलक्षणेन युतो जिनो मोहवान् भवेत्, द्रव्य हिंसाया इव द्रव्यपरिग्रहपरिणतेरपि त्वम्मते मोहजन्यत्वाद् । न च धर्मोपकरणस्य द्रव्यपरिग्रहत्वमशास्त्रीयमिति शङ्कनीयम्; । " दवओ णाम एगे परिग्गहे णो भावओ १: भावओ णामेगे णो दवओ २, एंगे ओवि भावओवि ३, एगे णो दद्दओवि णो भावओवि ४ । तत्थ अरतदुट्ठस्स मोगरणं दवओ परिग्गहो णो भावओ १ । मुच्छियस्स तदसंपत्तीए भाकओ णो दवओ २, एवं चैव संपत्तीए दवओवि भावओवि ३, चरिमभंगो पुण सुनोति ४ ॥ चतुर्भङया दशवैकालिक - पाक्षिकसूत्रवृत्तिचूर्ण्यादौ प्रसिद्धत्वात् । नच द्रव्यपरिग्रहयुतस्यापि भगवतो मोहवत्वमिष्यते, अतो न द्रव्याश्रवपरिणतिर्मोहजन्येति भावः ॥ ५३ ॥ अनयैव प्रतिबन्द्या केवलिनो द्रव्यहिंसायां सत्यां रौद्रध्यानप्रसङ्गं परापादितं. परिहरन्नाह - एए दoad जिणस्स हिंसाणुबंध संपत्ती । इयं वयणं परिकतं, सारस्कणनाव सारिच्छा ॥५४॥ 'एए'ति । एतेन द्रव्यपरिग्रहयुतस्यापि भगवतो मोहाभावेन द्रव्य वधेऽभ्युपगम्यमाने जनस्य हिँसानुबन्ध सम्माप्तिर्हिसानुबन्धिरौद्रध्यानप्रसङ्गः: छद्मस्थसंयतानां हि घात्यजीवविषयकानाभोगस हकृतमोहनोय लक्षणसहकारिकारणवशेन कायादिव्यापारा जीवघातवो भवन्ति, त एव च योगा घात्यजीवविषयकाभोगसहकृत तथाविधमोहनीयक्षयोपशमादिसहकारिकारणविशिष्टा जीवरक्षाहेतव १ द्रव्यतो नाम एकः परिग्रहः, नो भावतः । भावतो नाम एकः परिग्रहः, नो द्रव्यतः । एको द्रव्यतोऽपि भावतोऽपि । एको नो द्रव्यतोऽपि नो भावतो - sपि । १ तत्र अरक्तद्विष्टस्य धर्मोपकरणं द्रव्यतो परिग्रहः, नो भावतः । २ मूछितस्य तदसंप्राप्त्या भावतो नो द्रश्यतः । ३ एवं चैव संप्राप्त्या द्रव्यतोऽपि भावतोऽपि । ४ चरमभङ्गः पुनः शून्य इति । १ पतेन द्रव्यवधे जिनस्य हिंसानुबंध संप्राप्तिः । इति वचने प्रति संरक्षणभावसारश्यात् ॥ १४ ॥ Page #180 -------------------------------------------------------------------------- ________________ १६७ इत्यनुभवसिद्धम् । केवलिनस्तु योगाः पराभिप्रायेणानाभोगमोहनीयाद्यभावेन परिशेषात् केवलज्ञानसहकृता एव जीवघातहेतवो भवन्ति, केवलज्ञानेन' एताव - तो जीवा अमुक्षेत्रादौ ममावश्यं हन्तव्याः' इति ज्ञात्वैव केवलिना तद्घातात्, तथा च तस्य जीवरक्षादिकं कदापि न भवेत्, केवलज्ञान सहकृततद्योगानां सदा घातकत्वात्, जीवघातस्येव जीवरक्षाया म ( अ ) प्यवश्यभावित्वेन परिज्ञानाद्, उभयत्र केवलज्ञानस्य सहकारिकारणत्वकल्पने च केवलिनो योगानां जीवघावजीवरक्षातू शुभाशुभत्वे सर्वकालं युगपद् भवतः एतच्चानुपपन्नम्, परस्परं प्रतिबन्धकत्वादित्येकतरस्याभ्युपगमे पराभिप्रायेण सर्वकालमशुभत्वमेव सिद्धयतीति हन्तव्यचरमजीवहननं यावद्धिसानुबन्धिरौद्रध्यानप्रसङ्ग इति - एतद्वचनं परस्य प्रक्षिप्तम्, संरक्षणभावस्य संरक्षणानुबन्धिरौद्रध्यानस्य सादृश्याद् द्रव्यपरिग्रहाभ्युपगमे भगवतस्तुल्ययोगक्षेमत्वात् । शक्यं ह्यत्रापि भवादृशेन वक्तुम्, छद्मस्थसंयतानां परिग्राह्यवस्तुविषयकानाभोगसहकृतमोहनीयलक्षणसहकारिकारणवशेन कायादिव्यापाराः परिग्रहग्रहणहेतवतः, अत एव च परिग्राह्यवस्तुविषयकाभोग सहकृत तथाविधमोहनीयक्षयोपशमादिसहकारिकारणविशिष्टाः परिग्रहत्यागहेतव इत्यनाभोगमोहनीयाभावे hafoयोगानां परिग्रहग्रहणे केवलज्ञानमेव सहकारिकारणमिति यावत्केवलिनो धमोंपकरणधरणं तावत् संरक्षणानुबन्धिरौद्रध्यानमक्षतमेवेति । द्रव्यपरिग्रहेऽभिलाषमूलसंरक्षणीयत्वज्ञानाभावान्न रौद्रध्यानमिति यदि विभाव्यते, तदा द्रव्य हिंसायामपि स्वयोगनिमित्तक हिंसा प्रतियोगिनि जीवे स्वष्टहिंसाप्रतियोगित्वरूपघात्यत्वज्ञानाभावादेव न वदिति प्रगुणमेव पन्थानं किमिति न वीक्षसे ? ॥ ५१ ॥ अथ वस्त्रादिधरणं साधोरुत्सर्गतो नास्त्येव, कारणिकत्वात् ; " " तिहिं ठाणेहिं वत्थं धरेज्जा, हिरिवत्तियं परीसहवत्तियं दुगंछावत्तियं' इत्यागमेऽभिधानात् किन्वापवादिकम् । तद्धरणकारणं च जिनकल्पायोग्यानां स्थविरकल्पिकानां सावैदिकमेव, निरतिशयत्वादिति तद्धरणमपि सार्वदिकं प्राप्तम् । तदुक्तं विशेषावश्यके" विहियं सुए चिय जओ धरेज्ज तिहि कारणेहिं वत्थं ति । तेणें चिय तदवस्सं णिरतिसरणं धरेयव्वं ॥ १ त्रिभिः स्थानैः वस्त्रं धारयेत् - हीप्रत्ययं परिषप्रत्ययं जुगुप्साप्रत्ययम् ॥ २ विहितं श्रुत एव यतो धारयेत् त्रिभिः कारणैः वस्त्रमिति । तेनैव तदवश्यं धारयितव्यं निरतिशयेन ॥ जिनकल्पायोग्यानां हीकुत्सा परिषहा यतोऽवश्यम् ! ही उज्जेति वास संयमस्तदर्थे विशेषेण ॥ इति Page #181 -------------------------------------------------------------------------- ________________ जिणकप्पाजोग्गाणं हीकुच्छ-परिसहा जो वस्सं । ... . ही लजंति व सो संजमो तयत्थं विसेसेणं'॥ति (पृ.१०३८.गा.२६०२-३) भगवतश्च यद्यपि वस्त्रादिधरणं ही-कुत्सा-परिषहप्रत्ययं न सम्भवति, तस्य तदभावात् , तथापि शीतोष्णादिपरीषहप्रत्ययं तत् , आहारनिमित्तक्षुत्पिपासापरीषहवरखधरणनिमित्तशीतोष्णादिपरिषहसत्ताया अपि भगवत्यविरोधात् , तथा प्रकारेण तथाविधं कर्म क्षपणीयमित्यभिप्रायाच न रागादिविकल्पः, तथाविधसाध्वाचारस्थितिपरिपालनाभिमायेणैव वा तदिति धर्मार्थमत्युपगृहीतत्वाद् द्रव्यपरिग्रहे भगवतो न दोषः । यजातीयद्रव्याश्रवे संयतानामनाभोगेनैव प्रवृत्तिस्तज्जातीयद्रव्याश्रवस्यैव मोहजन्यत्वाभ्युपगमादनर्थदण्डभूतद्रव्यहिंसादेरेवं तथात्वाद्, धर्मोंपकरणरूपे द्रव्याश्रवे तु संयतानां नानाभोगेनैव प्रवृत्तिः, किन्तु धर्माधर्मार्थमत्याऽपरिग्रहत्वाभोगेनैवेति स्वकारणलब्धजन्मनस्तस्य भगवत्यविरोध:-इत्याशङ्कायामाह अववायोवगमे पुण इत्थं नणं पश्एणहाणी ते । पावंति असुहजोगा एवं च जिणस्स तुज्झमए ॥५॥ — 'अववाओवगमे पुण'त्ति। अत्र भगवतो द्रव्यपरिग्रहेऽपवादोपगमेऽपवादाक्रीकारे पुनस्ते तव प्रतिज्ञाहानिः, अपवादप्रतिषेवणं च संयतेष्वपि प्रमत्तस्यैव भवतीति तव प्रतिज्ञेति । च पुनरेवं धर्मोपकरणसद्भावेनापवादतो द्रव्याश्रवाभ्युपगमे तव मते जिनस्याशुभयोगाः प्राप्नुवन्ति । इदं हि तव मतम्-योगानामशुभत्वं तावन्न जीवघातहेतुत्वमात्रेण, उपशान्तगुणस्थानं यावदममत्तसंयतानां कदाचित्सद्भूतजीवघातसम्भवेन " तत्य णं जे ते अपमत्तसंजया ते णं णो आयारंभा, णो परारंभा, णो तदुभयारंभा, 'अणारंभा” इत्यागमप्रतिपादितानारम्भकत्वानु पपत्तिप्रसक्तेरशुभयोगानामारम्भकत्वव्यवस्थिते, किन्तु फलोपहितयोग्यतया घात्यजीवविषयकाभोगपूर्वकजीवघातहेतुत्वेन; अत्र फलोपहितयोलतयेति पदं केवलि१ अपवादोपगमे पुनरित्यं नूनं प्रतिज्ञाहानिस्ते । प्राप्नुवति अशुभयोगा एवं च जिनस्य तव मते ॥ २ तत्र ये ते अप्रमत्तसंयतास्ते शुभयोगं प्रतीत्य नो आत्मारंभा नो परारम्भा नो बहुभयारम्भा अनारम्भाः ॥ .... Page #182 -------------------------------------------------------------------------- ________________ १६९ योगानामशुभत्वनिवारणार्थमेव, तेषां स्वरूपयोग्यतयैव यथोक्तजीवघातहेतुत्वाद्, न पुनः फलोपहितयोग्यतयापि, कारणानामभावात् । तथाऽशुभत्वं प्रमत्त योगानामेव, तदभिव्यञ्जकं तु प्रमत्त योगानां फलवच्छुभाशुभत्वाभ्यां द्वैविध्याभिधायकमागमवचनमेव । तथाहि-‘“ १ तत्थ णं जे ते पमत्तसंजया ते णं सुहं जोगं पडुच्च णो आयारंभा, जाव अणारंभा । असुहं जोगं पडुच्च आयारंभावि; जाव णो अणारंभत्ति। ” अत्रापि प्रमत्तसंयतानां सामान्यतः प्रमत्ततासिद्ध्यर्थं तदीययोगानां स्वरूपयोग्यतयाऽऽभोगपूर्वकजीवघातहेतुत्वं वक्तव्यम्, कादाचित्काशुभयोगजन्यारम्भकत्वसिद्ध्यर्थं चाभोगोपि घात्यजीवविषयत्वेन व्यक्तो वक्तव्यः, तद्वत एव कस्यचित्प्रमत्तस्य सुमङ्गलसाधोरिवापवादावस्थां प्राप्तस्यात्माद्यारम्भकत्वात्, संयतत्वं च तस्य तदानीमपवादपदोपाधिक विरतिपरिणामस्यानपायाद्, न चैवमप्रमत्तसंयतस्य भवति, तस्यापवादपदाधिकारित्वाभावेनाभोगपूर्वकजीवघात हेतूनां योगानामभावात् । यस्त्वपवादप्रतिषेवणाराहित्यावस्थायामप्यप्रमत्तानामिव सद्भूतजीवघातः स चानाभोगजन्य एव, तदानीमनाभोगस्यापि तस्य विद्यमानत्वाद्, अत एव एवाप्रमत्तानामिव योगानां शुभत्वेन नात्माद्यारम्भकत्वमिति । फलोपहितयोग्यतास्वरूप योग्यतयोश्चायं भेद:- यस्य यदन्तर्गतत्वेन विवक्षितकार्य प्रति कारणता तस्य तदन्तर्गतत्वेनैव फलवत्तया फलोपहितयोग्यता, अन्यथा तु स्वरूपयोग्यता, सत्यपि तस्य कारणत्वे तदितरसकलकारणराहित्येन विवक्षितकार्याजनकत्वात् ; परं स्वरूपयोग्यता एकस्मिन्नपि कारणे सजातीयविजातीयानेकशुभाशुभकाafri नानाप्रकारा आधाराधेयभावसम्बन्धेन सह जाताः कारणसमानकालीनाः, फलोपहितयोग्यतास्तु स्वरूपयोग्यताजनिता अपि कादाचित्का एव, तदितरसकलकारण साहित्यस्य कादाचित्कत्वात् यच्च कादाचित्कं तत्केषाञ्चित्कारणानां कदाचिदपि न भवत्येव तेन फलोपहितयोग्यताः केषाञ्चित्कारणानां सम्भवत्योsपि कादाचित्क्य एव मन्तव्याः; अत एव केवलिनां योगा अशुभकार्यमात्रं प्रति सर्वकाल स्वरूप योग्यताभाज एव भवन्ति, न पुनः कदाचिदपि फलोपहितयोग्यताभाजोऽपि, अशुभकार्यमात्रस्य कारणानां ज्ञानावरणोदयादिघातिकर्मणामभावेन तदितरसकलकारणसाहित्याभावात् । शुभकार्याणां तु यथासम्भव कदाचित्फलोपहितयोग्यतापि स्यात्, तथैव तदितरसकलकारणसाहित्यस्य स - " १ तत्र ये ते प्रमत्तसंयतास्ते शुभं योगं प्रतीत्य नो आत्मारम्भाः, यावदनारम्भाः | अशुभं योगं प्रतीत्य आत्मारम्भा अपि यावद् नो अनारम्भा इति. Page #183 -------------------------------------------------------------------------- ________________ १७० म्भवादिति न कश्चिद्विरोधः । इत्थं चापवाददशायां प्रमत्तसंयतानां योगानां फलोसहित पोग्यतयाऽऽभोगपूर्वकजीवनातहेतुत्वेन यथाऽशुभत्वं तथा केवलिन पत्रादिकस्य धर्मार्थमत्या धर्मोपकरणस्य धरणेऽपि खन्मतनीत्याऽऽभोगपूर्वक परिग्रहग्रहणस्य फलोपहितयोग्यतया हेतूनां योगानामशुभखापत्तिः स्फुटैवेति । अथ यद्यपवादेन धर्मोपकरणग्रहणं भगवतोऽभ्युपगम्येत तदा स्यादयं दोषः, अपवादं च केवलिनः कदापि नाभ्युपगच्छामः, तस्य प्रतिषिद्धप्रतिषेवणात्मकत्वेन स्वरूपतः सावद्यत्वात्; निरवद्यत्वं चास्य पुष्टालम्बन प्रतिषेवितस्य रोगविशेषविनाशकस्य परिकर्मितवत्सनागस्येव प्रायश्चित्तप्रतिपच्यादिना सोपाधिकमेव । यापि " " गंगाए णाविओ णंदो " इत्यादिव्यतिकरोपलक्षितस्य धर्मरुवेरनगारस्य नाविकादिव्यापादनमवृत्तिः सापि परमार्थ पर्यालोचनायां पुष्टालम्बनैव तत्कृतोपसर्गस्य ज्ञानादिहानिहेतुत्वाद्, ज्ञानादिहानिजन्यपरलोकानाराधनाभयेन प्रतिषिद्धमवृत्तेः पुष्टालम्बनमूलवात्; केवलं शक्त्यभावाभावाभ्यां पुष्टालम्बनतदितरापत्रादयोः प्रशस्ताप्रशस्तसञ्जवलनकषायोदयकृतो विशेषो द्रष्टव्यः; ज्ञानादिहानिभयं च केवलिनो न भवतीति तस्य नापवादवार्त्तापि । यच्च धर्मोपकरणधरणं तद्व्यवहारनयप्रामाण्या र्थम्, व्यवहारनयस्यापि भगवतः प्रमाणीकर्त्तव्यत्वाद् । इत्थं च ' श्रुतोदितरूपेण धर्मोपकरणधरणेन केवलिलक्षणहानि:, 'इदं सावद्यम्' इति प्रज्ञाप्य तत्प्रतिषेवणाद्, अत एव - "", "ववहारो विहु बलवं जं वंदइ केवली वि छउमत्थं । आहाकम्मं भुंजइ सुअववहारं पमाणतो " ॥ १ ॥ केवलं निश्चयोsपि स्वविषये व्यवहारोऽपि बलवान् । यद्यस्मात्कारणात् समुत्पन्न केवलज्ञानोऽपि शिष्यो यद्यपि निश्चयतो विनयसाध्यस्य कार्यस्य सिद्धत्वात्केवली न कस्यचिद्वन्दन । दिविनयं करोति, तथापि व्यवहारनयमनुवर्त्तमानः पूर्वविहितविनयो गुरुं वन्दते - आसनदानादिकं च विनयं तस्य तथैव करोति, यावदद्यापि न ज्ञायते, ज्ञाते पुनर्गुरुरपि निवारयत्येवेति भावः । अपरं च - " अतीवगूढाचारेण केनचिद् गृहिणा विहितमाधाकर्म तच्च श्रुतोक्तपरीक्षया परीक्षमाणे नाप्यशठेन छद्मस्थसाधुनाऽविज्ञातं गृहीत्वा केवलिनिमित्तमानीतं यथावस्थितं 'गंगायां नाविको नन्दः' इत्यादि आवश्यककथानके द्रष्टव्यम् । २ व्यवहारोऽपि खलु बलवान् यद् वन्दते केवल्यपि छद्मस्थम् | आधाकर्म भुङ्क्ते श्रुतव्यवहारं प्रमाणयन् ॥ Page #184 -------------------------------------------------------------------------- ________________ च केवलिनस्तजानतो निश्चयनयमतेनाभोक्तव्यमपि श्रुतरूपं व्यवहारनयं प्रमाणीकुर्वन्नसौ भुङ्ग एव, अन्यथा श्रुतमपमागं कृतं स्यात् , एतच्च किल न कर्तव्यम्, व्यवहारस्य सर्वस्य प्रायः श्रीनव प्रवर्तमानवात् , तस्माद् व्यवहारनपोऽपि बलवानेव केलिना समर्थितवान्।” इति पुष्पमालामूत्रवृत्त्यादिवचनात् केवलिनोऽनेषगीयाहारस्य प्रवृत्तिसिद्धावपि नापत्रादसिद्धिः, ज्ञानादिहानिभयेन तत्राप्रवृत्तेः, श्रुतव्यवहारशुद्धयर्थमेव तत्र प्रकृतेः, तत्र 'इदं सावद्यम्' इति भणितेर भावान वचनविरोधः । 'यदि च तदनेषगीयं कथश्चित् कदाचिदपि केवलिना भुक्तम् ' इति छमस्थज्ञानगोचरीभवेत् तर्हि केवलो न भुङ्ग एव, केवल्यपेक्षया श्रव्यवहारशुद्धरेवाभावाद्, 'अश्रुद्वमिति ज्ञाखापि केवलिना भुक्तम्' इति छमस्थेन ज्ञातवात् । अत एव रक्तातिसारोपशमनार्थ रेवतीकृतकूष्माण्डयाको भगवता श्रीमहावीरेण प्रतिषिद्धः कदाचित्साधुना श्रुतव्यवहारशुद्धयानोतोऽपि: रेवतो तु जानात्येव-यद् भागवता श्रीमहावीरेण ज्ञात्वैव भुक्त इति छद्मस्थज्ञानगोचरत्वेन श्रुाव्यवहारमा एरोति रहस्यम् । एतेन केवलिनोऽभिपायाभावाजीवघातादौ सत्यपि न दोष इति पराशङ्कापि परास्ता, रेवतीकाकूष्माण्डपाकपरित्यागानुपपत्तिप्रसक्तेः। किश्च-स्वतन्त्रक्रियावतो ज्ञानपूर्वकप्रवृत्तावभिप्रायाभावं वक्तुं कः समर्थः ? न च श्राव्यवहारशुद्धमनेषणीयं भुआनः केवली सावद्यमतिषेविता भविष्यतीति शङ्कनीयम्, सर्वेषामपि व्यवहाराणां जिनाज्ञारूपत्वेन श्रुतव्यवहारस्य सावद्यत्वाभावात् , तच्छुद्धयानीतस्य निरवद्यखाद् । अयं भावः-यथाऽप्रमत्तसंयतो जीववधेडप्यवधकः, १ अवहगो सो उत्ति ओपनियुक्तिवचनात् , अनाभोगे सत्यप्यप्रमत्ततायास्तथामाहात्म्यात् , यथा चोपशान्तमोहवीतरागो मोहसत्तामात्रहेतुके सत्यपि जोगाते केवलियद्वीतरागो नात्सूत्रचारी च, मोहनोयानुदयस्य तथामाहात्म्यात्; तथा श्रुतव्यवहारशुद्धेर्माहात्म्यादनेषणीयमपीतरैपणीयमेवेति कुतः सावध प्रतिषेवित्वगन्धोऽपीति चेत्, तदिदमखिलं गूढशब्दमात्रेणेव मुग्धप्रतारणम् । यतो यदि भगवत्स्वीकृतद्रव्यपरिग्रहानेषणीयाहारयोः स्वरूपतः सावद्यत्वेऽपि श्रुतव्यवहारशुद्ध स्योपादेयत्वधिया दोषानावहत्वं तदाऽपवादस्थानीयत्वमेव तयोः प्राप्तम्, औपाधिकशुद्धताशालित्वात् । न चापवादः स्थविरकल्पनियत इति कल्पातीतस्य भगवतस्तदभावः, एवं सत्युपसर्गस्याप्यभावापत्तेः, तस्यापि जिनकल्पस्थविरकल्पनियतत्वाद् । यदि चोत्सर्गविशेष एव कल्पनियत इति तत्सा १ अवधकः स तु । Page #185 -------------------------------------------------------------------------- ________________ १७२ मान्यस्य भगवति नासम्भवस्तदाऽपवाद विशेषस्यैव तथात्वे तत्सामान्यस्यापि भगवत्यनपायत्वमेव । युक्तं चैतत् तीर्थकृतोऽप्यतिशयाद्युपजीवनरूपस्वजीत कल्पादन्यत्र साधु सामान्यधर्मताप्रतिपादनात् । तदुक्तं बृहत्कल्पभाष्यवृत्योः- “ परः प्राह-यदि यथत्माचीनगुरुभिराचीर्ण तत्तत्पाश्चात्यैरप्याचरितव्यम्, तर्हि तीर्थकरे: प्राकारछत्रत्रयादिका प्राभूतिका तेषामेवार्थाय सुरैर्विरचिता समुपजीविता, तथा वयमप्यस्मनिमित्तकृतं किं नोपजीवामः । सूरिराह 'कामं खलु अणुगुरुणो धम्मा तह वि हु ण स साहम्मा । गुरुण जंतु अस पाहुडिआई समुवजीवे ॥ १ ॥ काममनुमतं खल्वस्माकं यदनुगुरवो धर्मास्तथापि न सर्वसाधर्म्याचि न्त्यते, किन्तु देशसाधर्म्यादेव । तथाहि - गुरवस्तीर्थकराः, यत्तु यत्पुनरतिशयान् प्राभृतिका सुरेन्द्रादिकृता समवसरणरचना तदादीन् आदिशब्दादवस्थितनखरो माधोमुख कण्टकादिसुरकृतातिशयपरिग्रहः समुपजीवन्ति स तीर्थंकृज्जीतकल्प इति कृत्वा न तत्रानुधर्मता चिन्तनीया । यत्र पुनस्तीर्थकृतामितरेषां च साधूनां सामान्यधर्मत्वं तत्रैवानुधर्मता चिन्त्यते । सा चेयमाचीर्णेति दश्यते, २सगडद्दहसमभोमे अविअ विसेसेण विरहिअतरागं । तहवि खलु अणानं एस धम्मो पवयणस्स ॥ १ ॥ यदा भगवान् श्रीमन्महावीरस्वामी राजगृहनगरादुदायननरेन्द्रप्रत्राजनार्थं सिन्धुसौवीरदेशवतंसं वीतभयं नगरं प्रस्थितस्तदा किलापान्तराले बहवः साधवः क्षुधार्त्तास्तृषार्त्ताः संज्ञावाधिताश्च बभूवुः । यत्र भगवन्नावासितस्तत्र तिलभृतानि शकटानि पानोयपूर्णथ ह्रदः समभौमं च गर्त्ता बिलादिवर्जितं स्थण्डिलमभवद्, अपि च तत्तिलोदकस्थण्डिलजातं विरहिततरमतिशयेनागन्तुकैस्तदुत्थैव जीवैर्वर्जितमित्यर्थः । तथापि खलु भगवता नाचीर्णे नानुज्ञातम् - एषोऽनुधर्मः प्रवचनस्य सर्वैरपि प्रवचनमध्यमध्यासीनैरशस्त्रो पहतपरिहारलक्षण एव धर्मेऽनुगन्तव्य इति भावः । एतदेव विवृणोति— १ कामं खलु अनुगुरवो धर्मास्तथापि खलु न सर्वसाधर्म्यात् । गुरवो यत्त्वतिशयान् प्राभृतिकादीन् समुपजीवन्ति ॥ २ शकट - हृद - समभौममपि च विशेषेण विरहिततरम् । तथापि खल्वनाचीर्णमेषोऽनुधर्मः प्रवचनस्य ॥ Page #186 -------------------------------------------------------------------------- ________________ १७३ 'वुकंनजोणि- थंडिल - असा दिना विई (पीडि) अवि छुहाइ । तहवि ण गिव्हिसुं जिणो मा हु पसंगो असत्थहए " ॥ 3 66 यत्र भगवानावासितस्तत्र बहू ने तिलशकटान्यावासितान्यासन् । तेषु च तिला व्युत्क्रान्तयोनिका अशस्त्रोपहता अप्यायुः क्षयेणाचित्तिभूताः । ते च यstefuse स्थिताः स्युस्ततो न कल्पेरन्, अत आह— स्थण्डिले स्थिताः, एवंविधा अपि त्रसैः संसक्ता भविष्यन्ति, अत आइ - अत्रसाः - तदुद्भवागन्तुकत्रसविरहिताः, तिलशकटस्वामिभिर्गृहस्थैश्च दत्ताः एतेनादत्तादानदोषोऽपि तेषु नास्तीत्युक्तं भवति । अपि च ते साधवः क्षुधा पीडितां आयुषः स्थितिक्षयमकार्षुः, तथापि श्रीजिनो वर्द्धमानस्वामी नाग्रहीत् मा भूदशस्त्रहते प्रसङ्गः, 'तीर्थङ्करेणापि feat ' इति मदीयमालम्बनं कृत्वा मत्सन्तानवर्त्तिनः शिष्या अशस्त्रोपहतं मा ग्राहिषुरिति भावः । युक्तियुक्तं चैतत् प्रमाणस्थ पुरुषाणाम् । यत उक्तम'विषीदति प्रमाणानि प्रमाणस्थैर्विसंस्थुलै : ' इत्यादि । अत्र हि स्वजीतकल्पातिरिक्तस्थले तीर्थकृतः साधुसमानधर्मता प्रोक्ता, सा चाशस्त्रोपहत सचित्तवस्तुनोऽग्रहणेनोपपादिता, तच्चातिप्रसङ्गनिराकरणाभिप्रायेण स च श्रुताप्रामाण्यबुद्धचैत्र स्यात् न तु भगवता प्रतिवेवितमिति छद्मस्थबुद्धिमात्रेण, छद्मस्थैरुत्सर्गतः प्रतिषिद्धत्वेन ज्ञायमानयोरपि भगवतो निशाहिण्डन - भेषजग्रहणादिप्रवृत्तेः श्रवणाद्, अपवादतोऽप्रतिषिद्धत्वज्ञानात्, तद्दर्शनेन छद्मस्थानामतिप्रसङ्ग इत्युक्तौ च सिनायासेनैव भगवतोऽपवादमवृत्तिः तस्मादुन्नत निम्नदृष्टान्तप्रदर्शितपरस्परप्रतियोगिप्रकर्षापकर्षशालिगुणोपहित क्रियारूपोत्सर्गापवादाभावेऽपि साधुसमानधर्मतावचनाद् भगवति सूत्रोदितक्रियाविशेषरूपयास्तयोर्यथोचिततया सभवोऽविरुद्ध इति युक्तं पश्यामः तथा च धर्मोपकरणानेपणीयादिविषयप्रवृत्तेर्भगवतः स्वरूपत आपवादिकत्वेन तव मते आभोगेन प्रतिषिद्धविषयप्रवृत्त्युपधानस्य योगाशुभतानियामकत्वात् तया भगवद्द्योगानामशुभत्वापत्तिर्वज्रलेपायितैव । यदि च यत्तु श्रुतव्यवहारशुद्धस्याप्यनेषणीयत्वेनाभिधानं तत् श्रुतव्यवस्थामधिकृत्यैवावसातव्यम्, 'यथाऽयं साधुरुदयनो राजा' इत्यत्र राजत्वमगृहीतश्रामण्यावस्थामपेक्ष्यैवेति स्ववचनाश्रयणाद् भगवत्स्वीकृताना ( नां) श्रुतव्यवहारसिद्धाना (नां) प्रतिषिद्धत्वाभिमतविषयप्रवृति (ती) नां वस्तुतेा न प्रतिषिद्धविषयत्वम्, न " १ व्युकान्नयोनि स्थण्डिल - अत्रमा दत्ताः अपि पीडिता क्षुधा । तथापि मा ग्रहीत् जिनो मा खलु प्रसङ्गोऽशस्त्रहते ॥ Page #187 -------------------------------------------------------------------------- ________________ वा ताभिः 'इदं सावद्यम्' इति प्रज्ञाप्य प्रतिषेवित्वम्, इदमित्यनेन प्रत्यक्षव्यक्तिग्रहणात् तस्यावानवद्यत्वादिति विभाव्यते, तदा 'अनेषणीयं न ग्राह्यम्' इत्यादिसामान्यप्रतिवेधवाक्ये श्रुतव्यवहारश्रुद्धानेषणीयातिरिक्तानेषणीयादेनिषेध्यत्वं वक्तव्यम्; तथा चापवादिकमन्यदपि कृत्यं श्रुतव्यवहारसिद्धमित्यपतिषिद्धमेवेत्या भोगेन प्रतिषिद्धविषयप्रवृत्तिः साधूनां वापि न स्यादिति खदपेक्षया यतीनाम शुभयोगत्वमुच्छिद्येतैवेति प्रमत्तानां शुभाशुभयोगत्वेन द्वैविध्यप्रतिपादकागमविरोधः, तस्मादाभोगेन जीवघातोपहितत्वं न योगानामशुभत्वम्, अशुभयोगजन्यजीवधातो जोवारम्भकत्वव्यवहारविषयः, अशुभयोगारम्भकपदयोः पर्यायखप्रसङ्गाद्, एकेन्द्रियादिष्वारम्भकत्वव्यवहाराभावप्रसङ्गाच; नहि ते आभोगेन जोवं नन्तीति। अस्ति च तेष्वप्यारम्भकव्यवहारः। तदुक्तं भगवतीवृत्तौ-" तत्थ णं जे ते असंजया ते अविरई पडुच्च आयारंभा वि जावणो अणारंभा" इत्यस्य व्याख्याने इहाय भावः-यद्यसंयतानां सूक्ष्मैकेन्द्रियादीनां नात्मारम्भकादित्वं साक्षादस्ति, तथाप्यविरतिं प्रतीत्य तदस्ति तेषाम्, न हि ते ततो निवृत्ताः: अतोऽसंयतानामविरतिस्तत्र कारणमिति । निवृत्तानां तु कश्चिदात्माघारम्भकत्वेऽप्यनार म्भकलम् । यहाह- ‘जा जयमाणस्स' इत्यादि: किन्तु सूत्रोदितेतिकर्तव्यतोपयोगपूर्वकव्यापारत्वं शुभयोगत्वं तदनुपयोगपूर्वकव्यापारत्वं चाशुभयोगसम्, तदुक्तं भगवतीवृत्ती-“शुभयोग उपयुक्ततया प्रत्युपेक्षणादिकरणम्, अशुभयो. गस्तु तदेवानुपयुक्ततयेति । तत्र शुभयोगः संयतानां षष्ठेऽपि गुणस्थाने संयमस्व भावादेव, अशुभयोगश्च प्रमादापाधिकः । तदुक्तं तत्रैव-" प्रमत्तसंयतस्य हि शुभोऽशुभश्व योगः स्यात् , संयतखात्प्रमादपरखाच्चेति” । तत्र प्रमत्तसंयतानामनुपयोगेन प्रत्युपेक्षगादिकरणादशुभयोगदशायामारम्भिकोक्रियाहेतुव्यापारवत्वेन सामान्यत आरम्भकत्वादात्मारम्भकादित्वम् , शुभयोगदशायां तु सम्यक्रियोपयोगस्यारम्भिको क्रियाप्रतिबन्धकत्वात् , तदुपहितव्यापाराभावेनानारम्भकत्वम्, प्रमत्तगुणस्थाने सर्वदाऽऽरम्भिकीक्रियाभ्युपगमस्त्वयुक्तः, अनियमेन तत्र तत्प्रतिपादनात् । तदुक्तं प्रज्ञापनायां क्रियापदे- आरंभियाणं भंते ! किरिया कस्स कन्जइ, गो०, अण्णयरस्सावि पमत्तसंजयस्स ” इति । अत्रा १तत्र येते असंयतास्ते अविरतिं प्रतीत्य आत्मारम्भाअपि यावद् नो अनारम्भाः। २ आरम्भिकानां भदन्त ! क्रिया कस्य क्रियते ? गौतम ! अन्यतरस्यापि प्रमत्तसंयतस्य । Page #188 -------------------------------------------------------------------------- ________________ पिशब्दो भिन्नक्रमः, प्रमत्तसंयतस्याप्यन्यतरस्यैकतरस्य कस्यचित्यमादे सति कायदुष्प्रयोगभावतः पृथिव्यादेरुपमर्दसम्भवाद् अपिशब्दोऽन्येषामधस्तनगुणस्थानवत्तिनां नियमप्रदर्शनार्थः। प्रमत्तसंयतस्याप्यारम्भिकी क्रिया भवति किं पुनः शेषाणां देशविरतप्रभृतोनामिति-अस्यां व्यवस्थायां सिद्धायां जानतोऽपि भगवतो धर्मोपकरणधरणेऽवर्जनीयस्य द्रव्यपरिग्रहस्येव गमनागमनादिधर्म्यव्यापार ऽवर्जनीयद्रव्यहिंसायामप्यप्रमत्तत्वादेव नाशुभयोगत्वमिति प्रतिपत्तव्यम् । तत्र भगवता धर्मोंपकरणसत्त्वेऽपि मूर्छाऽभावेन परिग्रहत्वत्यागान्न परिग्रहदोषः, द्रव्यहिंसायां तु सत्यां प्राणवियोगरूपतल्लक्षणसत्त्वात्तद्दोपः स्यादेवेति व्यामूढधिया शङ्कनीयम; 'प्रमादयोगेन प्राणव्यपरोपणं हिंसा'-इति तत्त्वार्थे तल्लक्षणकरणाद् भगवति तदभावादेव, अत एव ' हिंसा नियता दोषः, परिग्रहस्त्वनियतो दोषः' इत्यप्यवास्तम्, मैथुनादन्यत्राश्रवेऽनियतदोपखप्रतिपादनात् । तदुक्तं तत्त्वार्थवृत्तौ-"प्रमत्तयोगादभिधानमनृतम्, प्रमत्तयोगाददत्तादानं स्तेयम्, प्रमत्तयोगान्मूर्छा परिग्रहः, मैथुने प्रमत्तयोगादिति पदं न,यत्राप्रमत्तस्य तथाभावे सति तत्र प्रमत्तयोगग्रहणमर्थवद् भवति, प्रमत्तस्य कर्मबन्धो नाप्रमत्तस्येति प्राणातिपा- ' तवन्मैथुने तु रागाद्वेषान्वयाविच्छेदात् सर्वावस्थास्तु मैथुनासेविनः कर्मबन्ध इत्या- . दि।” एतेन द्रव्यहिंसया भगवतः प्राणातिपातकत्वप्रसङ्गोऽपि निरस्तः, द्रव्यपरिग्रहेण परिग्रहित्वप्रसङ्गतुल्ययोगक्षेमत्वात् । किञ्च वीतरागाणामप्रमत्तानां च जीवविराधनायां सत्यामप्यारम्भिकीप्राणातिपातिकी क्रियाऽभाव एव भणितः। तदुक्तं भगवत्यां,-'तत्थणं जे ते संजया ते दुविहा पण्णत्ता । तं०सरागसंजया य वीयरायसंजयाय । तत्थणं जे ते वीयरागसंजया ते णं अकिरिया। तत्थ णं जे ते सरागसंजया, ते दुविहा पण्णत्ता। तं०-पमत्तसंजया य अपमत्तसंजया य । तत्थ णं जे ते अपमत्तसंजया, तेसिणं एगा मायावत्तिया किरिया कज्जइ, तत्थ णं जे ते पमत्तसंजया तेसिणं दो किरियाओ कज्जति । तं०-आरंभिया य मायावत्तिआ य इत्यादि " । एतद्वत्तिर्यथा-" सरागसंजय'त्ति अक्षीणानुपशान्तकषाया, 'वोयरागसंजय' त्ति उपशान्तकषायाः क्षीणकषायाश्च । 'अकिरिय' १ तत्र च येते संयतास्ते द्विविधाः प्रज्ञप्ताः । तद्यथा-सरागसंयताश्च वीतरागसंयताश्च । तत्र च ये ते वीतरागसंयता ते चाक्रियाः। तत्रं ये ते सरागसंयतास्ते द्विविधाः प्रज्ञप्ताः । तद्यथा-प्रमतसंयताश्च अप्रमत्तसंयताश्च । तत्र येते अप्रमत्तसंयतास्तेषामेका मायाप्रत्ययिका क्रिया क्रियते । तत्र येते अप्रमत्तसंयतास्तेषां द्वे क्रिये क्रियेते, आरम्भिका मायाप्रत्ययिका च ॥ Page #189 -------------------------------------------------------------------------- ________________ १७६ त्ति वीतरागत्वेनारम्भादीनामभावाद क्रियाः। 'एगा मायावत्तिय' त्ति अप्रमत्तसंयतानामेकैव मायाप्रत्यया क्रिया 'कज्जइति क्रियते भवति: कदाचिदुड्डाहरक्षणप्रवृत्तानामक्षीणकषायत्वादिति । 'आरंभिय'त्ति प्रमत्तसंयतानां सर्वः प्रमत्तयोग आरंभ इति कृत्वाऽऽरम्भिकी स्यात् , अक्षीणकषायत्वाच्च मायाप्रत्ययेति । तथा तत्रैवाष्टशते षष्ठोद्देशके प्रोक्तं-" 'जीवेणं भंते ! ओरालियसरीराओ कइ किरिए ? गो० सिय तिकिरिए, सिय चउकिरिए, सियपंच किरिए, सिय अकिरिएत्ति” ॥ एतत्तिर्यथा-" परशरीरमौदारिकाद्याश्रित्य जीवस्य नारकादेश्च क्रिया अभिधातुमाह-'जीवेणमित्यादि।' ओरालियसरीराओ'त्ति औदारिकशरीरमाश्रित्य कतिक्रियो जीव इति प्रश्नः। उत्तरं तु 'सिय तिकिरिय'त्ति । यदेकजीवोऽन्यस्य पृथिव्यादेः सम्बन्थ्यौदारिकशरीरमाश्रित्य कायं व्यापारयति तदा त्रिक्रियः, कायिक्यधिकरणिकीपाद्वेषिकीनां भावाद्, एतासां च परस्परेणाविनाभूतखात् स्यात् ' त्रिक्रियः' इत्युक्तम्, न पुनः स्याद् ‘एकक्रियः' स्याद् 'विक्रिय' इति । अविनाभावश्च तासामेवमधिकृतधिया ह्यवीतरागस्यैव नेतरस्य, वथाविधकर्मबन्धाहेतुंखाद्, अवीतरागकायस्य चाधिकरणत्वेन प्रद्वेषान्वितत्वेन च कायक्रियासद्भावे इतरयोरवश्यंभावः, इतरभावे कायिकोसद्भावः। उक्तं च प्रज्ञापनायामिहाथै-" २जस्स णं जीवस्स काइआ किरिया कज्जइ तस्स अहिंगरणिया णियमा कन्जइ, जस्स अहिगरणिया किरिया कन्जइ तस्स वि काइया किरिया णियमा कज्जइ” इत्यादि,। तथाऽऽद्यक्रियात्रयसद्भावे उत्तरक्रियादयं भजनया भवति । यदाह- जस्स णं जीवस्स काइया कज्जइ, तस्स पारियावणिया सिय कज्जइ, सिय णो कज्जइ” इत्यादि । ततश्च यदीयकायव्यापारद्वारेणाद्यक्रियात्रय एव वर्त्तते, न तु परितापयति न चातिपातयति, तदा त्रिक्रिय एवेति, अतोऽपिस्यात् 'त्रिक्रिय' इत्युक्तम् । यदा तु परितापयति तदा चतुष्क्रियः, आयक्रियात्रयस्य सत्रावश्यभावाद् । यदा खतिपातयति तदा पञ्चक्रिया, चतुष्कस्य तत्रावभावाद् । उक्तं च-" जस्स पारिआवणिया किरिया कज्जइ तस्स काइया णियमा कज्ज १ जीवो भदन्त ! औदारिकशरीरात कतिक्रियः ? गौतम ! स्यात् त्रिक्रियः, स्यात् चतुष्क्रिय. स्यात् पञ्चक्रियः, सक्रिय इति । २ यस्य जीवस्य कायिकी क्रिया क्रियते, तस्याधिकरणिकी नियमाक्रियते। यस्याधिकरणिकी क्रिया क्रियते तस्यापि कायिकी क्रिया नियमाक्रियते। ३ यस्य जीवस्य कायिकी क्रियते तस्य पारितापनिकी स्यात् क्रियते, स्यात् नो क्रियते । ४ यस्य पारितापनिकी क्रिया क्रियते तस्य कायिकी नियमात् क्रियते । Page #190 -------------------------------------------------------------------------- ________________ १७७ इ" इत्यादि । अत एवाह-"सिय चउकिरिए,' सिय पंचकिरिएत्ति तथा सिअअकिरिए” त्ति । वीतरागावस्थामाश्रित्य, तस्यां हि वीतरागलादेव न सन्त्यधिकृतक्रिया इति । एतद्वचनानुसारेण ह्येतत्प्रतीयते-यदारम्भिकी क्रिया प्रमादपर्यन्तमेव, न तु जीवविराधनायां सत्यामप्युपरिष्टादपि । प्राणातिपातक्रिया च प्रवेपेण प्राणातिपातकाल एव, न च पृथिव्यादीनां तदसम्भवः, तत्कृताकुशलपरिणामानिवृत्यैव तत्प्रतिपादनादिति । साप्यप्रमत्तस्य न सम्भवति । न चावीतरागकायस्याधिकरणत्वेन प्रद्वेषान्वितत्वेन च कायिकीक्रियासद्भावे त्रिक्रियत्वस्य नियमप्रतिपादनाद् एवंभूतस्याप्रमत्तस्यापि प्राणातिपातव्यापारकाले प्राणातिपातिकीक्रियासम्भव इति वाच्यम्, कायिकीक्रियाया अपि प्राणातिपातजनकप्रद्वेषविशिष्टाया एव ग्रहणाद्, इत्थमेवाद्यक्रियात्रयनियमसम्भवात् । तदुक्तं 'प्रज्ञापनावृत्तौ'-" इह कायिकी क्रिया औदारिकादिकायाश्रिता प्राणातिपातनिर्वर्तनसमर्था प्रतिविशिष्टा परिगृह्यते, तथा काचन कार्मणकायाश्रिता वा, तत आद्यानां तिसृणां क्रियाणां परस्परं नियामकभावः कथमिति चेत् ; उच्यते-कायोऽधिकरणमपि भवतीत्युक्तं प्राक, ततः कायस्याधिकरणत्वात कायिक्यां सत्यामवश्यमाधिकरणिकी. आधिकरणिक्यामवश्यं कायिकी, सा च प्रतिविशिष्टा कायिकी क्रियापद्वेषमन्तरेण(न) भवति,ततः प्राद्वेषिक्यापिसह परस्परमविनाभावः।प्रदेषोऽपि च कायेन स्फुटलिङ्ग एव, वक्त्ररूक्षत्वादेस्तदविनाभाविनः प्रत्यक्षत एवापलम्भाद् । उक्तं च-"रूक्षयति रूक्षतो ननु वक्त्रं स्निह्यति च रज्यतः पुंसः। औदारिकोऽपि देहो भाववशात् परिणमत्येवम॥” इति । यदि च प्रद्वेषान्वयाविच्छेदमात्रादवीतरागमात्रस्य कायिक्यादिक्रियात्रयनियमः स्यात् , तदा मूक्ष्मसम्पराये प्राणातिपातसम्पत्तौ प्राणातिपातक्रियया पड़विधवन्धकखस्याप्युपपत्तौ " जीवेणं भंते ! पाणाइवाएणं कइ कम्मपगडीओ - धइ ? गोअमा ! सत्तविहबंधए वा अविहबंधए वा।" इत्युक्तव्यवस्थानुपपत्तिः। नन्वेवं-" २जीवेणं भंते ! नाणावरणिज्जे कम्मं बंधमाणे कइकिरिए ? गोअमा ! सिय तिकिरिए सिय चउकिरिए सिय पंचकिरिए ।-" इति प्रज्ञापनासूत्रस्य का गतिः? भवदुक्तरीत्या ज्ञानावरणीयं कर्म बध्नतो दशमगुणस्थानवर्तिनोऽक्रिय १ जीवो भदन्त ! प्राणातिपातेन कति कर्मप्रकृतीबध्नाति ? गौतम ! सप्तविधवन्धको वाऽष्टविधवन्धको वा। २ जीवो भदन्त ! ज्ञानावरणीयं कर्म बनन् कतिक्रियः १ गौतम ! स्यात् त्रिक्रियः, स्यात् चतुष्क्रियः स्यात् पञ्चक्रियः । २३ Page #191 -------------------------------------------------------------------------- ________________ १७८ त्वस्यायि सम्भवेन ' स्यादक्रियः' इति भङ्गन्यूनत्वादिति चेत्, स्वसहचरिते स्वकार्ये वा ज्ञानावरणीये प्राणातिपातस्य परिसमाप्तिनिर्वृत्तिभेदम कारोपदर्शनपरमेतत् सूत्रम्, न तु तद्बन्धे क्रियाविभागनियमप्रदर्शनपरम् - इत्येषा गतिरिति गृहाण । तदुक्तं तद्वृत्तौ - " जीवः प्राणातिपातेन सप्तविधमष्टविधं वा कर्म बध्नाति, स तु तमेव प्राणातिपातं ज्ञानावरणीयादि कर्म बध्नन् कतिभिः क्रियाभिः समापयतीति प्रतिपाद्यन्ते । अपि च कार्येण ज्ञानावरणीयाख्येण कर्मणा कारणस्य प्राणातिपाताख्यस्य निर्वृत्तिभेद उपदर्श्यते, तद्भेदाच्च बंधविशेषोऽपीति । उक्तं च- "तिसृभिश्चतfate पञ्चभिश्च क्रियाभिर्हिसा समाप्यते क्रमशः । बन्धोऽस्य विशिष्टः स्याद् योगद्वेषसाम्यं चेद् । इति तमेव प्राणातिपातस्य निर्वृत्तिभेदं दर्शयति- "सिय तिकि.रिए ' इत्यादीति ॥ अथैवमप्रमत्तस्यैवाक्रियत्वस्वामिनः सुलभत्वाद् भगवतीवृत्तौ अक्रियत्वं वीतरागावस्थामाश्रित्यैव कथमुपपादितम् ? इति चेत्, स्पष्टत्वार्थम् । बादरसम्परायं यावत् प्रद्वेषान्वयेन त्रिक्रियत्वाभ्युपगमेऽपि सूक्ष्मसम्परायस्याक्रियत्वस्थानस्य परिशिष्टत्वेनैतदुपपादनार्थम, एतत्प्रकारस्यावश्याश्रयणीयत्वात् । प्रद्वेषाभावेन तत्र कायिक्यधिकरणिकीक्रियाभ्युपगमे च कायिक्यादिक्रियात्रयस्य परस्परं नियमानुपपत्तिरिति । कायिकी क्रिया द्विविधा - अनुपरतकायिकी क्रिया दुष्प्रयुक्तकायिकी क्रिया चेति सिद्धान्तेऽभिधानात् कायिकी क्रियाssरम्भिक्या समनियता, प्राणातिपातिकी च प्राणातिपातव्यापारफलोपहित्वात् तद्वयाप्यैवेति प्रतिपत्तव्यम्, तत आरम्भकत्वं प्राणातिपातकत्वं च सत्यामपि द्रव्यहिंसायां प्रमतस्यैव नाप्रमत्तस्येति भगवतस्तया तदापादनमयुक्तमेवेति दिक् ॥ ५५ ॥ I अथावश्यंभविन्यां जीव विराधनायामाभोगवतो भगवतो यद् घातकत्वमापद्यते तत्किं लोकोत्तरव्यवहाराद्, उत लौकिकव्यवहाराद्, उताहो स्वमतिविकल्पितव्यबहाराद् ? नाद्यः, लोकोत्तरघातकत्वव्यवहारे आभोगेन जीवविराधनामात्रस्यातन्त्रत्वाद्, आभोगेनापि जायमानायां तस्यामपवादपदप्रतिषेविणोऽघातकत्वस्य, अनाभोगेनापि जायमानायां तस्यां प्रमादिनो घातकत्वस्य च तद्व्यवहारेणेष्टत्वाद् । नापि द्वितीयः, यतो लोका अपि नाभोगेन जीवघातमात्रादेव घातकत्वं व्यबहरन्ति, कूपनष्टायां गवि तत्कर्त्तुर्गोवधकर्तृत्वप्रसङ्गाद्, गोराभोगस्यापि तदा स्फुटत्वाद्, आभोगजन्यत्वस्य च हिंसायामसिद्धत्वाद् । हिंसायां हि जिघांसाहेतु राभोगस्त्वन्यथासिद्ध इत्येतद्देोषवारणार्थं मरणोद्देश्यकमरणानुकूलव्यापारत्वं हिंसा वक्तव्या, तथापि काशीमरणोद्देशपूर्वकानुष्ठाने आत्महिंसात्वापत्तिवारणार्थमदृष्टा Page #192 -------------------------------------------------------------------------- ________________ १७५ द्वारकत्वं विशेषणं देयम्, इत्यदृष्टाहारकमरणोद्देश्यकमरणानुकूलव्यापारत्वमेव हि हिंसा न्यायशास्त्रसिद्धेति तृतीयपक्षोऽवशिष्यते । स तु स्वमतिविकल्पितत्वादेव स्वशास्त्रप्रतिज्ञावाधया महादोषावह इत्यभिप्रायेणाह'अणुसंगयाहिंसाए जिणस्स दोसं तुहं नणंतस्स। साहण वि आनोगा पश्नत्तारा विह मिजा॥५६॥ 'अणुसंगयहिंसाए 'त्ति अनुषङ्गजया-धर्मदेशनामात्रोद्देशकमवृत्युपजायमानकुनयमतखेदादिवत्स्वानुद्देश्यकपत्तिजनितया हिंसया जिनस्य दोषं भणतस्तव साधूनामप्याभोगान्नद्युत्तारादि विघटेत, तेषामपि नद्युत्तारादौ जलजीवादि विराधनाया अध्यक्षसिद्धत्वादिति । नन्वेतदसिद्धम्, नहि जलजीवानामप्रत्यक्षत्वेन तद्विराधनायाः प्रत्यक्षत्वं सम्भवति, प्रतियोगिनोऽप्रत्यक्षत्वे तदनुयोगिनोsप्यप्रत्यक्षत्वात् । न च जलस्य प्रत्यक्षत्वेन तज्जीवानामपि प्रत्यक्षत्वमिति वाच्यम्, इदं जलमिति ज्ञानमात्रेणेदंजलं सचित्तमिति विवेकेन परिज्ञानोदयप्रसक्तेः । तस्मात् " दुविहा पुढविकाइआ प०, तं० परिणया चेव अपरिणया चेव, जाव वणप्फइकाइअ"त्ति श्रीस्थानाङ्गे । “तत्र परिणताः स्वकायपरकायशस्त्रादिना परिणामान्तरमापादिता अचित्तीभूता इत्यर्थः” इत्यादिप्रवचनवचनेन नद्यादिनले सचित्ताचित्तयोरन्यतरत्वेन परिज्ञाने सत्यपि इदं जलं सचित्तम्, इदं वा अचित्तम्-इति व्यक्त्या विवेकमधिकृत्य परिज्ञानाभावेन छद्मस्थसंयतानामनाभोग एव, तेन सिद्धा नद्युत्तारादौ जीवविराधनाऽनाभोगजन्याशक्यपरिहारेणइत्याशङ्कायामाह-- 'वऊतो अ अणिदं, जलजीवविराहणं तहिं सख्। जलजीवाणाजोगं जंपतो किं पलसि ॥५७ ॥ १ अनुषङ्गजहिंसया जिनस्य दोषं तव भणतः । ___ साधूनामप्याभोगाद् नद्युत्तारादि विघटेत ॥ ५६ ॥ २ द्विविधाः पृथ्वीकायिकाः प्रज्ञप्ताः, तद्यथा-परिणताश्चैव अपरिणताश्चैव, यावद् वनस्पतिकायिका इति ॥ ३ वर्जयश्चानिष्ठां जलजीवविराधनां तत्र साक्षात् । जलजीवानाभोगं जल्पयन् किं न लज्जसे ॥ ५७ ॥ Page #193 -------------------------------------------------------------------------- ________________ १८० ' वज्र्जतोय'ति । तत्र नद्युत्तारे जलजीव विराधनामनिष्टां साक्षाद्रर्जयन वर्ज - नोयामभ्युपगच्छंश्च जलजीवानाभोगं जल्पयन् किं न लजसे ? अयं भावः - नद्युतारे बहुजलप्रदेशपरित्यागेनालजल प्रदेश प्रवेशरूपा यतना तावत्त्वयापि स्वीक्रियत्रे, सा च जलजीवानाभोगाभ्युपगमे दुर्घटा, स्वल्पजलं सचित्तं भविष्यति हु जलं चाचित्तमिति विपरीत प्रवृत्तिहेतुशङ्कापिशाची प्रचारस्यापि दुर्वारत्वाद् । भगवदुक्तयतनाक्रमप्रामाण्यानेयं शङ्केति चेत् तर्हि यतनाया अपि बहुतरासस्मवृत्तिनिवृत्तिरूपाया विवेकेन परिज्ञानं न्यूनाधिकजलजीवविराधनाभोगाधीनमिति व्यवहारसचित्ततया जलजीवाभोगाभ्युपगमावश्यकत्वात् तव वदद् (तो) व्याघात एव महात्राकारणमिति । किञ्च नद्यादिजलजीवानां निश्चयतश्छद्मस्थानां सचितत्वापरिज्ञानेऽपि तत्र स्थितपनक सेवालादीनां निश्चयतोऽपि सचित्तत्वं परिज्ञायते एव । तदुक्तमोघनिर्युक्तौ - " 'सव्वो अनंतकाओ सच्चित्तो होइ णिच्छयणयस्स । ववहारओ अ सेसो मीसो पम्हाणरोट्टाइ || १ || ” 46 एतद्वृत्तिर्यथा - सर्व एवानन्तवनस्पतिकायो निश्चयनयेन सचित्तः, शेषः परीतवनस्पतिर्व्यवहारनयमतेन सचित्तो मिश्रच प्रम्लानानि कुसुमानि पर्णानि च, 'रोट्टो लोट्टो तत्थ तंदुलमुहाई अत्यंति, तेण कारणेन मीसो भन्नइत्ति । " ते च पनकशेवालादयो जलेऽवश्यं भाविन इति तद्विषयविराधना निश्चयतोऽप्याभोगेन सिद्धेति । तत्रानाभोगेनैव जीवविराधनेति दुर्बचनम् । न च ते तत्रास्माभिः प्रत्यक्षतो न दृश्यन्ते, अतस्तद्विराधनाsनाभोगजैवेति वक्तव्यम्; स्वच्छस्ताकजलनद्यादिषु पनकादीनामस्माभिरप्युपलभ्यमानत्वेन ' नास्माभिस्ते तत्र दृश्यन्त' - इत्यस्यासिद्धत्वात् । किंच आगमवचनादपि तत्र तदवश्यंभावी निश्चीयते । तदुक्तंप्रज्ञापनातृतीयपदवृत्ती - "वादरतेजस्कायिकेभ्योऽसङ्ख्येयगुणाः प्रत्येकशरीरवादरवनस्पतिकायिकाः, तेभ्यो बादरनिगोदा असङ्ख्येयगुणाः तेषामत्यन्त सूक्ष्मावगाहनत्वाद्, जलेषु सर्वत्रापि च भावात् । पनकसेवालादयो हि जलेऽवश्यंभाविनः, ते च बादरानन्तकायिका इति । तथा बादरेष्वपि मध्ये सर्वबहवो वनस्पतिकायिकाः, अनन्तसङ्ख्याततया तेषां प्राप्यमाणत्वात् । ततो यत्र ते बहवस्तत्र ब १ सर्वोऽनन्तकाय: सचित्तो भवति निश्चयनयस्य । व्यवहारतश्च शेवो मिश्रः प्रम्लानरोट्टादिः ॥ Page #194 -------------------------------------------------------------------------- ________________ २८१ हत्वं जीवानाम्, यत्रत्वल्पे तत्राल्पत्वम् । वनस्पतयश्च तत्र बहवो यत्र प्रभूता आपः, 'जत्थ जल तत्थ वर्ण' इति वचनात् , तत्रावश्यं पनकसेवालादीनां भावात् , ते च पनकसेवालादयो बादरनामकर्मोदये वर्तमाना अपि अत्यन्तमूक्ष्मावगाहनत्वाद् अतिप्रभूतपिण्डीभावाच सर्वत्र सन्तोऽपि न चक्षुषा ग्राह्याः। तथा चोक्तमनुयोगदारेषु-" 'ते णं वालग्गा मुहुमगणगजीवस्स सरीरोगाहणाहितो असंखेजगुणा” इति । ततो यत्रापि नैते दृश्यन्ते, तत्रापि सन्तीति प्रतिपत्तव्याः। आह च मूलटोकाकार:-इह "सर्वबहवो वनस्पतयः" इति कृत्वा यत्र ते सन्ति तत्र बहुत्वं जीवानाम्, तेषां बहुत्वम्, " २जत्थ आऊकाओ तत्थ णियमा वणस्सइकाइआ” इति। पगगसेवालहढाई बायरा वि होंति, सुहुमा आणागेज्झा ण चक्खुण'त्ति ॥ किश्च-नयुत्तारादौ मण्डूकादित्रसविराधना “तसा य पञ्चक्खया चेव”त्ति वचनात् अवश्यं जायमानाभोगपूर्विकेव, इत्येवं च सति जीवोऽयमिति साक्षात्कृत्वा यो जीवघातं करोति तस्य विरतिपरिणामो दूरे, निश्चयतः सम्यक्त्वमपि न स्यात् , अनुकम्पाया अभावेन सम्यक्त्वलक्षणाभावाद्-इत्यादि परोक्तं यत्किञ्चिदेव, आप्तवचनाजीवत्वेन निश्चितस्य विराधनायाः स्वादर्शनमात्रेणाभोगपूर्वपूर्वकत्वाभावे अमोक्तवस्त्राद्यन्तरितत्रसादिविराधनायामपि तदापत्तेः, दृष्ट्वा स्थूलत्रसविराधनायामाभोगविशेषाद्विषयविशेषाच पातकविशेषस्तु स्याद्न चैतावताऽन्यत्रानाभोग एव व्यवस्थापयितुं शक्यते । न खलु राजदारगमने महापातकाभिधानादन्यत्र परदारगमने परदारगमनत्वमेव नेति वक्तुं युक्तम् । एतेनाभोगमूलाऽऽभोगपूर्विका च जोवविराधना विनापराधं मिथ्यादृशोऽपि प्रायोऽनार्यजनस्यैव भवति, सा च नावश्यं भाविनी, प्रायः सम्भविसम्भवात् । संयतानां त्वनाभोगमूलैव सा, नत्वाभोगमूला, अत एव नद्युत्तारादौ सत्यामपि जलजीवविराधनायां संयमो दुराराधो न भणितः, भणितश्च कुन्थूत्पत्तिमात्रेणापि, तत्र निदानं तावदाभोगोऽनाभोगावेव । तत्र यद्यपि संयतानामुभयत्रापि जीव विराधनाऽनाभोगादेव, तथापि स्थावरमूक्ष्मत्रसजीवविषयकोऽनाभोगः सर्वोशैरपि सर्वकालीनो न पुनः क्वाचिकः कादाचित्कच, तस्य चापगमः प्रयत्नशतैरप्यशक्यः, केवलज्ञानसाध्यत्वात् , शक्यश्च कुन्थ्वादिस्थूलत्रसजीवविषयकस्यानाभोगस्य भूयो निरीक्षणादिनेति, तथाभूतं च निरीक्षणं दुःसा १ ते च वालाग्राणि सूक्ष्मपनकजीवस्य शरीरावगाहनाभ्योऽसंख्येयगुणानि ॥ २ यत्राकायस्तत्र नियमाद् वनस्पतिकायिका इति । पनफसेवालहदादयो बादरा अपि भवन्ति सूक्ष्मा आशाग्राहा न चक्षुषेति ॥ ॥ Page #195 -------------------------------------------------------------------------- ________________ १८२ धमिति संयमो दुराराधो भणितः । एवं सम्यक् प्रयत्नपरायणानामपि कदाचित् कुन्ध्वादिस्थूलत्रसजीवविराधना स्यात् । सा च प्रायोऽसम्भविसम्भवेनावश्यभाविनीति वक्तव्यम् । शक्यपरिहारजोवविषयकप्रयत्नवतोऽपि तत्परिहरणोपायस्यापरिज्ञानात्साऽप्यवश्यंभाविनी, विराधना द्वेषा - अनाभोगमूला अनाभोगपूfast, अनाभोगमूला आभोगपूर्विका चेति । तत्राद्य (द्या) जीवघाते जाते सत्येव तत्परिज्ञानाद । द्वितीया तु निम्नमदेशादौ पिपीलिकादिकमवोत्पाटिते पादे दृष्ट्वाऽपि पादं प्रत्यादातुमशक्तस्य जीवघातावसरे जीवविषयकाभोगस्य विद्यमानत्वात् परमनाभोगमूलिकापि स्थूलत्रसजीवविराधना संयतानां तज्जन्यकर्मबन्धाभावेऽपि लोकनिन्द्या भवत्येव, तत्कर्त्तुहिंसाव्यपदेशहेतुत्वात्, तथाव्यपदेशः स्थूल सजीवसम्बन्धित्वेन निजसाक्षात्कारविषयत्वात् । न चैवं केवलिवचसा निश्चिताऽपि सूक्ष्मत्रसजीवविराधना, तस्याभ्छद्मस्थ साक्षात्कारविषयत्वाभावेन हिंसकव्यपदेशहेतुत्वाभावात् । अत एवाब्रह्म सेवायामनेकशतसहस्रपञ्चेन्द्रियजीवविराधकोsपि देशविरतिश्रावको ' जीवविराधकः' इति व्यपदेशविषयो न भवति, (भवति) चैकस्या अपि पिपीलिकाया विराधनेनाभोगेनापि; आभोगे च स्वज्ञातिज्ञातेऽपांतेयोऽपि स्यात् तेन निजसाक्षात्कारविषयीभूताविषयीभूतयोजीवघातयोर्महान् भेदः, अन्यथाऽब्रह्मसेवी श्रावको व्यावादिभ्योऽपि जीवघातक - त्वेनाधिको वक्तव्यः स्यात् - इत्यादि परस्य कल्पनाजालमपास्तम्, संयतानां नद्युतारे जलजीवविराधनाया आभोगमूलत्वेऽप्याज्ञाशुद्धत्वेनैवादुष्टत्वात् । यच्च तया न संयमस्य दुराराधत्वम्, तस्याः कादाचित्कत्वादालम्बनशुद्धत्वाच्च । यथा च कुन्धूत्पत्तिमात्रेण सार्वदिकयतनाहेत्वाभोगदौर्लभ्यात् संयमस्य दुराराधत्वम्, तथा तथाविधक्षेत्रकालादिवशात् सूक्ष्मवीजहरितादिप्रादुर्भावेऽपि सार्वदिकतद्यतनाहेत्वाभोगदौर्लभ्यात् संयमस्य दुराराधत्वमेवेति तु 'दशवैकालिका' ग्रध्ययनवतामपि सूक्ष्माष्टकविदां परिणतलोकोत्तरदयास्वरूपाणां प्रतीतमेव । स्थावरसूक्ष्मत्रस विषयकोsनाभोगः केवलज्ञानं विना दुरत्यय इति तु सूक्ष्माष्टकयतनाविधानान्यथानुपपश्यैव वाधितं परिणामशुद्धयर्थं तद् नतु तदाभोगार्थम् इत्येवं तदाभोगापलापे च स्थूलत्रसाभोगाभ्युपगमोऽप्युच्छिद्येत, तत्रापीत्थं वक्तुं शक्यत्वात्, चेष्टा लिङ्गाभिव्यक्तेः स्थूलत्रसाभोगोऽभिव्यक्त एवेति चेत् पृथिव्यादिजीवाभोगोऽपि जिनवचना भिहित लिङ्गादाज्ञाप्रामाण्याद्वा किं नाभिव्यक्तः ? व्यक्तीयत्तया नाभोगस्तु मनाक्स्पन्दस्कुन्थु तदनुकारिरजखुटिपुत्रेऽपि वक्तुं शक्यत इति न किञ्चिदेतत् । ततो यतनां " Page #196 -------------------------------------------------------------------------- ________________ कुर्वतामशक्यपरिहारा हसा सूक्ष्मस्थूलजीवविषयकभेदेऽप्यशक्यपरिहारत्वेन समानैव, विषयभेदात् तद्भेदं तु व्यवहारेण न वारयामः ।अत एवाब्रह्मसेवायामपि देशविरतस्य कृतसङ्कल्पमूलस्थूलजीवहिंसापत्याख्यानाभङ्गान व्याधादिवद्दुष्टत्वम् । न चैवं देशविरतस्येव साधोरप्याभोगेन पृथिव्यादिवधे न दुष्टत्वमिति साधोः प्रत्याख्यानभङ्गदोषसमर्थनार्थ पृथिव्यादिजीवाभोगोऽप्यवश्यमभ्युपेयः। यदि चस्थूलत्रसविषयक एवाभोगोऽभ्युपगम्येत, तदा तद्विषयैव हिंसैकान्ततो दुष्टा स्यात् , न चैवं जैनप्रक्रियाविदो वदन्ति, तैः क्षुद्रमहत्सत्ववधसादृश्यवसदृश्ययोरनेकान्तस्यैवाभ्युपगमात् । तदुक्तं सूत्रकृताङ्ग 'जे केइ खुद्दगा पाणा अदुवा संति महालया। सरिसं तेहि वेरंति असरिसं ति य णो वए ॥ एतेहिं दोहिं ठाणेहिं ववहारो ण विजई। एतेहिं दोहिं ठाणेहिं अणायारं तु जाणए ॥" त्ति एतद्वत्तिर्यथा-"ये केचन क्षुद्रकाः सत्त्वाः प्राणिन एकेन्द्रियद्वीन्द्रियादयोऽल्पकाया वा पश्चेन्द्रिया अथवा महालया महाकायाः सन्ति विद्यन्ते, तेषां क्षुद्रकाणामल्पकायानां कुन्थ्वादीनां महान् वाऽऽलयः शरीरं येषां ते महालया हस्त्यश्वादयस्तेषां च व्यापादने सदृशं वैरमिति वज्र-कर्म विरोधलक्षणं वा वैरं सदृशं समानम्, तुल्यप्रदेशत्वात सर्वजन्तूनामित्येवमेकान्तेन नो वदेत् । तथा विसदृशमसदृशम्, तद्व्यापत्तौ वैरं कर्मवन्धो विरोधो वा, इन्द्रियविज्ञानकायानां विसदृशत्वात् , सत्यपि प्रदेशतुल्यत्वे न सदृशं वैरमित्येवमपि नो वदेत् । यदि हि वध्यापेक्षयैव कर्मबन्धः स्यात् ततस्तद्वशात् कर्मणोऽपि सादृश्यमसादृश्यं वा वक्तुं युज्यते; न च तशादेव बन्धः, अपि त्वध्यवसायवशादपि; ततश्च तीव्राध्यवसायिनोऽल्पकायसश्वव्यापादनेऽपि महद्वैरम्, अकामस्य तु महाकायसत्त्वव्यापादनेऽपि स्वल्पमिति । एतदेव सूत्रेणैव दर्शयितुमाह-' एतेही 'त्यादि । आभ्यामनन्तरोक्ताभ्यां स्थानाभ्यामनयोर्वा स्थानयोरल्पमहाकायव्यापादनकर्मबन्धसदृशत्व (विसदृशत्व)योर्व्यवहरणं व्यवहारो नियुक्तिकत्वान्न युज्यते। तथाहि-न वध्यस्य सदृशत्वमसदृशत्वं वैकमेव १ येऽपि क्षुद्रकाः प्राणा अथवा सन्ति महालयाः । सदृशं तैर्वैरमिति असदृशमिति च नो वदेत् ॥ एताभ्यां द्वाभ्यां स्थानाभ्यां व्यवहारो न विद्यते । एताभ्यां द्वाभ्यां स्थानाभ्यामनाचारं तु जानीयात् ॥ Page #197 -------------------------------------------------------------------------- ________________ कर्मबन्धस्य कारणम्, अपि तु वधकस्य तीव्रभावो मन्दभावो ज्ञातभावोऽज्ञातभावो महावीर्यत्वमल्पवीर्यत्वं चेत्येतदपि तदेवं वध्यवधकयो विशेषात् कर्मबन्धविशेष इत्येवं व्यवस्थिते वध्यमेवाश्रित्य सदृशत्वासदृशत्वव्यवहारो न विद्यत इति । तथाऽनयोरेव स्थानयोः प्रवृत्तस्यानाचारं विजानीयादिति ॥” तथाहि-यजीवसाम्यात् कर्मबन्धसदृशत्वमुच्यते, तदयुक्तम्, यतो नहि जीवव्यापत्त्या हिंसोच्यते, तस्य शाश्वतत्वेन. व्यापादयितुमशक्यत्वाद्, अपि विन्द्रियादिव्यापत्त्या । तथा चोक्तम् पश्चेन्द्रियाणि त्रिविधं बलं च उच्छ्वासनिःश्वासमथान्यदायुः। प्राणा दशैते भगवद्भिक्तास्तेषां वियोजीकरणं तु हिंसा॥” इत्यादि। अपि च भावसव्यपेक्षस्यैव कर्मबन्धोऽभ्युपेतुं युक्तः। तथा हि-वैद्यस्यागमसव्यपेक्षस्य सम्यक् क्रियां कुर्वतो यद्यातुरविपत्तिर्भवति, तथापि न वैरानुषङ्गो भवेद्, दोषाभावात् । अपरस्य तु सर्पबुद्धया रज्जुमपि नतो भावदोषात् कर्मबन्धः, तद्रहितस्य तु न बन्ध इति । उक्तं चागमे-''ऊचालिअंमि पाए' इत्यादि । तन्दुलमत्स्याख्यानकं तु सुप्रसिद्धमेव । तदेवं वध्यवधकभावापेक्षया स्यात् सदृशत्वम्, स्यादसदृशत्वमिति, अन्यथाऽनाचार इति । एतेन लौकिकघातकत्वव्यवहारविषयीभूतैव हिंसा महाऽनर्थहेतुरिति परस्य यत्र तत्र प्रलपनमपास्तम् । अपि चैवमापवादिकोऽपि वधो महानाय सम्पद्यते, ज्ञानादिहानिनिवारणमात्राभिप्रायस्य संयमपरिणतेऽ(रन)पायहेतुत्वेऽपि तत्कृतवधे लौकिकपातकत्वव्यवहारविषयत्वेनाशुद्धवानिवृत्तेः। पठ्यते च यतनादिनाऽपवादस्य शुद्धत्वमेव । तदुक्तं वृहत्कल्पभाष्ये “२गीयत्थो जयणाए कडजोगी कारणमि णिहोसो। एगेसिं गोयकडो अरत्तदुट्टो य जयणाए ॥ १॥ त्ति । तस्मादागमोदितयतनयाऽध्यात्मशुद्धिरेव संयमरक्षाहेतुर्नत्वनाभोग इति स्थिसम् । अत एव विरताविरतयोर्जानतोरजानतोश्च विराधनायां यतनानिमितकाऽध्यात्मशुद्धि-तदशुद्धिविशेषात् कर्मनिर्जराबन्धविशेषो व्यवस्थितः । तदुक्तं वृहत्कल्पभाष्यवृत्त्योद्वितीयखण्डे-अथ ज्ञाताज्ञातद्वारमाह- . १ उच्चालिते पादे । २ गीतार्थो यतनया कृतयोगी कारणे निर्दोषः । एकेषां गीतकृतोऽरक्तद्विष्टश्च यतनया ॥ .. Page #198 -------------------------------------------------------------------------- ________________ १८५ " जाणं करेr इको हिंसमजाणमपरो अविरओ अ । तत्व बंधविसेस महंतरं देसिओ समए ॥ १ ॥ द्वारितौ तत्रैस्तयोर्जानन् हिंसां करोति विचिन्त्येत्यर्थः, अपरः पुनरजानन्, तत्रापि तयोरपि बन्धविशेषः 'महंतरं 'ति महताऽन्तरेण देशितः समयेसिद्धान्ते । तथाहि - यो जानन् हिंसां करोति, (स) तीव्रानुभावबहुतरं पापकर्मोंपचिनोति; इतरस्तु मन्दतर विपाकमल्पतरं तदेवोपादत्ते । " विरतो पुण जो जाणं कुणति अजाणं च अप्पमत्तो य । तत्थवि अज्झत्यसमा संजायति णिज्जरा ण चओ ॥ १ ॥ "" यः पुनर्वितः प्राणातिपातादिनिवृत्तः स जानानोऽपि ' सदोषमिदम्' इत्य-' agrast गीतार्थतया द्रव्यक्षेत्राबागाढेषु प्रलम्बादिग्रहणेन हिंसां करोति, यद्वा न जानाति परमप्रमतो विकथादिप्रमादरहित उपयुक्तः सन् यत्कदाचित् प्रायुपयातं करोति तत्राप्यध्यात्मसमा चित्तप्रणिधानतुल्या निर्जरा सआयते । यस् यशस्वीत्रो मन्दो मध्यमो वा शुभाध्यवसायस्तस्य तादृश्येव कर्मनिर्जरा भवतीति भावः । ' न चओ 'त्ति न पुनश्वयः - कर्मबन्धः सूक्ष्मो भवति, प्रथमस्य भगवदाज्ञया यतनया प्रवर्त्तमानत्वाद्, द्वितीयस्य तु प्रमादरहितस्याजानतः कथं प्राण्युपघातनं भाव ? अदुष्टत्वादिति । यत्तु जीवघातवर्जनाभिप्रायवतां यतनया प्रवर्त्तमानानां छद्मस्थसंयतानामनाभोगजन्याशक्य परिहारेण जायमानं जीवघातानृतभाषणादिकं (स) संयमपरिणामानपायहेतुः, संयमपरिणामानपायहेतुत्वं हि वर्जनाभिप्रायोपाधिकमेव, जीवविराधनायाः संयमपरिणामापगमहेतोर्जीवघातपरिणामजन्यत्वलक्षणस्य निजस्वरूपस्य वर्जनाभिप्रायेण परित्याजनात् । अयं भावः - यद्धर्मविशिष्टं यद्वस्तु निजस्त्ररूपं जहाति स धर्मः तत्रोपाधिरिति नियमाद्, वर्जनाभिप्रायविशिष्टा हि जीवविराधना जीवघातपरिणामजन्यत्वं संयमनाशहेतुं परित्यजति, तेन संयमपरिणामानपायद्वारा वर्जनाभिप्रायजन्यां निर्जरां प्रति जीवविराधनाया अपि प्रतिबन्धकाभावत्वेन कारणतापि । यदागमः - "" ३जा जयमाणस्स भवे विराहणा सुत्तविहिसमग्गस्स । १ जानन् करोत्येको हिंसामजाननपरोऽविरतश्च । तत्रापि बन्धविशेषो महान्तरो देशितः समये ॥ २ विरतः पुनर्यो जानन् करोत्यजानश्चाप्रमत्तश्च । तत्रापि अध्यात्मसमा संजायते निर्जरा न चयः ॥ ३ या यतमानस्य भवेद्विराधना सूत्रविधिसमग्रस्य ! सा भवति निर्जराफला अध्यात्मविशोधियुक्तस्य !! Page #199 -------------------------------------------------------------------------- ________________ १८६ सा होइ णिजरफला अज्झविसोहिजुत्तस्स ॥१॥” त्ति । अत्र हि 'मुत्तविहिसमग्गस्स' त्ति कृतसर्वसावधप्रत्याख्यानस्य वर्जनाभिप्रायवतः साधोरित्यर्थः । तत्र जायमानाया निर्जराया जीवविराधना प्रतिबन्धिका न भवति, जीवघातपरिणामजन्यत्वाभावेन वर्जनाभिप्रायोपाध्यपेक्षया दुर्बलत्वाद्, एतेन जीवविराधनापि यदि निर्जरां प्रति कारणं भवेत् , तर्हि तथाभूतापि विराधना तपःसंयमादिवद्भूयस्येव श्रेयस्करी,भूयो निर्जराहेतुत्वादिति पराशङ्कापि परास्ता, स्वरूपतः कारणभूतस्य तथा वक्तुं शक्यत्वात् । न चैवं जीवविराधना तथा, तस्याः संयमपरिणामापगमद्वारा स्वरूपतो निर्जराया प्रतिबन्धकत्वात् । प्रतिबन्धकं च यथा यथाऽल्पसमर्थं च तथातथा श्रेयः,तेन तस्याःकारणत्वं, प्रतिबन्धकाभावत्वेन प्रतिबन्धकामावस्य भूयस्त्वं प्रतिबन्धकानामल्पत्वेनैव स्याद्, अन्यथा तदभावस्य कारणता न स्यादित्यादिकूटकल्पनार सिकेणोच्यते । तदसत् , निश्चयतः सर्वत्र संयमप्रत्ययनिर्जरायामध्यात्मशुद्धिरूपस्य भावस्यैव हेतुत्वात् , तदङ्गभूतव्यवहारेण चापवादपदादिप्रत्ययाया हिंसाया अपि निमित्तत्वे वाधकाभावात् ; “जे' आसवा ते परिस्सवा"-इत्यादि वचनमा माण्यात् । निमित्तकारणोत्क (प)ौ च न कार्योत्कर्षांपकर्षप्रयोजकाविति न निर्जरोत्कर्षार्थं तादृशहिंसोत्कर्षांश्रयणापत्तिः, यच्च 'जाजयमाणस्से त्यादि वचनपुरस्कारेण वर्जनाभिप्रायेणानाभोगजन्याशक्यपरिहारहिंसायाः प्रतिबन्धकाभावत्वेन कारणत्वाभिधानं तत्तु तद्वृत्यर्थानाभोगविजृम्भितम्, तत्रापवादप्रत्ययाया एव हिंसाया व्याख्यानात् । तथाहि-यतमानस्य-सूत्रोक्तविधिपरिपालनपूर्णस्याध्यात्मविशोधियुक्तस्य रागद्वेषाभ्यां रहितस्येति भावः, या भवेद्विराधनाऽपवादपदप्रत्यया सा भवति निर्जराफला । इदमुक्तं भवति-कृतयोगिनो गीतार्थस्य कारणवशेन यतनयाऽपवादपदमासेवमानस्य विराधना सा सिद्धिफला भवतीति पिण्डनियुक्तिवृत्तौ । न चेयमनाभोगजन्या वर्जनाभिप्रायवती वा, किन्तु ज्ञानपूर्वकत्वेन सूत्रनयमतेन विलक्षणैव सती व्यवहारनयमतेन च विलक्षणाकारणसहकृता सती बन्धहेतुरपि निर्जराहेतुर्घटकारणमिव दण्डो घटभङ्गाभिप्रायेण गृहीतो घटभङ्गे, अत एवेयमनुबन्धतो हिंसारूपा सत्यैदंपर्यार्थापेक्षया 'न हिंस्यात् सर्वाणि भूतानि' इति निषेधार्थलेशमपि न स्पृशति, अविधिहिंसाया एवात्र निषेधाद् । विधिपूर्वकस्वरूपहिंसायास्तु सदनुष्ठानान्तर्भूतत्वेन परमार्थतो मोक्षफलत्वात् । तदुक्तमुपदेशपदमुत्रवृत्त्योः-अथ साक्षादेव कतिचित्सूत्राण्याश्रित्य पदार्थादीनि व्याख्याङ्गानि दर्शयन्नाह १ ये आस्रवास्ते परिस्रवाः Page #200 -------------------------------------------------------------------------- ________________ १८७ " " हिंसिज्ज ण भूयाई इत्थ पयत्थो पसिद्धगो चैव । मणमाईहिं पीडा सव्वेसिं चेव ण करिज्जा " ॥ १ ॥ 46 'हिंस्याद् व्यापादयेद् न नैव भूतानि पृथिव्यादीन् प्राणिनः अत्र सूत्रे पदार्थ: प्रसिद्धकचैव प्रख्यातरूप एव, तमेव दर्शयति- मन आदिभिर्मनोवाक्कायैः पीडां सर्वेषां चैव समस्तानामपि न कुर्याद् न विदध्यादिति । तथा " आरंभिपमत्ताणं, इत्तो चेहरलोचकरणाई | तकरणमेय अणुबंधओ तहा एस वकत्थो " ॥ ६८ ॥ व्याख्या - आरम्भः - पृथिव्याद्युपमर्दः स विद्यते येषां ते आरम्भिणो गृहस्थाः, प्रमाद्यन्ति निद्राविकथादिभिः प्रमादैः सर्वसावद्ययोगविरतावपि सत्यां ये ते प्रमत्ता यतिविशेषाः, आरम्भिणच प्रमत्ताश्च तेषाम् इत: - पदार्थाच्चैत्यगृह - लोचकरणादि, चैत्यगृहमर्हतो भगवतो बिम्बाश्रयः, लोचकरणं केशोत्पाटनरूपम्, आदिशब्दात् तत्तदपवादाश्रयणेन तथा तथा प्रवचनदुष्टनिग्रहादिपरपीडाग्रहस्तेषां करणात् ; तत्करणमेव प्रानिषिद्धहिंसादिकरणमेव प्राप्तम् । कुतः ? इत्याह-अनु'बन्धतोऽनुगमात् तथा तत्प्रकारायाः परपीडाया इत्येष चालनारूपो वाक्यार्थ इत्यर्थः ॥ "" ३ अविहिकरणंम आणाविराहणा दुट्ठमेव एएसिं । तो विहिणा जइअव्वं ति महावक्कत्थरूवं तु ॥ ६९ ॥ व्याख्या - अविधिकरणेssनीतिविधाने चैत्यलोचादेरर्थस्याज्ञाविराधना भगवचनविलोपना दुष्टमेव, एतेषां चैत्यगृहादीनां करणम्, तत्रेयमाज्ञा— जिनभवनकारणं विधिः शुद्धा भूमिर्दलं च काष्ठादि । भृतकानतिसन्धानं स्वाशयवृद्धिः समासेन ॥ " लोचकर्मविधिस्तु — 46 8 * धुवलोओ अ जिणाणं वासावासेसु होइ थेराणं । ९ हिंस्याद् न भूतानि अत्र पदार्थः प्रसिद्धकश्चैव । आदिभिर्न पीडां सर्वेषामेव न कुर्यात् ॥ २ आरम्भिप्रमत्तानामितश्चैत्यगृहलोचकरणादि । तत्करणमेवानुबन्धतस्तथा एष वाक्यार्थः ॥ ३ अविधिकरणे आशाविराधना दुष्टमेव एतेषाम् । ततो विधिना यतितव्यमितिमहावाक्यार्थरूपस्तु ॥ ४ ध्रुवलोचश्च जिनानां वर्षावासेषु भवति स्थविराणाम् । तरुणानां चतुर्मास्यां वृद्धानां भवति षण्मास्याम् ॥ Page #201 -------------------------------------------------------------------------- ________________ १८८ तरुणाणं चउमासे वुड्राणं होइ छम्मासे ॥ १॥” इत्यादि। तत्तस्माद्विधिना जिनोपदेशेन यतितव्यम्-इत्येवं महावाक्यार्थस्य प्राक्चालि(त)तत्प्रत्यवस्थानरूपस्य रूपं तु स्वभावः पुनः। महावाक्यार्थमेव गाथापूर्वार्द्धनोपसंहरनदंपर्यमाह“एवं एसा अणुबंधभावओ तत्तओ कया होइ । अइदंपजं एवं आणाधम्मंमि सारोत्ति ॥१॥" एवं विधिना यत्नेन क्रियमाणेनैषा हिंसाऽनुबन्धत उत्तरोत्तरानुबन्धभावान्मोक्षप्राप्तिपर्यवसानानुगमात् तत्त्वतः परमार्थतः कृता भवति, मोक्षमसंपाद्य जिनाज्ञाया उपरमाभावादिति ऐदंपर्यमेतदत्र यदुताज्ञाधर्मे सारः । इति परिसमाताविति । प्रतिबन्धकाभावत्वेनोक्तहिंसाया निर्जराहेतुत्वे चाभ्युपगम्यमाने केवलायास्तस्याः प्रतिबन्धकत्वाभावाज्जीवघातपरिणामविशिष्टत्वेन प्रतिबन्धकत्वे विशेषणाभावप्रयुक्तस्य विशिष्टाभावस्य शुद्धविशेष्यस्वरूपत्वे विशेष्याभावप्रयुक्तस्य तस्य शुद्धविशेषणरूपस्यापि सम्भवाज्जीवघातपरिणामोऽपि देवानांप्रियस्य निर्जराहेतुः प्रसज्येतेत्यहो ! काचनापूर्वयं तांगमचातुरी । वर्जनाभिप्रायेण जीवघातपरिणामजन्यत्वलक्षणं स्वरूपमेव विराधनायास्त्याज्यतेऽतो नेयमसती प्रतिबन्धिकेति चेत् , किमेतद्विराधनापदप्रतिनिमित्तमुत विशेषणं विराधनापदार्थस्य । आये पदप्रवृत्तिनिमित्तं नास्त(स्ति), पदार्थश्च प्रतिपाद्यते इत्ययमुन्मत्तप्रलापः । अन्त्ये च विशिष्टप्रतिबन्धकत्वपर्यवसाने उक्तदोषतादवस्थ्यमिति मुग्धशिष्यप्रतारणमात्रमेतत् । न च ' यद्धर्मविशिष्टं यद्वस्तु निजस्वरूपं जहाति स धर्मस्तत्रोपाधिः' इति नियमाद् वर्जनामिभप्रायविशिष्टा हि जीवविराधना जीवघातपरिणामजन्यत्वं संयमनाशहेतुं परित्यजतीति भावार्थपर्यालोचनादनुपहितविराधनात्वेन प्रतिबन्धकत्वं लभ्यत इत्युपहितायास्तस्याः प्रतिबन्धकाभावत्वं स्वरूपेणैवाक्षतमित्यपि युक्तम्, प्रकृतविराधनाव्यक्तौ जीवघातपरिणामजन्यत्वस्यासत्त्वेन त्याजयितुमशक्यत्वाद्, अत एव तत्प्रकारकप्रमितिप्रतिबन्धरूपस्यापि तद्धानस्यानुयपत्तेः । अथ वर्जनाभिमायाभावविशिष्टविराधनात्वेन प्रतिबन्धकत्वे न कोऽपि दोषः, प्रत्युत वर्जनाभिप्रायस्य पृथक्कारणत्वाकल्पनाल्लाघवमेवेति चेत् , न । वर्जनाभिप्रायमात्रस्याज्ञाबाह्यानुष्ठानेऽपि सत्त्वान्नोत्तेजकत्वमित्याज्ञाशुद्धभावस्येहोत्तेजकत्वं वाच्यम्, स च विशिष्टनिर्जरामात्रे स्वतन्त्रकाणघ मिति न तत्रास्येहोत्तेजकत्वं युज्यते: अन्यथा दण्डाभावविशिष्टचक्रवादिनापि घटादौ प्रतिबन्धकता कल्पनीया स्यादिति न किञ्चिदेतत् । तस्मादाज्ञाशुद्धभाव Page #202 -------------------------------------------------------------------------- ________________ एव सर्वत्र संयमरक्षाहेतुर्न त्वनाभोगमात्रमिति । नद्युत्तारेऽपि यतीनां तत एवादुष्टत्वम्, न तु जलजीवानाभोगादिति स्थितम् ॥ ६७ ॥ __ अथ तत्र जलजीवानाभोगे व्यक्तं दूषणमाहजलजीवाणानोगा इनत्तारंमि जइण तुह दोसो। पाणेवि तस्स तासो मूलच्छेज्जो ण हुज्जाहि ॥५॥ ___ व्याख्या-'जलजीवाणाभोग 'त्ति नद्युत्तारे जलजीवानाभोगाद् यदि तव न दोषः, तर्हि तस्य जलस्य पानेऽपि स दोषो मूलच्छेद्यो मूलप्रायश्चित्तविशोध्यो न भवेत् : नहि नदीमुत्तरतो जलजीवानाभोगस्तत्पाने च तदाभोग इति त्वया वक्तुं शक्यते, तदनाभोगस्य त्वया केवलज्ञाननिवर्तनीयत्वाभ्युपगमात् , तथा चोभयत्रैव मिथ्यादुष्कृतप्रायश्चित्तशोध्यमेव पापं स्यात् । ननु ज्ञाखा जलपानेऽपि मूलच्छेद्यम्, तच्च श्रुतपरम्पराविरुद्धमित्याभोगविषयतापि जलजीवानामवश्यं वक्तव्या, प्रायश्चित्तभेदस्तु यतनायतनाविशेषादिति । यदि च ज्ञाला जलपाने न जलजीवाभोगात्सायश्चित्तविशेषः, किन्तु निःशूकत्वादित्युच्यते, तर्हि स्थूलत्रसाभोगोऽप्युच्छिद्येत, तद्वधेऽपि निःशूकताविशेषादेव पातकविशेषोपपत्तेः । शास्त्रे वाभोगानाभोगावकर्त्तव्यत्वज्ञानतदभावरूपावेवोक्तौ । तदुक्तं पश्चाशकवृत्तौ"तत्राभोगोऽकर्त्तव्यमिदमिति ज्ञानम्, अनाभोगस्त्वज्ञानमिति । तौ चोभयविराधनायामपि सम्भवत एव।" प्रतिपादितं च प्रायश्चित्तमाभोगानाभोगभेदात् पृथिव्यादि विराधनायामपि पृथगेवेति न किञ्चिदेतत् । एतेन यदुच्यते विनापवाद ज्ञात्वा जीवघातको यद्यसंयतो न भवेत् , तर्हि असंयतसमुच्छिन्नसंकथं भवेद्-इत्यादि परेण तदपास्तम् । अपवादमन्तरेणापि सामान्यसाधूनामपवादपदानधिकारिणां चोत्कृष्टचारित्रवतां प्रतिमाप्रतिपन्नजिनकल्पिकादीनां नद्युत्तारादावाभोगपूर्वकजीवविराधनायाः साधितत्वात् । नद्युत्तारश्च जिनकल्पिकादीनामपि, जत्थत्यमे इत्यादि प्रवचनेषु दिवसतृतीयपौरुष्यतिक्रमे नद्याद्युत्तरतस्ते जलात्पदमात्रमपि बहिर्न निक्षिपन्ति, किन्तु तत्रैव तिष्ठन्ति-इत्यादिभणनेन प्रतीत एव । सोऽप्यापवादिकश्चेत्, तर्हि विहाराहारादिक्रियास्वौत्सर्गिकीषु जीवविराधनया योगसमु १ जलजीवानाभोगाद् नद्युत्तारे यदि न तव दोषः । पानेऽपि तस्य त्रासो मूलच्छेद्यो न भवेद् ॥ २ यत्रास्तमियाद् Page #203 -------------------------------------------------------------------------- ________________ १९० स्थया जिनकल्पिकादीनामसंयतत्वप्रसक्तेर्वज्रलेपत्वमेव, तस्या योगावश्यंभावित्वस्य प्रवचनादेव निश्चयाद् अङ्गीकृतं चैतत्परेणापि । यदुक्तं तेन - "यत्रानुष्ठाने आरभस्तज्जिनैः प्रतिषिद्धमेव, उत जिनोपदिष्टक्रियायामारम्भो न भवत्येव ' इति लुम्पकीयपक्षद्वयदूषणार्थं ग्रन्थान्तरे । आद्यपक्षे साधूनां विहारा - हार - नीहार- नद्युत्तार-प्रतिक्रमण - प्रतिलेखनो - पाश्रयप्रमार्जनादिक्रियाणां प्रवचनप्रसिद्धानामारम्भाविनाभाविनीनां प्रतिषेधे सम्पन्ने तवैव गलपादुका । द्वितीयेऽध्यक्षबाधा, नद्युत्तारादिषु षण्णामपि जीवानां विराधनासम्भवात्, १ जत्थ जलं तत्थ वर्णं ' - इत्यागम वचनात् प्रतिक्रमणप्रति लेखनादिषु च वायुजीवादीनामारम्भस्यागमप्रसिद्धत्वात, एजनादिक्रियायुक्तस्यारम्भाद्यवश्यंभावात् । यदागमः - " २ जाव णं एस जीवे एअइ वेयइ चलइ फंदइ' इत्यादि यावदारंभे वहइ" इत्यादि । किंच - अपवादे आभोगपूर्वकायामपि जो विराधनायां सम्यक्त्वनाशादिदूषणं यत् त्वया नोच्यते, तत्र किं म्रियमाणानां जीवानां प्राणत्यागाभावः, सद्गतिर्वा कारणं, द्वयमप्यागमबाधितमित्याशयशुद्धत्वमेव तत्र कारणं वाच्यमित्यशक्यपरिहारजीव विराधनायामप्याशयशुद्धत्वादेव दोषाभावोऽस्तु, किमनाभोगप्रपञ्चेन, अत एव जीवघातेsपि लोके द्रव्यहिंसाया भावहिंसायां शब्दादीनां रताविवानैकान्तिककारणवात्, जीवरक्षाविषयकप्रयत्नेनैव साधोरन्तस्तत्त्वशुद्धेरदुष्टत्वं विशेषावश्यके उपपादितं नत्वनाभोगेनैव, तथा च तद्ग्रन्थः " एवमहिंसाऽभावो जीवघणंति ण य तं जउ भिहियं । सत्थोवहयमजीवं ण य जीवघणंति तो हिंसा ॥ १ ॥ " नन्वेवं सति लोकस्यातीव पृथिव्यादिजीवघनत्वादहिंसाभावः, संयतैरप्यहिंसाव्रतमित्थं निर्वाहयितुमशक्यमिति भावः, तदेतद् न, यतोऽनन्तरमेवाभिहितमस्माभिः -शस्त्रोपहतं पृथिव्यादिकमजीवं भवति । तदजीवत्वे चाकृताकारितादिपरिभोगेन निर्वहत्येव यतीनां संयमः । न च 'जीवघनो लोकः' इत्येतावन्मात्रेव हिंसा सम्भवतीति ॥ आह ननु जीवाकुले लोकेऽवश्यमेव जीवघातः सम्भवी, tair arन् कथं हिंसको न स्याद् ? इति भावः । १ यत्र जलं तत्र वनम् | २ यावदेव जीव एजते वेदयति चलति स्पन्दते इत्यादि यावदारम्भे वर्तते । १ एवमहिंसाऽभावो जीवधनमिति न च तद् यतोऽमिहितम् । शस्त्रोपहतमजीवं न च जीवधनमिति ततः हिंसा ॥ Page #204 -------------------------------------------------------------------------- ________________ १९१ " ण य घायउत्ति हिंसो णाघायंतीति णिच्छियमहिंसो । ण विरलजीवमहिंसो ण य जीवघणंति तो हिंसो ॥ १ ॥ अहणतोविहिंसो दुट्ठत्तणओ मओ अहिमरोव्व । बाहिंतो ण वि हिंसो सुद्धत्तणओ जहा विज्जो ॥ २॥” नहि ' घातकः' इत्येतावता हिंस्रः, नचान्नन्नपि निश्चयनयमतेनाहिंस्रः, नापि 'विरलजीवम्' इत्येतावन्मात्रेणाहिंस्रः, न चापि 'जीवघनम्' इत्येतावता च हिंस्र इति किं तर्हि ? अभिमरो गजादिघातकः स इव दुष्टाध्यवसायोऽनन्नपि हिंस्रो मतः । बाधमानोऽपि च शुद्धपरिणामो न हिंस्रः, यथा वेद्य इति घ्नन्नप्यहिंस्रोऽघ्नन्नपि च हिंस्र उक्तः । स इह कथंभूतो ग्राह्यः ? इत्याह " पंचसमिओ तिगुत्तो नाणी अविहिंसओ ण विवरीओ । हो व संपत्ती से मावा जीवोवरोहेणं ॥ १ ॥ पञ्चभिः समितिभिः समितः तिसृभिश्च गुप्तिभिर्गुप्तो ज्ञानी जीवस्वरूपतद्रक्षाक्रियाभिज्ञः सर्वथा जीवरक्षापरिणामपरिणतस्तत्प्रयतश्च कथमपि हिंसन्नप्यविहिंसको मतः । एतद्विपरीतलक्षणस्तु नाहिंसकः, किन्तु हिंस्र एवायम्, अशुभ परिणामत्वाद्, (भाव बाह्य) जीवहिंसाया जीवोपरोधेन जीवस्य कीटादेरुपरोधेनोपघातेन स•म्पत्तिर्भवतु माभूद्वा, 'से' तस्य साध्वादेः हिंसकत्वे तस्या अनैकान्तिकत्वादिति ॥ कुतस्तस्या अनैकान्तिकत्वम् ? इत्याह- ८८ ३ असुहो जो परिणाम सा हिंसा सो उ बाहिरणिमित्तं । कवि अवेक्वेज्जण वा जम्हा गंतियं बज्झं ॥ १ ॥ " यस्मादिह निश्चय यतो योऽशुभपरिणामः स एव हिंसेत्याख्यायते । स च बाह्यसच्वातिपातक्रियालक्षणं निमित्तं कोऽप्यपेक्षते, कोऽपि पुनस्तन्निरपेक्षो भवेत, १ च घातक इति हिंस्रो नाघातयनिति निश्चितमहिंस्रः न विरलजीवमहिंस्रो न च जीवघनमिति ततो हिंस्रः ॥ अनन्नपि खलु हिंस्रो दुष्टत्वान्मतोऽभिमर इव । बाधमानो नापि हिंस्रः शुद्धत्वाद् यथा वैद्यः ॥ २ पञ्चसमितस्त्रिगुप्तो ज्ञानी अविहिंसको न विपरीतः । भवतु वा संपत्तिस्तस्य मा वा जीवोपरोधेन ॥ ३ अशुभो यः परिणामः सा हिंसा स तु बाह्यनिमित्तम् । कोsपि अपेक्षते न वा यस्मादनैकान्तिकं बाह्यम् ॥ Page #205 -------------------------------------------------------------------------- ________________ यथा तन्दुलमत्स्यादीनाम्, यस्मादनकान्तिकमेवं बाह्यनिमित्तम् , तत्सद्भावेऽप्यहिंसकत्वात् , तदभावे च हिंसकलादिति। नन्वेवं तर्हि बाह्यो जीवघातः किं सर्वथैव हिंसा न भवति ? उच्यते-कश्चिद् भवति, कश्चित्तु न। कथम् ? इत्याह-- " 'असुहपरिणामहेऊ जीवाबाहोत्ति तो मयं हिंसा। ___ जस्स उ ण सो णिमित्तं, संतोवि ण तस्स सा हिंसा" ॥१॥ ततस्तस्माद् यो जीवावाधोऽशुभपरिणामस्य हेतुरथवाऽशुभपरिणामो हेतुर्यस्यासावशुभपरिणामहेतु वाबाधो जीवघातः स एव हिंसेति मतं तीर्थकरगणधराणाम्। यस्य तु जीवाबाधस्य सोऽशुभपरिणामो न निमित्तं स जीवाबाधः सन्नपि तस्य साधोर्न हिंसेति । अमुमेवार्थं दृष्टान्तेन द्रढयन्नाह-- " सद्दादो रइफला ण वीयमोहस्स भावसुद्धीओ।। जह तह जीवाबाहो ण सुद्धमणसो वि हिंसाए ॥१॥" यथेह वीतरागद्वषमोहस्य भगवत इष्टाः शब्दरूपादयो भावविशुद्वितो न कदाचिद्रतिफला रतिजनकाः सम्पद्यते, यथा वेह शुद्धात्मनो रूपवत्यामपि मातरि न विषयाभिलाषः संजायते, तथा शुद्धपरिणामस्य यत्नवतः साधोः सचोपघातोऽपि न हिंसायै सम्पद्यते, ततोऽशुभपरिणामजनकत्वे बाह्य निमित्तमनैकान्तिकमेवेति ॥" (पृ. ७४७. गा. १७६२-६८) ____ यदि चाशक्यपरिहारविराधनाभोगः साधूनां सम्यक्त्वक्षतिकरः स्यात् तदौत्सर्गिकविहारादिक्रियापरित्याग एव स्यात् , तत्रापि योगजन्यविराधनानिश्चयाद्, न च प्रमाणान्तरेण निश्चितेऽपि स्वादर्शनमात्रेणानाभोगः शक्यो वक्तुमित्युक्तमेव, न चेदेवं तदा निरन्तरजीवाकुलभूमि निर्णीयापि रात्रौ तत्रैव स्वैरंगमने जीवाप्रत्यक्षत्वेन तत्र तज्जीवविराधनाऽनाभोगजा वक्तव्या स्यात् । तथा च लोकशास्त्रविरोधः। किंचैवमब्रह्मसेवायामपि केवलिवचसा निश्चीयमानाया अपि त्रसविराधनाया अना भोगपूर्वकत्वे साधोःप्रथममहाव्रतभङ्गो न स्यात् , स्याच प्रकृष्टावधिमतां प्रत्यक्षयोगजन्यविराधनानामिति न किञ्चिदेतत् ॥५८॥ एवं व्यवस्थिते सत्यत्र विश्रान्तस्य परस्याक्षेपं समाधत्ते अशुभपरिणामहेतुर्जीवाबाध इति ततो मतं हिंसा । यस्य पुनः सोऽनिमित्तं सन्नपि न तस्य सा हिंसा ॥ ५ शब्दादयो रतिफला न वीतमोहस्य भावशुद्धितः । यथा तथा जीवाबाधो न शुद्धमनसोपि हिंसायै ॥ Page #206 -------------------------------------------------------------------------- ________________ 'नणु आनोगा इत्थं, घिस्थाण हुऊ देसविरयत्तं । ऐवं, जं पमिपुन्ना पमिवत्ती सुत्ताणा य ॥५॥ व्याख्या-नणुत्ति । नन्वत्र नद्युत्तारे-जलजीवविराधनायामाभोगाद्विरतानां सर्वसंयमवतां देशविरतत्वं भवेत् , निश्चितेऽपि जलजीवघातेऽवस्थितस्य विरतिपरिणामस्याभ्युपगमे तस्य देशविरतिरूपस्यैव पर्यवसानाद्, निश्चितेऽपि जलजीवघाते तज्जीवविषयकविरतिपरिणामस्यानपायेन चारित्राखण्डताभ्युपगमे च सर्वेषामपि सम्यग्दृशां सर्वविरतिप्रतिपत्तौ न किञ्चिद्वाधकमिति देशविरत्युच्छेद एव स्यादिति भावः। नैवम्, यद्-यस्मात् कारणाद्विरतानांप्रतिपूर्णा प्रतिपत्तिः-अष्टादशशीलाङ्गसहस्रग्रहणलक्षणा सूत्राज्ञा च तेन न निश्चितायामपि जलजीवविराधनायां नद्यत्तारादौ देशविरतत्वम्, प्रतिपन्नसर्वविरतेः सूत्राज्ञयाऽखण्डनात् । न च प्रतिदिनकर्त्तव्यविचित्रोत्सर्गापवादगहनाष्टादशशीलाङ्गसहस्रमतिपत्तियोग्यतां स्वात्मन्यनिश्चित्यादित एव तत्मतिपत्तियुक्तेति तदधस्तनगुणस्थानयोग्यतया देशविरतिप्रतिपत्तिसम्भवान्न तदुच्छेद इति भावः । इदं तु ध्येयम् निश्चयमयमतेनाष्टादशापि शीलासहस्राण्यखख्येयात्मप्रदेशवत्परस्परनियतान्येवेत्येकस्यापि सुपरिशुद्धस्य शीलाङ्गस्य सत्त्वं शेषसद्भाव एव स्यादिति समुदितैरेव तैः सर्वविरतिसम्भवः। तदुक्तं हरिभद्राचार्यैः "२एत्थ इमं विण्णेयं, अइदंपज्जं तु बुद्धिमतेहिं । इक्कंपि परिसुद्धं, सीलंग सेससब्भावे ॥१॥ एक्को वाऽऽयपएसोऽसंखेज्जपएससंगो जहओ। एयंपि तहा णेयं सतत्तचाओ इहरहा उ ॥२॥ जम्हा समग्रमेयंपि सबसावज्जजोगविरईओ . तत्तेणेगसरूवं णाखंडरूवत्तणमुवेइ ॥३॥ १ नन्वाभोगादित्थं विरतानां भवेद् देशविरतत्वम् । नैवं, यत्प्रतिपूर्णा प्रतिपत्तिः सूत्राशा च ॥ ५९ ॥ २ अत्रेदं विज्ञेयमैदंपर्यं तु बुद्धिमद्भिः। एकमपि सुपरिशुद्धं शीलानं शेषसद्भावे ॥ एको वाऽऽत्मप्रदेशोऽसंख्येयप्रदेशसंगतो यथा च । एतदपि तथा ज्ञेयं स्वतत्त्वत्याग इतरथा तु ॥ यस्मात्समग्रमेतदपि सर्वसाक्चयोमविरतितः । . तत्तेनैकस्वरूपं नाखण्डरूपत्वमुपैति ॥ Page #207 -------------------------------------------------------------------------- ________________ . . १९४ व्यवहारनयमते त्वेकाद्यङ्गभङ्गेऽपि सज्वलनोदयस्य चरणैकदेशभङ्गहेतुत्वादपरशीलाङ्गसद्भावादवशिष्टपतिपन्नचारित्रसद्भावान्न देशविरतत्वम्, नहि पर्वतैकदेशलोवाद्यपगमेऽपि पर्वतस्य लोष्टुत्वमापद्यते, मूलभङ्गे तु चारित्रभङ्ग एव, अत एव यो मन्यते 'लवणं भक्षयामि' इति तेन मनसा करोति आहारसंज्ञाविहितो (हीनो)रसनेन्द्रियसंवृतः पृथिवीकायसमारम्भं मुक्तिसम्पन्न इत्येकतद्भङ्गः कृतः। ततस्तद्भनेन च प्रतिक्रमणप्रायश्चित्तेन शुद्धिः स्यात् , अन्यथा मूलेनैव स्यादिति । न च तद्भक्षणेऽपि शेषाङ्गसत्त्वान्न प्रलापत्तिरिति शङ्कनीयम् : मण्डपशिलादृष्टान्तेनैकस्यापि गुरुदोषस्य मूलनाशकत्वाभ्युपगमात् । इदं च शीलाङ्गान्यूनत्वं भावविरतिमपेक्ष्य द्रष्टव्यम् न तु बाह्यामपि प्रवृत्तिमपेक्ष्य, यतः सा परतन्त्रस्य स्वतन्त्रस्य वा पुष्टालम्बनदशायां स्वतन्त्रभङ्गेच्छारूपाविरतिभावं विना द्रव्यहिंसादिकारिण्यपि स्यादेव, नच तया सर्वार्थानभिष्वङ्गस्य भावविरतिबाधनम्, उत्सूत्रा तु प्रवृत्तिर्बाधत एव विरतिभावम्, केवलं सा गीतार्थप्रज्ञापनायोग्या निरनुबन्धा, अभिनिवेशवती तु न मूलच्छेघातिचारजातमन्तरेण स्यादिति गीतार्थस्य तनिश्रितस्य वाऽऽज्ञापरतन्त्रस्योत्सूत्रप्रवृत्तिरहितस्याष्टादशशीलाङ्गसहस्रमयो सर्वविरतिपरिणामः पूर्णों भवति, बाखप्रवृत्तिपूर्णतामात्रं त्वत्रातन्त्रमिति । तदुक्तं "'एयं च एत्थ एवं विरईभावं पडुच्च दट्टव्वं । णउ बझंपि पविति जं सा भावं विणा वि भवे ॥१॥ जह उस्सग्गंमि ठिओ खित्तो उदगंमि केण उ तवस्सी। तबहपवित्तकाओ अचलियभावोऽपवित्तो उ ॥ १४ ॥ एवं चिय मज्झत्थो, आणाओ कत्थई पयट्टतो। सेहगिलाणा दट्ठा अपवत्तो चेव णायवो ॥ १५ ॥ आणापरतंतो सो सा पुण सबन्नुवयणओ चेव । एगंतहिया वेज्जगणाएणं सबजीवाणं ॥१६॥ १ एतच्च अत्रैवं विरतिभावं प्रतीत्य द्रष्टव्यम् । न तु बाह्यामपि प्रवृत्तिं यत्सा भावं विनाऽपि भवेद ॥ यथोत्सर्गे स्थितः क्षिप्त उदके केन तु तपस्वी । । तद्वधप्रवृत्तकायोऽचलितभावोऽप्रवृत्तस्तु ॥ एवमेव मध्यस्थ आशया क्वचित्प्रवर्तमानः । शैक्षग्लानादू दृष्टादप्रवृत्त एव ज्ञातव्यः ॥ आशापरतन्त्रः स सा पुनः सर्वज्ञवचनतश्चैव । एकान्तहिता वैद्यकशातेन सर्वजीवानाम् ॥ Page #208 -------------------------------------------------------------------------- ________________ भावं विणावि एवं होइ पवित्ती ण बाहए एसा । सबत्य अणभिसंगा विरईभावं सुसाहुस्स ॥ १७ ॥ उस्सुत्ता पुण बाहइ, समइविअप्पसुद्धा वि णियमेण । गीयणिसिद्धपवजणरुवा णवरं णिरणुबंधा ॥ १८ ॥ इहरा उ अभिणिवेसा इयरा नय मूलछेज्जविरहेण । होए सा एत्तो चिय, पुवायरिआ इमं बाहु ॥ १९ ॥ गीयत्यो अ विहारो बीओ गीयत्थमीसिओ चेव । इत्तो तइअविहारो णाणुन्नाओ जिणवरेहिं ॥ २० ॥ गीयस्स ण उस्मुत्ता तज्जुत्तस्सेयरस्स य तहेव । णियमेणं चरणवंज (वजं) ण जाउ आणं वि लंघेइ ॥ २१ ॥ ण य तज्जुत्तो अण्णं णिवारए जोग्गय मुणेऊणं । एवं दोण्हवि चरणं परिसुद्धं अण्णहा णेव ॥ २२ ॥ सा एव विरतिभाचो संपुन्नो एत्थ होइ णायचो । णियमेणं अट्ठारससीलंगसहस्सरूवो उ ॥ २३ ॥ त्ति ततो नधुत्तारादावुत्सूत्रप्रवृत्यभावादाज्ञाशुद्धस्य साधोर्न सातिचारत्वमपीति कुतस्तरां देशविरतत्वम् ? तदेवं नद्युत्तारेऽन्यत्र वाऽपवादपदे भगवदाज्ञया द्रव्याश्रवप्रवृत्तावपि न दोषत्वमिति स्थितम् । एवं चात्र विहितानुष्ठानेऽनुबन्धतोऽहिंसा भावं विनाऽप्येवं भवति प्रवृत्तिर्न बाधते एषा । सर्वत्रानभिष्वङ्गादू विरतिभावं सुसाधो: ॥ उत्सूत्रा पुनर्बाधते स्वमतिविकल्पशुद्धाऽपि नियमेन । गीतनिषिद्धप्रपदनरूपा नवरं निरनुबन्धा ॥ इसरधा त्वभिनिवेशादितरात् न च भूलच्छेद्यविरहेण ! . भवेत्सा इत एव पूर्वाचार्या इदमाहुः ॥ गैतार्थश्च विहारो द्वितीयो गीतार्थमिश्रितश्चैव । इतस्तृतीयो विहारो नातुज्ञातो जिनवरैः ॥ गीतस्य नोत्सुत्रा तयुक्तस्येतरस्य च तथैव । नियमेन चरणवर्ज न जात्वाज्ञामपि लयति ॥ न च तद्युक्तोऽन्यं निवारयति योग्यतां ज्ञात्वा । एवं द्वयोरपि चरणं परिशुद्धमन्यथा नैव ॥ तत एव विरतिभावः संपूर्णोऽत्र भवति ज्ञातव्यः । नियमेनाधादशशीलांगसहस्ररूपस्तु ॥” इति Page #209 -------------------------------------------------------------------------- ________________ १९६ त्वेन परिणतायां द्रव्यहिंसायामपीति भगवदाजैव प्रवृत्तिहेतुरिति सम्पन्नम् , आज्ञातः वचचिद् द्रव्यहिंसादौ प्रवर्त्तमानोऽप्यमवृत्त इति 'पञ्चाशकत्ति' वचनात् । यत्तूच्यते परेण नद्युत्तारादौ जलजीवविराधनाऽनुज्ञा किं साक्षादादेशरूपा, उत कल्पनाभिव्यश्रिता ? नाद्यः, 'स साधुर्जीवविराधनां करोतु ' इत्यादिरूपेण केवलिनो वाक्प्रयोगासम्भवात् । यदुक्तं- अरिहंता भगवंतो' इत्यादि। अत एव दीक्षां जिघृक्षताऽपि विज्ञप्तो भगवान् ‘जहासुई' इत्येवोक्तवान् न पुनस्त्वं गृहाणेत्यादि । यत्तु क्रियाकालेऽभ्यर्थितो भगवानादेशमुखेनाप्यनुज्ञां ददाति, तत्रानुज्ञायाः फलवत्त्वेन भाषाया निरवद्यत्वात् । नापि द्वितीयः, यतः कल्प्यता नद्युत्तारस्येष्टफलहेतुत्वेनैव स्यात् , इष्टफलं सहेतुत्वं च नद्युत्तारस्य यतनाविशिष्टस्यैव भणितम्, अयतनाविशिष्टस्य तु तस्य प्रतिषेध एवेत्ययतनाजन्यजीवविराधनयैव नद्युत्तारोऽप्यनिष्टफलहेतुत्वेनाकल्प्यो भणित इति जलजीवविराधनाविशिष्टो नद्युत्तारः केवलिनाऽनुज्ञात इति वक्तुमकल्प्यम् । न च यतनया नदीमुत्तरतः साधोरनाभोगजन्याशक्यपरिहारेण या जलजीवविराफ्नाः साऽनुज्ञातेत्युच्यत इति वाच्यम्, तस्यामनुज्ञाया अनपेक्षणानिष्फलत्वाद्, ज्ञातेऽपि प्रायश्चित्तानुपपत्तिप्रसक्तेश्व, जिनाज्ञया कृतत्वात् । एवमन्यत्रापि कल्प्यताऽकल्प्यता च फलद्वारा साक्षाद्वोक्ताऽवसातव्याः परं सर्वत्रापि वस्तुस्वरूपनिरूपणोपदेशेन न पुनः क्वाप्यादेशेनापि । अयं भाव:-जिनोपदेशो हि सम्यग्दृशां वस्तुस्वरूपपरिज्ञानार्थमेव भवति । तत्र वस्तुनः स्वरूपं हेयत्वज्ञेयत्वोपादेयत्वभेदेन त्रिधा । तत्र किञ्चिद्वस्तु जीवघाताद्याश्रवभूतं हेयम् , दुर्गतिहेतुत्वात् । किञ्चिच्च जीवरक्षादि संवररूपमुपादेयम् , सुगतिहेतुत्वात् । किश्चिच्च स्वर्गनरकादिकं ज्ञेयमेव, उभस्वभावविकलत्वात् । यत्तु ज्ञातं सर्वमपि वस्तु सुगतिहेतुस्तत्र " सविशेषणे०.” इत्यादिन्यायेन ज्ञानस्येव प्राधान्यम् , तच्चोपादेयान्तर्भूतमवसातव्यम् । एवं च किञ्चिदेकमेव वस्तु विशेषणाद्यपेक्षया त्रिप्रकार मपि भवति । यथा एकैव गमनक्रिया जीवघातादिहेतुत्वेनायतनाविशिष्टा साधनां हैयैव, हेयत्वेन चाकल्प्यैव; तथा सैव क्रिया जीवरक्षादिहेतुत्वेन यतनाविशिष्टा साधूनामुपादेया, उपादेयत्वेन च कल्प्या; उभयविशेषणरहिता तु ज्ञेयैव । एवं धामिकानुष्ठानमात्रे वक्तव्ये “ सविशेषणे०"-इत्यादिन्यायेन विधिनिषेधमुखेन यतनाऽयतनाविषयक एव जिनोपदेशः सम्पन्नः; तथा च जीवरक्षार्थ यतनोपादेयत्वेन कल्प्या, अयतना च जीवघातहेतुत्वेन हेयत्वेनाकल्प्येत्येवं विधिनिषेधमुखेन वस्तुस्वरूपावबोधको जिनोपदेशो मन्तव्यः । एवं छद्मस्थसंयतानां ज्ञानाद्यर्थमपवादप Page #210 -------------------------------------------------------------------------- ________________ १९७ 4 दप्रतिषेवणेऽप्यनादिसिद्धकल्प्यत्वादिलक्षणवस्तुस्वरूपावबोधको जिनोपदेशो भवति । तथा साध्या उपसर्गकर्त्तारमधिकृत्य " पंचिदियववरोवणा कप्पिअ "त्ति निशीथचूर्णावुक्तं न पुनः स हन्तव्य इति विधिमुखेन जिनोप्रदेशो भवति; २ सव्वे पाणा सव्वै भूआ सव्वे जीवा सव्वे सत्ता न हन्तव्वा " इत्याद्यागमेन विरोधप्रसङ्गात् । यच्च दशाश्रुतस्कन्धचूर्णी - 1 - " ३ अवण्णवाई पडिहणेज्ज' ति " मिभणितं तदाचार्य शिष्याणां परवादनिराकरणे सामर्थ्यं दर्शितम् । यथा - " ४ च्छदिट्ठी पsिहसु सम्मत्तं थिरं होइ " त्ति श्रीसूत्रकृदङ्गचूर्णो भणितम् । अत एव “ “साहूणं चेइआण य' इत्यादौ सर्वबलेनेति स्वप्राणव्यपरोपणं यावदित्येवं भणितम्, न पुनर्जिनप्रवचनाहितकर्त्ता ' हन्तव्य ' इति, जैनानां तथाभाषाया वक्तुमप्यनुचितत्वात् । यद्यपि सर्वबलेन निवारणे पञ्चेन्द्रियव्यापादनं कादाचि कं भवत्यपि, तथापि स व्यापादनीयो व्यापाद्यतां च' इत्यादिरूपेण मनोव्यापारवानपि केवली न भवति, तथाभूतस्यापि मनोव्यापारस्य सावद्यत्वेन प्रत्याख्यातत्वाद् । न चापवादिकस्तथाव्यापारः सावद्यो न भविष्यतीति शङ्कनीयम, यतोऽपवादप्रतिषेवणं च संयतेष्वपि प्रमत्तस्यैव भवति, कथं तर्हि सर्वोत्कृष्टनियताप्रमत्तस्य केवलिनोऽपीति ? परं पञ्चेन्द्रियव्यापादनभयेन यदि सति सामर्थ्यं प्रवचनाहितं न निवारयति, तर्हि संसारवृद्धिदुर्लभबोधिता चेत्यादि श्रीकालिकाचार्यकथादौ भणितम् । अहितनिवारणे च क्रियमाणे कदाचित्पञ्चेन्द्रियव्यापत्तौ प्रायश्चित्तप्रतिप्रच्याशयस्य शुद्धत्वाज्जिनाज्ञाऽऽराधकः सुलभबोधिश्वेत्यादिरूपेण वस्तुस्वरूपावबोधको जिनोपदेशो भवतीति तात्पर्यम् । एवं जिनोपदेशेन वस्तुस्वरूपमवगम्य स्वत एव यथौचित्येन प्रवृत्तिनिवृत्तिभ्यां जिनाज्ञाराधको भवतीति जिनोपदेशस्य कल्पयाकल्प्यतावबोध एव चरितार्थत्वाज्जलजीवविराधनानुज्ञा केवलिनः कलङ्क एव । न च नद्युत्तारस्य कारणत्वेन जलजीवविराधनाऽऽप्यापवादिकीति तत्र जिनोपदेशो भविष्यतीति शङ्कनीयम्, अचित्तजलनद्युत्तारस्य भावापघ्या तस्या नद्युत्तारे कारणत्वाभावात् । तस्मान्नद्युत्तारस्य कारणं न जलजीवविराधना, किन्तु पादादिक्रियैवेति । एतेन 'जलं वस्त्रगलितमेव पेयम् नागलितम् ' इत्युपदिशता केवलिना जले जीवविराधना सचित्तजलपानं चोपदिष्टं भविष्यतीति शङ्काऽपि परास्ता । यतः “ सविशेषणे० " इत्यादिना न्यायेन तत्र जलगलनमेवोपदिष्टम, १. पञ्चेन्द्रिय व्यपरोपणा कल्प्या इति ॥ २. सर्वे प्राणाः सर्वे भूताः सर्वे जीवाः सर्वे सत्त्वा न हन्तव्याः ॥ ३. अवर्णवादिनं प्रतिहन्यात् । ४. मिथ्यादृष्टिषु प्रतिहतेषु सम्यक्त्वं स्थिरं भवति । ५ साधूनां चैत्यानां च । Page #211 -------------------------------------------------------------------------- ________________ १९८ तश्च सजीवरक्षार्थमिति । न च केवलिना जीवघातादिकं साक्षादनुज्ञातमिति न ब्रूमः, किन्तु विहारादिकमनुजानता तदविनाभावेन जायमानमनुज्ञातमित्यस्यापि बचनस्यावकाशः, एवं सति गजसुकुमालश्मशानकायोत्सर्गमनुजानतः श्रीनेमिनाथस्य तदविनाभावितदीयशिरःप्रज्वालनस्याप्यनुज्ञापत्तेः । न च नद्युत्तारे जलजीविराधना यतनया कर्त्तव्येति जिनोपदेशो भविष्यतीत्यपि सम्भावनीयम्, यतनाविराधनयोः परस्परं विरोधाद्, यतना हि जीवरक्षाहेतुरयतना च जीवघातहेतुरिति । तस्माज्जीवविराधना नियमादयतनाजन्यैव, अयतना चान्ततो जीवघातवदनाभोगजन्याशक्यपरिहारेणैव, जीवरक्षा च यतनाजन्यैवेत्यनादिसिद्धो नियमो मन्तव्यः।अत एव छद्मस्थसंयतानामुपशान्तवीत रागपर्यन्तानां यतनया प्रवर्त्तमानानामपि या विराधना सा नियमादनाभोगवशेनायत नाजन्यैव, परमपमत्तसंयतानां नातिचा रहेतुरपि, आशयस्य शुद्धत्वात् । एतच्च सम्भावनयाप्यात्मकृतत्वेनाज्ञातायां छद्मस्थसाक्षात्कार गम्यजीवविराधनायामवसातव्यम्, ज्ञातायां च प्रायश्चित्तप्रतिपित्सोरेव, अन्यथा तु निःशुकतया संयमापगमः प्रतीत एव । न चाप्रमत्तानामयतना न भविष्यतीति शङ्कनीयम्, अनाभोगजन्यायतनायाश्छद्मस्थमात्रस्य सत्त्वेनाप्रमत्तत्ताया अनाबाधकत्वात्, तेन संयतानां सर्वत्राप्यनाभोगजन्याशक्य परिहारेण जायमाने जीवघातमृषाभाषणाद्यंशे जिनोपदेशो न भवत्येव, तथाभूताया अपि विराधनाया अयतनाजन्यत्वेन निषिद्धत्वाद्, अत एव संयतानां द्रव्यतोऽपि हिंसा कर्मवन्धकारणम्, असत्यपि कृतप्रत्याख्यानभङ्गेनालोचनाविषयः । यदागमः"१ से अ पाणाइवाए चविहे पण्णत्ते, तं० - दओ खित्तओ कालओ भावओ" इत्यादि प्रत्याख्यानं च सर्वविरतिसिद्वयर्थमेव, तस्या अपि द्रव्यत आश्रवरूपत्वात्, सूक्ष्मपृथिव्यादीनामिवाविरतिप्रत्ययकर्मबन्धहेतुत्वात्, भावहिंसायाः कारणत्वाच्च; एतेन यत्र कापि धार्मिकानुष्ठाने सम्भावनयाप्यवद्यं भवति तदनुष्ठानविषयको जिनोपदेशो न भवति, तावन्मात्रस्याप्याश्रवस्योपदेशविषयत्वापत्त्या कृतसर्वसावद्यप्रत्याख्यानवतः प्रत्याख्यानभङ्गेन ‘केवली यथा वादी तथा कर्त्ता न भवेद्' इत्येवं प्ररूपणात्मकं पाशचन्द्रमतमप्युपेक्षितं द्रष्टव्यम्, जैनमवचने प्रागुक्तप्रकारेण तदंशे जिनोपदेशापत्तेरेवानङ्गीकारात् ; तस्मादयं भावः - यद्वस्तुजातं चिकीर्षितकार्यस्य प्रतिकूलमननुकूलं वा भवेत्तदविनाभावसम्बन्धेन जायमानमप्यनुकूलकारणवदुपदेशविषयो न भवति । यथा नद्युत्तराद्युपदेशे जीवघातो यथा वा क्षुद्वेदनाद्युपशमनार्थाहारविधौ तिक्तम १ स प्राणातिपातश्चतुर्विधः प्रशप्तः, तद्यथा - द्रव्यतः क्षेत्रतः कालतो भावतश्च ॥ Page #212 -------------------------------------------------------------------------- ________________ १९९ धुरादिरसास्वादः परं यत्र चिकीर्षितकार्यस्यानुकुलकारणान्यपि व्यवहारतः सावद्यानि भवन्ति तद्विषया जिनानुज्ञा क्रियाकालेऽप्यादेशमुखेन न स्याद्, एवं व्यवहारतो भाषायाः सावद्यत्वप्रसक्तेः; किं त्विष्टफलोपदर्शनेन कल्प्यत्वाभिव्यञ्जितोपदेशमुखेनैवावसातव्या । सा चानुज्ञा निश्रयतो निरवद्यैव, संसारप्रतनुकरणपूर्वक सानुबन्धिपुण्यप्रकृतिबन्धहेतुखात् । एतेन कुसुमादिभिर्जिनेन्द्रपूजामुपदिशता कुसुमादिजीवविराधनाप्युपदिष्टैव, पूजाविनाभावित्वेन ज्ञात्वैव पूजायामुपदिष्टखादिति वचनमपास्तम्, कुसुमादिजीव विराधनायाः पूजायाः कर्त्तएवाप्रत्यक्षत्वेन पूजाविषयक परिणामव्यवहाराहेतुत्वेन कल्पितकुसुमादीनामिव द्रव्यपूजासामग्रयनन्तर्भूतत्वात्, उपदेशमन्तरेणापि जायमानत्वात्, पूजां कुर्वता त्यक्तुमशक्यत्वाच्च, अन्यथा कुसुमादीनामिव तस्या अपि भूयस्त्वमेव विशिष्टपूजाङ्ग वाच्यम्, न च कुमुमादिभूयस्त्वे तद्भूयस्त्वमावश्यकम, कुसुमादीनां सचित्ताचित्ततया द्वैविध्यव्यवस्थानात् । तस्मात्तीर्थकृतामाज्ञोपदेशः कर्मक्षयनिमित्तं प्रत्युपेक्षणेर्यासमित्या - दिषु संयता यतनया प्रवर्त्तेरन् नान्यथा, संसारवृद्धिहेतुत्वादित्येवंविधिनिषेधमुखाभ्यामेवावसातव्यो न पुनस्त्वमित्थं कुरु इत्यादिसाक्षादा देशमुखेनापि । न च यतनया नद्युत्तारवत्तत्या द्रव्यपूजापि संयतानां भवत्विति शङ्कनीयम्, साधूनां त्रसस्थावरजीवरक्षार्थयतनाधिकाराद्, नद्युत्तारे '१ एगं पायं जले किच्चा' इत्यादि - विधिना निर्वाहा, द्रव्यस्तवे च त्रसजीवरक्षार्थयतनावतां श्राद्धानामेवाधिकारात्, सर्वारम्भपरिजिहीर्षापूर्वक पृथिव्यादियतनापरिणामे च तेषामपि चारित्र एवाधिकार इति तत्कारापणं च साधूनामुपदेशमुखेन युक्तम्, निश्चयतोऽनुज्ञाविषयत्वाद्, न त्वादेशमुखेन; पृथिवीदलादीनां तत्कारणानां व्यवहारतः सावद्यखात्, सोऽप्युपदेशो जिनपूजायतनाविषय एवेति सर्वत्र यतनायामेव भगवदाज्ञा, नतु क्वचिद् द्रव्यहिंसायामपीति ॥ तत्र ब्रूमः - अनुज्ञा तावद्भगवतो विधिवचनरूपा नद्युत्तराद्यविनाभाविन्यां जलजीवप्राणवियोगरूपायां जलजीवविराधनायां न कथञ्चिदेव, तस्या उदासीनत्वात् । तदनुकूलव्यापाररूपायां तु तस्यां नद्युतारादिव्यापाररूपायां साऽवर्जनीयैव, उभयस्वभावस्यानैकान्तिकस्य निमित्तकारणस्य बुद्धिभेदेन पृथक्कर्त्तुमशक्यत्वाद्, यत एव च यतनाविशिष्टस्य नद्युत्तारस्येष्टफलहेतुत्वं भणितम् । अत एव नैमित्तिक विधिरूपाया भगवदाज्ञाया बहुलाभाल्पव्ययद्रव्यहिंसायां व्यवहारतः पर्यवसानमुत्सर्गतः प्रतिषिद्धं हि केनचिन्निमित्तेनैव विधीयत १ एकं पादं जले कृत्वा ॥ Page #213 -------------------------------------------------------------------------- ________________ २०० इति तत इदमुच्यते ॥ १ अप्पेण बहु इच्छइ पिसुद्धआलंबणो समणो।" इति। निश्चयतस्तु नैकान्ततो बाह्य वस्तु विधीयते निषिध्यते वा, केवलं शुभभावो वि* धीयतेऽभुभभावस्तु निषिध्यते, अत एव भावानुरोधेन बाह्ये वस्तुनि विधिनिषे*धकामचारः । तदुक्तं सदासगणिक्षमाश्रमणपूज्यपादैः-०२णय किंचि अणुगणायं पडिसिद्धं वावि जिणवरिंदेहिं । एसा तेसिं आणा कज्जे सच्चेण होअव्वं ॥१॥” ति । तथा च ' यदेव निश्चयाङ्गव्यवहारेण नद्युत्तारादेरनुज्ञातत्वं तदेव " द्रव्यहिंसाया अपि' इत्यवशिष्टकल्पना जालमनुत्थानोपहतम् । इदं तु ध्येयम् अनुज्ञाविषयतावच्छेदकं हिंसात्वं नधुत्तारत्वादिकं वा, किन्तु सामान्यविशेषविधिविधेयतावच्छेदकविधिशुद्धव्यापारत्वयतनाविशिष्टनद्युत्तारखादिकम्, फल तस्तु विधिशुद्धहिंसाया अप्यनुज्ञाविषयत्वं व्यवहाराबाधितमेव, अत एव विधिना क्रियमाणाया जिनपूजादिविषयहिंसाया अनुबन्धभावतो मोक्षप्राप्तिपर्यवसानसमुपदेशपदपञ्चवस्तुकादावुक्तम् । यत्तु 'अरिहंता भगवंतो' इत्यादि सम्मतिप्रदर्शनेन भगवतो विराधनाविषयकवाझयोगासम्भव उपपादितस्त इत्यन्तमसमासम्, सम्मतिवचनस्य कायव्यापारेणेव प्रवर्तकलनिवर्तकखाभावाभिधानतात्पर्याद्वाक्मयोगस्याप्यमवर्तकनिवर्तकत्वविधिनिषेधव्यापारवैयर्थ्याद् । यदपि "सविशेषणे० " इत्यादिन्यायेन यतनाऽयतनाविषयत्वमेव सर्वत्र जिनोपदेशस्यो• पदर्शितं तदपि विशेष्यभागस्याकिश्चित्करत्वपदर्शनार्थं महावाक्यार्थपर्यवसानार्थमैदं पर्यार्थपर्यवसानार्थ वा ? नाद्यः, नद्युत्तारजन्यस्य भिक्षाचर्याविहारादिफलस्य यतनामात्रादसिद्धेविशेष्यभागस्याकिञ्चित्करत्वासम्भवाद् । न द्वितीयः, महावाक्यायस्य सर्वैरेव पदार्थैः पर्यवसानाद् । नापि तृतीयः, 'आज्ञा धर्म सार' इति सार्वत्रिकैदंपर्यार्थस्य प्रकृतवाक्यार्थे योजनायामपि विशेष्यस्य त्यागायोगात् । । किञ्चैवं • जयं चरे' इत्यादौ यतनांश एवोपदेशो न तु चरणाग्रंश इत्येकत्र "" वाक्ये कथं पदपदार्थयोजना ? यदपि ज्ञानाद्यर्थमपवादप्रतिषेवणेऽप्यनादिसिद्ध कल्प्यत्वादिलक्षणवस्तुस्वरूपावबोधक एव जिनोपदेशः, प्रवृत्तिस्त्वौचित्यज्ञानेन स्वत एवेत्युक्तं तदप्यगाधभ्रमसमुद्रमज्जनविजृम्भितम्, जिनोपदेशात् कल्प्यत्वादिबोधे स्वत एव प्रवृत्तिवचनस्याविचारितरमणीयत्वात्, कल्प्यताबोधकस्योपदेश "स्यैव प्रवृत्तिजनकेच्छाजनकज्ञानविषयेष्टसाधनतादिबोधकत्वेन प्रवर्तकत्वाद्, एतदेव हि १ आत्मना बहु इच्छति विशुद्धालम्बनः श्रमण इति ॥ २ न किञ्चिदनुज्ञातं प्रतिषिद्धं वापि जिनवरेन्द्रः । एषा तेषामाज्ञा कार्य सत्येन भवितव्यम् ॥ ३बतं चरेत् । Page #214 -------------------------------------------------------------------------- ________________ २०१ ८१ सर्वत्र विधेः प्रवर्त्तकत्वमभ्युपयन्ति शास्त्रविदः । विधेः प्रवर्तकत्वादेव च कल्प्य - तादिबोधकादर्थवादादपि विधिकल्पनमाद्रियते, इत्थं च ' ' पञ्चेन्दियववरोवणा वि कपिय'त्ति निशीथचूर्णावुक्तं न पुनः ' स हन्तव्य ' इतीति यदुक्तं तद् ध्वनिभेदेनार्थपरावर्त्तमात्रम् । यच्च ' सव्ये पाणा ' इत्यादिना विरोधोद्भावनं कृतं तद् 'न हन्तव्य' इत्यादिशब्दसादृश्यमात्रेणैव, किन्तु हिंसाविषयकोपदेशार्थमात्रेण स्यात्, तन्निराकरणं चैतत्सूत्रस्याविधिकृतहिंसाविषयत्वेनैव हरिभद्रसूरिभिः कृतमिति नात्र पर्यनुयोगावकाशः । किञ्च सामान्यतः सर्वजीवपरितापनानिषेधेऽपि क्वचिदपवादतस्तदुपदेशो विधिमुखेनापि दृश्यते, यथा भगवत्याम् - २ तं छंदेण अज्जो तुब्भे गोसाल मेखलिपुत्तं धम्मियाए पडिचोअणाए पडिचोएण्ह, धम्मिआए पडिसारणाए पडिसारेह, धम्मिएणं पडोआरेणं पटोआरेहः धम्मिएहिं अहिं हेऊहिं पसिणेहि C ३ अवण्ण पिसिणवागरणं करेह " । त्ति एतद्धि गोशालस्य परितापजनकं वचनं भगवतैत्र लाभं दृष्ट्वाऽऽज्ञप्तम्, न चोत्सर्गतः परपरितापजनकं वचनं साधूनां वक्तुं युज्यत इत्यवश्यमपवादविधिरुत्सर्गविधिवदङ्गीकर्त्तव्यः । इत्थं च वाई पटिहणेज्ज' त्ति दशाश्रुतस्कन्धचूर्णिवचनस्य यदन्यार्थपरिकल्पनं तदयुक्तमेव, मिथोविरुद्धं चेदं यदुतापवादविधिप्रतिषेधः, पञ्चेन्द्रियव्यापादनभयेन सति सामर्थ्यं प्रवचनाहितानिवारणे संसारवृद्धिर्दुलभबोधिता चेति । इत्थं हि मवचनाहितनिवारणे निमित्ते पञ्चेन्द्रियव्यापादनस्य बलवदनिष्टाननुबन्धित्वबोधार्थमपवादविधिरवश्यं कल्पनीयः, अन्यथा सामान्यनिषेधजनितभयानिवृत्तेरिति । यच्चाहितनिवारणे क्रियमाणे कदाचित्पञ्चेन्द्रियव्यापत्तौ प्रायश्चित्तप्रतिपच्त्याशयस्य शुद्धत्वाज्जिनाराधकत्वं सुलभबोधिकत्वं चोक्तं तदविचारितरमणीयम, यतनावतोऽपवादेऽपि प्रायश्चित्तानुपदेशात् । तदुक्तं बृहत्कल्पवृत्तौ तृतीयखण्डे - " तथा मूलगुणप्रतिसेव्यप्यालम्बनसहितः पूज्यः, पुलाकवत् ; स हि कुलादिकार्ये चक्रवर्त्तिस्कन्धावारमपि गृह्णीयाद् विनाशयेद्वा न च प्रायश्चित्तमाप्नुयाद् । ” इत्यादि । यत्तु तस्य " " हिट्ठट्ठाणट्ठिओ वि " - इत्यादिनाऽधस्तनस्थानस्थायि १. पञ्चेन्द्रियव्यपरोपणाऽपि कल्प्यते इति । २. तत् छन्देन आर्य ! यूयं गोशालं मंखलिपुत्रं धार्मिकया प्रतिचोदनया प्रतिचोदयत, धार्मिकया प्रतिसारणया प्रतिसारयत, धार्मिकेण प्रत्यवतारेण प्रत्यवतारयत, धार्मिकैरथैर्हेतुभिः प्रश्नैश्च निष्पिष्टप्रश्नव्याकरणं कुरुतेति । ३. अवर्णवादिनं प्रतिहन्यात् । ४. अधस्तनस्थानस्थितोऽपि । ૨૬ Page #215 -------------------------------------------------------------------------- ________________ २०२ त्वमुक्तं तत्स्वाभाविकम्, न तु प्रतिषेवणाकृतमिति बोध्यम् । किञ्च तस्य प्रायवित्तं स्यात् तदा पुनर्वतारोपणादि स्याद्, आकुट्या पञ्चेन्द्रियघाते मूलादिमहाप्रायश्चित्ताभिधानाद् । उक्तं च - " तस्य हस्तशताद्बहिर्गमन इव निरतिचारताभिव्यञ्जकं सूक्ष्माश्रवविशोधकमालोचनाप्रायश्चित्तमेव । तथा च द्वितीयखण्डे बृहत्कल्पभाष्यवृत्तिग्रन्थः- “ १ आयरिए गच्छम्मि य कुलगणसंघ अ चेइअविणासे । आलोइअपडिक्कतो सुद्धो जं णिज्जरा विउला ॥ " षष्ठीसप्तम्योरर्थ प्रत्यभेदः । आचार्यस्य वा गच्छस्य वा कुलस्य वा गणस्य वा सङ्घस्य वा चैत्यस्य वा विनाशे उपस्थिते सति सहस्रयोधिप्रभृतिना स्ववीर्यमहापयता तथा पराक्रमणी ( णीयं ) यथा तेषामाचार्यादीनां विनाशो नोपजायते, स च तथा पराक्रममाणो यद्यपराधमापन्नस्तथाऽप्यालोचितप्रतिक्रान्तः शुद्धः - गुरुसमक्षमालोच्य मिथ्यादुष्कृतप्रदानमात्रेणैवासौ शुद्ध इति भावः । कुतः ? इत्याह-यद्यस्मात्कारणाद्विपुला महती निर्जरा कर्मक्षयलक्षणा तस्य भवति, पुष्टालम्बनमवगम्य भगवदाज्ञया प्रवर्त्तमानत्वादिति ।। " इत्थं च सर्वत्र वस्तुस्वरूपावबोधक एवापवादोपदेशो नतु विधिमुख इति यत्किञ्चिदेव, बहूनां छेदग्रन्थस्थापवादसूत्राणां विधिमुखेन स्पष्टमुपलम्भात् । तथा आचाराङ्गेऽपि " से से तत्थ पयलमाणे ar vasमाणे वा रुक्खाणि वा गुच्छाणि वा लयाओ वा वल्लीओ वा तणाणि वातणगहणाणि वा हरिआणि वा अवलंबिया उत्तरिज्जा, से तत्थ पाडिपहिआ उवागच्छंति ते पाणी जाएज्जा, तओ संजयामेव अवलंबिय २ उत्तरेज्जा, तओ संजयामेव गामाणुगामं दूइजिज्जा । " इत्यत्र गच्छगतस्य साधोर्वल्याद्यालम्बनस्य विधिमुखेनैवोपदेशात् । न च से भिक्खु वा २ गामाणुगामं दुइज्जमाणे अंतरा से वप्पाणि वा फलिहाणि वा पागारागि वा तोरणाणि वा 46 १ आचार्ये गच्छे च कुलगणसंघे च चैत्यविनाशे । आलोचितप्रतिक्रान्तः शुद्धो यन्निर्जरा विपुला ॥ २ अथ स तत्र प्रचलन् प्रपतन् वृक्षान् गुच्छान् वा लता वा वल्लीर्वा तृणानि वा तृणग्रहणानि वा हरितानि वा अवलम्ब्य उत्तरेत्, अथ तत्र प्रातिपथिका उपागच्छन्ति तेषां पाणि याचेत, ततः संयत एव अवलम्ब्य २. उत्तरेत्, ततः संयत एवं ग्रामानुग्रामं गच्छेत ॥ ३० अथ भिक्षुर्वा भिक्षुकीर्वा ग्रामानु ग्रामं गच्छन् अन्तरा तस्य वप्रा वा परिखा वा प्राकारा वा तोरणानि वा अर्गला वा अर्गलपाशका वा सति पराक्रमे संवत एव पराक्रमेत, नो ऋजुक गच्छेत् । केवली ब्रूयाद् आदानमेतत् ॥ Page #216 -------------------------------------------------------------------------- ________________ २०३ अग्गलाणि वा अग्गलपासगाणि वा [ उत्ताओ वा दरीओ ] वा सति परकमे संजयामेव परक्कामिज्जा णो उज्जुअं गच्छिज्जा । केवली बूआ, आयाणमेयंति" ।। [ आचारांग. पा. ३३७] प्रागुक्तनिषेधकारणानिष्टसम्भावनावचनमेतद्, नतु विधिवचनमिति वाच्यम् ; विधिवचनत्वेनापि वृत्तिकृता वृत्त्या ( च्यां ) व्याख्यानात् । तथाहि ' से ' इत्यादि । स भिक्षुर्ग्रामान्तराले यदि वमादिकं पश्येत्, ततः सत्यन्यस्मिन् सङ्क्रमे तेन ऋजुना पथा न गच्छेद्, यतस्तत्र गर्त्तादौ निपतन् सचित्तं वृक्षादिकमवलम्बेत, तच्चायुक्तम् । अथ कारणिकस्तेनैवं गच्छेत्, कथञ्चित्पतितश्च गच्छगतो वल्यादिकमवलम्ब्य प्रातिपथिकं हस्तं वा याचित्वा संयत एव गच्छेदिति । तथा सामान्यतः प्रतिषिद्धं लवणभक्षणमप्यपवादतो विधिमुखेन तत्रैवानुज्ञातं दृश्यते । तथाहि " " से भिक्खू वा २ [ जाव समाणे सिया ] से परो अव(भि) अंतो पडिग्गहे बिडं वा लोणं वा उद्भियं वा लोणं परिभाइत्ता णीहरु दलइज्जा, तहप्पगारं पडिग्गहं परहत्थेसि वा परपायँसि वा अफासु जाव णो पडिग्गहिज्जा, से आहच्च पडिग्गाहिए सिया, तं च णाइ दूरगयं जाणेज्जा, से तमादाए तत्थ गच्छेज्जा, पुवामेव आलोइज्जा, आउसोत वा भगिणीति वा इमं ते किं जाणया दिन्नं, उदाहु अजाणया ? से य भाणेज्जा, नो खलु मे जाणया दिन्नं, अजाणया दिनं, कामं खलु आउसो इदाणिं णिसिरामि तं भुंजह वा णं परिभाएइ वा णं तं परेहिं समणुन्नायं सम सि ओ संजयामेव भुंजेज्ज वा पिबेज्ज वा, जं च णो संचाएति भीत्तए वा पायएवा साहम्मिया तत्थ वसंति, संभोइआ समणुण्णा अपरिहारिआ अदूरंगया तेसिं अणुष्पदाय सिया, णो जत्थ साहम्मिआ [सिआ], जव बहुपरिआवन्ने (नं) १ अथ भिक्षुर्वा यावत्समानः स्यात् परः प्रविश्यान्तः पतदूग्रहे विडं वा लवणं वा उद्भिजं वा लवणं परिभज्य निःसृत्य दद्यात्, तथाप्रकारं प्रतिग्रहं परहस्ते वा परपात्रे वा अप्रासुकं यावद् नो प्रतिगृह्णीयात्; स आहत्य (सहसा ) प्रतिगृहीतं स्यात्, तं च नातिदूरं ज्ञात्वा स तमादाय तत्र गच्छेत्, पूर्वमेव आलोकयेद्, आयुष्मन् ! भागिनीति वा इदं त्वया जानता दत्तमुताजानता ? स च भणेत्-नो खलु मया जानता दत्तम्, कामं खलु आयुष्मन् ! इदानीं निःसरामि तं भुञ्जीत वा परिभाजयेत् वा तं परैः समनुज्ञातं समनुसृष्टं ततः संवत एव भुञ्जीत वा पिबेद् वा । यश्च न शक्नोनि भोक्तुं पातुं वा, साधर्मिका यंत्र वसन्ति साधर्मिकाः समनोज्ञा अपरिहारिका अदूरगतास्तेषामनुप्रदातव्यं स्वात्, नो यत्र साधर्मिकाः स्युः यथैव बहुपर्यापन्नः क्रियते तथैव कर्तव्यं स्यात्, एवं खलु तस्य भिक्षोभिक्षुक्या वा सामग्र्यमिति ॥ Page #217 -------------------------------------------------------------------------- ________________ २०४ C ates and strai सिया, एवं खलु तस्स भिक्खुस्स भिख्खुणीए वा सामग्गि अंति । ” एतद्वृत्तिर्यथा - स भिक्षुर्गृहादौ प्रविष्टः, तस्य च स्यात् कदाचित्परो गृहस्थः ' अभिहट्टु अंतो ' इति अंतः प्रविश्य पतद्ग्रहे काष्ठच्छब्बकादौ ग्लानाद्यर्थ खण्डादियाचने सति बिडं वा लवणं खनिविशेषोत्पन्नं उद्भिज्जं वा लवणाकराद्युत्पन्नं ‘परिभाइ' त्तत्ति दातव्यं विभज्य दातव्यद्रव्यात् कञ्चिदेशं गृहीत्वेत्यर्थः । ततो निःसृत्य दद्यात् तथाप्रकारं परहस्तादिगतमेव प्रतिषेधयेत्, तच्चाहच्चे 'ति सहसा प्रतिगृहीतं भवेत् । तं च दातारमदूरगतं ज्ञात्वा स भिक्षुस्नलवणादिकमादाय तत्समीपं गच्छेद्, गत्वा च पूर्वमेव तल्लवणादिकमालोकयेद्दर्शयेद्, एतच्च ब्रूयाद् ' अमुक' इति वा, भगीनीति वा ! एतच्च लवणादिकं किं त्वया जानता दत्तमुताजानता ? एवमुक्तः सन् पर एवं वदेद् यथा पूर्वं मयाऽजानता दत्तम्, साम्प्रतं तु यदि भवतोऽनेन प्रयोजनं ततो दत्तमेतत् परिभोगं कुरुध्वम् । तदेवं परैः समनुज्ञातं समनुसृष्टं सत्प्रासुकं कारणवशादप्रासुकं वा भुञ्जीत पिबेद्वा, यच्च न शक्नोति भोक्तुं पातुं वा तत् साधर्मिकादिभ्यो दद्यात्, तदभावे बहुप र्यापन्नविधिं प्राक्तनं विदध्याद्, एतत्तस्य भिक्षोः सामग्र्यमिति । " " न चापवादविषयोऽपि मनोव्यापारः सावद्यत्वात् केवलिनो न सम्भव - तीति शङ्कनीयम, अधिकृत पुरुषविशेषेऽधिक निवृत्तितात्पर्यावगाहित्वेनास्य निरवद्यत्वाद्, अन्यथा देशविरत्युपदेशोऽपि न स्यात्, तस्य चरणाशक्तपुरुषविषयत्वेनापवादिकत्वात् अत एव चारित्रमार्गमनुपदिश्य देशविरत्युपदेशे स्थावरहिंसाप्रतिषेधानुमतेः क्रमभङ्गादपसिद्धान्त उपदर्शितः । यत्तु 'जलं वस्त्रगलितमेव पेयम्' इत्यत्र " सविशेषणे० " इत्यादिन्यायाज्जलगलनमेवोपदिष्टं न तु विधिमुखेन निषिद्धोपदेशः कारणतोऽपीति, तदसद्, यतो जलगालनमपि जलशस्त्रमेव, तदुक्तमाचाराङ्गनिर्युक्तौ - " " उस्सिंचण - गालण--धोअण्णे य उवगरण- कोस भंडे अ । बायरआउक्काए एयं तु समासओ सत्थं " || ति ॥ अत्र गालनं 'घन - मसृणवस्त्रार्द्धान्तेन ' इति वृत्तौ सम्पूर्य व्याख्यातम् । तच्च त्रिविधं त्रिविधेन निषिद्धमिति विधिमुखेन तदुपदेशे निषिद्धस्यापवादतस्तयोपदेशाविरोधाद्, निषिद्धमपि हि क्वचित्कदाचित्कथञ्चिद्विहितमपि भवतीति । यत्तूक्तं द्रव्य हिंसाया अप्यनाभोगवशादयतनाजन्यत्वेन निषिद्धत्वमेवेति । तत्रायतनाजन्य हिंसायाः कटुकफ १ १. उत्सेचनगालन- धावनं चोपकरण-कोशभाण्डं च । बादराकाये एतत्तु समासतः शस्त्रम् ॥ Page #218 -------------------------------------------------------------------------- ________________ २०५ लहेतुत्वात् , तत्राशयशुद्ध प्रतिबन्धिकाया यतनातिरिक्ताया असिद्धः, तस्याचायतनया सह विरोधात्, स्थूलयतनायां स्थूलायतनायाः प्रतिबन्धकत्वेन सूक्ष्मा यतनाकल्पने प्रमाणाभावाद्, अयतनासत्त्वेऽप्रमत्तानामप्रमत्ततासिद्धेः । या च सूक्ष्मा विराधना द्वादशगुणस्थानपर्यन्तमालोचनाप्रायश्चित्तबीजमिष्यते सा न सूक्ष्मायतनारूपा, सूक्ष्माया अप्ययतनायाश्चारित्रदोषत्वेनोपशान्तक्षीणमोहयोर्यथाख्यात चारित्रिणोस्तदनुपपत्तेः; किन्त्वनाभोगलक्षणसूक्ष्मप्रमादजनितचेष्टाश्रवरूपा,अत एव द्वादशगुणस्थानपर्यन्तम् , तन्निमित्तालोचनाप्रायश्चित्तसम्भवः। तदुक्तं प्रवचनसारोद्धारवृत्तौ--" इयं चालोचना गमनागमनादिष्ववश्यकर्त्तव्येषु सम्यगुपयुक्तस्यादुटभावतया निरतिचारस्य छद्मस्थस्याप्रमत्तयतेष्टव्या, सातिचारस्य तूपरितनप्रायश्चित्तसम्भवात् , केवलज्ञानिनश्च कृतकृत्यत्वेनालोचनाया अयोगात् । आहयतीनामवश्यकर्त्तव्यानि गमनागमनादीनि तेषु सम्यगुपयुक्तस्यादुष्टभावतया निरतिचारस्याप्रमत्तस्य किमालोचनया ? तामन्तरेणापि तस्य शुद्धत्वाद्, यथासूत्रं प्रवृत्तेः । सत्यमेतत् , केवलं याश्चेष्टानिमित्ताः सूक्ष्मप्रमादनिमित्ता वा सूक्ष्मा आश्रवक्रियास्ता आलोचनामात्रेण शुद्वयन्तीति तच्छुद्धिनिमित्तमालोचनेति । तथा व्यवहारदशमोद्देशकवृत्तावप्युक्तं-निर्ग्रन्थस्यालोचना-विवेकरूपे द्वे प्रायश्चित्ते, स्नातकस्यैको विवेक इति । तथाऽऽलोचना गुरोः पुरतः स्वापराधस्य प्रकटनम्, कचित्तावन्मात्रेणैव शुद्धिः, यथाऽवश्यकृत्ये हस्तशतात् परतो गमनागमनादौ सम्यगुपयुक्तस्य निरतिचारस्य यतेः, सातिचारस्य तूपरितनप्रायश्चित्तसम्भवात् । यतेरवश्यकृत्ये गमनागमनादौ निरतिचारस्यालोचनां विनाऽपि कथं न शुद्धिः, यथासूत्रं प्रवृत्तेः । सत्यम् ; परं याश्चेष्टानिमित्ताः सूक्ष्मा आश्रवक्रियास्तासां शुद्वयर्थमालोचनेति । तथा ' यतिजीतकल्पवृत्तावप्युक्तम्--" अत्राह शिष्यः-- निरतिचारो यतिः करणीयान् योगान् करोति, ततः किमालोचनया विशोध्यम् ? गुरुराह-सूक्ष्मा आश्रवक्रियाः सूक्ष्मप्रमादनिमित्तका अविज्ञातास्तासामालोचनमात्रेणशुद्धिरित्यादि । नथा पश्चाशकसूत्रवृत्त्योरप्युक्तम् "ता एवं चिय एवं विहियाणुट्ठाणमेत्य हवइत्ति । कम्माणुबंधछेअणमणहं आलोअणाइजुरं ॥" १ तत एवमेवैतद् विहितानुष्ठानमत्र भवतीति । कर्मानुबन्धच्छेदनमनघमालोचनादियुतम् ॥ Page #219 -------------------------------------------------------------------------- ________________ . २०६ “ यस्मात्सर्वावस्थासु कर्मबन्धोऽस्ति, कर्मबन्धानुमेया च विराधना, इष्यते चासौ द्रव्यतो वीतरागस्यापि छद्मस्थस्य, चतुर्णामपि मनोयोगादीनामभिधानात्, 'ता' तस्माद् एवंचिय'त्ति एवमेव विराधनायाः शोधनीयत्वेन 'एतद्' क्षालनादिकं 'विहितानुष्ठानं ' विधेयक्रिया ' अत्र ' कर्मानयनप्रक्रमे ' भवति' स्याद् । इतिशङ्कः समाप्त्यर्थों गाथान्ते योज्यः। किंविधं भवति ? इत्याह-'कर्मानुबन्धच्छेदनं' कर्मसन्तानछेदकं 'अनघं '-अदोषम्, परोक्तदूषणाभावात् । किंभूतं सद् ? इत्याह-'आलोचनादियुतं ' आलोचनप्रतिक्रमणादिप्रायश्चित्तसमन्वितमिति गाथार्थ इति ॥" वस्तुतः कर्मबन्धानुमेया द्रव्यविराधना निर्ग्रन्थस्य स्नातकस्य च तुल्या, द्वयोरपि सामयिककर्मबन्धहेतुत्वात् ; परं छद्मस्थानां विहितानुष्ठानमालोचनादियुतमिष्टसाधनम् , तथैव विधानात् , छद्मस्थयोगानां शोध्यत्वेन प्रायश्चित्तस्य च शोधकत्वेन व्यवस्थितेरित्यकषायस्य योगा ऐर्यापथिककर्मबन्धहेतुत्वेन, नायतनयाऽशुद्धा । अकषायश्च वीतरागः सरागश्च सञ्जवलनकषायवानप्यविद्यमानतदुदयो मन्दानुभावत्वात् तत्त्वार्थवृत्तौ निर्दिष्टः, अनुदरा कन्यानिर्देशवद् इत्यकषायस्य नायतना, न वा तस्यावश्यंभाविद्रव्यहिंसादिकमप्ययतनाजन्यमिति प्रतिपत्तव्यम् । यत्तूक्तं द्रव्यतोऽपि हिंसायाः कृतप्रत्याख्यानभङ्गेनालोचनाविषयत्वमिति तज्जैनसिद्धान्तपरिभाषाज्ञानाभावविजृम्भितम्, द्रव्याद्याश्रयेण हिंसादिभावस्यैव प्रत्याख्यातत्वाद्, द्रव्यहिंसादिना हिंसादिप्रत्याख्यानभङ्गाभावाद् अनेनैवाभिप्रायेण धर्मोपकरणाङ्गीकरणे " 'से अपरिग्गहे चउबिहे पण्णत्ते, दवओ खित्तओ०" इत्यादिक्रमेण प्रत्याख्यातस्य परिग्रहस्य न भङ्गदोष इति विशेषावश्यके दिगम्बरनिराकरणस्यलेऽभिहितम् । तथा च तद्ग्रन्थः_ " अपरिग्गहयामुत्तेत्ति जा य मुच्छापरिग्गहोऽभिमओ। . सव्वदव्वेसु न सा कायव्वा मुत्तसब्भावो ॥" या च " सव्वाओ परिग्गहाओ वेरमणम् ” इत्यादिनाऽपरिग्रहतासूत्रे पोक्तेति त्वया गीयते, तत्रापि मूच्छैव परिग्रहस्तीर्थकृतामभिमतो नान्यः । सा च मूर्छा यथा वस्त्रे तथा सर्वेष्वपि शरीराहारादिद्रव्येषु न कर्तव्येति सूत्रस १ स च पारिग्रहश्चतुर्विधः प्राप्तः, द्रव्यतः क्षेत्रतः। .२ अपरिग्रहतासूत्र इति या च मूर्छा परिग्रहोऽभिमतः । सर्वद्रव्येषु न सा कर्तव्या सूत्रसभावः ॥ ३ सर्वात्प्राणातिपातादू विरमणम् ॥ Page #220 -------------------------------------------------------------------------- ________________ २०७ द्भावः सूत्रपरमार्थः, न पुनस्त्वदभिमतः सर्वथा वस्त्रपरित्यागोऽपरिग्रहतेति सूत्राभिप्रायः, तस्मादपरिज्ञातसूत्रभावार्थों मिथ्यैव खिद्यसे त्वमिति ॥” ___किश्च यदि द्रव्यहिंसया कृतप्रत्याख्यानभङ्गः स्यात् तदा तवाप्युपशान्तमोहस्य यथाख्यातचारित्रं न स्यात् , अंशतो भङ्गावश्यंभावादिति । यच्च सर्वविरतिसिद्धयर्थं द्रव्यहिंसाया अपि प्रत्याख्यानमुपपादितम् , तदयुक्तम् , एवं योगानामपि प्रत्याख्यानापत्तेः 'अयोगिकेवलिष्वेव सर्वतः संवरो मतः' इति वचनादयोगिन्येव सर्वसंवरसिद्धः । यच्च द्रव्याश्रवस्य सूक्ष्मपृथिव्यादीनामिवाविरतिप्रत्ययकर्मबन्धहेतुत्वमुक्तं तथैव, तेषामविरतिभावं प्रतीत्यैव कर्मबन्धाभिधानात् , तद्योगानां द्रव्य हिंसाऽहेतुत्वाद्, भावहिंसाकारणत्वं च योगानामिव द्रव्य हिंसाया अपि न बाधकमिति । 'यत्त्वेतेनेत्यादिना पाशचन्द्रमतमुपेक्ष्य तस्मादयं भावः' इत्यादिना किश्चित् सम्प्रदायानुसारि भणितं तदर्दजरतीयन्यायानुकारि, हिंसांशे जिनोपदेशाभावेन तन्मताश्रयणे ' पूजाधुपदेशाभावापत्तेः, तदविनाभाविहिंसांशे उपदेशाभावेन प्रकृतोपदेशसमर्थनसम्भवेऽपि तदङ्गकुसुमार्चनायंशे तस्य कुसुमादि जीववधानुकूलव्यापाररूपहिसावगाहित्वस्य निराकर्तुमशक्यत्वाद्, एवमनिष्टबीजरूपमनपोयेष्टफलहेतुत्वेन कल्प्यखाभिव्यक्तेरप्यनुपपत्तेः, कुसुमादिहिंसायाः सन्दिग्धत्वेन तथाविधपातकाहेतुत्वे मिथ्यादृशामपि तस्यास्तथात्वापत्तेः, तस्माद् द्रव्यस्तवस्थलीयहिंसायामनुबन्धशुद्धत्वेनैव भगवदाज्ञा सम्यक्त्वादिभावहेतुत्वादिति॥१९॥ तदेवमाभोगेऽपि द्रव्यहिंसाया दोषानावहत्वं यत्सिद्धं तदाह'तम्हा व्वपरिग्गह-व्ववहाणं समंमि आभोगे । णहु दोसो केवलिणो केवलनाणे व चरणे वा ॥ ६० ॥ 'तम्ह 'त्ति । तस्माद् द्रव्यपरिग्रह-द्रव्यवधयोः समेऽप्याभोगे साक्षात्कारे केवलिनो नैव दोषः, केवलज्ञाने चारित्रे वा ज्ञानावरण-चारित्रमोहनीयक्षयजन्ययोः केवलज्ञान-चारित्रयोर्द्रव्याश्रवमात्रेणानपवादात् । यत्तु क्षीणमोहस्यापि स्नातकचारित्राभावात्संभावनारूढातिचाररूपस्यापि द्रव्याश्रवस्य यदि तत्पतिबन्धकत्वं तदा साक्षाजीवघातस्य द्रव्यरूपस्यापि तन्यायप्राप्तमेवेति केवलिनोऽपि द्रष्यहिंसा चारित्रदोष एवेति परेण प्रोच्यते तदसत् , स्नातकस्य निर्ग्रन्थभेदत्वाद् यथाख्यातस्यैव चारित्रभेदत्वात् तत्पतिबन्धकत्वस्य च द्रव्यहिंसायां त्वयाऽप्यनभ्युपग १ तस्माद् द्रव्यपरिग्रह-द्रव्यवधपोः समेऽप्याभोगे । नैव दोषः केवलिनः केवलज्ञाने च चरणे वा ॥ Page #221 -------------------------------------------------------------------------- ________________ २०८ मात् । यदि च स्नातकचारित्रस्य द्रव्यहिंसा दोषः स्यात् तदा निर्ग्रन्थचारित्रस्यापि दोषः स्यादेव, निर्ग्रन्थ- स्नातकयोरेक संयमस्थानाभ्युपगमात् । " णिगंथसिणायाणं तुलं इकं च संजमट्ठाणं " इति पञ्चनिर्ग्रन्थीवचनादिति द्रष्टव्यम् || ६० ॥ हिंसाचतुर्भानुसारेणैव द्रव्यहिंसया भगवतो दोषाभावमाह - १णोदव्वा णोभावा जह तह हिंसा ण दव्वमित्तेणं । ते तीए दोसं जिणस्स को भासए सण्णी ॥ ६१ ॥ व्याख्या - ' णोदव्व ' त्ति । नोद्रव्याद् नोभावाद् यथा न हिंसा, तथा द्रव्यमात्रेणापि हिंसा तत्वतो न हिंसा । तेन तया द्रव्यहिंसया दोषं जिनस्य कः संज्ञी भाषेत - अपि तु न कोऽपीत्यर्थः । इदमुक्तं भवति - हिंसामधिकृत्य द्रव्यभावाभ्यां चतुभैंगी तावदियं श्रावकप्रतिक्रमणसूत्रवृत्तावुक्ताः - १ द्रव्यतो भावतश्च हिंसा' हन्मि ' इति परिणतस्य व्याधादेर्मृगवधे । २ द्रव्यतो न भावतः - ईर्यासमितस्य साधोः सवधे । यदागमः - " २ वजेमित्ति परिणओ संपत्तीए विमुच्चई वेरा । अवतो वि ण मुच्चइ किलिट्ठभावा इवायस्य ॥ "त्ति । ३ भावतो न द्रव्यतः - ऽङ्गारमर्दकस्य कीटबुद्धयाऽङ्गारमर्दने, मन्द्रप्रकाशे रज्जुमहिबुद्धया घ्नतो वा । ४ न द्रव्यतो न भावतः - मनोवाक्कायशुद्धस्य साधोरिति ॥ अत्र परश्चतुर्थभङ्गस्वामिनं सयोगिकेवलिनमेवाह । यत्तु चूर्णिकारेण " चउत्यो सुण्णो 'त्ति भणितम्, तत्र स्वामिनमधिकृत्य, केवलिनस्तत्स्वामिनो विद्यमानत्वात्, तस्य सर्वोत्कृष्टचारित्रान्यथानुपपत्या मनोवाक्कायैः शुद्धत्वाद्, अन्यथा स्नातकः केवली न स्यात्, किन्तु हिंसास्वरूपमधिकृत्यैवोक्तम्, तच्चैवम् - यदि हिंसा तर्हि न द्रव्यतो न भावत इति वक्तुमप्यशक्यम्, द्रव्यभावयोरन्यतरत्वेनावश्यम्भावात्, तेन चतुर्थी भङ्गः शून्यो भणितः, विरोधाद् । न च शैलेश्यवस्थायां केवल स्वामी भविष्यतीति शङ्कनीयम्, तस्य सिद्धस्येव योगाभावेन मनोबाकायैः शुद्धत्वाभावाद्, नह्यविद्यमाने वस्त्रे ' वस्त्रेण शुद्ध ' इति व्यवहियत इत्याद्यसौ समर्थयामास । तच्चायुक्तम, हिंसाव्यवहाराभावमधिकृत्यैव चतुर्थभङ्गशून्यत्वा १ नोद्रव्याद नोभावाद् वथा, तथा हिंसा न द्रव्यमात्रेण । तेन तथा दोषं जिनस्य को भाषते संज्ञी ? ॥ ६१ ॥ २ वर्जयामीति परिणतः संपत्त्या विमुच्यते वैरात् । अनन्नपि न मुच्यते क्लिष्टभावादिवात्मनः ॥ Page #222 -------------------------------------------------------------------------- ________________ २०९ भिधानाद् विरुद्धधर्माभ्यां तदभावस्येव तद्वद्भेदस्यापि सम्भवेन तच्छून्यत्वन्यव - हारोपपत्तेः । हिंसास्वरूपमधिकृत्य तु द्रव्यमात्रहिंसायामप्यहिंसात्वं प्रवचने प्रतीतमिति कदाचिद् द्वितोयभङ्गस्वामित्वेऽपि भगवतः स्नातकस्य निर्ग्रन्थस्येव चतुर्थभङ्गस्वामित्वाऽविरोध एव, अहिंसापरिणत्यभेदाश्रयणेन तद्भङ्गस्यापि सम्भवदुक्तिकत्वात् । न चैवं द्वितीयभङ्गकालेऽपि चतुर्थभङ्गापत्तिर्द्र व्यहिंसाकालेऽप्यप्रमत्तयतीनां मनोवाक्कायशुद्धखानपायादिति वा वाच्यम्, चतुर्थभङ्गोपपादकमनोवाक्का शुद्धताया गुप्तिरूपाया एव ग्रहणाद् अत एव नियतचतुर्थभङ्गस्वामित्वमयोगिकेवलिनोऽपि नानुपपन्नम्, शुद्धप्रवृत्तिव्यापारेणैव विरोधव्यापारेणापि मनोवाक्कायशुद्धताऽनपायाद्, अन्यथा तदविनाभाविध्यानानुपपत्तेः । उक्तं हि-ध्यानं करणानां सत्प्रवृत्ति-निरोधान्यतरनियतम् - 66 3 'सुदढप्पयत्तवावारणं णिरोहो व विज्जमाणाणं । ज्ञाणं करणाणमयं ण उ चित्तणिरोहमेत्तागं ॥ इत्यादिग्रन्थेन विशेषावश्यके शोधकेन च व्यापारमुपसम्पद्योपरतेनापि शुद्धत्वव्यवहारो भवत्येव, यथा जलेन शुद्धं वस्त्रमिति । सर्वोत्कृष्टमनोवाक्कायशुद्धतयाsयोगिकेवली नियमेनैव चतुर्थभङ्गस्वामी युज्यत इति । न च शैलेश्यवस्थायामपि शारीरस्पर्शमागतानां मशकादीनां व्यापत्तौ चतुर्थभङ्गस्वामित्व नियमानुपपत्तिः, द्रव्य हिंसायास्तदनुकूलनोदनाख्ययोगव्यापारनियतत्वात्, तत्र तदभावात्तत्सम्बन्धमात्रस्यातिप्रसञ्जकत्वादिति दिक् ॥ ६१ ॥ यदि च ' न द्रव्यतो न भावतो मनोवाक्कायशुद्धस्य साधोः ' इति वचनानुरोधेन सयोगिकेवलिनश्चतुर्थभङ्गस्वामित्वमेवाभिमतं भवेत् तदाऽप्रमत्तादीनां सयोगिकेवलिपर्यन्तानां द्रव्यहिंसया दोषाभावतौल्यं प्रवचनाभिहितं न घटेतेत्याह'पयमं चिय वयणमिणं दट्ठवं होइ कप्पन्नासस्स । जं मत्ताईणां सजों गिचरमाण णो हिंसा ॥ ६३ ॥ व्याख्या – ' पयडं चियति । प्रकटमेवैतद्वचनं कल्पभाष्यस्य द्रष्टव्यं १ सुदृढप्रयत्नव्यापारणं निरोध इव विद्यमानानाम् । ध्यान करणानामयं न तु चित्तनिरोधमात्रकम् ॥ २ प्रकटमेव वचनमिदं द्रष्टव्यं भवति कल्पभाष्यस्य । यदप्रमत्तादीनां सयोगिचरमाणां नो हिंसा ॥ ६२ ॥ Page #223 -------------------------------------------------------------------------- ________________ २१० भवति रागद्वेषरहितेन परीक्षकेण, यदप्रमत्तादीनां सयोगिकेवलिचरमाणां नो नैव हिंसा, व्याप्रियमाणयोगानामपीति शेषः । तथा व तद्ग्रन्थः“ अप्येव सिद्धंतमजाणमाणो तं हिंसग भासोस जोगवंतं । दवेण भावेण य संविभत्ता चत्तारि भंगा खलु हिंसगत्ते"॥ - अपीत्यभ्युच्चये, अस्त्यन्यदपि वक्तव्यमिति भावः । यदेवं योगवन्तं छेदनादिव्यापारवन्तं जीवं हिंसक त्वं भाषसे, तनिश्चीयते सम्यक् सिद्धान्तमजानत एवं प्रलापः। सिद्धान्ते योगमात्रप्रत्ययादेव न हिंसोपवर्ण्यते, अप्रमत्तसंयतादीनां सयोगिकेवलिपर्यन्तानां योगवतामपि तदभावात् । कथं तर्हि सा प्रवचने प्ररूप्यते ? इत्याह-द्रव्येण भावेन च संविभक्ताश्चत्वारो भङ्गा खलु हिंसकत्वे भवन्ति । तथाहि-१. द्रव्यतो नामैका हिंसा न भावतः, २. भावतो नामैका हिंसा न द्रव्यतः, ३. एका द्रव्यतोऽपि भावतोऽपि, ४. एका न द्रव्यतो नापि भावतः। अथैषामेव ययाक्रमं भावनां कुर्वन्नाह.... आहच्च हिंसा समिअस्स जा उ, सा दवओ होइ ण भावओ। भावेण हिंसा उ असंजयस्स, जे वा वि सत्ते ण सदा वहेइ ।। ३संपत्ति तस्सेव जदा भविज्जा, सा दबहिंसा खलु भावओ अ। ४. .. अज्झत्थसुद्धस्स जदा ण होज्जा वधेण जोगो दुहओ वि हिंसा ॥ .." समितस्येर्यासमितावुपयुक्तस्य याऽऽहत्य कदाचिदपि हिंसा भवेत् सा द्रव्यतो हिंसा । इयं च प्रमादयोगाभावात् तत्त्वतो अहिंसैव मन्तव्या, “प्रमत्तयोगात प्राणव्यपरोपणं हिंसा.” इति वचनात् । भावेन भावतो या हिंसा न तु द्रव्यतः साऽसंयतस्य प्राणातिपातादेरनिवृत्तस्योपलक्षणत्वात् संयतस्य वाऽनुपयुक्तगमनागमनादि कुर्वतों यानपि सत्त्वामसौ सदैव न हन्ति तानप्याश्रित्य मन्तव्या, १ ४॥ जे विन वाविज्जती णियमा तेसिपि हिंसओ सो उ” नि वचनाद् । यदा तु तस्यैव प्राणिव्यपरोपणसम्पाप्तिर्भवति, तदा सा द्रव्यतो भावतश्च हिंसा प्रति १ अप्येव सिद्धान्तमजानन् त्वं हिंसकं भाषसे योगवन्तम् । . .यण द्रव्येण भावेण च संविभक्ताश्चत्वारो भङ्गाः खलु हिंसकत्वे ॥ २ आहत्य हिंसा समितस्य या तु सा द्रव्यतो भवति न भावतस्तु । भावेन हिंसा त्वसंयतस्य यथापि सत्वान् न सदा हन्ति । ३ संप्राप्तिस्तस्यैव यदा भवेत् सा द्रव्यहिंसा खलु भावतश्च । - अध्यात्मशुद्धस्य यदा न भवेत् वधेन योगो द्विधापि हिंसा ॥ ४ येपि न ज्यापायन्ते नियमात्तेषामपि हिंसकः स त्विति ॥.. Page #224 -------------------------------------------------------------------------- ________________ २११ पत्तव्या । यः पुनरात्मना चेतःप्रणिधानेन शुद्ध उपयुक्तगमनादिक्रियाकारीत्यर्थः, तस्य यदा वधेन प्राणिव्यपरोपणेन सह योगः सम्बन्धो न भवति तदा द्विधापि द्रव्यतो भावतोऽपि च हिंसा न भवतीति भावः । तदेवं भगवत्पणोते प्रवचने हिंसाविषयाश्चत्वारो भङ्गा उपवर्ण्यन्ते । अत्र चायभङ्गे हिंसायांव्याप्रियमाणकाययोगेऽपि भावत उपयुक्ततया भगवद्भिरहिंसक एवोक्तः, ततो यदुक्तं 'भवता वस्त्रच्छेदनव्यापारं कुर्वतो हिंसा भवति' इति तत्प्रवचनरहस्यानभिज्ञतासूचकमिति ॥ ६२॥ ___ नन्वत्र ‘अप्रमत्तादीनामधिकृतवस्त्रच्छेदनव्यापारवान् हिंसकः, योगवत्वाद्'-इति परोपन्यस्तानुमानदूषणव्यभिचारस्फोरणाय व्यभिचारस्थानत्वं प्रदशिंतम् । व्यभिचारश्च हेतुसत्त्वे साध्यासत्त्वमिति केवलिनोऽप्रमत्तादिसाधारप्येन योगवत्त्वम्, अहिंसकत्वं च सिद्धयति, नतु कथमपि द्रव्यहिंसेति चेत्, न । अत्र च 'आद्यभङ्गः' इत्यादिनिगमनवचनविचारणयाऽधिकृतवस्त्रच्छेदनव्यापारवानहिंसकः, हिंसाव्याप्रियमाणकाययोगवत्त्वेऽपि भावत उपयुक्तत्वात् , अप्रमत्तादिवद् -इति स्वतन्त्रसाधनदृष्टान्त एव भगवति तत्सिद्धेः। किश्च पूर्वपक्षिणा वस्त्रछेदनादिव्यापारे हिंसान्वितयोगत्वं तावद् 'भगवती' वचनेनैव प्रदर्शितम् । तथाहि“ 'सद्दो तहिं मुच्छइ च्छेअणा वा धावंति ते दो वि उ जाव लोगो । वत्थस्स देहस्स य जो विकम्पो ततोवि वाता वितरन्ति लोग"॥ भो आचार्य ! तत्र वस्त्रे छिद्यमाने शब्द सम्मूर्च्छति, छेदनका वा सूक्ष्मावयवा उड्डीयन्ते, एते च द्वयेऽपि विनिर्गता लोकान्तं यावत प्राप्नुवन्ति । तथा वस्त्रस्य देहस्य च यो विकम्पश्चलनं ततोऽपि विनिर्गता वातादयः प्रसरन्तः सकलमपि लोकमापूरयन्ति । २ " अहिच्छसी जंति ण ते उ दूरं संखोभिया ते अवरे वयंती । उडूं अहेया वि चउद्दिसं पि पूरिति लोगं तु खणेण सर्व ॥" अथाचार्य! त्वमिच्छसि-मन्यसे वस्त्रच्छेदनसमुत्थाः शब्दपक्ष्मवातादिपुद्गला न दूरं लोकान्तं यान्ति, तर्हि तैः संक्षोभिताश्चालिताः सन्तोऽपरे व्रजन्ति: एवमपरापरपुद्गलप्रेरिताः पुद्गलाः प्रसरन्तः क्षणेनोर्वमधश्चतसृष्वपि दिक्षु सर्वमपि लोकमापूरयन्ति " ॥ यत एवमत:१ शब्दस्तत्र मूर्च्छति, छेदनका वा धावन्ति ते द्वयेऽपि तु यावल्लोकम् । वस्त्रस्य देहस्य च यो विकम्पस्ततोऽपि वाता वितरन्ति लोकम् ॥ २ अथेच्छसि यान्ति न ते तु दूरं संक्षोभिताः तैरपरे व्रजन्ति । ऊर्ध्वमधो वाऽपि चतसृषु दिक्ष्वपि पूरयन्ति लोकं तु क्षणेन सर्वम् ॥ Page #225 -------------------------------------------------------------------------- ________________ २१२ " विनाय आरंभमिणं सदोसं तम्हा जहालद्धमहिट्ठएजा । ___ वृत्तं सएउ खलु जाव देही ण होइ सो अंतकरी तु ताव ॥" इदमनन्तरोक्तं सर्वलोकपूरणात्मकमारम्भं सदोषं सूक्ष्मजीवविराधनया सावधं विज्ञाय तस्मात् कारणाद् यथालब्धं वस्त्रमधितिष्ठेत्-न च्छेदनादि कुर्यात् । यत उक्तं भणितं व्याख्याप्रज्ञप्तौ-यावदयं देही जीव सैजः सकम्पश्चेष्टावानित्यर्थः, तावदसौ कर्मणो भवस्य वाऽन्तकरी न भवति । तथा च तदालापक:-"जाव णं एस जीवे सया समिअं एअइ वेअइ चलइ फंदइ घुट्टइ खुब्भइ उदीरइ तं तं भावं परिणमइ ताव णं तस्स जीवस्स अंते अंतकिरिया ण भवइ" ति । तथा च हिंसान्वितयोगत्वेन वस्त्रच्छेदनव्यापारवतो हिंसकत्वमापादयन्तं पूर्वपक्षिणं प्रत्यप्रमत्तादिष्वापादकसत्त्वेप्यापाद्याभावात् तकमूलव्याप्त्यसिद्धेस्तस्य मूलशैथिल्यरूपदोषप्रदर्शनार्थमित्थमुक्तम, तथा चापादकसत्त्वादेवाप्रमत्तादिवत्केवलिनोऽपि द्रव्यहिंसासम्भवेऽपि न दोष इत्येतदेवाहहिंसगन्नावो हुजा हिंसलियजोगत्ति तकस्स। दाएउं श्य जणि पसिढिलमूलत्तणं दोसं ॥३॥ "हिंसगभावो"त्ति । हिंसकभावो भवेद्धिंसान्वितयोगतोऽधिकृतवस्त्रच्छेदनव्यापारवत इति शेषः, इत्येतस्य तर्कस्य प्रशिथिलमूलमापाद्यापादकव्याप्त्यसिद्धिरूपंदोषं दर्शयितुमिति भणितं-यदुताप्रमत्तादीनांसयोगिकेवलिपर्यन्तानां हिंसाव्याप्रियमाणकाययोगे सत्यपि भावत उपयुक्तत्वान्न हिंसकत्वमिति योगवत्त्वमात्रं च नापादकमिति तत्रापाद्यव्याप्त्यसिद्धिप्रदर्शनमकिश्चित्करमेवेति भावः ॥ ६३ ॥ नन्वप्रमत्तादीनामुपयुक्तानां योगवतामप्यहिंसकत्वप्रदर्शनेन हिंसान्वितयोगाभाव एवं प्रदर्शितो भवति; तथा च प्रकृते आपादकाप्रसिद्धिपदर्शनपर एवायं ग्रन्थोऽस्तु इत्यत आह'आपायगापसिहीण य जणिया वत्थन्जेय अहिगारे। ता तस्संमश्वयणं परमत्तीए ण अमटुं॥ ६४ ॥ 'आपायगापसिद्धि' त्ति । आपादकस्य हिंसान्वितयोगस्याप्रसिद्धिः, १ आपादकाप्रसिद्धिर्न च भणिता वस्त्रच्छेदाधिकारे । ततः तत्संमतिवचनं प्रज्ञप्ते न्यार्थम् ॥ ६४ ॥ Page #226 -------------------------------------------------------------------------- ________________ २१३ न च भणिता वस्त्रच्छेदाधिकारे; किं भगवतीवचनादारम्भस्स क्रियाविनाभावित्वमङ्गीकृत्यापि प्रतिबन्चैव पूर्वपक्षी (क्षिणा) दूषणं दत्तम् । तथाहि"आरंभमिट्टो जह आसवाय, गुत्ती य सेआय तहा तु साहू । णो फंद वारेहि व छिज्जमाणं, पइण्णहाणी व अतोऽण्णहा ते " ॥ ___ 'आरम्भमिट्टो' त्ति । मकारोऽलाक्षणिकः । हे नोदक ! यथाऽऽरम्भस्तवाश्रवाय कर्मोपादानायेष्टोऽभिमतः, गुप्तिश्च तत्परिहाररूपा श्रेयसे कर्मानुपादानायाभिप्रेता, तथा च सति हे साधो !.मा स्पन्द, मा वा वस्त्रं छिद्यमानं वारय । किमुक्तं भवति-यदि वस्त्रच्छेदनमारम्भतया भवता कर्मबन्धनमभ्युपगम्यते ततो येयं वस्त्रच्छेदनप्रतिषेधाय हस्तस्पन्दनामिका चेष्टा क्रियते, यो वा तत्पतिषेधको ध्वनिरुच्चार्यते तावप्यारम्भतया भवता न कर्त्तव्यौ, अतो मदुक्तोपदेशादन्यथा चेत् करोषि, ततस्ते प्रतिज्ञाहानिः-स्ववचनविरोधलक्षणं दूषणमापद्यत इत्यर्थः ॥ अथ ब्रुवीथाः-योऽयं मया वस्त्रच्छेदनप्रतिषेधको ध्वनिरुच्चार्यते स आरम्भप्रतिषेधकत्वानिर्दोष इति । अत्रोच्यते" २अदोस ते जइ एस सद्दो अण्णोवि कम्हा ण भवे अदोसो। अहिच्छया तुज्झ सदोस एक्को एवं सती कस्से भवे ण सिद्धी॥" : यद्येष त्वदीयः शब्दोऽदोषवान् , ततोऽन्योऽपि वस्त्रच्छेदनादिसमुत्थः शब्दः कस्माददोषो न भवेत् ; तस्यापि प्रमाणातिरिक्तपरिभोगविरूपादिदोषपरिहारहेतुत्वात् । अथेच्छया स्वाभिप्रायेण तवैको वस्त्रछेदनशब्दः सदोषोऽपरस्तु निर्दोषः, एवं सति कस्य न स्वपक्षसिद्धिर्भवेत्-सर्वस्यापि वा गाढवचनमात्रेण भवत इव स्वाभिप्रेतार्थसिद्धिर्भवेदिति भावः। ततश्चास्माभिरप्येवं वक्तुं शक्यम्, योऽयं वस्त्रच्छेदनसमुत्थः शब्दः स निर्दोषः, शब्दत्वाद् , भवत्परिकल्पितशब्दवदित्यादि तत्तस्मात्कारणात्तत्र वस्त्रच्छेदाधिकारे सम्मतिवचनं प्रज्ञप्तेः “जीवे णं एस जीवे"इत्यादि नान्यार्थं किं त्वेजनादिक्रियाणामारम्भाविनाभावित्वप्रतिपादकमेव, अन्यथैतदर्थसमर्थनार्थमेतत्सूत्रमुपन्यस्तवन्तं तं पूर्वपक्षिणमन्यार्थप्रदर्शनेनैतदभिप्रायानभिज्ञमवक्ष्यत् कल्पभाष्यकृदिति । अस्मादेव भगवतीसूत्रादबाधितयथाश्रुतार्था १ आरम्भ इष्टो यथाऽऽसवाय गुप्तिश्च श्रेयसे तथा च साधो !। __ नो स्पन्द वारय वा छियमानं प्रतिज्ञाहानिर्वाऽतोऽन्यथा ते ॥ २ अदोषवान् ते यदि एष शब्दः, अन्योपि कस्मान्न भवेददोषः । सदोष एक एवं सति कस्य भवेन्न सिद्धिः ॥ अया Page #227 -------------------------------------------------------------------------- ________________ द्यावदेजनादिक्रिया तावदारम्भादिसम्भव इति केवलिनो द्रव्यहिसायां न सन्देह इति भावः ॥ ६४ ॥ एतदेव स्पष्टयति'किरिग्राउअंतकिरिया विरोहिणी जिणेण नणियान आरंनाइजुआन मंडियपुत्तेण पुढेणं ॥६६॥ ___ व्याख्या-'किरिआउ' त्ति । मण्डितपुत्रेण पृष्टेन जिनेन श्रीवर्द्धमानस्वामिना क्रिया एजनाद्या आरम्भादियुता-आरम्भादिनियता अन्तक्रियाविरोधिन्यो भणिताः। तथा च भगवतीसूत्रम्-" २जीवे णं भंते ! सया समियं एअइ वेयइ चलइ फंदइ घुट्टइ खुब्भइ उदीरइ तं तं भावं परिणमइ ? हंता मण्डियपुत्ता ! जीवेणं सया समियं एअइ, जाव तं तं परिणमइ । जावं च णं भंते ! से जीवे सया समियं जाव तं तं भावं परिणमइ, तावं च णं तस्स जीवस्स अंते अंतकिरिया भ. वइ ? णो इणहे समढे । से केणतुणं भंते ! एवं वुच्चइ-जावं च णं से जोवे सया समिधे जाव अंतकिरिया णो भवइ ? मंडियपुत्ता ! जावं च णं से जीवे सया समिअंजाव परिणमइ, तावं च णं से जीवे आरंभइ सारंभइ समारंभइ, आरंभे वट्टइ सारंभे वट्टइ समारंभे वट्टइ, आरंभमाणे सारंभमाणे समारंभमाणे, आरंभे वदृमाणे सारंभे वट्टमाणे समारंभे वट्टमाणे, बहूर्ण पाणाणं भ्रजाणं जीवाणं सत्ताणं १ क्रिया अन्तक्रियाविरोधिन्यो जिनेन भणिताः आरम्भादियुता मण्डितपुत्रेण पृष्टेन ॥ ६५ ॥ २ जीवो भदन्त ! सदा समितमेजते व्येजते चलति, स्पन्दते घट्टते क्षुभ्यति उदीरयति तं तं भावं परिणमते ? हन्त (ओम् ) मण्डितपुत्र ! जीवः सदा समितमेजते, यावत् तं तं परिणमते । यावच्च भदन्त ! स जीवः सदा समितं यावच्च तं तं भावं परिणमते तावञ्च तस्य जीवस्य अन्ते अन्तक्रिया भवति ? नायमर्थः समर्थः । स केनार्थेन भदन्त! एवमुच्यते-यावच्च स जीवः सदा समितं यावदन्तक्रिया नो भवति । मण्डितपुत्र! यावच्च स जीवः सदा समितं यावत्परिणमते त्तावञ्च स जीव आरभते संरभते समारभते, आरम्भे वर्तते, संरम्भे वर्तते, समारम्भे वर्तते, आरभमाणः संरभमाणः समारभमाणः, आरम्भे वर्तमानः, संरम्भे वर्तमानः, समारम्भे वर्तमानः वहूनां प्राणानां भूतानां जीवानां सत्वानां दुःखापनायां शोकापनायां जीर्णतापनायां (खेदापनायां) तेपापनायां पिट्टनापनायां विद्रापनायां परितापनायां वर्तते स तेनार्थेन मण्डितपुत्र! एवमुच्यते यावच्च स जीवः सदा समितमेजते यावत्परिणमते तापञ्च तस्स जीवस्त अन्ते अन्तक्रिया न भवतीति ॥ Page #228 -------------------------------------------------------------------------- ________________ दुक्खावणयाए सोआवणयाए जूरावणयाए तिप्पावणयाए पिट्टावणयाए नि (वि) द्दावणयाए परियावणयाए वट्टइ, से तेणटेणं मंडियपुत्ता एवं वुच्चइ, जावं च णं से जीवे सया समियं एजति जाव परिणमति, तावं च णं तस्स जीवस्स अंते अंतकिरियाण हवइ' त्ति। एतद्वृत्तिर्यथा-क्रियाधिकारादिदमाह-'जीवेणं' इत्यादि। इह जीवग्रहणेऽपि सयोग एवासौ ग्राह्यः, अयोगस्यैजनादेरसम्भवात् ; सदा-नित्यं 'समियं 'ति-सप्रमाणं 'एयइ' त्ति एजते कम्पते ' एन कम्पने' इति वचनात् ; 'वेयइ 'त्ति व्येजते विविधं कम्पते, 'चलइ ' त्ति स्थानान्तरं गच्छति, 'फंदइ' त्ति स्पन्दते किञ्चिच्चलति, 'स्पदि किश्चिञ्चलने' इति वचनात्; अन्यमवकाशं गत्वा पुनस्तत्रैवागच्छतीत्यन्ये, 'घट्टइ ' त्ति सर्वदिक्षु चलति, पदार्थान्तरं वा स्पृशति; 'खुब्भइ ' त्ति क्षुभ्यति-पृथिवीं प्रविशति, क्षोभयति वा पृथिवीम्, बिभेति वा; 'उदीरइ 'त्ति प्रावल्येन प्रेरयति, पदार्थान्तरं वा प्रतिपादयति । शेषक्रियासङ्गहार्थमाह-' तं तं भावं परिणमति' त्ति उक्षेपणावक्षेपणाकुञ्चनप्रसारणादिकं परिणाम यातीत्यर्थः । एषां वैजनादिभावानां क्रमभावित्वेन सामान्यतः सदेति मन्तव्यम् ? नतु प्रत्येकापेक्षया, क्रमभाविनां युगपदभावादिति । तस्स जीवस्स 'अंते त्ति मरणान्ते 'अंतकिरिय' त्ति सकलकर्मक्षयरूपा। ' आरम्भइ 'त्ति आरभते पृथिव्यादीनुपद्रवयति, 'सारंभइ' त्ति संरभते-तेषु विनाशसंकल्पं करोति, 'समारंभइ 'त्ति समारभते-तानेव परितापयति, आह च-"संकप्पो सरंभो परितावकरी हवे समारंभो । आरंभो उवद्दओ सबणयाणं विसुद्धाणं ॥१॥” इदं च क्रिया क्रियावतोः कथञ्चिदभेद इत्यभिधानाय तयोः समानाधिकरणतः सूत्रमुक्तम् । अथ तयोः कथश्चिद्भेदोऽप्यस्तीति दर्शयितुं पूर्वोक्तमेवार्थं व्यधिकरणत आह-'आरंभे' इत्यादि । आरम्भेऽधिकरणभूते वर्त्तते जीवः, एवं संरंभे समारम्भे च, अनन्तरोक्तवाक्यार्थद्वयानुवादेन प्रकृतयोजनामाह-आरभमाणः' संरभमाणः समारभमाणो जीव:-इत्यनेन प्रथमो वाक्यार्थोऽनूदितः, 'आरम्भे वर्तमानः' इत्यादिना तु द्वितीयः, “दुक्खावणयाए' इत्यादौ वा शब्दस्य प्राकृतप्रभवत्वाद् दुःखापनायां-मरणलक्षणदुःखप्रापणायाम, अथवेष्टवियोगादिदुःखहेतुपापणायां वर्त्तते इति योगः; तथा शोकापनायां दैन्यप्रापणायाम, 'जूरावणयाए ' त्ति शोकातिरेकाच्छरोरजीर्णताप्रापणायाम्, 'तिप्पावणयाए ' त्ति 'तेपापनायां' तिपृ ष्टेप क्षरणार्थाविति वचनात् , शोकातिरेकादेवाश्रुलालादिक्षरणपापणायाम, । 'पिट्टावणयाए' त्ति पिट्टनमापणायाम, ततश्च परितापनायां शरीरसन्तापे वर्त्तते, क्वचि Page #229 -------------------------------------------------------------------------- ________________ त्पठ्यते 'दुक्खावणयाए' इत्यादि, तच्च व्यक्तमेवः । यच्च तत्र “किलामणयाए उद्दवणया' इत्यधिकमभिधीयते, तत्र 'किलामणाए ' त्ति ग्लानिनयने, 'उहवणयाए' त्ति उत्रासन इति । अत्र ोजनादिक्रियाणामारम्भादिद्वारैवान्तक्रियाविरोधित्वं प्रतोयते । आरम्भादीनां चैजनादि क्रियानियतत्वम्, नियमश्चायं यथासम्भवं द्रष्टव्यः, तेन नाप्रमत्तानामारम्भवत्संरम्भसमारम्भयोरप्यापत्तिरिति श्रद्धाः। युक्तं चैतत्-" 'जाव णं एस जीवे सया समिअं एअइ वेयइ जाव तं तं भावं परिणमइ ताव णं अट्टविहबंधए वा सत्तविहबंधए वा छबिहबंधए वा एगविहवंधए वा, नोणं अबंधए ।” इत्यत्रैजनादिक्रियाणामष्टविधायन्यतरबन्धव्याप्यत्ववत्मकृतेरप्यारम्भाद्यन्यतरव्याप्यत्वस्यैव व्युत्पत्तिमर्यादया लाभात् । परः पुनरेनमेवार्थं " सुमुनीनां शोभना मुनयः सुमुनयः सुसाधवस्तेषामप्रमत्तगुणस्थानकादारभ्य त्रयोदशगुणस्थानं यावदारम्भे वर्तमानानामप्यारम्भिकी क्रिया न भवति" इत्यादि स्वयमेव ग्रन्थान्तरे लिखितमस्मरनिवान्यथैवात्र व्याख्याप्रकारमारचयति । तथाहि-अन्तक्रियाप्रतिबन्धकास्तावद्योगा एव, यावद् · योगास्तावदन्तक्रिया न भवति, योगनिरोधे च भवतीति तेषां तत्प्रतिबन्धकत्वाद्, यदभावो यत्र कारणं तदेव तत्र प्रतिबन्धकमिति जगत्स्थितेः । न चैवं क्वाप्यागमे जीवधातनिरोधे तज्जन्यकर्मबन्धनिरोधे वाऽन्तक्रिया भणिता । तस्मात्साक्षाजीवघातलक्षण आरम्भो नान्तक्रियायाः प्रतिबन्धकः, तदभावेऽन्तक्रियाया अभणनात् , प्रत्युतान्निकापुत्राचार्यगजसुकुमारादिदृष्टान्तेन सत्यामपि जीवविराधनायां केवलज्ञानान्तक्रिययोर्जायमानत्वात् कुतस्तत्पतिबधकत्वशङ्कापाति । अत्र सूत्रे एजनादिक्रियाजन्यआरम्भो न भणितः, किन्तु क्रियारम्भयोरेकाधिकरणे नियमो भणितः, स वैवं-यावत्कालं यतनादिक्रियावान् तावत्कालं स आरम्भादिमानेव; एवं च सति कम्पनादिक्रिया व्याप्या, आरम्भश्च व्यापकः, तेन कम्पनादिक्रिया नारम्भहेतुः, किन्त्वारम्भः कम्पनादिक्रियाहेतुः। यथा ' यावत्कालं यो धूमवाँ स्ताक्त्कालं स आर्दैन्धनमभववहिमानेव' इत्यत्र धूमस्तथाभूतवह्वेर्जनको न भवति, भवति च तथाभूतो वहिधूमजनक इति । अतः क्रियापतिबन्धकारम्भव्याप्यत्वेन कम्पनादिक्रियाणामन्तक्रियाप्रतिबन्धकत्वं व्याख्येयम् , आरम्भशब्देन च १ यावदेष जीवः सदा समितमेजते, व्येजते यावत् तं तं भावं परिणमते तावदष्टविधबन्धको वा सप्तविध बन्धको वा षड्विधबन्धको वा एकविधबन्ध. को वा; नो अबन्धकः ॥ Page #230 -------------------------------------------------------------------------- ________________ २१७ योगा उच्यन्ते, जीवघातादिलक्षणारम्भादिजनकत्वेन कारणे कार्योपचारात्, श स्वसम्मतं च योगानामारम्भत्वम् । तदुक्तं भगवतीवृत्तौ - " ननु ' मिथ्यात्वाविरतिकषाययोगाः कर्मबन्धहेतव ' इति प्रसिद्धिः, इह तु आरम्भिक्यादयोऽभिहिता इति कथं न विरोधः ? उच्यते - आरम्भपरिग्रहशब्दाभ्यां योगपरिग्रहः, योगानां तद्रूपत्वात्, शेषपदेषु च शेषबन्धहेतुपरिग्रहः प्रतीत एवेति । ” एतच्चायुक्तम्, आरम्भादिशब्दत्रयेण योगाभिधानस्य दुर्घटत्वाद्, एजनादिक्रियातिरिक्तकायादिसध्रीचीनजीवव्यापाररूपयोगसद्भावे प्रमाणाभावाद्, योगानां योगनिरोधरूपान्तक्रियायां प्रतिबन्धकत्वाभावाच्च; नहि घटो घटनाशं प्रति प्रतिबन्धक इति । तस्मादे जनादिरहितो नारम्भादिषु वर्त्तते, तथा च न प्राणादीनां दुःखापनादिषु, तथा च योगनिरोधाभिधानशुक्लध्यानेन सकलकर्मध्वंसरूपाऽन्तक्रिया भवतीति भगवतीवृत्तावेवाग्रे व्यतिरेक प्रदर्शनादेजनादीनामारम्भादिद्वाराऽन्तक्रियाविरोधित्व व्याख्यानमेव न्याय्यमिति । यत्तु एवमपि यद्यारम्भादिशब्दैरुक्तप्रकारेणेहाव्याख्यातत्वात् साक्षाज्जीवघातोऽभिमतः, तर्हि " जीवे णं भंते ! सया समिअं एयइ" इत्यादिसामान्यसूत्रे सयोगिजीवः केवलिव्यतिरिक्त एव ग्राह्यः, अन्यथा " सत्तहिं ठाणेहिं केवल जाणेज्जा " - इत्यादि विशेषसूत्र विरोधेन सूत्राभिप्रायकल्पने मतिकल्पना महानर्थहेतुः - इत्याद्युक्तं तदुपहा " पात्रम्, वृत्तिकृदभिप्रायोल्लङ्घनेन स्वस्यैव मतिकल्पनाया महानर्थहेतुत्वात्, 'सत्तहिं ठाणेहिं ' इत्यादिसूत्रस्य भिन्नविषयत्वेन प्रकृतसामान्यसूत्रावधिकविशेषसूत्रस्य केनापि ग्रन्थकारेणानुपदर्शितत्वाच्चेति ॥ ६५॥ स्यादियमाशङ्का—सकलसयोगिगतैजनादि क्रियासामान्यस्य न साक्षादारम्भादिनियतत्वम्, भगवतीवृत्तावेव सूक्ष्मपृथिव्यादीनां साक्षादात्मारम्भकत्वनिषेधाद्, एवं च भवत्यपि केवलिनः सदा साक्षादारम्भानभ्युपगमेन यदा तदभावस्तदा द्वाराभावादेजनादिक्रिययाऽप्रतिबन्धात्केवलज्ञानोत्पश्यनन्तरमेव केव - लिनोऽन्तक्रियाप्रसङ्गः । यदि चान्तक्रियायां कदाचित् क्रियामात्रस्य कदाचिच साक्षादारम्भस्यानियतविरोधित्वं स्वीक्रियते तदा नियतारम्भादिद्वारकत्वेन तद्विरोधित्वव्याख्यानविरोध इत्यत्राह - 'आरंचाइजुमत्तं तस्सत्तीए फुडेई (हिं) ए उ तेहिं । तस्सत्ती विगमे पुण जोग गिरोहो अपडिबधो ॥ ६६ ॥ १ आरम्भादियुतत्वं तच्छक्त्यां स्फुटैर्न तु तैः । तच्छक्तिविगमे पुनर्योगनिरोधोऽप्रतिबद्धः ॥ ६६ ॥ Page #231 -------------------------------------------------------------------------- ________________ २१८ व्याख्या-आरम्भादियुतत्त्वं ' आरम्भादिनियतत्वं क्रियाणाम्' इति पाक्तनमिहानुषज्यते; 'तच्छक्त्या' आरम्भादिशक्त्या, तुरेवकारार्थों भिन्नक्रमश्च, नत्तु तैः स्फुटै:-स्फुटैरेव तैरारम्भादिभिनेत्यर्थः । अयं भावः-स्थूलकालावच्छेदेन लावदेतत्सूत्रोक्तएजनादिक्रियाणां साक्षादारम्भनियमो वदेरयोगस्य (?) नासम्भवी, इत्यम्भूतनियमस्यापि सूत्रेऽभिधानाद्, अत एव यस्मिन् समये कायिकी क्रिया, तस्मिन् पारितापनिको प्राणातिपातिकी च प्रज्ञापनोक्तेशनियमेनैव वृत्तिकृतोपपादिता । तथाहि-समयग्रहणेन चेह सामान्यः कालो गृह्यते, न पुनः परमनिरुद्धो यथोक्तस्वरूपो नैश्चयिकः समयः, परितापनस्य प्राणातिपातस्य वा बाणादिक्षेपजन्यतया कायिक्याः प्रथम समय एवासम्भवादिति । अयं च नियम आरम्भजातीयस्य दोषत्वस्फुटीकरणार्थ व्यवहारेणोच्यते, न तु केवलिनोऽप्यारम्भो दोष इति नानुपपत्तिः, तथापि निश्चयतो योगानां केवलानामेव यत्पतिबन्धकत्वं परेणोद्भाव्यते, तत्र वयं वदामः-न स्फुटारम्भयुक्तानां नवा केवलानां योगानामन्तक्रियाप्रतिबन्धकत्वं निश्चिनुमः, किन्त्वारम्भशक्तियुक्तानामन्तक्रियाविरोधित्वं प्राणघातानुकूलपुद्गलप्रेरणाकारिस्थूलक्रियारूपारम्भजननशक्तिसाहितैर्योगैः स्थूलक्रियारूपारम्भजननद्वाराऽन्तक्रियाप्रतिघाताद्, अत एव चरमयोगे आरम्भजननशक्त्यनन्वयात् , तेन नान्तक्रियाप्रतिबन्ध इति तदनन्तरमेवान्तक्रियासम्भवस्तदिदमाह- तच्छक्तिविगमे' आरम्भादिजननशक्तिविलये पुनर्योगनिरोधोऽप्रतिवद्धोऽस्वलितसामग्रीकः, चरमयोगक्षणस्यैव योगनिरोधजनकत्वाद् । इदं च सूक्ष्मणुसूत्रनयमतमित्यविरुद्ध मिति मन्तव्यम् ॥६६॥ नन्वेवमनेन सूत्रेण केवलिन आरम्भजननशक्त्यन्वितयोगवत्वं भवद्भिरभ्युपगतम्, तच्चास्माकमपि सम्मतमेव, आरम्भस्वरूपयोग्यतायाः केवलियोगेष्वस्माभिर भ्युपगमात् । नचातः केवलिन्यारम्भसम्भवोऽपि, मोहनीयाभावेन तन्निरूपितफलोपहितयोग्यतायास्तत्रास्वीकारादिति पराशङ्कायामाहपोग्गलपण्डोनणाए जो आरंनो मी किरियाए। णिया मुली नणियोसस्सिअनाएण सोऽदुट्ठो।६। १ पुद्गलप्रणोदनायां य आरम्भोऽनया क्रियया। नियमान्मुनीनां अणितः सोऽदुष्टः शास्यिकज्ञातेन ॥ ६७ ॥ Page #232 -------------------------------------------------------------------------- ________________ २१९ व्याख्या - 'पोग्गलपणोलणाएं 'ति । अनयाऽऽरम्भशक्त्या हेतुभूतैया क्रियया- एजनादिलक्षणया पुद्गलप्रणोदनायां जीवघन लोकान्तर स्थापरे। परपुगलप्रेरणायां तथाविधसहकारिसम्पर्कसमुद्भूतायां सत्यां य आरम्भ भवति से नियमान्मुनीनां शास्यिकज्ञातेनादुष्टो भणितः । अयं भावः:- स्थूलक्रियाया (यां ) पुद्गलप्रेरणायामारम्भस्तावत्साधूनामध्यवर्जनीयो भवति । अत एवाहारकसमुद्घातनिःसृष्टपुद्गलैरपि शरीरसम्बद्धैस्तर्दसम्बद्धैर्वा प्राणादिघाते त्रित्रियत्वादिकमुक्तम् । तथा च समुद्घातपदे प्रज्ञापनासूत्रम् - " " तेणं भंते! पोग्गला णिच्छूढा समाणा जाई तत्थ पाणाई भूआईं जीवाई सत्ताई अभिहणंति जाव उवनि, ते णं जीवे कइकिरिए ? गो० ! सिय तिकिरिए सिय चउकिरिए सिय पंच करिए । ते णं भंते! जीवा ताओ are as करिआ ? एवं चैव से णं भंते ! जीवे ते अजीवा अण्णेसिं जीवाणं परं पराघाएणं कइकिरिया ? गो० ! तिकिरियावि चउकिरियावि पंच करिया वित्ति" । परं प्रमत्ततादशायामारम्भप्रत्यया क्रिया निमित्तम्, अप्रमत्ततादशायां तु धार्मिकक्रियायोगान्तर्भूततया शास्यिकदृष्टान्तेन हितत्वाद् योगातिरिक्तदोषविधया न दोषभाक् । तदुक्तं बृहत्कल्पभाष्ये - " २ आहारणीहारविहीसु जोगों, Rat अदोसाय जहा जयस्स । हिआय सस्संमि व सस्सियस्स भंडस्स एयं परिकम्मणं तु ।। १ ।। ” यथा यतस्य प्रयत्नपरस्य साधोराहारनीहारादिविषयः सर्वोऽपि योगो भवन्मतेनाप्यदोषाय भवति, तथा भाण्डस्योपकरणस्य परिकर्मणमपि छेदनादिकमेव यतनया क्रियमाणं निर्दोषं द्रष्टव्यम् । दृष्टान्तमाह - ' हियाय सस्संमिव सस्सिअस 'ति । शस्येन चरतीति शास्यिकः, तस्य यथा तद्विषयं परिकर्मणं नंदितादिकं हिताय भवति, तथेदमपि भाण्डपरिकर्मणम् । तथा चोक्तंयद्वच्छस्य हितार्थं शस्याकीर्णेऽपि विचरतः क्षेत्रे । या भवति शस्यपौडा, यत्न 66 १ तेन भदन्त ! पुद्गला निःक्षिप्ताः सन्तः यान् तत्र प्राणान् भूतान् जीवान् सच्चानि अभिन्नन्ति, यावदुपद्रवन्ति स भदन्त ! जीवः कतिक्रियः गौं० ! स्यात् त्रिक्रियः स्यात् चतुष्क्रियः स्यात्पञ्चक्रियः । ते च भदन्त जीवाः ते कतिक्रियाः । एवमेव स च भदन्त ! जीवः । ते अजीवा अन्येषां जीवानां परम्पराघातेन कतिक्रियाः ? गौ० ! स्याद् त्रिक्रिया अपि चतुष्क्रिया अपि, पञ्चक्रिया वेति ॥ २ आहारनीहारविधिषु योगः सर्वोऽदोषाय यथा यतस्य । हिताय शस्य इव शास्यिकस्य भाण्डस्यैतत्परिकर्मणं तु ॥ Page #233 -------------------------------------------------------------------------- ________________ २२० वतः साऽल्पदोषाय ॥ १ ॥ तद्रज्जीवहितार्थं जोवाकीर्णेऽपि विचरतो लोके । या भवति जीवपीडा यत्नवतः साल्पदोषाय ॥ २ ॥” इति । तथा च स्थूलक्रियैवारम्भरूपा सम्पन्ना, मोहनीयं च न तस्यां हेतुः, दृष्टेष्टविरोधाद्-इत्येवंभूताररम्भस्य भगवति सत्वे न बाधकमित्यारम्भशक्तिरेवारम्भाक्षेपिका, अन्यथा तु चरमयोग इव प्राक्तनयोगेष्वप्यारम्भशक्तिकल्पने प्रमाणाभावः, निश्चयेन कार्य कुर्वत एव कारणत्वाभ्युपगमाद् । न च शक्तिविशेषं विना योगत्वेनैव केवलियोगस्यारम्भस्वरूपयोग्यत्वाभ्युपगमो यौक्तिकः, चरमयोगस्यापि तत्वापत्तेः । न चेष्टापत्तिः, आरम्भस्वरूपयोग्ययोगत्वेनान्तक्रियाविरोधित्वाद्-इत्यारम्भशक्तिसत्वे केवलिनः स्थूलक्रियारूपारम्भो नानुपपन्न इति ॥ ६७ ॥ एतदेवाह - 'सो केवलियो विहवे चलोवगरणत्तणं जमेयस्स । सहगारिवसा यियं पायं थलाइ किरियाए ॥ ६८ ॥ व्याख्या- -' सो त्ति' स पुद्गलप्रेरणाद्वारक आरम्भः केवलिनोऽपि भवेद्, यद् यस्मादेतस्य केवलिन लोपकरणत्वं सहकारिवशाद् - गमनक्रियापरिणामादिसहकारिवशात्प्रायः स्थूलया क्रियया नियतं वर्त्तते । अयं भावः--चलोपकरणत्वं तावद् भगवतोऽप्यस्त्येव, तथा च भगवती सूत्रम् - " केवली णं भंते ! अस्सि समयंसि जेसु आगासपएसेसु हत्थं वा पायं वा बाहुं वा ऊरुं वा ओगाहित्ता णं चिट्ठह्न पभू णं केवली सेअकालंसि तेसु चैव आगासपएसे हत्थं वा जाव ओगाहित्ता णं चिट्ठित्तए ? गो० णो इणट्टे समट्ठे । १ स केवलिनोऽपि भवेद् चलोपकरणत्वं यदेतस्य । सहकारिवशान्नियतं प्रायः स्थूलया क्रियया ॥ ६८ ॥ १ केवली भदन्त ! अस्मिन् समये येष्वाकाशप्रदेशेषु हस्तं वा पादं वा बाहुं वा ऊरुं वा अवगाह्य तिष्ठति प्रभुः केवली पष्यत्काले तेष्वेवाकाशप्रदेशेषु हस्तं वा यावदवगाह्य स्थातुम् ? गौतम ! नायमर्थः समर्थः । स केनार्थेन भदन्त ! एवमुच्यते- यावत्केवली अस्मिन् समये येष्वाकाशप्रदेशेषु यावत्तिष्ठति न प्रभुः केवली एष्यत्कालेऽपि तेष्वेवाकाशप्रदेशेषु हस्तं वा यावत्स्थातुम् । गौतम ! केवलिनो वीर्यसयोगसद्रव्यतया चलानि उपकरणानि भवन्ति, चलोपकरणार्थतया च केवली अस्मिन् समये येष्वाकाशप्रदेशेषु हस्तं वा यावत्ति - कृति, न प्रभुः केवली एष्यत्कालेऽपि तेष्वेव स्थातुम्, स तेनार्थेन यावदुच्यते अस्मिन् समये यावत्स्थातुम् । Page #234 -------------------------------------------------------------------------- ________________ से केणडेणं भंते ! एवं वुच्चइ ? जाव केवली णं अस्सि समयंसि जेसु आगासपएसेसु जाव चिट्ठइ, णो णं पभू केवली सेयकालंसि वि तेसु चेव आगासपएसेसु हत्थं वा जाव चिट्टित्तए ? गो० केवलिस्स णं वीरियसजोगसद्दचयाए चलाई उवगरणाइं भवंति, चलोवगरणट्टयाए अ णं केवली अस्सि समयंसि जेसु आगासपएसेमु हत्यं वा जाव चिट्टइ, णो णं पभू केवली सेयकालंसि वि तेसु चेव चिट्टित्तए, सो तेणटेणं जाव वुच्चइ केवली अस्सि समयंसि जाव चिहित्तए " ॥ एतवृत्तियथा-'अस्सि समयंसि त्ति । अस्मिन् वर्तमानसमये 'उग्गाहित्ताणं' ति अवगाह्य-आक्रम्य ' सेयकालंसि वि' त्ति एष्यत्कालेऽपि वीरियसजोगसद्दवयाए 'त्ति वीर्य-वीर्यान्तरायक्षयप्रभवा शक्तिः तत्पधानं सयोगं मानसादिव्यापारयुक्तं यत् सद्विद्यमानं द्रव्यं जीवद्रव्यं तत्तथा, वीर्यसद्भावेऽपि जीवद्रव्यस्य योगान् विना चलनं न स्यादिति सयोगशब्देन सद्र्व्यं विशेषितम् । सदिति विशेषणं च तस्य सदा सत्तावधारणार्थम् । अथवा स्व आत्मा तद्रपं स्वद्रव्यम् , ततः कर्मधारयः, अथवा वीर्यप्रधानः सयोगो योगवान् वीर्यसयोगः, स चासौ सद्रव्यश्च मनःप्रभृतिवर्गणायुक्तो वीर्यसयोगसद्रव्यस्तस्य भावस्तत्ता, तया हेतुभूतया 'चलाई' ति अस्थिराणि 'उवगरणाई' अङ्गानि, 'चलोवगरणट्टयाए अ'त्ति चलोपकरणलक्षणो योऽर्थस्तद्भावश्चलोपकरणता तया, चशब्दः पुनरर्थ इति "॥ __ एतच्च चलोपकरणत्वं निरन्तरसूक्ष्मगात्रसञ्चारबीजं चलनसामान्यसामग्र्यां निविशमानं गमनादिक्रियापरिणाममात्रसहकृतं सद् गमनादिस्थूलक्रियामपि जनयत्येव । सा च स्थूलक्रियाऽवर्जनीयारम्भसङ्गता सती केवलिनो न वीर्यान्तरायक्षयक्षतिकरी, यतस्तत्सामान्यकारणं चलोपकरणत्वमपि नामकर्मपरिणतिविशेषापादितयोगाशक्तिनियतमेव । यदाह सूत्रकृतावृत्तिकृत्-" सयोगी जीवो न शक्रोति क्षणमप्येकनिश्चलं स्थातुम् , अग्निना ताप्यमानोदकवत् कार्मणशरीरानुगतः सदा परिवर्तयन्नेवास्ते ” इत्यादीति । तत्कार्यस्थूलक्रियायामप्यशक्यपरिहारारम्भत्यागे योगाशक्तिरेव निमित्तमिति । केचित्तु सूक्ष्मक्रियाणामिव स्थूल क्रियाणामपि चलोपकरणतावशादनियतदेशत्वावश्यकत्वात् तत्पयुक्तारम्भसम्भवः केवलिनोऽपि दुर्निवार इत्याहुः ॥६८॥ ननु यद्येवं स्थूलक्रियैव द्रव्यारम्भस्तदा केवलिनस्तस्य कादाचित्कत्वं न स्याद्, इष्यते चायमन्यसाधूनामपि कादाचित्क एव, 'आहच्च हिंसा समिअस्स जा उ सा Page #235 -------------------------------------------------------------------------- ________________ दवओ होइ ण भावओ उ ।" ति वचनाद्-इत्याशङ्कामेवद्वचनं फलीभूतसाक्षासम्बद्धारम्भविषयत्वान्नानुपपन्नम्, स च केवलिनोऽपि कादाचित्क एवेत्यभिप्रायेण निराचिकीर्षुराह'सक्खं तु कायफासे जो आरंजो कया सो हुा । अहिगिच्च तं णिमित्तं मग्गिजइ कम्मबंधविई ॥१९॥ व्योख्या-' सक्खं तु 'त्ति । साक्षात्तु कायस्पर्शे य आरम्भः स कदाचिदेव भवेत , तं च साक्षात्कायस्पर्शाज्जायमानं द्रव्यारम्भं व्यवहारिजनप्रतीयमानमिति गम्यं, निमित्तमधिकृत्य कर्मबन्धस्थितिम॒ग्यते शास्त्रकारैरिति गम्यम् । यद्यप्यप्रमत्तानामवश्यभावी जीवघातो न प्राणातिपातत्वेन दोषः, तथापि निमित्तभूतस्यास्यैकाधिकरणोपादानसद्भावासद्भावकृतं फलवैचित्र्यं विचार्यत इत्यर्थः ॥६९॥ कथमित्याह'तत्थ णिमित्ते सरिसे जेणावादाणकारणाविक्खो। बंधाबंधविसेसो नणियो आयार वित्तीए ॥ ७॥ व्याख्या-'तत्थ' त्ति । तत्र साक्षात्कायस्पर्शान्जायमानारम्भे निमित्ते सदृशे आकेवलिनमेकरूपे सति येन कारणेनोपादानकारणस्यापेक्षा नियतसद्भावा सद्भावाश्रयणरूपा यत्र स तथा बन्धावन्धविशेषः-कर्मबन्धतारतम्यतदभावप्रकारो भणित इति आचारवृत्तौ । तत्र प्रथममेतदधिकारसम्बद्धमाचाराङ्गलोकसाराध्ययनचतुर्थोद्देशकस्थं सूत्रं लिख्यते-" से' अभिक्कममाणे पडिक्कममाणे संकुचेमाणे पसारेमाणे विणिअट्टमाणे संपलिज्जमाणे एगया गुणसमिअस्स रीयतो कायसंफासमणुचिन्ना एगइआ पाणा उद्दाइंति, इह लोगवेदणवेज्जावडियं जं आउट्टिकयं १ साक्षात्तु कायस्पर्श य आरम्भो कदाचित्स भवेत् । अधिकृत्य तं निमितं मृग्यते कर्मबन्धस्थितिः । २ तत्र निमित्ते सदृशे येनोपादानकारणापेक्षः । बन्धाबन्धविशेषो भणित आचारवृत्त्याम् ॥ ७० ॥ १ स अभिक्रामन् प्रतिक्रामन् संकुचन् प्रसारयन् संपरिमृजन एकदा गुणसमितस्य रीयमानस्य कायसंस्पर्शमनुचीर्णा एके प्राणा अपक्रान्ति, इह लोकवेदनवेद्यापतितं यत्पुनराउट्टिकृतं कर्म तत्परिज्ञाय विवेकमेति ।। Page #236 -------------------------------------------------------------------------- ________________ २२३ कम्यं तप्परिनाय विवेगमेति ति"॥अथैतवृत्तिः-'से' इत्यादि । स भिक्षुः सदा गुर्वादेशविधायी एतद्व्यापारवान् भवति, तद्यथा-अभिक्रामन्-गच्छन् , प्रतिक्रामन्-निवर्तमानः, संकुचन् हस्तपादादिसङ्कोचनतः, प्रसारयन् हस्तादीनवयवान, विनिवर्तमानः समस्ताशुभव्यापारान् सम्यक् परिसमन्ताद् हस्तपादादीनवयवांस्तनिक्षेपस्थानिव रजोहरणादिना मृजन् संपरिमृजन्, गुरुकुलवासे वसेदिति सर्वत्र सम्बन्धनीयम् । तत्र निविष्टस्य विधिः-भूम्यामेकमुरुं व्यवस्थाप्य द्वितीयमुत्क्षिप्य तिष्ठेत् , निश्चलस्थानासहिष्णुतया भूमी प्रत्युपेक्ष्य प्रमृज्य च कुक्कुटीविजृम्भित. दृष्टान्तेन सङ्कोचयेत्प्रसारयेद्वा, स्वपनपि मयूरवत् स्वपिति, स किलान्यसत्त्वभयादेकपार्श्वशायी सचेतनश्च स्वपिति, निरीक्ष्य च परिवर्तनादिकाः क्रिया विधत्ते इत्येवमादि सम्परिमृजन् सर्वाः क्रियाः करोति । एवं चाप्रमत्ततया पूर्वोक्ताः क्रियाः कुर्वतोऽपि कदाचिदवश्यं भावितया यत् स्यात्तदाह-एगया' इत्यादि । एकदा कदाचिद् गुणसमितस्य गुणयुक्तस्याप्रमत्ततया रीयमाणस्य सम्यगनुष्ठानवतोऽभिक्रामतः प्रतिक्रामत सङ्कुचतः प्रसारयतो विनिवर्तमानस्य संपरिमृजतः कस्यां चिदवस्थायां कायः शरीरं तसंस्पर्शमनुचीर्णाः कायसङ्गमागताः सम्पातिमादयः प्राणिन एके परितापमाप्नुवन्ति, एके ग्लानतामुपयान्ति, एकेऽवयवविध्वंसमापधन्ते । अपश्चिमावस्थां तु सूत्रेणैव दर्शयति-एके प्राणाः प्राणिनोऽपद्रान्ति-प्राणै विमुच्यन्ते । अत्र च कर्मबन्धं प्रति विचित्रता । तथा हि-शैलेश्यवस्थायां मशकादानां कायसंस्पर्शेन प्राणत्यागेऽपि पञ्चधोपादानकारणयोगाभावान्नास्ति बन्धः, उपशान्तक्षीणमोहसयोगिकेवलिनां स्थितिनिमित्तकपायाभावात् सामयिका, अप्रमत्तयतेजघन्यतोऽन्तर्मुहूर्त्तम, उत्कृष्टतश्चान्त:कोटाकोटिस्थितिरिति । प्रमत्तस्य खनाकुट्टिकतामुपेत्य प्रवृत्तस्य कचित्पाण्याद्यवयवसंस्पर्शात् प्राण्युपतापनादौ जघन्यत उत्कृष्टतश्च प्राक्तन एव विशेषिततरः । सचेतेनोपि भवेन क्षिप्यत इति सूत्रेणैव दर्शयितुमाह-'इह लोग' इत्यादि। इहास्मिन् लोके जन्मनि वेदमनुभवनमिह लोकधेदनं तेन वेद्यमनुभवनीयमिहलोकरदनवेद्यं तत्रापतितमिहलोकवेदनवेद्यापतितम्, इदमुक्तं भवति-प्रमत्तयतिनापि यदि कायतः कृतं कर्म कायसङ्घटनादिना तदैहिकभवानुबन्धि, तेनैव भवेन क्षिप्यमाणत्वाद्, आकुट्टिकृतकर्मणि तु यद्विधेयं तदाह 'जं आउट्टी' इत्यादि । यत्तु पुनः कर्माकुटया कृतमागमोक्तकारणमन्तरेणोपेत्य पाण्युपमर्दनेन विहितं तत्परिज्ञाय ज्ञपरिजया विवेकमेति विविच्यतेऽनेनेति विवेकः Page #237 -------------------------------------------------------------------------- ________________ २२४ प्रायश्चित्तं दशविधं तस्यान्यतरं भेदमुपैति तद्विवेकं वाऽभावाख्यमुपैति, तत्करोति येन कर्मणोऽभावो भवतीति ॥” । ____ अत्र गुर्वादेशविधायिनमभिक्रमणादिव्यापारवन्तमप्रयत्तसंयतमवश्यंभाविजीव विराधनाभागिनमनूद्य कर्मबन्धाबन्धविशेषविधानं वृत्तौ पूरितम् , अनाकुट्टिकयाऽऽकुट्टिकया च जीवविराधनाकारिणं प्रमत्तसंयतमन्द्येहलोकवेदनद्यापतितस्य विवेकयोग्यस्य च कर्मबन्धस्य विधानं साक्षादेव सूत्रेऽभिहितम्, तत्र केवली 'उद्देसोपासगस्स पत्थि' त्ति वचनाद् गुर्वादेशविधायित्वाभावात् सम्भावितभाविजीवघातभयाविनाभाविनियताभिक्रमणादिक्रियाभावाच्च नानूद्य इति तद्वहि भर्भावेनैवावश्यंभाविजीवविराधनानिमित्तकबन्धाबन्धविचार इति परोऽभिमन्यते, तन्महामृषावादविलसितम् । साक्षादेव केवलिनमन्ध वृत्तौ तत्समर्थनस्य ब्रह्मणापि पराकर्तुमशक्यत्वात् । तत्रान्द्यतावच्छेदकधर्म विरोधोद्भावनेन च वृत्तिकृत एव सूत्राभिप्रायानभिज्ञतां वक्तुमुपक्रान्तो देवानां प्रियस्तमेव मन्यमानस्तमेव वाऽवमन्यस इति महाकष्टं तद् । न चैतद्विरोधोद्भावनं विचार्यमाणं चमत्कारकारि,गुर्वादेशविधायित्वस्य भगवति फलतोऽभिधानाविरोधाद् , अत एव " किं ते भंते ! जत्ता ? सोमिला ! जं मे तवणियमसंजमसज्झायज्झाणावस्सयमाईसु जयणा । सेत्तं जत्ता"। इत्यत्र सूत्रे एतेषु च यद्यपि भगवतो न किञ्चित्तदानीं विशेषतः सम्भवति, तथापि तत्फलसद्भावात्तदस्तीत्यवगन्तव्यमित्युक्तम् । अभिक्रमणादियतनाव्यापाराश्च यादृशाश्छद्मस्थसंयतानामयतनाभयाविनाभाविनस्तादृशा एवायतनाभयाभावेऽपि भगवतः सम्भवत्येव, साधुसमानधर्मतयैव कल्पिकपरिहारादियतनावदभिक्रमणादियतनाया अप्युपपत्तेरिति न किञ्चिदेतत् । यत्त्ववश्यंभावित्वं प्रायोऽसम्भविसम्भविकार्यत्वम् , यदेव हि प्रायोऽसम्भवि सत् कदाचित्सम्भवति तदेवावश्यम्भावीति व्यवहियते, अन्यथा सर्वमपि कार्यमवश्यभावित्वेन वक्तव्यं स्यात् । पञ्चसमवायवादिभिर्जनैः सर्वस्यापि कार्यस्य नियतिजन्यतामधिकृत्यावश्यभावित्वेनेष्टत्वात् , कालादिषु पञ्चसु कारणेषु नियतेरपि परिगणनाद् , अत एव जमालिनिमित्तकनिहवमार्गोत्पत्तिरवश्यभाविनीति प्रवचने प्रतीतिः । तोर्थकरदीक्षितशिष्यात् निहवमार्गोत्पत्तेः प्रायोऽसम्भविसम्भवाद् , एवमप्रमत्तसंयतस्य कायादिव्यापाराज्जायमानानाभोगवशेन कादाचिकीत्यवश्यभाविनी वक्तुं युज्यते नतु केवलिना, तस्य सत्कादाचित्कतानियामकानाभोगाभावादिति नावश्यंभाविविराधनावन्तं केवलिनमन्ध किमपि विचार Page #238 -------------------------------------------------------------------------- ________________ णीयमस्ति' इति परेणोद्घष्यते, तदसद् । अनाभोगादेरिव विषयासन्निधानादेरपि कांदाचित्कत्वेनावश्यंभावित्वोपपत्ते केवलिनोऽप्यप्रमत्तयतेरिवावश्यंभाविजीवविराधनोपपत्तेः। अन्यथा तमधिकृत्य वृत्तिकृता यत्सामयिककर्मबन्धावन्धव्याख्यानं कृतं तस्यात्यन्तमनुपपत्तेः । किञ्च अवश्यंभाविनी जीवविराधना प्रायोऽ सम्भविसम्भवाऽप्रमत्तस्यैव नतु प्रमत्तस्य, तदीयकायव्यापाराज्जायमानस्य जीवघातस्य प्रायः सम्भविसम्भवत्वात् , प्रमत्तयोगानां तथास्वभावत्वाद् , अत एव प्रमत्तसंयतस्य प्रमत्तयोगानङ्गीकृत्यारम्भिकी क्रियापि, तेषां योगानां जीवघाताहत्वाद् , अन्यथा प्रमत्ताप्रमत्तयोरविशेषः सम्पद्येति (तेति) परस्याभ्युपगमेऽवस्थितसूत्रस्यैवानुपपतिः, अनाकुट्टिकयाऽनुपेत्य प्रवृत्तमवश्यंभाविजीवविराधनावन्तं प्रमत्तसंयतमधिकृत्यैवेहलोकवेदनवेद्यापतितकर्मबन्धस्य साक्षात्सूत्रेऽभिधानात्, तस्य च जीवविराधनाया अवश्यंभावित्वस्य प्रायः सम्भविसम्भवत्वेन परेण निषेधात् , तस्मान्नायं पन्थाः, किन्त्वनभिमतत्वे सत्यवर्जनीयसामग्रीकत्वमवश्यंभावित्वव्यवहारविषयः, अत एव जिज्ञासितयोर्द्वयोर्वस्तुनोः पुरःस्थितयोरेकस्य दर्शनार्थमुन्मीलितेन चक्षुषाऽपरस्यापि दर्शनमवश्यं भवतीति व्यवह्रियते । अत एव च जमालेभंगवता दीक्षणे निह्नवमार्गोत्पादस्यावश्यंभावित्वमपि नानुपपन्नम्, तदानीं तस्यानभिमतस्याप्यवर्जनीयसामग्रीकत्वात् ; एवंविधा चावश्यंभाविनी विराधना संयतानां सर्वेषामपि सम्भवतीति तामधिकृत्य वृत्तिकदुक्ता व्यवस्था केवलिन्यपि युक्तिमत्येवेति । वस्तुतः सर्वस्यापि कार्यस्य पुरुषकारभवितव्यतोभयजन्यत्वेऽपीदं कार्य पुरुषकारजनितमिदं च भवितव्यताजनितमिति विभक्तो व्यवहार एकैकस्योत्कटत्वलक्षणां बहुत्वलक्षणां वा मुख्यतामादायैव शास्त्रकारैरुपपादितः। तदिह साधूनामनाकुटया जायमाने जीवधाते भवितव्यताया एव मुख्यतया व्याप्रियमाणत्वात् तत्रावश्यंभावित्वव्यवहारः, न त्वनाभोगजन्यत्वमेव तत्र तत्रम्, आभोगपूर्वकस्य कारणिकस्यापि तस्य विवेकयोग्यबन्धहेतोः पृथकरणे नेहलोकवेदनवेद्यापतितकर्मबन्धहेतुतया परिशेषितस्यावश्यंभावित्वेनैव परिगणनात् , ततो जीवरक्षापरिणामवतामाकुटया जीवघातप्रवृत्तिरहितानां सर्वेषामेव संयतानां या काचिद्विराधना भवति साऽवश्यंभाविनीति कायस्पर्शमनुचीर्णैः पाणिभिरुपजायमानां तामाश्रित्याकेवलिनं वृत्तिकृदुक्तव्यवस्थायां न कोऽपि सन्देह इति सूक्ष्ममीक्षणीयम् । एवं सत्यपि परस्येयं शङ्कोन्मीलति-यदुताऽत्र कर्मबन्ध प्रति विचित्रता। तथाहि-'शैलेश्यवस्थायां कायसंस्पर्शेन मशकादीनांमाणत्पा Page #239 -------------------------------------------------------------------------- ________________ ૨૧૬ गेsपि पञ्चविधोपादानकारणाभावान्नास्ति बन्धः' इत्यत्र कर्त्तुः सम्यविचारे मशकादीनां प्राणत्यागस्य कर्चा किमयोगिकेवली, उतान्यः कश्चिद् । नाद्यः, अयोगित्वकर्तृत्वयोर्विरोधेनायोगिकेबलिनः कर्तृत्वाभावाद नहि कायादिव्यापारमन्तरेण कर्त्ता भवितुमर्हति ' क्रियाहेतुः स्वतन्त्रः कर्ता ' इति वचनात् । यदि चायोगिकेवलिनः शरीरस्य सम्पर्कादपि जायमानो जीवघातस्तन्निमित्तकत्वेन तत्कर्तृको भण्यते, तर्हि अपसिद्धान्तः स्यात् । पुरुषप्रयत्नमन्तरेणापि प्राणत्यागलक्षणस्यकार्यस्य जायमानत्वेन पञ्चसमवायवादित्वहानेः । निमित्तत्वमात्रेण च कर्तृत्वव्यपदेशोऽपि न भवति, साध्वादिनिमित्तकोपसर्गस्य दानादेश्व साध्वादिकर्तृकत्वेन व्यपदेशप्रसक्तेः । द्वितीयविकल्पेऽन्यः कश्चित् कर्ता - इत्यत्रानन्यगत्याऽनाभोगवतः कूपपातवदनिष्टोऽपि मशकादीनां निजप्राणत्यागोऽनाभोगवशेन म्रियमाणमशकादिकर्तृक एव, यदि मशकादीनां निजकायादिव्यापारो नाभविष्यत् तर्हि शरीरसम्पर्कभावेन निजप्राणत्यागोऽपि नाभविष्यद् - इति व्याप्तिबलेन मशका दियोगजन्यत्वात् । तथा चायोगिकेवलिनि मशकादिकर्तृका जीवविराधना बन्धाभाववती सम्भवत्यपि सयोगिकेवलिनि तु सा कथं स्यात् ? तत्र हिंसा भवन्ती तद्योगान्वयव्यतिरेकानुविधायित्वेन तत्कर्तृकापि स्यात्, न च केवलिनो जीवविराधनाकर्तृकार्यभावसम्बन्धेन जीवविरधनाविचारे कथं केवलिनो निर्देशो युज्यते ? इति ॥ ७० ॥ तत्र आह कारगसंबंधेणं तस्स पिमित्त स्सिमा उ मज्जाया । कत्ता पुणो पत्तो पियमा पाणाश्वायस्य ॥ ७१ ॥ व्याख्या- -' कारगसंबंधेणं ' ति । कारकस्यापि करणादिरूपस्यायोगिकेवल्यादेः पचानुपूर्व्या प्रमत्त संयतान्तस्य सम्बन्धेन तस्य साक्षात्कायस्पर्शप्रत्ययारम्भस्य निमित्तस्येयमाचा राजवृत्तिकृदुत्ता मर्यादा - अयोगिकेवल्यादिकारकसम्बन्धमात्रेणैव साक्षादारम्भस्य बाह्यस्य निमित्तस्य प्रस्तुता फलाफलविचारणाक्रियते, नतु कर्तृकार्यभावसम्बन्धेन जीवविराधनाविचारः क्रियत इति नाक्तानुपपत्तिरित्यर्थः । कर्ता पुनः प्राणातिपातस्य नियमात् प्रमत्त एव, शास्त्रीयव्यवहारेण प्रमादवत एव प्राणातिपातकत्वव्यवस्थितेः, ततो यदि कर्तृकार्यभावसम्बन्धेनैवात्र जीवविराधनाविचारः प्रस्तुतस्तदा पराभ्युपगमरीत्या केवलिन इवाममयतस्यापि निर्देशोऽप्रामाणिक इति सर्वमेव वृत्तिदुक्तं विशीर्येत । यदि Page #240 -------------------------------------------------------------------------- ________________ २२७ चोपचारेणाप्रमत्तयतेरपि कथञ्चित्तत्कर्तृ वमिष्यते, तदोपरिष्टादप्युपचारेणैतत्कल्पनं ग्रन्थकाराभिप्रायानुरोधादेव निराबाधमिति यदुच्यते परेण ' सयोगि केवली कदाचिज्जीवविराधकः सम्भवति, भवस्थकेवलित्वाद् अयोगि केवलिवद्' इत्यत्र कदाचिज्जीवविराधकत्वं साध्यमयोगिकेवलिनि दृष्टान्ते नास्ति, तस्याकर्तृत्वात् । किञ्च -अयोगिकेवलिदृष्टान्तदा तुरयोगित्वकर्तृत्वयोर्विरोधापरिज्ञानमपि स्फुटमेवेत्यादि, तत्सर्वं ग्रन्थाभिप्रायापरिज्ञानविजृम्भितमिति मन्तव्यम्; न ह्येवमधिकृताचाराङ्गवृत्तिग्रन्थः कथमप्युपपादितो भवतीति ॥ ७१ ॥ नन्वयं ग्रन्थः प्रासङ्गिक एव । तथाहि - अयोगिकेवलिनि मशकादिघातस्तावन्मशकादिकर्तृक एव तथा च कर्मबन्धोऽप्यध्यवसायानुगतो मशकादीनामेव भवति, एककर्तृकयोरेव कर्मवन्धोपादानकारणयोः परस्परं कार्यकारणभाव संबन्धाद् न पुनर्भिन्नकर्तृकयोरपि, सांसारिकजीवकर्तृकैः पञ्चविधोपादानकारणैः सिद्धानामपि कर्मबन्धप्रसक्तेः । तस्मादन्वयव्यतिरेकाभ्यामनादिसिद्धकार्यभावव्यवस्थासिद्ध्यर्थमत्र च कर्मबन्धं प्रति विचित्रतेत्यादि प्रसङ्गतोऽभिहितम् । तत्रायोगिन्युपादानकारणाभावात् कर्मबन्धाभाव इति व्यतिरेकनियमः प्रदर्शितः, स चान्वयनियमस्य दाढर्यहेतुः, अन्यथा कर्मबन्धविचित्रताविचारेऽबन्धकस्यायोगिकेवलिनो भनमनर्थकमेव सम्पद्येत, प्रयोजनाभावाद् | योगवत्सु चोपादानकारणसत्वे कर्मबन्धलक्षणकार्यसत्त्वमित्यन्वयनियमं प्रदर्शयन्नेव योगवतामपि कर्मबन्धवैचित्र्यमुपादानकारणवैचित्र्यायत्तमेवेति नियमसिद्ध्यर्थं प्रथमं कारणावैचित्र्ये का " (a) वैचित्र्यमुपशान्त क्षीणमोहसयोगिकेवलिनां स्थितिनिमित्तकषायोदयाभावात् सामयिकः कर्मबन्ध इति समुच्चयभणनेन बभाण वृत्तिकारः, तेषां च त्रयाणामपि मिथ्यात्वाविरतिकषाययोगंप्रमादलक्षणानां पञ्चविधोपादानकारणानां मध्ये केवलयोगस्यैव सत्त्वेन कर्मबन्धोऽपि तत्प्रत्यय एव । स च सामयिकसातवेदनीयकबन्धलक्षणः समान एव भवति, विचित्रताहेतुमोहनीयोदयाभावाद्, न पुनरुपशान्तस्येव क्षीणमोहस्यापि जीवघातादिकं भवतोति बुद्धया समुच्चयेन भणनम्, सर्वशसाम्यमधिकृत्य समुच्चयेन भणितेरसम्भवाद्, अन्यथोपशान्तस्येव क्षीणमोहस्यापि जीवघातादिहेतुमोहनीयसत्तापि वक्तव्या स्यात्, तथा केवलिवदुपशान्तस्याऽपि सर्वज्ञत्वं वक्तव्यं प्रसज्येत; नहि नारकतिर्यनरामराः कर्मबन्धका इत्यादिसमुच्चयभणनेन सर्वषामपि साम्यं कस्यापि संमतम् । तस्माद्यथा सामान्यतः कर्मबन्धमधिकृत्य नारकादीनां समुच्चयेन भणनं तथा सामयिकसातवेदनीयकर्म Page #241 -------------------------------------------------------------------------- ________________ २२८ बन्धमधिकृत्योपशान्तादीनां समुच्चयेन भणनमित्यत्र अप्रासङ्गिके प्रथमाङ्गत्तिग्रन्थे नास्माकमनभीप्सितसिद्धिरित्याशङ्कायामाहजो पुण श्ह कत्तारं नियमा मसगाजीवमहिकिन्छ। जण इमं पासंगियमइप्पसंगो फुडो तस्स ॥ १३ ॥ व्याख्या-'जो पुण' त्ति । यः पुनरिह शैलेश्यवस्थायामवश्यंभाविन्यां जीवविराधनायां कर्तारं नियमान्मशकादिजीवमधिकृत्येदमाचाराङ्गकृत्युक्तं प्रासंगिकं भणति-तद्विराधनाकर्तृमशकादिजीवगतोपादानकर्मबन्धकार्यकारणभावप्रपश्वप्रदर्शनमात्रप्रसङ्गमाप्तं वदति, नतु स्वसम्बद्धजीवविराधनाफलाफलवैचित्र्यप्रदर्शनपरम्, तस्य स्फुट एवातिप्रसङ्गः । एवं ह्यप्रमत्तसंयतस्यापि प्रमादनियतजीवविराधनाकर्तृत्वाभावेन जीवविराधनानिमित्तककर्मवन्धो भ्रियमाणजीवगत एव पयवस्येद्, नत्वप्रमत्तसंयतनिष्ठ इति कर्मवन्धानुमेयविराधनाया अप्रमत्तसंयतादिषु विचित्राया अभिधानमखिलं व्यधिकरणमेव स्यादिति । .. किञ्च-अत्र 'कर्मवन्धं प्रति विचित्रता' इत्यत्र 'अत्र' इति निमित्तसप्तम्याश्रयणात् संयतसम्बद्धावश्यंभाविजीवविराधनानिमित्तमधिकृत्यैव कर्मबन्धविचित्रता वक्तुमुपक्रान्ता, सा च कर्मबन्धाभावकर्मबन्धावान्तरभेदान्यतररूपेति नायोगिनि तद्विचित्रताऽनुपपत्तिः । अत एव-" सेलेसिं पडिवन्नस्स जे सत्ता फरिस पप्प उद्दायति मसगादी, तत्थ कम्मवंधो पत्थि । सजोगिस्स कम्मबंधो दो समया । जो अपमत्तो उद्दवेइ तस्स जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं अट्ठमुहुत्ता । जो पुण पमत्तो न य आउट्टिआए तस्स जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं अट्ठसंव. छछराइं । जो उण आउट्टिआए पाणे उवद्दवेइ तवो वा छेओ वा वेयावडं वा करेइ ॥” इत्याचारागचूर्णावप्यवश्यंभाविजीवविराधनानिमित्तक एव कर्मबन्धाभावसः (वः) कर्मबन्धविशेषश्चायोगिकेवल्यादीनां संयतानां पश्चानुपूर्व्या व्यक्तः प्रतीयते । कर्मबन्धाभावादौ निमित्तत्वं च तत्र स्वसमानाधिकरणोपादानानुरोधेनाऽभिधीयमानं निमित्तमनैकान्तिकमिति सम्प्रदायादविरुद्धम् । तथा च 'सजोगिस्स कम्मबंधो दो समया' इत्यत्र 'तत्र' इत्यस्यावश्यमनुषङ्गात् । तत्र कायस्पर्श प्राप्य सत्त्वोपद्रवे सयोगिकेवलिनो द्वौ समयौ कर्मबन्ध इति स्फुदार्थप्रतीतावुपशान्तक्षीणमोहयोरपि तत्समानजातीयत्वेन तत्र द्वावेव समयौ कर्म Page #242 -------------------------------------------------------------------------- ________________ बन्धः स्फुट इति वृत्तावुपशान्तादीनां समुच्चयेन भणनं न जीवघातमधिकृत्येति यदुच्यते, तद्बहुश्रुतत्वयशक्षतिकरमेव, समुच्चयप्रतियोगिनां पदार्थानां तुल्यवसकृतधर्मविशिष्टक्रियान्वयित्वेनैव समुच्चयनिर्वाहाद् । एवं च यथा सिकतादौ घृतादिसंसर्गेऽपि स्नेहाभावान बन्धः, बदरचूर्णसक्तुचूर्णादीनां तु चिरकालस्थितिहेतुस्नेहविशेषाभावादल्पकालीनो बन्धः, कणिकादीनां तु स्नेहोत्कर्षादुत्कृष्टबन्ध इत्यत्र बदरचूर्णादीनां तुल्यवदेव स्नेहविशेषाभावविशिष्टप्रकृतघृतादिसंसर्गनिमित्तकाल्पकालीनबन्धभवनक्रियान्वयेनैव समुच्चयः प्रतीयते, तथा प्रकृतेऽप्युपशान्तादीनां तुल्यवदेव स्थितिनिमित्तकषायाभावविशिष्टप्रकृतजोवघातनिमित्तफसामयिकबन्धभवनक्रियान्वयेनैव समुच्चयोपपत्तेरिति नारकतिर्यमरामरा इति दृष्टान्तेन प्रत्येकपदार्थधर्ममादाय समुच्चयखण्डनमपाण्डित्यविजृम्भितमेव, तस्य केनाप्यनभ्युपगतत्वात् । प्रकृतधर्मविशिष्टक्रियान्वयतुल्यतारूपसमुच्चयखण्डने तु समुच्चयतात्पर्यंकवाक्यस्यैवानुपपत्तिरिति न किञ्चिदेतत् ॥७२॥ तदेवमाचाराङ्गकृत्यभिप्रायेण यावदयोगिकेवलिन संयतानामपि कायस्पर्शनावश्यंभाविनी(न्या)जीवविराधनया(नाया)व्यक्तमेव प्रतीतावपि ये 'अयोगिकेवलिन्यवश्यंभावी मशकादिघातो मशकादिकर्तृको नत्वयोगिकेवलिकर्तृकः 'इति शब्दमात्रेण मुग्धान् प्रतारयति(न्ति) त एवं प्रष्टव्याः सोऽयमेवंविध एव सयोगिकेवलिनः कथं न भवति ? इति । इत्थं पृष्टाश्च त एवमुत्तरं ददते-योगवतो हि केवलिनो जीवरक्षैव भवति, तत्कारणानां शुभयोगानां सत्त्वात् । अयोगिकेवलिनस्तु योगानामेवाभावेन स्वरूपयोग्यतयापि निजयोगजन्यजीवघातसामच्या अभाववज्जीवरक्षासामग्र्या अप्यभाव एवेति तत्राहजियरक्खा सुहजोगा जइ तुह इट्ठा सजोगिकेवलियो। हंदि तया तयनावे अजोगिणो हुऊ होणत्तं ॥ ७३ ॥ "जिअरक्ख'त्ति।जीवरक्षा-जीवघाताभावरूपा यदि तव मते सयोगिकेवलिन इष्टा, केवलियोगानामेव जीवरक्षाहेतुत्वात् , ' हन्दीत्याक्षेपे' तदा तदभावे-योगाभावेन जीवरक्षाऽभावेऽयोगिकेवलिनो हीनत्वं सयोगिकेवल्यपेक्षयाऽपकृष्टत्वं भवेद् । अयं भावः-जीवघाताभावरूपा जीवरक्षा किं त्वया गुणरूपाऽभ्युपगम्यते, Page #243 -------------------------------------------------------------------------- ________________ २३० दोषरूपा, उभयरूपा, अनुभयरूपा वा ? आधे तद्गुणवैकल्येनायोगिकेवलिनो हीनत्वं दुर्निवारमेव । द्वितीये तु स्वाभ्युपगमस्य हानिर्लोकशास्त्रविरोधश्च । तृतीयश्व पक्षो विहितक्रियापरिणत योगरूपां जीवरक्षामधिकृत्य विहितक्रियात्वेन गुणत्वं योगत्वेन च दोषत्वमभिप्रेत्य सम्भवदुक्तिकोऽपि स्वाभाविकजीवघाताभावरूपां जीवरक्षामधिकृत्यासम्भवदुक्तिक एव; नहि स गुणो दोषश्चेत्युभयरूपतामास्कन्दतीति । चतुर्थे तु तदभावेऽप्ययोगिकेवलिन इव सयोगिकेवालनोऽपि न बाधक इति, किं तत्रावश्यंभाविजीवविराधनानिरासव्यसनितया ? अथ जीवघाताभावमात्ररूपा जीवरक्षा न गुणः, किन्तु योगजन्यजीवघाताभावरूपा; सा च मशकादिकर्तृकमशकादिजीवघातकालेऽयोगिकेवलिनोऽपि विशिष्टाभावसत्वान्नानुपपन्नेति न तस्य तद्गुणवैकल्यम् । न वा सयोगिकेवलिनोऽपि योगात् कदाचिदपि जीवघातापत्तिः, तादृशजीवरक्षारूपातिशयस्य चारित्रमोहनीयक्षयसमुत्थस्य ज्ञानावरणीयक्षयसमुत्थकेवलज्ञानस्येव सर्वकेवलिसाधारणत्वात् संयतानां यज्जीववविषयकाभोगस्तज्जीवरक्षाया नियतत्वाच्च । अत एव सामान्यसाधूनामप्यनाभोगजन्यायामेव विराधनायां परिणामशुद्धया फलतोऽवधकत्वमुपदर्शितम् ॥ तथा चोक्तं हितोपदेशमालायां ሰሩ णणु कह उवत्ताण विछउमत्थ मुणीण सुहुमजिअरक्खा । सच्चं तहवि ण वहगा उवओगवरा जओ भणिअं ॥ १ ॥ " एतद्व्याख्या यथा - नन्विति पूर्वपक्षोपन्यासे । छद्मस्थानां विशिष्टातिशयज्ञानरहितानां मुनीनां साधूनामुपयुक्तानामपि सम्यगीर्यासमितानामपि सूक्ष्माणां चर्मचक्षुषामदृश्यानां जीवानां कथं रक्षासम्भवः ? आचार्य आह- सत्यमवितथमेतत्, तथापि विशिष्टज्ञानशून्या अपि यद्युपयोगपराः पूर्वोक्तयुक्या चंक्रमणप्रवृत्तास्तदा सम्भवत्यपि प्राणिवधे न वधका - वधकार्यपापभाजः ।। " न चैतत्काल्पनिकम, यत ' उच्चालिअंमि पाए ' इत्यादि यत एव भगवतोऽहिंसातिशयः, अत एव ' अणासवो केवलीणं ठाणं ' इति प्रश्नव्याकरणसूत्रे केवलिनां स्थानं केवलिनामहिंसायां व्यवस्थितत्वादित्युक्तम् । तथा चतुःशरणप्रकीर्णकेऽपि ' सङ्घजिआ महिंसं अरिहंता ' - इत्यत्र सर्वे सूक्ष्मबादरत्रसस्थावरलक्षणा ये जीवास्तेषां न हिंसाऽहिंसा तामर्हन्त इति वितृतमिति चेत्, नन्वेवं योगजन्यजीवघाताभावरू.. पाया जीवरक्षाया भगवतोऽतिशयत्वं स्वीकुर्वाणस्य तव मते सयोगिकेवलिनो Page #244 -------------------------------------------------------------------------- ________________ योगान्जीवघातो मा भूद्, अयोगिकेवलिवन्मशकादियोगादेव तत्कायस्पर्शेन मशकादिघातस्तु जायमानः कथं वारणीयः ? समानावच्छेदकतासम्बन्धेन तत्र केवलियोगानां प्रतिबन्धकत्वात् स वारणीय इति चेत् । तत्किं प्रतिबन्धकत्वं शुभयोगत्वेन, उत केवलियोगत्वेन, आहोस्वित् क्षीणमोहयोगत्वेन । नायः, अप्रमत्तसंयतानामपि जीवघातानापत्तेः, तेषामप्यात्माद्यनारम्भकत्वेन शुभयोगत्वात् । न द्वितीयः, केवलियोगत्वेन जोवघातप्रतिबन्धकत्वे क्षीणमोहयोगात् तदापत्तेरपतिबन्धात्, सा च तवानिष्टेति । नापि तृतीया, क्षीणमोहयोगत्वेन तत्प्रतिबन्धकत्वे कल्पनीये आवश्यकत्वाल्लाघवाच्च मोहक्षयस्यैव तथात्वकल्पनौचित्यात् । तथा चायोगिकेवलिनोऽपि कायस्पर्शान्मशकादिव्यापत्यभ्युपगमो दुर्घटः स्यादिति । न च सर्वजीवाहिंसालक्षणोऽतिशयोऽहिंसायाः केवलिस्थानत्वं वाऽयोगिकेवलिबहिर्भावेन क्वापि प्रतिपादितमस्ति, येन त्वया तत्र व्यभिचारणाय क्षीणमोहयोगत्वेन जीवघातप्रतिबन्धकत्वं कल्प्यमानं युक्तिक्षम स्यादिति सर्वजीवाहिंसादिप्रतिपादनं सकलभावाकरणनियमनिष्ठाभिधानाभिप्रायेणैव नतु हिंसाया अपि सर्वथाऽभावाभिप्रायेण । अनाभोगस्तु न तज्जनको येन तदभावात्तदभावः स्यादिति तु शतशः प्रतिपादितमेवेति न किञ्चिदेतदिति स्मर्त्तव्यम् । किंच-मशकादिकर्तृकजीवघातं प्रत्यपि केवलियोगानां त्वया प्रतिबन्धकत्वं कल्प्यते तत् केवलं व्यसनितयैव, उत तादृशस्यापि तस्य दोषत्वात् । नायः, व्यसनितामात्रकृतकल्पनाया अनादेयत्वाद् । न द्वितीयः, तादृशस्य जीवघातस्य सयोगिकेवलिनो दोषत्वेऽयोगिकेवलिनोऽपि दोषत्वापच्यवादिति बहुतरमूहनीयम् ॥ ७३ ॥ ___ अथ केवलिनो योगा एव रक्षाहेतव इति पराभ्युपगमप्रकारं विकल्प्य दूषयन्नाह'सा तस्स सरूवणं वावारेणं च आइमे पक्खे । पडिलेहणाइहाणी वितिए अ असक्कपरिहारो ॥४॥ - व्याख्या-'सा तस्स' त्ति । सा जीवरक्षा तस्य केवलिनः शुभयोगस्य स्वरूपेण सत्तामात्रेण वा, अथवा व्यापारेण-जीवरक्षार्थं स्वस्य रक्षणीयजीवस्य वाऽन्यदेशनयनाभिमुखपरिणामेन । आदिमे प्रथमे पक्षे प्रतिलेखनादिहानिः । १ सा तस्य स्वरूपेण व्यापारेण चादिमे पक्षे । प्रतिलेखनादिहानिः, वित्तीये चाशक्यपरिहारः ॥ ७४ ॥ Page #245 -------------------------------------------------------------------------- ________________ प्रतिलेखना हि केवलिनः प्राणैः संसक्तस्यैव वस्त्रादेः प्रवचने प्रसिद्धा । तदुक्तमोघनिर्युक्तौ " 'पाणेहि उ संसत्ता पडिलेहा होइ केवलीणं तु । ___ संसत्तमसंसत्ता छउमत्थाणं पडिलेहा ॥१॥" त्ति ॥२५७ ॥ सा च स्वरूपेणैव योगानांजीवरक्षाहेतुत्वेऽनुपपन्ना स्यात् , तद्व्यापार विनापि जीवरक्षोपपत्तौ तद्विविविक्तीकरणप्रयासस्य पलिमन्थत्वाद्, न च पलिमन्थः केवलिनो युज्यते, अत एव प्रत्युपेक्षितमपि वस्त्रायवश्यभाविजीवसंसर्ग जानन् केवली पलिमन्थादेव नानागतमेव प्रत्युपेक्षते, किन्तूपभोगकाल एव प्रत्युपेक्षते इति व्यवस्थितम् । तदुक्तम् " संसज्जइ धुवमेअं अपेहि तेग पुत्व पडिलेहे ।। पडिलेहिअंपि संसज्जइत्ति संसत्तमेव जिणा ॥७॥ २५८ ॥ त्ति । "एतद्व्याख्या यथा-संसज्यते प्राणिभिः संसर्गमुपयाति ध्रुवमवश्यमेतद्वस्त्रादि अप्रत्युपेक्षितं सत् तेन पूर्वमेव केवलिनः प्रत्युपेक्षणां कुर्वन्ति । यदि पुनरपि संविद्रते-इदमिदानी वस्त्रादि प्रत्युपेक्षितमप्युपभोगकाले संसज्यते, तदा 'संसत्तमेव जिण' त्ति संसक्तमेव जिनाः केवलिनः प्रत्युपेक्षन्ते, न त्वनागतमेव, पलिमन्थादिति ॥” .. 'पडिलेहणाइहाणी' इत्यत्रादिना जीवरक्षाहेतूलङ्घनप्रलङ्घनादिव्यापारस्यापि केवलिनो वैयर्थ्य बोध्यम्, नियतव्यापारेणैव केवलियोगाजीवरक्षेति । द्वितीये च पक्षेऽङ्गीक्रियमाणेऽशक्यपरिहारोऽप्यवश्यमभ्युपगन्तव्य इति गम्यम्, सर्वत्र जीवरक्षाव्यापारस्य स्वकायस्य जीवानां वा विविक्तीकरणपर्यवसितस्य दुकरत्वात् ॥ ७४ ॥ तथाहि'ण हु सका कावं जे इह बायरवानकायनहरणं । केवलिणावि विहारे जलाइ जीवाण य तयंति ॥७॥ १ प्राणैः संसक्तानां प्रतिलेखा भवति केवलिनां तु । संसक्तासंसक्तानां छद्मस्थानां तु प्रतिलेखा ॥ २ संसज्यते ध्रुवमेतद् अप्रेक्षितं तेन पूर्व प्रतिलेखयेयुः । प्रतिलेखितमपि संसज्यते इति संसक्तमेव जिनाः ॥ ३ नैव शक्यं कर्तुमिह बादरवायुकायिकोद्धरणम् । केवलिनाऽपि विहारे जलादिजीवानां च तदिति ॥ ७६ ॥ Page #246 -------------------------------------------------------------------------- ________________ २३३ C व्याख्या- 'हु सक' त्ति । 'ण' हु' नैव शक्यम्, दीर्घत्वं प्राकृतत्वात्, कर्चे 'जे' इति पादपूरणार्थी निपातः । इह जीवघने लोके बादरवायुकायिकानां जीवानां स्वत एवोपनिपत्य केवलिनः कायमुपस्पृशतामुद्धरणं - विविक्त देश संक्रमणम्, केवलिनापि च पुनर्विहारे जलादिजीवानां तद्-उद्धरणम्, इति वाक्यार्थपरिसमाप्तौ । अयं भावः -- केवलियोगव्यापारस्य जीवरक्षाहेतुत्वे यत्र स्वाभावप्रयुक्तं तद्वैकल्यं तत्र तत्सार्थक्यमस्तु यत्र तु जीवनिरन्तरतयैव जीवविविक्तीकरणमशक्यं तत्रावश्यंभाविन्यां जीवविराधनायां जिनस्य तद्योगानां वा को दोषः ? नहि कारणान्तरवैकल्यप्रयुक्तकार्याभावेऽधिकृतका रणस्याशक्ततोद्भावनमधीततर्कशास्त्रा विदधते । इत्थं सति दण्डसच्वेऽपि चक्राभावे घटाभावाद्दण्डस्यापि घटाशक्तताया उद्भावनीयत्वप्रसङ्गादिति ॥ ७५ ॥ अत्र परः शङ्कते - 'नए जिजोगान तहा जलाईजीवाण घायपरिणामो । चित्तपसेणं जह गमणं पुप्फचूलाए ॥ ७६ ॥ व्याख्याः नणु 'त्ति । नन्विति पूर्वपक्षे, यथा पुष्पचूलायाः साध्या अवाप्त केवलज्ञानाचा अपि मेघे वर्षत्यपि अतथाविधजलपरिणतिविशेषाद चित्तप्रदेशे खे गमनं संपन्नम्, तथा विहारेऽपि जलादिजोवानां जिनयोगादघातपरिणामोsस्तु, नोवमस्माकं काप्यनुपपत्तिरस्ति, केवलिमात्रजीवमात्रयोर्घात्यधातकसम्बन्धाभावे केवलिनोऽघातकस्वभावेन जीवानां चाघात्यस्वभावेन तथैव केवलिनो विहारादिनिर्वाहो भवति, यथा न पृथिव्यादिजीवानां स्वयोगेन भयादिलेशोऽपि सम्पद्यत इति ॥ ७६ ॥ 6 - अत्र समाधानमाह 'जण सवं एयं जणियं णु तए परोप्परविरुद्धं । दिहं तियदिट्ठेता जमेगरूवा ण संपन्ना ॥ 99 ॥ १ ननु जिनयोगात् तथा जलादिजीवानां घातपरिणामः । अचित्तप्रदेशेन यथा गमनं पुष्पचूलायाः ॥ ७६ ॥ २ भण्यते सर्वमेतद् भणितं नु त्वया परस्परविरुद्धम् । दान्तिकदृष्टान्तौ यदेकरूपौ न संपन्नौ ॥ ७७ ॥ Page #247 -------------------------------------------------------------------------- ________________ २३४ व्याख्या -'भण्णइ 'त्ति । भण्यते-अत्रोत्तरं दीयते, सर्वमेतत् , 'नु' इति वितर्के, त्वया परस्परविरुद्धं भणितम्, यद् यस्माद्दार्टान्तिकदृष्टान्तौ नैकरूपौ सम्पन्नौ ॥ ७७॥ तथा हि-- 'एगत्य जलमचित्तं अएणत्थ सचित्तयंति महने। अफुसिअगमणं तीएणमुग्रंपएणस्सव जिणस्सा। व्याख्या:--' एगत्य 'त्ति । एकत्र पुष्पचूलाया वर्षति मेघे गमनेऽचित्तं जलं साक्षादेव शास्त्रे प्रोक्तम्, अन्यत्र केवलिनां विहारादौ नद्युत्तारे च जलं सचित्तमिति महान् तयोदृष्टान्तदान्तिकयोर्भेदः । नहि केवलिनो विहारादावनियतनद्युत्तारे निरन्तरप्रवाहपतितं तज्जलमचित्तमेवेति क्याप्युक्तमस्ति । अथैवमप्युक्तं नास्ति यदुत तीर्थकुद्व्यतिरिक्तोऽमुकनामा केवली नदीमुत्तीर्णवानिति, तीर्थकृतस्तु सुरसञ्चारितकनककमलोपरि गमनागमनपरिणतस्य जलस्पर्शस्याप्यभावा तथा पि केवलिनो नद्युत्तरणसम्भावनायामचित्तप्रदेशैरेव नद्युत्तारः कल्प्यते, नहि स विविच्य व्यवहत्तँ परिहत्तुं च जानन् सचित्तप्रदेशै दोमुत्तरति; केवलित्वहानेः। तस्मात्पुष्पचूलादिदृष्टान्ते नद्यादौ यथास्थितमेव जलं जलवायुसूर्यकिरणादिलक्षणस्वकायपरकायशस्त्रादिना तथाविधकालादिसामग्रीयोगेन कदाचिदचित्ततया परिणमति; पुनरपि तदेव जलं सचित्तभवनहेतुकालादिसामग्रीयोगेन सचित्ततया पि परिणमति । तत्र दृष्टान्तः सम्मृर्छिममनुष्योत्पत्तिस्थानान्येव, परमेतत्परिणतिस्तथाभूता केवलिगम्येति । केवली तथापरिणतं जलं निश्चित्य नदीमुत्तरतीति कल्प्यत इति चेत्, सर्वमेतदभिनिवेशविजृम्भितम् । स्वकर्णाश्रवणमात्रेण केवलिनो नद्युत्तारस्य निषेछुमशक्यत्वाद् । अन्ततोऽनन्तानां जलमध्येऽन्तकृत्केवलिनामपि श्रवणेन सर्वत्र जलाचित्तता कल्पनस्याप्रामाणिकत्वात् । किञ्च सर्वत्र स्वोत्तरणादिकाले जलमचित्ततया परिणतं तदाश्रितपनकासादिजीवाश्चाक्रान्ता इति किं तव कर्णे केवलिनोक्तम् ? येनेत्थं कल्पयसि । पुष्पचूलादृष्टान्तेन तथा कल्पयामीति चेत्, तत्कि दृष्टान्तमात्रेण साध्यं साधयन्नपूर्वनैयायिकत्वमात्मनःप्र. कटीकत्र्तमुद्यतोऽसि । केवलियोगानामघातकत्वान्यथानुपपत्यैव तथा कल्पयामीति १ एकत्र जलमचित्तमन्यत्र सचित्तमिति महान् भेदः । अस्पृष्टगमनं तस्या न श्रुतमन्यस्य वा जिनस्य ॥ Page #248 -------------------------------------------------------------------------- ________________ २३५ चेत्, तर्हि जलाचित्तताकल्पने तव का व्यसनिता ? सचितमेव जलं केवलियोगमवेक्ष्याघात्यस्वभावं त्वया किं न कल्प्यते ? न खलु तव श्रुतपरम्पराङ्कुशरहितस्यादृष्टार्थकल्पने बाधकमस्ति न चेदेवं तदा सचित्तवायुस्पर्शेऽपि तव केवलियोगानामघातकत्वसमर्थनं कथं स्याद् ? इति । अथ वायुरपि सचित्ताचित्ततया प्रवचने द्विप्रकार उक्त इति सचित्तवायुस्पर्शमपि भगवतो नाभ्युपगच्छामः, किं त्वचित्तवायुस्पर्शमेव, अन्यथा तु भगवत्कायस्पर्शेनापि पृथिव्यादीनां भयोत्पत्तिः स्याद्, न चैवं सम्भवति । यदस्माकमभ्युपगमः- ८८ १ 'पुढवीपमुहा जीवा उत्पत्तिप्पमुहभाइणो हुँति । जह केवलिजोगाओ भयाइलेसंपि ण लर्हति ॥ १ ॥ 35 इति चेत्, हन्तैवं सचित्तास्पर्श एव भगवतोऽतिशयः प्राप्तः, तत्राह - सचित्तस्यास्पर्शो न पुनर्जिनातिशयः सिद्धः, भक्तिभरनम्रमनुष्यादिस्पर्शस्य भगवति सार्वजनिनत्वाद् । अथ न सचित्तस्पर्शाभावमात्रं भगवतोऽतिशयः, किन्तु यादृशसचित्तस्पर्शः साधूनां निषिद्धस्तादृशस्पर्शाभाव एवेति सचित्तजल | दिस्पर्शाभावो भगवतोऽतिशयसिद्ध इति नानुपपत्तिरिति ॥ ७८ ॥ तत्राह- सोइसो कायको जागकओ वा हविऊं केवलिणो । दुहप्रो वरिय पुत्राणाय पायमविरोहो ॥ ७७ ॥ व्याख्या:--' सोइसओ ' त्ति । स जलादिस्पर्शाभावलक्षणोऽतिशयः कायकृतः - काय निष्टफलविपाकप्रदर्शको योगकृतो वा - योगनिष्टफलविपाकप्रदर्शको वा केवलिनो भवेद् । उभयतोऽप्यन्निकापुत्रादिज्ञाततः प्रकटविरोध एव । ननिकापुत्र - गजमुकुमारादीनामन्तकृत्केवलिनां सयोगिनामयोगिनां वा सचित्तजलतेजस्कायिकजीवादिस्पर्शस्त्वयापि नाभ्युपगम्यते; केवलं योगवतामयोगवतां वा तेषामन्तकृत्केवलिनां कायस्पर्शात्तज्जीवविराधनाऽविशेषेण घुणाक्षरन्यायेन स्वयमेव भवता स्वग्रन्थे क्वापि लिखिता; स्वाभ्युपगमरीत्या तु त्रयोदशगुणस्थानमुल्लङ्घ्य चतुर्दशगुणस्थाने वक्तुमुचितेति विशेषः । परतन्त्रस्यैवायं जलादि १ पृथिवीप्रमुखा जीवा उत्पत्तिप्रमुखभाजो भवन्ति । यथा केवलियोगाद् भयादिलेशमपि न लभन्ते ॥ Page #249 -------------------------------------------------------------------------- ________________ २३६ स्पर्शः केवलिनो नतु स्वतन्त्रस्येति चेद् । नेयं भाषा भवतस्त्राणाय, “ खीणम्मि अंतराए णो से य असकपरिहारो" त्ति वाङ्मात्रेणाशक्यपरिहाराभावमावेदयत आयुष्मतः केवलिनः परतत्रतयापि जलादिस्पर्शतज्जीवविराधनयोरभ्युपगन्तुमनुचितत्वाद्, अन्यथा केवली यत्र स्थितस्तत्रागन्तुकवायोरपि सचित्तताया अनिषेधप्रसङ्गात् । तस्मात् सचित्तजलादिस्पर्शन केवलिनः सयोगस्याप्यवश्यंभाविनी जीवविराधना वा स्वीक्रियताम्, तद्योगाक्रान्तानामपि वा जीवानामघातपरिणाम एव (मो वा) स्वीक्रियतां नतु तृतीया गतिरस्ति । तत्र च प्रथमः पक्षोऽस्मन्मतप्रवेशभयादेव त्वयानाभ्युपगन्तव्य इति द्वितीयः पक्षस्तवाभ्युपगतुमशिष्यते (त)॥ तत्राह-- एवं सवजिआण जोगायो च्चिय अघायपरिणामे। केवलिणो उल्लंघणपलंघाईण वेफन्नं ॥1॥ व्याख्या--' एवं ' ति । एवं जलादिस्पर्शाभावाभ्युपगमस्य विरोधग्रस्तत्वे सर्वजीवानां केवलिनो योगादेवाघातपरिणामे स्वीक्रियमाणे उल्लङ्घनालङ्घनादीनां व्यापाराणां वैफल्यं प्रसज्यते । स्वावच्छिन्नप्रदेशवर्तिजीवेषु केवलियोगक्रियाजनितात् केवलियोगजन्यजीवघातप्रतिबन्धकपरिणामादेव जीवघाताभावोपपत्तौ हि जीवाकुलां भूमि वील्य केवलिन उल्लङ्घनादिकमकर्त्तव्यमेव स्यात् , प्रत्युत तेषु स्वयोगव्यापार एव कर्त्तव्यः स्यात, तस्य जीवरक्षाहेतुत्वादिति महदसमअसमापद्यते । यदि चोल्लवनादिव्यापारः शास्त्रसिद्धः केवलिनोऽप्यभ्युपगन्तव्यस्तदा केवलियोगानां न स्वरूपतो रक्षाहेतुत्वं, किन्तु नियतव्यापारद्वारेति तदविषयावश्यंभाविजीवविराधना दुर्निवारा । यदि च केवलियोगानां स्वरूपत एव जीवरक्षाहेतुत्वम्, उल्लङ्घनादिव्यापारश्च न तस्य जीवरक्षामात्रप्रयोजना, किन्तु स्वव्यवहारानुपातिश्रुतव्यवहारपरिपालनमात्रप्रयोजन इति विभाव्यते, तदा तादृशादपि ततो जीवानामपसरणं भवति नवेति वक्तव्यम् । आये साऽपसरणक्रिया भयपूर्विकेति केवलियोगात्पृथिव्यादिजीवाभयलेशमपि न प्राप्नुवन्तीति स्वप्रतिज्ञाव्याघातः। अन्त्ये चादृष्टपरिकल्पना, नाल्लङ्घनादिक्रिययोल्लङ्घ मानादिजीवानामनपसरणं क्वापि दृष्टमिति । किंच-एवमादिपदग्राह्यप्रतिलेखनावैफल्यं दुरुद्धरमेव, जीवसंसक्तवस्त्रादेर्विविक्तीकरणेनैव तत्साफल्यसम्भकाद् । न च तत्केवलियोगाजोवानामनपसरणस्वभावकल्पने निर्बहतीति ॥ ८० ॥ Page #250 -------------------------------------------------------------------------- ________________ २३७ एवं चापसरणादिद्वारं विना स्वरूपत एव केवलियोगानां जीवरक्षाहेतुत्वे उल्लङ्घनादिव्यापारवैकल्यापत्तौ व्यवस्थापितायां केवलियोगव्यापारकाले जीवानां स्वत एव पसरणस्वभावत्वं यत्परेण कल्पितं तदपि निरस्तमित्याह- एएए मच्छियाई सहावकिरियापरायणा हुंति । व्याख्या--' हु जिकिरियापेरियकिरियं जंतित्ति पमिसिद्ध । ८१ ॥ एएण मच्छिआइ 'ति । एतेनोक्तहेतुना मक्षिकादयो मक्षिकापिपीलिकादंशमशुकादयः स्वभावक्रियापरायणाः सहजसमुत्थगमनादिक्रियाकारिणो भवन्ति, 'हु ' नैव जिनस्य या क्रिया गमनागमनादिरूपा तया प्रेरिता - तन्निमित्तका या क्रिया तां यान्ति - केवलियोगहेतुकस्वशरीर सङ्कोचमपि न कुर्वन्तीत्यर्थः । केवलिनो हि गमनागमनादिपरिणतौ पिपीलिकादयः क्षुद्रजन्तवः स्वत एवेतस्ततोऽपसरन्ति, अपसृता वा भवन्ति । यदि च कदाचिदसातवेदनीयकर्मोदयेन दंशमशकादयो नापसरन्ति, तदा केवलो तत्कर्मक्षयनिमित्तं तत्कृतवेदनां सम्यगधिसहते, केवलज्ञानोत्पत्तिसमय एव तेनैव प्रकारेणात्मोयासा तवेदनीयकर्मक्षयस्य दृष्टत्वात् । aa haलियोगजनितां किमपि क्रियां कुर्वन्ति तदिदमाह " तेणं मच्छिअपमुहा सहावकिरिया परायणा हुंति । य जिकिरियापेरिअ किरियाले संपि कुवंति " ॥ - इत्येतत् प्रतिषिद्धं, स्वत एव जीवानामपसरणस्वभावत्वे केवलिन उल्लङ्घनादिव्यापारवैफल्यापत्तेर्वज्रलेपत्वाद् । यच्च केवलियोगव्यापारमपेक्ष्य जीवानां स्वतोऽपसरणस्वभावत्वकल्पनं तदपां दहनान्तिके दाहजननस्वभावकल्पनसदृशमेव । अथ केवलिनः प्रतिलेखनादिव्यापाराज्जीवानामपसरणस्य प्रमाणसिद्धत्वात् केवलिक्रिया निमित्तकं क्रियामात्रं न तेषां प्रतिषिध्यते, किन्तु भयपूर्विका क्रिया प्रतिषिध्यतेः नह्यभयदस्य भगवतः प्राणिनां साक्षात्रासजनकव्यापाररूपं भयदानं सम्भवति परेषां भापनस्य भयमोहनायाश्रवत्वात्, ततः केवलिक्रियातः प्रतिलेखनादिव्यापारकाले या प्राणिनामपसरणादिक्रिया भवति सा न भयमूलेति स्वत एवेत्युच्यत इति चेत् । न भयं विनैव केवलियोगात् सच्चासरणकल्पने हिंसां विना तन्मरणकल्पनेऽपि वाधकाभावाद्, अदृष्टकल्पनाया उभयत्र तुल्यत्वाद् । आवश्यकक्रियावश्यंभाविना च प्राणिभयेन च यदि भयमोहनीयाश्रवभूतं भा Page #251 -------------------------------------------------------------------------- ________________ २३८ पनमुच्यते, तदा तव मतेऽपि सूक्ष्मसम्परायोपशान्तमोहयोर्द्रव्य हिंसाऽभ्युपगमेन भापनावश्यंभावाद् भयमोहनीयकर्मबन्धसम्भवे षड्विधवन्धकत्वमेकविधबन्धकत्वं च भज्येत । न च जानतो भयप्रयोजकव्यापाररूपमेव भापनं भयमोहनीयाश्रव इति नायं दोष.इति वाच्यम्, जानतोऽपि भगवतो योगात् त्रिपृष्टवासुदेवभव विदारितसिंहजीवस्य पलायननिमित्तकभयश्रवणात् । यत्तु तस्य भयहेतवो न श्रीमहावीरयोगाः, किंतु तदीययोगा एव, यथाऽयोगिकेवलिशरीरान्मशकादीनां योगा एव कारणमिति कल्पनं तत्तु स्फुटातिप्रसङ्गग्रस्तम् । शक्यं ह्येवं वक्तुं, साधुयोगादपि न केषामपि भयमुत्पद्यते, किन्तु स्वयोगादेवेति । अथ भगवत्यभयदत्वं प्रसिद्धम्, तदुक्तं शक्रस्तवे-'अभयदयाणं' ति । एतद्वत्त्येकदेशो यथा-"प्राणान्तिकोपसर्गकारिष्वपि न भयं दयन्ते, यद्वाऽभया सर्वप्राणिभयत्यागवती दया कृपा येषां तेऽभयदयास्तेभ्य इति । तन्निर्वाहाथै केवलियोगादन्येषां न भयोत्पत्तिरिति कल्प्यते, साधुषु च तथाकल्पने न प्रयोजनमस्तीति चेद्, न । अस्मिनप्यर्थे सम्यग्व्युत्पन्नोऽसि, किं न जानासि ? संयमस्यैवाभयत्वम्, येन संयमिनां संयमप्रामाण्यादेवान्यभयाजनकयोगत्वं न कल्पयसि । न जानामीति चेत्, तर्हि "तं नो करिस्सामि समुट्ठाए मंता मइमं अभयं विदित्ता"-इत्याचारागसूत्र एवाभयपदार्थ पर्यालोचय, येनाज्ञाननिवृत्तिः स्याद्, “अविद्यमानं भयमस्मिन् सत्त्वानामित्यभयः संयमः' इति युक्तं वृत्ताविति ॥ ८१ ॥ ___परमतस्यैवोपपादकान्तरं निराकरोतिजंपि मयं पारंजो सदिसेसान चेव केवलिणो। तं पश्मी दिसाए णिराकयं होणायव्वं ॥ ॥ व्याख्या--'जं पि मयं' ति । यदपि मतं लब्धिविशेषादेव केवलिनो ना. रम्भा, प्रसिद्धं खल्वेतद्-यदुत घातिकर्मक्षयोपशमावाप्तजलचारणादिनानालब्धिमतां साधूनां नदीसमुद्रादिजलज्वलनशिखोपवनवनस्पतिपत्रपुष्पफलादिकमवलम्ब्य यदृच्छया गमनागमनादिपरायणानामपि जलजीवादिविराधना न भवतीति । तदुक्तं 'खीरासवमहुआसव'-इत्यादि चतुःशरणगाथावृत्तौ-" चारणेत्यादि यावत् केचित् पुष्पफलपत्रहिमवदादिगिर्यग्निशिखानीहारावश्यायमेघवा रिधारा-मर्कटतन्तुज्योतीरश्मिलताद्यालम्बनेन गतिपरिणामकुशलास्तथा वापोनद्यादिजले तज्जीवानविराधयन्तो भूमाविव पादोत्क्षेपनिःक्षेपकुशला जलचारणा Page #252 -------------------------------------------------------------------------- ________________ २३९ इत्यादि " । कथं तर्हि घातिकर्मक्षयावाप्तलब्धिभाजः केवलिनो जीवविराधनासम्भवः ? एकस्या अपि क्षायिकलब्धेः सर्वक्षायोपशमिक लब्ध्यात्मकत्वेन क्षायोपशमिकलब्धिसाध्यस्य जीवरक्षादिकार्यमात्रस्य साधकत्वात् । सा च क्षायिकी लब्धिर्भगवतो जीवरक्षाहेतुरनुत्तरचारित्रान्तर्भूता द्रष्टव्या । तत्प्रभावादेव न केवलिनः कदाप्यारम्भ इति । तदपि मतमनया दिशा निराकृतं ज्ञातव्यं भवति, लब्धिस्वभावादेव जीवरक्षोपपत्तौ केवलिन उल्लङ्घनादिव्यापारवैयर्थ्यापत्तेरेति भावः ॥ ८२ ॥ दिग्दर्शितमेव दूषणं विकल्प्य स्फुटीकुर्वन्नाह- व्याख्या--- तं खलु नवजीवंतो पमायवं तुह मए जिलो हुका । सेलेसीए विफलं या तस्स नवजीवणानावे ॥ ८३ ॥ तं खलु ' त्ति । तं लब्धिविशेषमुपजीवन् - जीवरक्षार्थं व्यापारयन् खलु निश्चितं जिनः केवली तव मते प्रमादवान् स्याद्, लब्ध्युपजोवनं हि प्रमत्तस्यैव भवतीति शास्त्रमर्यादा । अस्तु तर्हि स लब्धिविशेषोऽ नुपजीवित एव जीवरक्षाहेतुः, क्षायिकीनां हि लब्धीनां न प्रयुञ्जना भवति, तासामनवरतमेकस्वभावेनैव सर्वकालीनत्वात्, तासां च फलवत्त्वमपि तथैव । तदितराणां तु कादाचित्कत्वेन फलवत्वात् प्रयुअति विशेषः - इत्येव ह्यस्मन्मतमित्यत्राहतस्य लब्धिविशेषस्योपजीवनाभावे तु शैलेश्यामपि फलं जीवरक्षारूपं नास्ति, दानीं तत्कायस्पर्शेन मशकादिव्यापत्तेस्त्वयापि स्वीकारात्, कि पुनः सयोगिकेवलिनि वाच्यम्; तथा चोपजीवनानुपजीवनविकल्पव्याघातात् तादृशलब्धिविशेषकल्पनमप्रामाणिकमेवेति भावः ॥ ८३ ॥ अथ चारित्रमोहनीयकर्मक्षयजनिता जीवरक्षा हेतुर्लब्धियोंगगतैव कल्प्यत इति शैलेश्यवस्थाथां नोक्तदोष इत्याशङ्कायामाह -- जोगगया साली जोगिणो खाइगावि जइ एत्थ । ता तक्कम्मस्सुदप्रो तस्सेव हवे पराहुत्तो ॥ ८४ ॥ त व्याख्या--' जोगगय ' त्ति । सा जो रक्षा हेतुर्लब्धिर्योगगतेति कृत्वा क्षाfore यदि अयोगिनोऽयोगिकेवलिनो नास्ति, तदा तस्यैवायोगिकेवलिन एव तत्कर्मणश्चारित्रमोहनोयकर्मण उदयः परावृत्तो भवेत्, चारित्रमोहक्षयकार्याभावस्य चारित्रमोहोदयव्याप्यत्वादिति भावः ॥ किंच - यदि लब्ध्युपजीविजल Page #253 -------------------------------------------------------------------------- ________________ २४० चारणादिषु परिदृष्टा जीवविराधनाऽभावलब्धिरनुपजीव्या यदि केवलिनि कल्प्यते, तदा तादृशजवाचारणादिषु परिदृष्टाऽतिशयचरणलब्धिरप्यनुपजीव्या केवलिनि कस्मान्न कल्प्यते ? तस्या उपजीव्यत्वनियमान्न तत्कल्पनं केवलिनि कत्तुं शक्यत इति चेद्, तदेतदन्यत्रापि तुयमिति स्वयमेव विभावय । तस्मानियतयोगव्यापारादेव भगवतां जीवरक्षा, नतु स्वरूपत इत्यवश्यंभाविन्यां जोवविराधनायां न किचिद्वाधकमिति स्थितम् ॥ ८४ ॥ ___ नन्वेवमवश्यभाविन्याऽपि जोवविराधनया केवलिनोऽष्टादशदोषरहितत्वं न स्याद्, हिंसादोषस्य तदवस्थत्वाद् । न 'देवोऽष्टादशदोषरहित एव'-इत्यत्राप्येकान्तवादो जैनानामनिष्ट इति शङ्कनीयम्, अनेकान्तादस्याप्यनेकान्तत्वेनात्रकान्ताभ्युपगमेऽपि दोषाभावादित्याशङ्कायामाह-- दवारंजं दोसं अट्ठारसदोसमज्जयाराम्मि । जो इच्छइ सोइच्छणो दवपरिग्गरं कम्हा ॥५॥ 'दहारंभ 'ति । अष्टादशदोषमध्ये यो द्रव्यारम्भं दोषमिच्छति, स द्रव्यपरिग्रह दोष कस्मान्नेच्छति ? तथा च धर्मोपकरणसद्भावाद् द्रव्यपरिग्रहेण यथा न दोषवत्त्वं तथा द्रव्यारम्भेणापि न दोषवत्त्वम् , भावदोषविगमादेव भगवति निर्दोषखव्यवस्थितेरिति भावनीयम् । यच्चोक्तं निर्दोषत्वे भगवतो नानेकान्त इति, तदसद्; दोषविभागकृतानेकान्तस्य तत्राप्यविरोधाद् । यच्चानेकान्तस्यानेकान्तखमधिकरणानियमापेक्षयोद्भावितं तत्केनाभिप्रायेण ? इति वक्तव्यम् , अन्ततः स्वपररूपापेक्षयाऽप्यनेकान्तस्य सर्वत्र सम्भवाद्, अत एवात्मानात्मापेक्षया सर्वत्रानेकान्तो वाचकपुङ्गवेनोक्तः। द्रव्यात्मेत्युपचारः सर्वद्रव्येषु नयविशेषेण, आत्मादेशादात्मा भवति, अनात्मा परादेशादिति। अनेकान्तस्यानेकान्तत्वं तु स्याद्वाङ्गसप्तभङ्गीवाक्यघटकैकतरभङ्गावच्छेदकरूपापेक्षया व्यवस्थितम् । अत एव-- ___" भयणा वि हु भइअवा जह भयणा भयइ सबदवाई। एवं भयणाणियमो वि होइ समयाविराहणया ॥” त्ति सम्मतिगाथायां भजनाऽभजनायाः समयाविराधना । " इमाणं भंते ! रयणप्पभापुढवो किं सासया असासया ? गो! सिय सासया, सिअ असासया " इति । स्याद्वाददेशनायां द्रव्यार्थतया शाश्वत्येव, पर्यायार्थतया त्वशाश्वत्येवेत्यधि Page #254 -------------------------------------------------------------------------- ________________ २४१ कृतभङ्गरूपनिर्धारणापेक्षया वृत्तौ व्याख्याता । निक्षेपादिप्रपश्चोऽपि हि सर्वत्र स्थाद्वादघटनार्थमेव, यतः प्रस्तुतार्थव्याकरणादप्रस्तुतार्थापाकरणाच्च निक्षेपः फलवानुच्यते, ततश्च स्याद्वादसिद्धिरिति । अत एव सर्वत्रौत्सर्गिकी स्याद्वाददेशनैवोक्तेति सम्मत्यादिग्रन्थानुसारेण सूक्ष्ममीक्षणीयम् ॥ ४५ ॥ __ अथ य एवमवश्यंभाविन्याऽपि जीवविराधनया सद्भूतदोषमुत्प्रेक्ष्य भगवतोऽ सदोषाध्यारोपणं कुर्वन्ति तेषामपायमाविष्कुर्वन्नाह-- मिच्छादोसवयणो संसारामविमहाकमिनंमि । जिणवरणिंदारसिआजमिहिंति अणोरपारम्मि॥७॥ ___ व्याख्या--' मिच्छादोसवयणओ 'त्ति । मिथ्यादोषवचनाद्-असद्भूतदोपाभिधानाद् जिनवरनिन्दारसिका अभव्या दूरभव्या वा जनाः संसाराटवीमहागहनेऽनर्वापारे भ्रमिष्यन्ति, तीव्राभिनिवेशेन तीर्थकराशातनाया दुरन्तानन्तसंसारहेतुत्वात् । उक्तं च-'तित्थयरपवयणमुअं' इत्यादि ८६॥ __ अथ केवलि-छद्मस्थलिङ्गविचारणया न केवलिनोऽवश्यंभाविनी विराधना सम्भवतीति व्यामोहोऽपि न कर्त्तव्यः, सम्यग्विचारपर्यवसानत्वात्तस्य, इत्यभिपायवानाह-- जोवि य जाय मोहो छनमत्थ जिणाण लिंगवयणान। नवनत्तस्स ण चिट्ठ सोवि य परमत्थ दिट्ठीए ॥७॥ ___ 'जो वियत्ति' । योऽपि च छद्मस्थजिनयोलिङ्गवचनात् स्थानाङ्गस्थान्मोहो जायते दुर्व्याख्यातुर्व्याख्यां शृण्वतामिति शेषः , सोऽपि परमार्थदृष्टावुपयुक्तस्य न तिष्ठति: अपण्डितव्याख्याकृतभ्रमस्य पण्डितकृतव्याख्याऽवधारणमात्रनिवर्तनीयत्वादिति भावः । तत्र छद्मस्थकेवलिलिङ्गवचनमित्थं स्थानाङ्गे व्यवस्थितम्" सत्तहिं ठाणेहिं छउमत्थं जाणेजा । तं०-पाणे अइवाइत्ता भवति, मुसं वदित्ता भवति, अदिन्नमादित्ता भवति, सद्दफरिसरसरूवगंधे आसाइत्ता भवति, पूआ सकारमणुहिता भवइ, 'इमं सावज ति पप्णवेत्ता पडिसेवेत्ता भवति,णो जहावादी तहा कारी यावि भवति । सत्तहिं ठाणेहिं केवली जाणिजा । तं०-णो पाणे अइवाइत्ता भवइ, जाव जहावाई तहाकारी यावि भवइ ” इति । एतवृत्तिर्यथा-"भयं Page #255 -------------------------------------------------------------------------- ________________ २४२ च छद्मस्थस्यैव भवति, स च यैः स्थानयिते तान्याह-'सत्तहिं ठाणेहिं' इत्यादि। सप्तभिः स्थानहेतुभूतेश्छमस्थं जानीयात् । तद् यथा-प्राणानतिपातयिता-तेषां कदाचिद् व्यापादनशीलो भवति । इह च प्राणातिपातनमिति वक्तव्येऽपि धर्मधर्मिणोरभेदादतिपातयितेति धर्मिनिर्दिष्टः। प्राणातिपातनाच्छद्मस्थोऽयमित्यवसीयते । केवली हि क्षीणचारित्रावरणत्वानिरतिचारसंयमत्वादप्रतिषेवित्वान्न कदाचिदपि प्राणानामतिपातयिता भवति । इत्येवं सर्वत्र भावना कार्या । तथा मृषा वदिता भवति । अदत्तमादाता-गृहीता भवति । शब्दादीनास्वादयिता भवति । पूजासकारौ-पुष्पार्चनवस्त्राधर्चनेऽनुहयिता-परेण स्वस्य क्रियमाणस्य तस्यानुमोदयिता तद्भावे हर्षकारीत्यर्थः । तथेदमाधाकांदि सावा सपापमित्येवं प्रज्ञाप्य तदेव प्रतिषेविता भवति । तथा सामान्यतो नो यथावादी तथाकारी-अन्यथाभिधायान्यथा कर्त्ता भवति । चापीति समुच्चये । एतान्येव विपर्यस्तानि केवलिगमकानि भवन्ति । इत्येतत्पतिपादनपरं केवलिसूत्रं सुगममेवेति ।" ___ अत्रेयं परस्य प्रक्रिया-छद्मस्थसंयतः परीक्षावसरेऽप्रमत्त एव पक्षीकर्तव्यः, तत्रैव चक्षुःपक्ष्मनिपातमपि सूत्रोक्तयतनया कुर्वागे 'किमयं छद्मस्थ उत केवली' इति संशये सति छद्मस्थत(ता)साधनाय लिङ्गापेक्षोपपत्तेः, उक्तस्वरूपरहितस्य तु निद्राविकथादिप्रमादवतश्छद्मस्थत्वेन संशयाभावान परीक्षायां प्रवेश इति न तस्य पक्षत्वम् , आह “छ उमत्यो पुण केवलिकप्पो अपमत्तसंजओ णेओ। सो विअ संजमजोगे उवउत्तो मुत्तआणाए ॥” त्ति। लिंगानि च तत्र पञ्चमहाव्रतातिक्रमापवादानाभोगविषयसप्तस्थानप्रतिपादितानि द्रव्यप्राणातिपातादिरूपाण्येव ग्राह्याणि, नतु भावप्राणातिपातादिरूपाण्यपि, तेषां छद्मस्थज्ञानागोचरत्वेन लिङ्गत्वाभावाद् । लिङ्गं हि छद्मस्थज्ञानहेतवे प्रयुज्यते, तच्च ज्ञातमेव ज्ञापकं नाज्ञातमपीति, तानि च मोहनीयाविनाभावीनि यावदुपशान्तवीतरागं भवन्ति, न परतोऽपि; तत ऊच मोहनीयसत्ताया अप्य भावाद् । आह च "छउमत्थनाणहेऊ लिंगाई दवओ ण भावाओ । ___ उवसंतवीयरायं जा तावं ताणि जाणाहिं ॥" ति । नन्वपूर्वादिषु पञ्चसु गुणस्थानकेषु चतस्रोऽपि भाषा भवन्तीति कर्मग्रन्थे भ Page #256 -------------------------------------------------------------------------- ________________ २४३ " णितम्, तथा च सिद्धं क्षीणमोहस्यापि मृषा भाषणम्, तच्च छद्मस्थत्वावबोधकं लिङ्गमेव, तत्कथमुच्यते छद्मस्थत्वज्ञापक लिङ्गानि यावदुपशान्तवीतरागमेव भवन्ति ? इति चेद् । मैत्रम्, छद्मस्थज्ञानगोचरस्यैव मृषाभाषणस्य लिङ्गत्वेनाभिमतत्वात् । तच्च द्रव्यतो मृषाभाषणं क्षीणमोहस्य न भवति, क्रोधादिजन्यत्वाद् । यदागमः - " सर्वं भंते! मुसावायं पञ्चवक्खामि । से कोहा वा लोहा वा, भया वा, हासा वा, ” इत्यादि क्षोणमोहस्य च क्रोधादयो न भवन्तीति कारणाभावाद् द्रव्यतो मृषाभाषणस्याभावः ; तथा च भावतो मृषाभाषणस्य सुतरामभावः, तस्य मोहनीयोदयजन्यत्वात् । तथा च क्षोणमोहमात्रस्य द्रव्यतो भावतो वा मृषाभाषणं न भवत्येव; संयतानां जीवधातादावना भोगसहकृत मोहनीयकर्मणो हेतुत्वात्; मोहनीयाभावे चानाभोगो वास्तव - मृषाभाषणं प्रत्यकारणं सन्नपि सम्भावनारूढमृषाभाषणं प्रति कारणं भवत्येव, अनाभोगस्य तथास्वभावस्यानुभवसिद्धत्वात् तेन क्षीणमोहस्याप्यनाभोगहेतुकं सम्भावनारूढजीवविराधनावन्मृषाभाषणमपि भवत्येव; तच्च छद्मस्थज्ञानागोचरत्वेन छद्मस्थत्वावबोधकं लिङ्गं न भवति, तस्य केवलज्ञानगम्यत्वात्; न च सम्भावनारूढस्य मृषाभाषणस्य मृषाभाषणत्वव्यपदेशो न भविष्यतीति शङ्कनीयम्, सम्भावनारूढं मृषाभाषणमिति भणित्वापि मृषाभाषणव्यपदेशो न भविष्यतीति भणतो वदव्याघातापत्तेः । किश्च - जैनानामलोकेऽपि कल्पितलोकस्याङ्गीकारे कल्पनाया इव सम्भावनाया अपि प्रामाण्यमेव, तत एव कालशौकरिकस्य कल्पितमहिषव्यापादनं महिषव्यापादनतया भगवता श्री महावीरेण भणितमिति प्रवचने प्रसिद्धिः; तस्मात् कर्मबन्धहेतुत्वेऽपि सम्भावनारूढमृषाभाषणस्य स्नातकचारित्रप्रतिबन्धकत्वेन द्रव्यमृषाभाषणस्येव दोषत्वम्, चित्रलिखितायां नार्या नारीत्वव्यपदेशस्येव मृषावादव्यपदेशस्य च विषयत्वं प्रतिपत्तव्यमिति न दोष इति; तस्माद् यावदुपशान्तवीतरागमेव छद्मस्थत्वज्ञापकानि लिङ्गानीति स्थितम् । तानि च प्रत्यक्षगम्यानि मिथ्याकारादिलिङ्गगम्यानि वा; अयं साधुः साक्षात् सम्भावनया वा प्राणातिपातादिप्रतिषेवितैव मिथ्याकारान्यथानुपपत्तेः अस्मदादिवद्-इत्येवं लिङ्गगम्येनापि प्राणातिपातादिना लिङ्गेन ' छद्मस्थोऽयं संयतः १ इत्येवं निश्चयसम्भवात् । स च मिथ्याकारः कादाचित्क एव जीवघातादौ भवति, पुनरकरणाभिप्रायेण तस्य फलवत्वात्, सार्वदिकस्य तु तस्य सम्भवे सर्वविरतिपरिणामस्यैवानुपपत्तिः; प्रतिसमयमनवरतं जीवघातो भवत्येव इत्यभिप्रायस्य " Page #257 -------------------------------------------------------------------------- ________________ २४४ तत्प्रतिबन्धकत्वादिति । अत्र च छद्मस्थत्वज्ञापकलिङ्गानां सप्तानामपि मोहनीयकर्मजन्यत्वेन परस्परानुविद्धानां स्वरूपयोग्यतया निश्चयतः सर्वकालीनत्वेऽपि फलोपहितयोग्यतया व्यवहारेणानवरतं नियमाभावोऽप्याद्येषु पञ्चस्वेव, चरमयोस्तु द्वयोलिङ्गयोः सामान्यतः सर्वकालीनत्वेन सूक्ष्मदृशां पुरः स्फूर्त्तिकत्वात्, ताभ्यां छद्मस्थत्वनिर्णयो विवक्षितपरीक्षाकाले सुलभ एव। तथा हि-इच्छाकारादिसाधुसामाचारोपरायणस्य छद्मस्थसंयतस्य गमनागमनस्थितिशयनाशनासनप्रत्युपेक्षणादिक्रियाचक्षुषा पुनः पुनर्निरीक्षणं, (निरीक्ष्य) च यथासम्भवं रजोहरणादिना प्रमार्जन, प्रमृज्य च हस्तपादाद्यवयवानां यथास्थानेऽभ्यसनं त्वक्परावर्त्तनं, तथैव वस्त्रपात्राद्युपकरणानामादाननिक्षेपणम्, प्रमृजतश्च रजोहरणादिक्रियया मक्षिकापिपीलिकादीनां भयत्रासोत्पादनेने तस्ततो नयनं चेत्याद्यनेकप्रकारमनुष्ठानं सम्भावित भाविजीवघा - तादिदोषभयजन्यं काल मधिकृत्या नियतमप्यन्यतमत्किंचिदनवरतं भवत्येव, तत्रापि पिलिकादिजन्तूनां भयत्रासोत्पादनं सावद्यमिति प्रज्ञाप्य जीवघातवर्जनाभिप्रायवतोऽप्यशक्यपरिहारेण तत्प्रतिषेवणं षष्टलिङ्गात्मकं छद्मस्थत्वाभिव्यञ्जकं सामान्यतः सर्वकालीन सुलभमेव । तत्प्रतिषेवणे च संयतो न यथावादी तथा कर्त्तेत्यपि मन्तव्यम्, अशक्यपरिहारेणापि प्रत्याख्यातस्य सावद्यस्य प्रतिषेवणादिति केवलिनोऽपि परीक्षायां विपरीतानि छद्मस्थलिङ्गानि द्रव्यरूपाप्येव ग्राह्याणि, तेषामेव छद्मस्थज्ञानगोचरत्वेनानुमितिजनकत्वात् । यथाहि - छद्मस्थसंयतोऽनाभोगसहकृत मोहनीयवशेन कदाचित्प्राणानामतिपातयिता भवति, परीक्षोपयोगिघात्यजीवानां सम्पर्कस्य तद्विषयकानाभोगस्य च कादाचित्कत्वात् ; तथा केवली न भवतीत्येवं प्राणातिपातादिविपर्ययलिङ्गैर्द्रव्यरूपैः केवलित्वं साध्यमिति । स च केवली द्विविधो ग्राह्यः - सद्भूत केवली, अन्तर्मुहूर्त्तभाविकेवलज्ञानाभिमुखः क्षीणमोहश्च । यथा वद्धदेवायुर्देव गत्यभिमुखत्वेन देवत्वव्यपदेशविषयः प्रवचने प्रतीतः, तथाऽन्तमुहूर्त्तनोत्पत्स्यमानकेवलज्ञानः क्षीणमोहोऽपि केवलिव्यपदेशविषयो भवत्येवेति, तथा ' भाविनि भूतवदुपचारः' इति न्यायात् प्रत्यासन्नभाविपर्यायस्य भूतवद्भणनं युक्तमेव । यथा गर्भस्थोप्यर्हन् शक्रेण भावाहर्त्तया स्तुतः । एवं क्षोणमोहमात्रस्य छद्मस्थवीतरागस्यापि कथञ्चित्केवलित्वव्यपदेशो न दोषावहः । किं च- केवलित्वगमकानि सप्तापि लिङ्गानि मोहनीयक्षयसमुत्थान्येव, 'केवली हि क्षीणचारित्रावरणत्वान्निरतिचारसंयमत्वादप्रतिषेवित्वान्न कदाचिदपि प्राणानामतिपात Page #258 -------------------------------------------------------------------------- ________________ २४५ यिता भवति' इति वचनात् तेन लिङ्गापेक्षया द्वयोरपि साम्यमेव । एवं च सति यदि क्षीणमोहस्य छद्मस्थवीतरागस्य कथंचित्केवलित्वं नाभ्युपगम्यते, तर्हि क्षीणमोहे छद्मस्थवीतरागे सप्तापि लिङ्गानि व्यभिचरन्ति, तत्र हेतुषु विद्यमानेषु साध्यस्य केवलित्वस्यासत्वात् । नन्वास्तामन्यत् परं केवलिनः पञ्चानुत्तराणि भवन्ति । यदागमः - "केवलिस्स णं पंच अणुत्तरा पं० । ० - अणुत्तरे नाणे, अणुत्तरे दंसणे, अणुत्तरे चरित्ते, अणुत्तरे तवे, अणुत्तरे विरिए "त्ति । एतानि पञ्चापि केवलिनिवर्त्तमानानि कथं केवलित्वगमकलिङ्गतया नोक्तानि ? इति चेद्, उच्यते - एतेषां पञ्चानामपि छद्मस्थज्ञानागोचरत्वेनानुमितिजनकत्वाभावात् न लिङ्गानि भवितुमर्हन्ति, प्रत्युत केवलज्ञानादिपरिज्ञानार्थमेवोक्तलिङ्गानां प्रज्ञापनेति । एतेन सप्तापि प्राणातिपातादीनि छद्मस्थानां रागद्वेषजनितानि तेषां तयोः सच्त्वात् । केवलिन - स्तु रागद्वेषजनितानां तेषां निषेधो न पुनः सर्वथा निषेधः, चक्षुःपक्ष्मनिपातमात्रजन्याया असङ्ख्येयवायुकायजीव विराधनायाः केवलिनोऽप्यनिवृत्तेरिति निरस्तम्, अशक्यपरिहारस्यापि केवलिनि निरासात् । किंच-परकीयरागद्वेषयोस्तदभावस्य च निरतिशयच्छद्मस्थज्ञानागोचरत्वेन तथाभूतच्छद्मस्थमात्रानुमितिजनकलिङ्गानां विशेषणत्वासम्भवात्, सम्भवे च यो रागद्वेषवान् स छद्मस्थः, यस्तु रागद्वेषरहितः स केवलोति विशेषणज्ञानमात्रेण छद्मस्थकेवलिनोर्विवेकेन सम्यग्निर्णये जाते प्राणातिपातादीनां तन्निषेधरूपाणां च विशेष्यपदानां भणनमुन्मत्तप्रलापकल्पं सम्पद्येत, प्रयोजनाभावात्, धर्मोपदेशादिक्रियामात्रस्यापि तथात्वेन सप्तसङ्ख्याभणनस्यायुक्तत्वाच्च । किंच - अप्रसिद्धविशेषणदानेन हेतूनां सन्दिग्धस्वरूपासिद्धतापि, तथा रागद्वेषवच्चछद्यस्थत्वयोस्तद्राहित्य केवलित्वयोश्चैक्यमेवेति हेतोः साध्यघटितत्वेन हेतुस्वरूपहानिः; तस्मादविशिष्टानामेव छद्मस्थगम्यमाणातिपातादिनिषेधरूपाणां केवलित्वगमकलिङ्गत्वं प्रतिपत्तव्यम् । यत्तु छद्मस्थत्वज्ञापकलिङ्गेषु ' कदाचिद् इति विशेषणं टीकाकारेण दत्तं तत्सप्तानामपि लिङ्गानां स्वरूपासिद्धिचारणार्थम्, नहि छद्मस्थसाधावनवरतं प्राणातिपातादिशीलत्वं सम्भवतीति । यच्च केवलित्वज्ञापकलिङ्गेषु ' कदाचिदपि ' इति विशिष्टविशेषणमुपात्तं तच्छद्मस्थसाधौ व्याभचारवारणाय भवति ह्येतद्विशेषणं विना छद्मस्थसाधौ प्राणातिपाताद्यभावावस्थायां हेतुषु विद्यमानेषु केवलि - त्वाभावेन व्यभिचार इति । , अत्र वदन्ति - 'सत्तर्हि ठाणेहिं छउमत्थं जाणिज्जा' इत्यत्राप्रमत्तस्य पक्षी Page #259 -------------------------------------------------------------------------- ________________ २४६ करणे प्राणातिपातकत्वादयः सर्वेऽपि हेतवः स्वरूपासिद्धतामाप्नुवन्ति, प्राणातिपातादिनिमित्तक्रियाभावेन तस्य प्राणातिपातकत्वाद्यभावात् । यथा हि-कर्मग्रन्यायभिप्रायेण निद्रोदयस्याप्रमत्तादिगुणस्थानेषु सत्त्वेऽपि न तेन प्रमत्तत्वम् , द्रव्यतो निद्राविषयादिवत्त्वस्य प्रमत्तत्वाप्रयोजकत्वात् ; तथा द्रव्यतो जीवविराधनायामप्यप्रमत्ताःप्राणातिपातकानप्रोच्यन्त इति । न चौपचारिकरपारमाथिकैद्रव्यतः प्राणातिपातकत्वादिभिस्त्वत्कल्पितैरपि पारमार्थिकं छद्मस्थत्वं साधयितुं शक्यते, द्रव्यतो विरतिमहाव्रतवत्वादिभिः परिव्राजकेष्वभव्यनिहवादिषु च पारमार्थिकविरतत्वचारित्रित्वादिसाधनप्रसक्तेः । किं च-औपचारिकं प्राणातिपातकत्वं 'यावजीवः सयोगस्तावदारभते' इत्याद्यागमवचनादेव प्रसिद्धव्यभिचारमिति सद्भूतप्राणातिपातकत्वादिभिश्छद्मस्थत्वस्य साधनात् प्रमत्त एवात्र पक्षोकार्यः, तेन न स्वरूपासिद्धिः, तत्र पारमार्थिकानां हेतूनां सत्त्वादिति । किंच-'व्यापादनशीलो भवति' इत्यत्र फलनिरपेक्षा वृत्तिः शीलमिति, शीलार्थत्वात् , तस्याश्च स्वभावनिबन्धनत्वात् प्राणातिपातादिस्वभावहेतुसि यथै प्रमत्त एव पक्षीकर्तव्य इति । न च प्रमत्तत्वादेव तत्र छद्मस्थत्वरूपसाध्यस्यापि प्रतीतत्वात्साध्यत्वाभावः, 'अप्रतीतमनिराकृतमभीप्सितं साध्यम्' इति वचनादिति वाच्यम् , व्यामूढमनसां तव्यामोहनिवृत्यर्थं छद्मस्थत्वस्य सा. ध्यमानत्वोपपत्तेः। “प्रसिद्धानां प्रमाणानां लक्षणोक्तौ प्रयोजनम् । ___ तव्यामोहनित्तिः स्याद् व्यामूढमनसामिह ॥"इति न्यायावतारवचनात् । यथा हि-सास्नादिमत्वाद् गवि गोत्वसिद्धेऽपि व्यामूढस्य तत्प्रतिपत्त्यर्थ प्रयोगः क्रियते-यथा इयं गौः, सास्नादिमत्वात् , यत्र गोत्वाभावस्तत्र सास्नादिमत्वाभांवो यथा महिष इत्यादि । एवमत्रापि पुरुषविशेषे प्रमत्तत्वाच्छद्मस्थत्वे सिद्धेऽपि व्यामूढस्य ज्ञापनार्थमनुमाने कर्त्तव्ये छद्मस्थत्वस्य साध्यत्वं घटत एवेति । एतेन निद्राविकथादिप्रमादवतश्छद्मस्थत्वेन संशयानुपपत्तेन तत्परिज्ञानाय लिङ्गापेक्षेत्यपि निरस्तम्, उक्तयुक्त्या व्यामोहनिरासार्थं तदुपपत्तेः, विप्रतिपत्यादिना केवलिच्छद्मस्थविशेषज्ञस्यापि संशये सति तत्साधनोपपत्तेश्च । न च सूत्रे प्राणातिपातकत्वादीनां सामान्येन छद्मस्थलिङ्गत्वेन प्रोक्तत्वात् प्रमत्तछमस्थरूपविशेषे व्याख्यायमाने सूत्राशात Page #260 -------------------------------------------------------------------------- ________________ २४७ नेति वाच्यम्, सूत्रस्य सूत्रान्तरेसम्मत्या व्याख्यानकरणे आशातनायाः परित्यागात् । किंच-भवतोऽप्यप्रमत्तरूपछास्थविशेषमुपादायैव व्याख्यानकरणान्नैतद्विषये पर्यनुयोग एव युज्यते । " यत्रोभयोः समो दोषः परिहारोऽपि वा समः । नैका पर्यनुयोक्तव्यस्तादृगर्थविचारणे ॥” इति वचनात् । ननु प्रमत्तस्य पक्षत्वेऽप्रमत्तसंयते कथं छद्मस्थत्वं स्याद् ? लिङ्गाभावाद्-इति चेद्, न । लिङ्गिनि लिङ्गावश्यंभावनियमाभावाद् , धूमं विनापि तप्तायोगोलके वह्निदर्शनात् । ननु यद्येवं प्रमत्तस्य पक्ष भावतःप्राणातिपातकत्वादीनां च लिङ्गत्वं तदा छद्मस्थत्वगमकलिङ्गेषु कदाचिद् '-इति विशेषणं यत्टीकाकारेण दत्तं तदनुपपन्नं स्याद्, अप्रमत्तसंयतपक्षे द्रव्यप्राणातिपातादीनां लिङ्गत्वे हि तेषां सार्वदिकत्वाभावेन स्वरूपासिद्धिवारणार्थ तदुपपन्नं स्यात् । प्रमत्तसंयतपक्षे भावाप्राणातिपातस्य सार्वदिकत्वेन तद्विशेषणस्यानुपपत्तिरेवेति । मैवम् , अविशेषेणोक्तस्य प्राणातिपातकत्वादेः स्वरूपसिद्धत्वाभावेन 'कदाचिद् '-इत्यस्योभयमतेऽपि स्वरूपविशेषणत्वात् कालिकसम्बन्धेन व्याप्तेरभिप्रेतत्वेऽपि 'कदाचिद् ' इत्यस्य कालान्तरोपसङ्ग्रहेऽनुपयोगाद्, यदा प्राणातिपातकत्वादिकं तथा छअस्थत्वमिति नियमसिद्धौ ‘कदाचिद् ' इत्यनेन किमुपकर्त्तव्यमेतादृशनियमस्फोरणं विनेति । केचित्तु केवली कदाचिदपि प्राणानामतिपातयिता न भवतीति यत्केवलिनो लिअमुक्तं तत्सर्वाप्रमत्तानामपि समानमिति तद्व्यात्त्यर्थं छद्मस्थलिङ्गेषु कदाचिद् ' इति विशेषणमुक्तम् । इत्थं चाप्रमत्तानां प्रमत्तगुणस्थानवतित्वे प्रमत्तत्वात् कदाचिद्भावतोऽपि यत्माणातिपातकत्वं सम्भवति, न तु केवलिनः, तस्य देशोनपूर्वकोटी. कालमप्यप्रमत्तत्वस्यैव भावादिति विशेषोऽबबुद्धो भवति । न चाप्रमत्ता अपि सर्वदा प्राणानतिपातका एव भवन्ति, प्रमत्तत्वेन प्राणातिपातकत्वेऽत्वप्रमत्ता एव नोच्यन्ते इत्यतिप्रसक्त्यैवैतल्लक्षणमिति वाच्यम्, अप्रमत्तस्य प्रमत्तगुणस्थानवर्तिनो जीवधाते अहो ' अप्रमत्तोऽपि जीवघातं करोति' इति व्यपदेशसम्भवात् , चतुदंशपूर्व्यादीनां चतुर्गतिकत्वा दिवचनवदेतदुपपत्तेः । यथाहि-' भगवानपि भुवनगुरुरुन्मार्गदेशनात्सागरोपमकोटाकोटीं भ्रान्तः' इति योगशास्त्रदृत्तिवचनम् । लोकेऽपि च घृतघटे घृताभावेऽपि 'घृतघट ' इति व्यपदेशो भाविनि भूतवदुपचारेण दृश्यते, तथैवाप्रमत्तादिगुणस्थानवर्तिनोऽपि प्रमादवत्वे भावतः प्राणातिपातक Page #261 -------------------------------------------------------------------------- ________________ २४८ त्वादिव्यपदेशो भवति नतु केवलिनः, तस्य कदाचिदपि प्रमादवत्त्वाभावादिति नातिव्याप्त्यादिदोष इत्याहुः ॥ तेषां यद्ययमाशयोऽप्रमत्तसंयतेषु केवलित्वगमकप्राणातिपाताभावादिलिंगानां व्यभिचारः, 'कदाचिदपि ' इति विशेषणेन तद्योग्यताभावानां लिङ्गत्वलाभेन वार्यत इति छद्मस्थलिङ्गेषु ' कदाचिद् ' इति विशेषणं योग्यतास्पष्टत्वार्थमिति; तदा सा योग्यता प्राणातिपातादिप्रागभावरूपा ग्राह्येति केवलिपरीक्षायां क्षपकश्रेणावपूर्वकरणादीनां तदभावात्तेषु व्यभिचारो दुर्वारः । छद्मस्थपरीक्षायां च प्रमत्तस्यैव पक्षत्वे योग्यताग्रहणवैकल्यम्, सर्वेषां तु छमस्थानां पक्षत्वे तेष्वेवासिद्धिरिति किमप्रमत्तादावौपचारिकप्राणातिपातकत्वादिविवक्षया ? इति प्रमत्ताप्रमत्तसाधारणपक्षकछद्मस्थत्वसाधने प्राणातिपातादिलिङ्गेषु ' कदाचिद् ' इति विशेषणेन साध्याधिकरणकिञ्चित्कालावच्छिन्नत्वं देयम्, केवलित्वगमकलिङ्गेषु च साध्याधिकरणयावत्कालावच्छिन्नत्वं देयमिति नोद्देश्यासिद्धिर्न वा व्यभिचार इति विभावनीयम् । यत्तु भावभूतलिङ्गानां न छद्मस्थज्ञानोपयोगित्वमिति । तदसद्, भावभूतानामेव शमादिलिंगानां छद्मस्थानां परनिष्ठसम्यक्त्वज्ञानजनकत्वप्रतिपादनात् । तदुक्तं योगशास्त्रवृत्तौ - " पञ्चभिर्लक्षणैर्लिङ्गैः परस्थं परोक्षमपि सम्यक्त्वं सम्यगुपलक्ष्यते, लिङ्गानि तु शमसंवेग निर्वेदानुकम्पास्तिक्यस्वरूपाणीत्यादि " । बाह्यपरिणति विशेषादेव तत्र शमादिभाव लिङ्गज्ञानसौलभ्यमिति चेद्, अत्रापि तत एव न भावलिङ्गज्ञानदौर्लभ्यं परीक्षकाणाम् । एतेन छद्मस्थत्वगमकानि लिङ्गानि यावदुपशान्तवीतरागमेव भवन्ति । यच्च क्षीणमोहस्य मृषाभाषणं तच्छद्मस्थज्ञानगोचरत्वेन न लिङ्गम्, द्रव्यतो मृषाभाषणस्य क्रोधाद्यभावेन क्षीणमोहेऽभावादित्यादि यदुक्तं तन्निरस्तम् उक्तरीत्या द्रव्यव्यतिरिक्तस्यापि मृषावादस्य सुपरीक्षकाणां सुग्रहत्वात् । किंच - क्षीणमोहस्य द्रव्यतो मृषाभावणं नास्तीति सर्वशास्त्रविरुद्धम् यस्मात्सर्वावस्थासु कर्मबन्धोऽस्ति, कर्मबन्धानुमेया च विराधना, इष्यते चासौ द्रव्यतो वीतरागस्यापि छद्मस्थस्य, चतुर्णामपि मनोयोगादीनामभिधानादिति पश्चाशकवृत्तौ द्रव्यत एव मृषावादस्य क्षीणमोहेऽभिधानात् । अत एव सूक्ष्मप्रमादनिमित्तविराधनयाssलोचनाप्रायश्चित्तं तत्रोक्तम् । तथाहि , आलोअणाविवेगो वा नियंठस्स दुवे भवे । विवेit r सिणायस्स एमेया पडिवत्तिओ ॥ " त्ति Page #262 -------------------------------------------------------------------------- ________________ २४९ यतिजीतकल्पसूत्रे प्रोक्तम् । “ आलोचनाप्रायश्चित्तं विवेकमायश्चित्तमित्येते द्वे प्रायश्चित्ते निर्ग्रन्थस्य भवतः, स्नातकस्य केवल एको विवेकः।" इति तद्वृत्तौ। अत्र स्नातकस्य केवलविवेकप्रायश्चित्तभणनेन निर्ग्रन्थयोरुपशान्तक्षीणमोहयोरालोचनाविवेकप्रायश्चित्ते द्वेऽविशेषेणैवोक्ते सम्भाव्येते; अन्यथा निर्ग्रन्थे विकल्पद्यमकरिष्यद्; यथा-कुत्रचिन्निग्रन्थे विवेकपायश्चित्तमेव, कुत्रचित्त्वालोचनाविवेकरूपे द्वे इति: न चैवं कचिदुपदर्शित मिति माध्यस्थ्येन पर्यालोच्यम् । तथा चालोचनाप्रायश्चित्तशोध्या द्रव्यविराधना केवलिविलक्षणे क्षीणमोहे शास्त्रसिद्धति द्रव्यतो मृषाभाषणं क्षीणमोहे न भवतीति यद्वचनं तन्निरर्थकमेव । यत्तु तत्रानाभोगहेतुकं सम्भावनारूढं जीवविराधनावत्मृषाभाषणमुपपादितं तत्र दृष्टान्तासिद्धिः, द्रव्यतो जीवविराधनाया तत्रोपपादितखाद्, भगवत्यामपि तत्र जीवविराधनायाः स्पष्टमुक्तत्वाच । तथा च तत्सूत्रं १८ श०-" अणगारस्स णं भंते ! भाविअप्पणो पुरओ दुहओ जुगमायाए पेहाए रीयं रीयमाणस्स पायस्स अहे कुकुडपोए वा वट्टापोए वा कुलिंगच्छाए वा परियावजेजा, तस्स णं भंते ! किं इरियावहिया किरिया कज्जइ, संपराइआ किरिया कज्जइ ? गो० अणगारस्स णं भविअप्पणो जाव तस्स णं इरियावहिआ किरिया कन्जइ, णो संपराइआ किरिया कज्जइ । केणटेणं भंते ! एवं वुच्चइ ? जहा सत्तमसए संवुड्डद्देसए व जाव अट्ठो णिक्खितो" ति ॥ 'पुरओ 'त्ति अग्रतः, 'दहओ'त्ति द्विधा--अन्तराऽन्तरा पार्श्वतः पृष्ठत. श्वेत्यर्थः, 'जुगमायाए 'त्ति यूपमात्रया दृष्टया, 'पेहाए 'त्ति प्रेक्ष्य ‘रीयं 'ति गतं गमनं 'रीयमाणस्स 'त्ति कुर्वत इत्यर्थः, 'कुक्कुडपोयए' त्ति कुर्कुटादिपोतः, 'वट्टापोयए 'त्ति इह वर्तकः पक्षिविशेषः, 'कुलिंगच्छाए व 'त्ति पिपीलिकादिसदृशः, 'परियावज्जेज 'त्ति पर्यापद्येत-म्रियते । एवं जहा सत्त मसए' इत्यादि। अनेन यत्सूचितं तस्यार्थलेश एवम्-अथ केनार्थेन भदंत ! एवमुच्यते ? गौतम ! यस्य क्रोधादयो व्यवच्छिन्ना भवन्ति, तस्येर्यापथिक्येव क्रिया भवति "-इत्यादि तवृत्तायुक्तम् । .. ___अत्र भावितात्माऽनगार उपशान्तः क्षीणमोहश्च ग्राह्यः, अन्यस्येर्यापथिकीक्रियाऽभावात् , केवलिनश्वानाभोगप्रयुक्तोक्तविशिष्टगमनासम्भवादिति वदन्ति । तथा सम्भावनारूढं मृषाभाषणं द्रव्यभावाभ्यां भिन्नं न कुनाप्युपदर्शितमिति क्षीणमोहे तदभिधानं भवतोऽपूर्वपाण्डित्याभिव्यञ्जकमेव, द्रव्यभावातिरिक्तस्य सम्भावनारूढस्य शशविषाणवदवस्तुत्वात् । वच्च व्यक्तिशक्तिरूपं सम्भवे सम्भाव्ये Page #263 -------------------------------------------------------------------------- ________________ २५० च योगवीर्यमुक्तं तद्भावपरिणामरूपमेव, यथोक्तं सूत्रकृताङ्गवीर्याध्ययनवृत्तौ । तथा मनोवाक्कायादीनां तद्भावपरिणतानां यदीर्य सामर्थ्य तद्विविध-सम्भवे सम्भाव्ये च। सम्भवे तावत्तीर्थकृतामनुत्तरोपपातिकानां च सुराणामतीव पटूनि मनोद्रव्याणि भवन्ति । तथाहि-तीर्थकृतामनुत्तरोपपातिकसुरमनःपर्यायज्ञानिप्रश्नव्याकरणस्य द्रव्यमनसैव करणाद्, अनुत्तरोपपातिकसुराणां च सर्वव्यापारस्यैव मनसा निष्पादनादिति । सम्भाव्ये तु यो हि यमर्थ पटुमतिना प्रोच्यमानं न शक्नोति साम्पतं परिणमयितुं, सम्भाव्यते त्वेष परिकर्यमाणः शक्ष्यत्यमुमथै परिणमयितुमिति । वाग्वीर्यमपि द्विविध-सम्भवे संभाव्ये च ।तत्र सम्भवेतीर्थकृतां योजननिर्झरिणी वाक् सर्वस्वभाषानुगता च; तथाऽन्येषामपि क्षीरमध्वाश्रवादिलब्धिमतां वाचः सौभाग्यमिति । तथा हंसकोकिलादीनां सम्भवति स्वरमाधुर्यम् । सम्भाव्ये तु सम्भाव्यते श्यामायाः स्त्रियो गानमाधुर्यम् । तथा चोक्तम्-" श्यामा गायति मधुरं काली गायति खरं च रूक्षे(क्षं चे)'त्यादि। तथा सम्भावयाम एनं श्रावकदारकमकृतमुखसंस्कारमप्यक्षरेषु यथावदभिलप्तव्येष्विति, तथा सम्भावयामः-शुकसारिकादीनां वाचो मानुषभाषापरिणामः । कायवीर्यमप्यौरस्यं यद्यस्य बलम् । तदपि द्विविधंसम्भवे सम्भाव्ये च । सम्भवे यथा चक्रवर्तिबलदेववासुदेवानां यद्वाहुबलादिकायबलम् । तद्यथा-कोटिशिला त्रिपृष्ठेन वामकरतलादुद्धृता, यदि वा 'सोलसरायसहस्सा' इत्यादि यावदपरिमितबला जिनवरेन्द्रा इति । सम्भाव्ये तु-सम्भाव्यते तीर्थकरो लोकमलोके कन्दुकवत् प्रक्षेप्तुम् , तथा मेरुं दण्डवत् गृहीत्वा वसुधां छत्रकवद्ध मिति । तथा सम्भाव्यतेऽन्यतरसुराधिपो जम्बूद्वोपं वामहस्तेन छत्रकवद्धतुमयत्नेनैव मन्दरमिति । तथा सम्भाव्यतेऽयं दारकः परिवर्द्धमानः शिलामेनामुद्धर्तुं हस्तिनं दमयितुमश्वं वाहयितुमित्यादि, तद्वदिह यदि क्षीणमोहे सम्भावनारूढं मृषाभाषणं सम्भवे वक्तव्यं तदा व्यक्तित एव भावरूपं संपन्नम् । यदि च सम्भाव्ये तदा शक्तित इति न कथमपि पृथग् 'भवितुमर्हति । न च क्षीणमोहे मृषाभाषणं केवलं सम्भाव्यमेव, अपूर्वादिषु पञ्चमु गुणस्थानकेषु चतसृणां भाषाणां कर्मग्रन्थे द्वितीयतृतीयवाग्योगौ मिथ्यादृष्टेरारब्धौ यावत् क्षीणकषायवीतरागछअस्थस्तावल्लभ्येते । तथोपशान्तकषायस्थाने क्षीणकषायस्थाने च 'नवयोगा बन्धहेतवः' इत्यस्य चार्थस्याविशेषेणैवाभिधानाद् । अवश्यंभावित्वाभिप्रायेण च यत्सम्भाव्यत्वाभिधानं तत्तु सत्संयतमात्रस्यैव मृषाभाषणादेः स्यादिति द्रष्टव्यम् । किञ्च-सर्वमपि मृषाभाषणं क्रोधमूलकमेवेति वदतस्तव सम्भावनारूढमपि Page #264 -------------------------------------------------------------------------- ________________ २५१ मृषाभाषणं तन्मूलकमेव स्यात् , तथा च क्षीणमोहे तस्याप्यभावः पामोति । ननूक्तं तदनाभोगहेतुकमेवेति चेत्, तर्हि तादृशं द्रव्यतो मृषाभाषणमेव किमिति नाभ्युपेयते ? किं सम्भावनया ? न च द्रव्यभूतेन तेन प्रत्याख्यानभङ्गो भवति, भावभूतस्यैव तस्य प्रत्याख्यातत्वात् , “प्रमत्तयोगादसदभिधानं मृषा" इति तत्वार्थवचनात् । न च भावतः प्राणातिपातमृषाभाषणादेर्यत्कारणं तदेव तस्य द्रव्यतोऽपीति क्षीणमोहेन तत्सम्भवतीति वाच्यम्, एवं सति भावतो ज्ञानदर्शनचारित्राणां यानि कारणानि तान्येव द्रव्यभूतानां तेषां कारणानि स्युरिति अभव्यादोनामपि द्रव्यता ज्ञानदर्शनचारित्रवतां ज्ञानावरणीय-दर्शनमोहनीय चारित्रमोहनीयकर्मक्षयोपशमाः कारणानि स्युः । तथा चागमबाधा । किश्च-एवं केवलिनो द्रव्येन्द्रियाणामप्यभावापत्तिः, भावेन्द्रियहेतुज्ञानावरणदर्शनावरणक्षयोपशमयोः केवलिन्यभावाद् । न च द्रव्येन्द्रियाभावः केवलिन्युक्तः, किन्तु भावेन्द्रियाभाव एवेति । किं च-उपशान्तमोहे यथा जीवविराधना मोहनीयकारणमन्तरेणापि भवति, तथा क्षीणमोहे मोहाभावेऽपि द्रव्यतो जीवविराधनामृषाभाषादिसद्भावे किं बाधकम् ? अथास्त्येवागमबाधा । तथा हि-" रायगिहे जाव एवं वयासी, अह भंते ! पाणाइवाए मुसावाए अदिण्णादाणे मेहुणे परिग्गहे' एस णं कतिवण्णे कतिगंधे कतिरसे कतिफासे पण्णत्ते ? गोयमा ! पंचवण्णे दुगंधे पंचरसे चउफासे पण्णत्ते" इत्यादि भगवतीसूत्रे द्वादशशते पञ्चमोद्देशके प्रोक्तम् । 'रायगिहे' इत्यादि । 'पाणाइवाए' त्ति प्राणातिपातजनितं तज्जनकं वा चारित्रमोहनीयं कर्मोपचारात् प्राणातिपातः, एवमुत्तरत्रापि, तस्य च पुद्गलरूपत्वात् वर्णादयो भवन्ति, अत उक्तं 'पंचवण्णे' इत्यादि। आह च-"पंचरस-पंचवष्णेहिं परिणायं दुविहगंधचउफासं। दवियमणंतपएसं सिद्धेहिं गंतगुणहीणं ॥” इत्याद्येतद्वृत्तावुक्तम् । एतदनुसारेण च प्राणातिपातादीनां चारित्रमोहनीयत्वात् क्षीणमोहे तदनुपपत्तेः। उपशान्तमोहे तु मोहसद्भावात्माणातिपाताद्यङ्गीकारे न किश्चिद्वाधकमिति चेद् । एतदप्यसत, भावप्राणातिपातापेक्षयैवोक्तोपचारव्यवस्थितेः, अन्यथा द्रव्यमाणातिपातादीनां चारित्रमोहनीयकर्मजनकत्वे सूक्ष्मसम्परायादौ षड्विधबन्धकत्वादि न स्यात् । तज्जन्यत्वे च तस्योदितस्यानुदितस्य वा जनकत्वं वाच्यम् । आये उपशान्तमोह. द्रव्यप्राणातिपाताद्यनुपपत्तिः । अन्त्ये च चारित्रमोहनीयसत्तामात्रादुपशान्तमोहे तत्कार्यप्राणातिपातस्वीकारे नाग्न्यादीनां सप्तानां परीषहाणामपि तत्र स्वीकारा Page #265 -------------------------------------------------------------------------- ________________ २५२ पत्तेः तेषामपि चारित्रमोहनीयकार्यत्वप्रतिपादनात् । तदुक्तं भगवत्यां - "चरिमोहणिज्जेणं भंते! कम्मे कतिपरीसहा समोअरंति ? गो० सत्त परीसहा समोअरंति । तं० - " अरती अचेल इत्थी णिसीहिआ जायणा य अक्कोसा । सक्कारपुरकारे चरित्तमोहमि सत्तेत्ति " ॥ तत्त्वार्थभाष्येऽप्युक्तम् - " चारित्रमोहे नाग्न्यारुतिस्त्रीनिषद्याक्रोशयाचनासत्कारपुरस्काराः परीषहा उक्ताः । " इति । एतद्वृत्तिर्यथा - "दर्शनमोहवर्जं शेषं चारित्रमोहनीयं चारित्रान्मूलोत्तरगुणसम्पन्नान्मोहनात्पराङ्मुखत्वाच्चारित्रमोहनीयम्, तदुदये सत्येते नाग्न्यादयः सप्त परीषहा भवन्ति । नाग्न्यं जुगुप्सोदयाद्, अरत्युदयादरतिः, स्त्रीवेदोदयात् स्त्रोपरिषहः, निषद्या स्थानासेवित्वं भयोदयात्, क्रोधोदयादा क्रोशपरीषहः, मानोदयाद् याच्या परीषह इति ॥ अथचारित्रमोहोदये सत्येते परत्रहाः प्रोक्ताः, तस्मादुपशान्ते न भवन्तीति चेत्, तर्हि चारित्रमोहनीयकर्मोदये सति प्राणातिपातादयः प्रोक्ताः, अतस्तेऽपि तत्र मा भूवन् । अथ भावत एव प्राणातिपातादयश्चारित्रमोहनीयोदयसमुत्याः, द्रव्यतस्तु चारित्रमोहनीयस्य सत्तायामपि तत्र ते भवन्तीति चेत्, तर्हि भावत एव चारित्रमोहनीयोदयसमुत्थाः सप्त परीषहाः सूक्ष्मसम्परायगुणस्थानं यावद्भवन्ति, द्रव्यतस्तु त एवोपशान्तमोहेऽपि चारित्रमोहसत्तानिमित्तका भवन्तु, युक्तेरुभयत्र तौल्यादिति । यच्च संभावनारूढमृषाभाषण निषेधव्याघातेनैव तत्सिद्धिसमर्थनं कृतम्, तत्तु शशशृङ्गस्यापि निषेधव्याघातात् तत्सिद्धिसमर्थनप्रायम् । या च ( अ ) लोके लोककल्पनातुल्या सम्भावना प्रोक्ता, सा तु प्रकृतार्थस्यातिशयितत्वमेव प्रतिपादयेद् | अलोके लोकप्रमाणासंख्येयखण्डप्रमाणावधिज्ञानविषयकल्पना हि वैज्ञानिकसम्बन्धेन तद्विषयविशिष्टतामवधिज्ञानस्यैव ज्ञापयतीति । आह च भाष्यकारः " तो पुण बाहिं लोगत्थं चैव पासई दवं । सुहुमयरं सुहुमयरं परमोही जावपरमाणुं ।। " - इति । तद्वदिहापि सम्भावनया विशिष्टमेव मृषाभाषणं प्रसज्येतेति विपरीतैवेयं कल्पना भवत इति । यश्च अत एव ' कालशौकरिकस्य' इत्याद्युक्तं तत्तु तं प्रत्येव लगति, यतः कालशौकरिकस्य महिषव्यापादनत्वेन भगवतोक्तं तद्भावमाश्रित्य, तेन तत्र तत्कल्पनायाः प्रामाण्यम्, सम्भावनारूढ मृषाभाषणादेर्मृषाभाषात्वादिकं तु भावतो नोच्यत इति कथं तत्कल्पना स्याद् ? नह्यसतः सम्भावनापि सम्भवति, नहि क्षीणमोहे मैथुनादीनां भवतापि सम्भावना क्रियते; अत एव क्षीणमोहे Page #266 -------------------------------------------------------------------------- ________________ २५३ सम्भावनारूढमृषाभाषादेः स्नातकचारित्रप्रतिबन्धकत्वेन दोषत्वमित्यपि निरस्तम्, असतो दोषत्वायोगात् । अत एव चित्रलिखितनारीदृष्टान्तोऽपि निरस्त:, असत आकारमात्रताया अप्यभावादिति न किश्चिदेतत् । __ यच्च छद्मस्थलिङ्गानां द्रव्यभूतानां मिथ्याकारादिलिङ्गगम्यत्वस्यापि सम्भवान्मिथ्याकारस्य वाऽनवरतप्रवृत्तावसम्भवात् संयतानां द्रव्यहिंसादिकं कादाचिकत्वेनानाभोगप्रयुक्तमेवेत्यभिधानं तदयुक्तम्, प्रत्याख्यातभावहिंसादेरेवाना भोगप्रयुक्तकादाचित्कभङ्गपरिणतिवतो मिथ्याकारविषयत्वाद्, द्रव्यहिंसामात्रे तदभावाद्, अन्यथाऽपवादपदजिनपूजाऽऽहारविहारादिक्रियाणामपि मिथ्याकारविषयत्वापत्तेः । यच षष्ठसप्तमलिंगयोश्छद्मस्थमात्रे सुलभत्वमुक्तम्, तत्पतिलेखनाप्रमार्जनादिक्रियाणां पिपीलिकादिक्षुद्रजन्तुभयोत्पादकत्वेन सावद्यत्वे स्यात्, तदेव तु नास्ति, कायादिनियताचाररूपाणां तासामौत्सर्गिकीणां क्रियाणामत्यन्तनिरवद्यत्वाद् । अपवादकल्पत्वादासां कथञ्चित्सावद्यत्वमिति चेद्, न । अपवादस्यापि विधिशुद्धस्य सावद्यत्वाभावे तत्कल्पत्वेनाभिमते तदभावाद् । न चोत्सर्गापवादव्यतिरिक्तोऽपवादकल्पो राशित्रयकल्पनारसिकं भवन्तं विनाऽन्येन केनापीष्यत इति तत्सद्भावे प्रमाणमस्ति । शक्याशक्यपरिहारविषयभेदेनापवादापवादकल्पयोर्भेदाभ्युपगमे च दुष्करमुकरखादिभेदेनानशनयुक्ताहारादिक्रियाणामुत्सर्गोत्सर्गकल्पभेदकल्पनाया अप्यापत्तेरिति न किञ्चिदेतत् । तस्मात् षष्ठसप्तमलिंगयोः सौलभ्यमपि प्रमत्तस्यैव प्रतिषेवणदशायां ज्ञेयम्, अप्रमत्तस्य तु सत्तामात्रेणैवतद्र्ष्टव्यम् । यत्तु केवलिनोऽपि परीक्षायां छद्मस्थज्ञानगोचरत्वेन द्रव्यरूपाण्येव लिङ्गानि ग्राह्याणीत्युक्तम्, तन्न चतुरचेतश्चमत्कारकारि, द्रव्यरूपाणामपि प्राणातिपातादीनामभावस्य सर्वकालीनत्वस्य हेतुघटकस्य दुर्ग्रहत्वात् । सूक्ष्मदृष्टया तद्ग्रहे च भावरूपलिङ्गानामपि न दुहत्वमिति । यच्चोक्तं स च केवली द्विविधो ग्राह्य इत्यादि, तदसत् । क्षीणमोहे केवलित्वस्यागमबाधितत्वात्, आगमे छद्मस्थवीतरागमध्य एव क्षीणमोहस्य परिगणितत्वात् । उक्तं च प्रज्ञापनायां-"स किं तं खीणकसायवीयरायचरित्तायरिआ ? खीणकसायवीयरागचरित्तायरिआ दुविहा पं० । तं०-छउमत्थखीणकसायवीयरायचरित्तायरिया य, केवली खीणकसाय पीयरागचरित्तायरियाय” इत्यादि । यदि चैता(मा)गम बाधामुल्लङ्घयापि भाविनि भूतवदुपचारः" इति न्यायाद् द्वादशे गुणस्थाने कथञ्चित्केवलित्वमभ्युपगम्यते, तर्हि चरमचरीरिणि प्रथमादिगुणस्थानवर्तिनि क्षपकश्रेण्यारूढे वा सप्तमादिगुण Page #267 -------------------------------------------------------------------------- ________________ २५४ 46 स्थानवर्त्तिनि तदभ्युपगन्तव्यं स्यात् । किञ्च - क्षीणमोहस्य केवलित्वविवक्षा केनापि न कृतेति कथं भवता कर्त्तव्या ? नहि स्वल्पकालभाविकेवलज्ञानस्यापि छद्मस्थस्य केवलत्वविवक्षा कर्त्तुं युज्यते । अत एव " छ ठाणाई छउमत्थे सहभावेणं ण जाण, ण पास । तं० - धम्मत्थिकायं अधम्मत्थिकायं आगासं जीवं असरीरपडिबद्धं परमाणुपोग्गलं । एताणि चैव उप्पण्णणाणदंसणधरे जाणति' - इत्यादि स्थानाङ्गसूत्रे | इह छद्मस्थो विशिष्टावध्यादिविकलः, नत्वकेवली, यतो यद्यपि धर्माधर्माकाशान्यशरीरजीवं च परमावधिर्न जानाति, तथापि परमाणुशडौ जानात्येव, रूपित्वात् तयोः, रूपिद्रव्यविषयत्वाच्चावधेः । " - इत्यादि वृत्तावुक्तम् । अत्र परमावधेरन्तर्मुहूर्त्तादूर्ध्वमुत्पत्स्यमानकेवलज्ञानस्यापि केवलित्वविवक्षा न कृता । यदि च परमावधिमतः केवलित्वविवक्षामकरिष्यत् तदा व्यभिचारशङ्कव नास्तीति छद्मस्थपदस्य विशेषपरत्वं नावक्ष्यद् वृत्तिकारः । तस्मात् क्षीणमोहस्याप्यन्तर्मुहूर्त्तादूर्ध्वमुत्पत्स्यमानकेवलज्ञानस्य कथञ्चित्केवलित्वविवक्षा शास्त्रवाधितैवेति । यदि च क्षीणचारित्रावरणत्वाद्धेतोः क्षीणमोहे केवलित्वं दुर्निवारं, तदा निरतिचारसंयमत्वादप्रतिषेवित्वाच्चोपशान्तमोहे कषायकुशीले च तद्दुर्निवारं स्यादिति बोध्यम् । यच्च रागद्वेषवच्वच्छद्मस्थत्वादीनामैक्यौद्भावनेन दूषणं दत्तं तत्तु न किञ्चिद्; एवं सति समनियतधर्ममात्र व्याप्त्युच्छेदप्रसङ्गादिति दिग् । इर्द लिहास्माकमाभाति - यदालोचनायोग्य विराधनादिकं छद्मस्थमात्रलिङ्ग, तदभावश्च केवलिनो लिङ्गम, 'कदाचिद्' इत्यनेन ' कदाचिदपि ' इत्यनेन चैतदर्थस्यैत्र स्फोरणात् । आलोचनायोग्यताया अनाभोगप्रयुक्तकादाचित्कतानियतत्वाद्, इतरत्र च तदभावाद् । इत्थं च केवली न कदाचिदपि प्राणानामतिपातयिता भवति, क्षीणचारित्रावरणत्वाद्-इत्यादौ विशिष्ट हेतुरनुसन्धेयः, अन्यथा केवलित्वगमकानि लिङ्गानि क्षीणमोहे न सन्ति, किन्तु स्वरूपतः सन्ति । यथा-वह्निरनुष्णः, कृतकत्वाद् - इत्यनुमाने कृतकत्वं वह्नौ स्वरूपतः सदप्यनुष्णवगमकलिङ्गत्वेन नास्तीति प्रत्यक्षवाधितपक्षत्वादगमकं प्रोच्यते, तद्वत् 'क्षीणमोहे सप्तापि स्थानानि ' इत्युक्तावपि न निस्तारः, तद्वदेवाप्रयोजकत्वेन प्रकृतिलिङ्गव्यभिचारानुद्धारात् । नह्ययः पिण्डो धूमवान् वह्निमत्वाद्-इत्यत्र पक्षदोषमात्रेण हेतुदोषो निराकर्तुं शक्यते—इत्यनुमानहेतुत्वे उक्तप्रकार आश्रयणीयः, सम्भावनाहेतुत्वे तु न किमप्युपपादनीयम् - इत्युपयुक्तैविभावनीयमिति दिक् ॥ ८७ ॥ " Page #268 -------------------------------------------------------------------------- ________________ 'तदेवं केवलिनोऽवश्यंभाविनी जीवविराधना न भवति इति स्वमतिविकल्पनमनर्थहेतुरित्येतादृशाः कुविकल्पा मोक्षार्थिना त्याज्या इत्याहतिवासग्गहदोसा एया रिसया हवं ति कुविगप्पा। ते नच्छिंदिय सम्म आणा मुणी पयटिका ॥ ___ तीत्रात्-सम्यग्वक्तृवचनानिवर्तनीयत्वेनोत्कटाद्, अभिनिवेशाद्विपर्ययग्रहादेतादृशकाः कुविकल्पा भवन्ति, तानुच्छिद्य सम्यगाज्ञायां गुरुशास्त्रपारतन्त्र्यलक्षणायां मुनिः प्रवर्तत, न तु बहुश्रुतवादिख्यातिमात्रेण स्वमतिविकल्पजालग्रथनरसिको भवेदिति । 'एतादृशकाः' इत्यतिदेशेन यः परस्यायं कुविकल्पोऽ स्ति-यो मांसमश्नाति तस्य सम्यक्त्वं न भवत्येवेति, सोऽप्यपास्तो बोद्धव्यः, केवलसम्यक्त्वधारिणोऽविरतेरेव माहात्म्यादितराभक्ष्यभक्षणस्येव मांसभक्षणादपि निवृत्तेरनियमात् । यदि च सद्यः सम्मृच्छितानन्तजन्तुसन्तानदृषितं तद् ज्ञात्वा भुञानस्य सर्वांशानुकम्पाराहित्यान सम्यक्त्वमित्यभ्युपगमः, तदाऽनन्तजन्तुमयं ज्ञात्वा मूलकादिकं भक्षयटोऽपि सम्यक्त्वक्षतिरभ्युपगन्तव्या स्याद् । यदि च मांसभक्षणस्याति निन्द्यत्वात्तस्य सम्यक्त्वनाशकत्वं तदा परदारगमनस्य तत्सुतरां स्यादिति तद्व्यसनवतः सत्यकिप्रभृतेः सम्यक्त्वमुच्छिद्येत। एतेन 'बिलवासिनामपि मनुजानां तथाविधकर्मक्षयोपशमेन यदि मांसपरिहारनियन्तृत्वं तदा सम्यग्दृशां तत्सुतरां स्यादिति मांसभक्षणे सम्यक्तक्षतिरेव' इति निरस्तम् , सम्यक्त्वस्य भावधर्मत्वेन कुलधर्ममात्रत्वाभावात् , तथाविधकर्मपरिणतेरनुचितप्रवृत्तिमतोऽपि श्रद्धानगुणेन तदनपगमात् । अन्यथा स्तेनानामपि केषाञ्चित्परदारगमनपरिहारनियन्तृत्वात् , ततोऽनिवृत्तस्य सत्यकिमभृतेः सम्यक्त्वमुच्छिद्येतैवेति। न च मांसाहारस्य नरकायुर्वन्धस्थानत्वादेव तदनिवृत्तौ न सम्यक्त्वमिति शङ्कनीयम , महारम्भमहापरिग्रहादीनामपि तथात्वात् , तदनिवृत्तौ कृष्णवासुदेवानामपि सम्यक्त्वापगमापत्तेः । किं च-सम्यक्त्वधारिणां कृष्णप्रभृतीनां मांसभक्षणेऽपि सम्यक्त्वानपगमः शास्त्रेऽपि श्रूयते । तदुक्तं षष्ठाङ्गे-तएणं दुवए राया कंपिल्लपुरं णगरं अणुपविसइ, अणुपविसित्ता विउलं असणं ४ उवक्खडावेइ, उवक्खडावित्ता कोडुंबियपुरिसे सद्दावित्ता एवं वयासी-गच्छह णं तुम्भे देवाणुप्पिया विउलं असणं ४ सुरं मजं मंसं च पसन्नं च सुबहुपुप्फफलवत्थगंधमलालंकारं वासुदेवप्पामोक्खाणं रायसहस्साणं आवासेसु साहरह । तेवि साहरंति । तएणं ति Page #269 -------------------------------------------------------------------------- ________________ २५६ वासुदेवप्पामोक्खा विउलं असणं जाव संपन्नं आसाएमाणा विहरंति "त्ति । न चात्र मांसभक्षणादिकं स्वपरिवारभूतमिथ्यादृशामेव तदाज्ञानिमित्तकत्वात् तत्कर्तृकं व्यपदिष्टमिति शंकनीयम् , 'वासुदेवप्रमुखा' इत्यत्र सर्वेषामेकक्रियायोगात् सम्यक्त्वनाशके तत्र तदाज्ञानस्याप्यनुपपत्तेश्च । यत्तु वर्णनमात्रत्वेनैतत्सूत्रस्याकिश्चित्करत्वं परेणोद्भाव्यते, तस्य महानेव कृतान्तकोपः। एवं सति स्वर्गदर्यादिप्रतिपादकसूत्राणामपि वर्णनमात्रत्वेनाकिश्चित्करताया वावदूकेन वक्तुं शक्यत्वाद्, लोकनिन्द्यविषयमात्रेणापि यथास्थितार्थप्रतिपादकसूत्रविलोपे नास्तिकत्वस्यानिवारितप्रसरतया सर्वविलोपप्रसङ्गादिति । किञ्च-यधनन्तकायादिमांसादिभक्षणे सम्यक्त्वस्य मूलोच्छेदः स्यात्, तदा तत्र तपःमायश्चित्तं नोपदिष्टं स्यात्, उक्तं च तत्तत्र । तदुक्तं श्राद्धजीतसूत्रवृत्त्योः " चउगुरुणं ते चउलहु परित्तभोगे सचित्तवजिस्स । मंसासववयभंगे छग्गुरु चउगुरु अणाभोगे॥" व्या०-सचित्तवर्जस्य श्रावकादेः 'अनन्त'त्ति अनन्तकायानांमूलकादीनां भक्षणे चतुर्गुरुपायश्चित्तं भवति । यदागमः-" सो उ जिणपडिकुट्ठो अणंतजीवाण गा(बा)यणिप्फण्णो । गेहीपसंगदोसा अणंतकाओ अओ गुरुगा" ॥१॥ तथा सचित्तवर्जस्यैव श्राद्धादेः 'परित्त 'त्ति प्रत्येकपरिभोगे-प्रत्येकाम्रादिपुष्पफलादिभोगे चतुर्लघुप्रायश्चित्तम् । तथा मांसासवयोरुपलक्षणान्मधुनवनीतयोश्च 'वयभंगे' त्ति अनाभोगतः पृथग्वक्ष्यमाणत्वादत्रांभोगतो ज्ञेयम् । ततश्चाभोगे सति व्रतस्य नियमस्य भङ्गे षड्गुरु, 'चउगुरु 'त्ति अनाभोगे मांसासवमधुनवनीतानां व्रतभङ्गेषु चतुर्गुरुपायश्चित्तं भवतीति गाथाक्षरार्थ इति । ततो 'मांसभक्षणे सम्यक्त्वं नश्यत्येव ' इत्ययमपि कुविकल्प एवेति बोध्यम् , ॥ ८८ ॥ ननु विकल्पोच्छेदेनाज्ञया प्रवृत्तिहितावहोक्ता । न चाज्ञामात्रानुसरणं हितावहं सम्भवति, सर्वत्र सौलभ्याद्, दृश्यन्ते हि सर्वेऽपि निजनिजगुर्वाधाज्ञायत्ता इत्युपादेयाज्ञाविशेषमाहआणा पुण जगगुरुणो एगंतसुहावहा सुपरिसुद्धा। अपरिकिया ण गिज्जा सा सवा णाममित्तणं नए॥ व्याख्या-आणा पुण 'त्ति । आज्ञा पुनर्जगद्गुरोस्त्रिभुवनधर्मगुरोभंगवतो वीतरागस्य सुपरिशुद्धा सम्यपरीक्षाप्राप्ता एकान्तसुखावहा नियमेन स्वर्गाप Page #270 -------------------------------------------------------------------------- ________________ २५७ वर्गादिमुखहेतुर्ग्राह्येति योगः। साऽऽज्ञा सर्वा नाममात्रेणापरीक्षिता सती न ग्राह्या, . प्रेक्षावत्प्रवृत्तेः परीक्षानियतत्वादिति भावः ॥ ८९ ॥ एतत्परीक्षोपायमाहकस-छेय-ताव-जोगां परिकियठ्या य सा सुवएणं व । एसा धम्मपरिग्का णायव्वा बुद्धिमतेणं ॥९०॥.. व्याख्या--सा-आज्ञा कषच्छेदतापयोगात् सुवर्णमिव परीक्षणीया । यथाहि-युक्तिस्वर्ण जात्यस्वर्णे च सुवर्णमात्रसाम्येन मुग्धलोकैरभेदेन प्रतीयमाने कषच्छेदतापैविचक्षणास्तत्परीक्षणं कर्तुत्सहन्ते, तथाऽऽज्ञायामपि मुग्धैः सर्वत्र नाममात्रादेकत्वेन प्रतीयमानायां विचक्षणास्तत्परीक्षां कपच्छेदतापैः कर्तुमुत्सहन्त इति बुद्धिमतैषा धर्मपरीक्षा ज्ञातव्या । यैव ह्याज्ञा स एव धर्म इत्याज्ञापरीक्षैव धर्मपरीक्षेति भावः ॥ ९ ॥ ___ कषादीनेवात्र योजयितुमाहविहिपमिसेहान कसो तऊोगकेमकारिणी किरिया। छेन तावो य इहं वा जीवाश्तत्ताणं ॥ ए॥ व्याख्या--' विहिपडिसेहाउ' त्ति । विधि:-अविरुद्धकर्तव्यार्थोपदेशक वाक्यम् । यथा- स्वर्ग-केवलार्थिना तपोध्यानादि कर्त्तव्यमित्यादि । प्रतिषेधः पुनर्न हिंस्यात् सर्वभूतानोत्यादि । एतौ द्वाविह धर्मपरीक्षायां कष एव, सुवर्णपरीक्षायां कषपट्टकरेखेव । इदमुक्तं भवति- यत्र धर्म उक्तलक्षणो विधिप्रतिषेधा पुष्कलावुपलभ्येते स धर्मः कषशुद्धः, न पुन: “ अन्यधर्मस्थिताः सत्त्वा असुरा इव विष्णुना। उच्छेदनीयास्तेषां हि वधे दोषो न विद्यते ॥" . -इत्यादिवाक्यगर्भ इति । तयोविधिप्रतिषेधयोर्योंगोऽनाविर्भूतयोः संभवम्, क्षेमं चावि तयोः पालना, तत्कारिणी क्रिया भिक्षाटनादिबाह्यव्यापाररूपा छेदः। यथा कषशुद्धावप्यन्तर्गतामशुद्धिमाशङ्कमानाः सौवर्णिकाः सुवर्णगोलिकादेश्छेदमाद्रियन्ते, तथा कषशुद्धावपि धर्मस्य छेदमपेक्षन्ते प्रेक्षावन्तः । स च छेदो विशु Page #271 -------------------------------------------------------------------------- ________________ द्धबाह्यचेष्टारूपः, विशुद्धा च चेष्टा सा यत्रासन्तावाप विधिप्रतिषेधाववाधितरूपौ स्वात्मानं लभेते, लब्धात्मानौ चातिचारविरहितावुत्तरोत्तरां वृद्धिमनुभवतः, ईटशी यत्र धर्मे चेष्टा समपश्चा प्रोच्यते सधर्मछेदशुद्ध इति । तापश्च जीवादितत्त्वानां वादः-स्याद्वादरीत्योपन्यासः । यथा हि-कपच्छेदशुद्धमपि सुवर्ण तापमसहमानं कालिकोन्मीलनदोषान्न सुवर्णभावमश्नुते, एवं धर्मोऽपि सत्यामपि कपच्छेदशुद्धौ तापपरीक्षायामनिर्वहमाणो न स्वभावमासादयति, अतो जीवादितत्त्वानां स्याद्वादमरूपणया तापशुद्धिरन्वेषणीया । यत्र हि शास्त्रे द्रव्यरूपतयाऽप्रच्युतानुत्पन्नः पर्यायात्मकतया च प्रतिस्वमपरापरस्वभावास्कन्दनेनानित्यस्वभावो जीवादिरवस्थाप्यते स्यात्तत्र तापशुद्धिः । यतः परिणामिन्येवात्मादौ तथाविधाशुद्धपर्यायप्रादुर्भावादुक्तलक्षणः कषो बाह्यचेष्टाशुद्धिलक्षणश्च छेद उपपद्यते न पुनरन्यथेति । अत्र च तापपरोक्षा बलवती, कषच्छेदभावेऽपि तापाभावे परीक्षाऽसिद्धः, नहि तापे विघटमानं हेम कपच्छेदयोः सतोरपि स्वं स्वरूपं प्रतिपत्तुमलम, युक्तिस्वर्णत्वात्तस्येति ॥ ९१॥ एताभिः परीक्षाभिर्धर्मे परीक्षिते धर्मवान गुरुरपि परीक्षिन एव भवतीत्यभिप्रायवानाहएयाहिं परिकाहि सुद्धे धम्ममि परिणया जे छ । गुरुणो गुणजलणिहिणो ते विविसुधा सुवर्ण व ए॥ व्याल्या-एताभिः कषादिपरीक्षाभिः शुद्ध धर्म ये परिणता एव ते गुरवोऽपि गुणजलनिधयः सुवर्णमिव विशुद्धा द्रष्टव्याः, यद्रव्यं यदा यद्रूपेण परिणमते तदा तन्मयमेवेति शुद्धधर्मपरिणता गुरवोऽपि शुद्धधर्मरूपत्वेनैवादरणीया इति भावः ॥ ९२॥ सुवर्णसदृशत्वमेव गुरूणां भावयन्नाहसत्योश्यगुणजुत्तो सुवन्नसरिसो गुरू विणि हिट्ठो । ता तत्थ नणंति इमे विसघायाई सुवन्नगुणे ॥ ए३॥ व्याख्या-'सत्योइय' त्ति । शास्त्रे दशवकालिकादावुदिताः प्रतिपादिता ये गुणाः साधुगुणास्तैर्युक्तः सहितः सुवर्णसदृशो गुरुर्विनिर्दिष्टः, तत्तस्मात्कारणा Page #272 -------------------------------------------------------------------------- ________________ २५९ त् तत्र गुरौ विषघातादीन् इमाननन्तरमेव वक्ष्यमाणान् सुवर्णगुणान् योजयन्ति ॥ ९३ ॥ अत्रार्थेऽष्टसुवर्णगुणप्रतिपादनाय भावसाधौ गुरौ तद्द्योजनाय च पूर्वाचार्यकृता एव तिस्रो गाथा उपन्यस्यति - विसघाइ - रसायण - मंगलत्थ- विषए-पयाहिणावते । गुरुए प्रज्-कुच्छे सुवन्ने गुणा हुंति ॥ ए४ ॥ व्याख्या--' विसघाइ ' इत्यादि । विषघाति - गरदोषहननशीलं सुवर्ण भवति । रसायनमङ्गलार्थविनीतमिति कर्मधारयपदम् । रसायनं - वयः स्तम्भनम्, मंगलार्थ - मंगलप्रयोजनम्, विनीतमिव विनीतम्, कटक केयूरादीष्टविशेषैः परिणमनात् । तथा प्रदक्षिणावर्त्तमतितापने प्रदक्षिणावृत्ति, तथा गुरुकम्, अलघुसारत्वात् । अदाह्याकुत्स्यमिति कर्मधारयपदम, तत्रादाह्यमग्नेरदहनीयम्, सारत्वादेवः अकुत्स्यमकुत्सनीयम्, अकुथितगन्धत्वादिति । एवमष्टौ सुवर्णे हेम्नि गुणा असाधारणधर्मा भवन्ति स्युरिति गाथार्थः ॥ ९४ ॥ एतत्समानान् साधुगुणानाह इय मोहविसं घायइ सिवोवएसा रसायणं होइ । जोग्गो ति ॥ ए॥ गुणन य मंगलत्थं कुइ विपीन व्याख्या--' इय' ति । इत्येवं सुवर्णवदित्यर्थः, मोहविषं - विवेकचैतन्यापहारि घातयति - नाशयति केषांचित्, साधुरिति प्रक्रमः । कुतः ? इत्याह- शिवोपदेशान्मोक्षमार्गप्ररूपणात् । तथा स एव रसायनमिव रसायनं भवति जायते, शिवोपदेशादेवाजराम ररक्षाहेतुत्वात् । तथा गुणतश्च स्वगुणमाहात्म्येन च मङ्गलार्थं मङ्गलप्रयोजन दुरितोपशममित्यर्थः करोति विधत्ते, विनीतश्च प्रकृत्यैव भवत्यसौ योग्य इति कृत्वा ।। ९५ ।। मग्गणुसारि पया हि कोहग्गा प्रज्जो गंजीरो गरु म तहा होइ कुच्छो सइसीलनावेणं ॥ ५६ ॥ व्याख्या-- - मग्गणुसारि 'ति । मार्गानुसारित्वं सर्वत्र यत्साधोस्तत्प्रदक्षिणावर्त्तत्वमुच्यते । गम्भीरोऽतुच्छचेताः गुरुकको मुरुक इत्यर्थः ' तथा ' इति Page #273 -------------------------------------------------------------------------- ________________ २६० समुच्चये, भवति स्यात् । तथा क्रोधाग्निना अदाह्यः, सुवर्णवत् । तथाऽकुत्स्यः सदाशील भावन-शीललक्षणसौगन्ध्यसद्भावेनेति ॥ ९६ ॥ __निगमयनाहएवं सुवन्नस रिसो पडिपुन्ना हिअगुणो गुरू णेओ । श्यरो विसमुचियगुणोण मूलगुणेहि परिहीणो॥ए॥ व्याख्या-' एवं 'ति । एवमुक्तप्रकारेण सुवर्णसदृशः, सामान्यतो भावसाधुगुणयोगात् । तथा प्रतिपूर्णा अन्यूनाः अधिकगुणाः प्रतिरूपादिविशेषगुणा यस्य स तथा गुरुज्ञेयः। अपवादाभिप्रायेणाह-इतरोऽपि कालादिवैगुण्यादेकादिगुणहीनोऽपि समुचितगुणः पादार्द्धहीनगुणो गुरु यः, नतु मूलगुणैः परिहीनः, तद्रहितस्य गुरुलक्षणवैकल्यप्रतिपादनाद् । उक्तं च-गुरुगुणरहिओ अ इहं दद्ववो मूलगुणविउत्तो जो" त्ति । मूलगुणसाहित्ये तु समुचितगुणलाभाद् न किचिद्गुणवैकल्येनागुरुत्वमुद्भावनीयमिति भावः ॥ उक्तं च-"ण उ गुणमित्तविहूणोत्ति चंडरुद्दो उदाहरणं ।” ति ॥ ९७ ॥ उचितगुणश्च गुरुर्न परित्याज्यः, किन्तु तदाज्ञायामेव वर्तितव्यमित्याहएयारिसो खलु गुरू कुलवहणाएण व मोत्तव्वो। एयस्स उ आणाए जश्णा धम्ममि जश्अव्वं ॥ ए॥ __ एतादृश उचितगुणः खलु निश्चये गुरुः कुलवधूज्ञातेन नैव मोक्तव्यः । यथाहि-कुलवधूभ; भत्सिताऽपि तच्चरणौ न परित्यजति, तथा सुशिष्येण भत्सितेनाप्युचितगुणस्य गुरोश्चरणसेवा न परित्याज्येति भावः । 'तु' पुनः, एतस्योचितगुणस्य गुरोराज्ञया यतिना धर्मे यतितव्यम् ॥ ९८ ॥ __तदाज्ञास्थितस्य च यो गुणः सम्पद्यते तमाहगुरुआणा ठियस्स य बज्झाणुट्ठाणसुद्धचित्तस्स । अज्झप्पज्झाणम्मिवि एगग्गत्तं समुन्नस ॥ एए॥ ___ व्याख्या-'गुरुआणाइ 'त्ति । गुज्ञिास्थितस्य च परिणतव्यवहारस्य सतो बाबानुष्ठानेन-विहितावश्यकादिक्रियायोगरूपेण शुद्धचित्तस्य ज्ञानयोगपति Page #274 -------------------------------------------------------------------------- ________________ २६१ बन्धककर्ममलविगमविशदीकृतहृदयस्य निश्चयावलम्बनदशायां शुद्धात्मस्वभावपरिणतौ प्रकटीभूतायामध्यात्मध्यानेऽपि एकाग्रत्वं समुल्लसति ॥९९ ॥ ___ ततः किं भवति ? इत्याह-- तंमि य आयसरूवं विसयकसायाश्दोसमलरहिनं। विनाणाणंदघणं परिसुद्धं हो पच्चक्खं ॥ १० ॥ व्याख्या-'तमि य'ति ।तस्मिंश्चाध्यात्मध्यानैकाग्रत्वे समुल्लसिते विषयाः शब्दादय इन्द्रियार्थाः कषायाः क्रोधमानमायालोभास्तदादयो ये दोषमला जीवगुणमालिन्यहेतवस्तद्रहितं, तथा विज्ञानानन्दघनं स्वरूपप्रतिभासप्रशमसुखैकरसतामापन्नं, परिशुद्धमनुपहितस्फटिकरत्नवत् प्रकृत्यैव निर्मलमात्मस्वरूपं प्रत्यक्ष भवति ॥ १००॥ ततश्चात्मन्येव रतस्य तत्रैव तृप्तस्य तत्रैव च सन्तुष्टस्य स्वात्ममात्रप्रतिबन्धविश्रान्ततया विकल्पोपरमः स्यादित्याहजलहिम्मि असंखोने पवणानावे जहा जलतरंगा। परपरिणामानावे व विअप्पा तया हुँति ॥ १०१॥ ___व्याख्या-'जलहिम्मि' त्ति । असंक्षोभे संक्षोभपरिणामरहिते जलधौ समुद्रे पवनाभावे यथा जलतरङ्गा नैव भवन्ति, तथा तदा-आत्मस्वरूपप्रत्यक्षतादशायां परपरिणामस्य पुद्गलग्रहणमोचनपरिणामस्याभावे नैव विकल्पाः शुभाशुभरूपाश्चित्तविप्लवा भवन्ति ॥ १०१॥ अध्यात्मध्यानजनितायामात्मस्वरूपप्रत्यक्षतादशायां संहृतसकलविकल्पावस्थायां सूक्ष्मविकल्पोपरमेणैव स्थूलविकल्पोपरमदाढर्थमाहका अरती आणंदे केवत्ति वियप्पणं ण जत्युत्तं । अमे तत्थ वियप्पा पुग्गलसंजोगजा कत्तो ॥ १० ॥ 'का अरति 'त्ति । का अरतिः ? को वा आनन्दः ? इति विकल्पनमपि न त(य)त्र-आत्मस्वरूपप्रत्यक्षतायामुक्तम्,अध्यात्मशास्त्रे स्वरूपानुभवमनतया सन्निहितमुखदुःखविकल्पस्य सूक्ष्मस्याप्यनवकाशात् । तत्रान्ये विकल्पाः स्थूला पुग Page #275 -------------------------------------------------------------------------- ________________ २६२ लसंयोगजा गृहधनस्वजनभोजनादिपुद्गलसंसर्गजनिताः कुतो भवन्ति ? अपि तु न कुतश्चित् ; स्वाभाविकधर्मज्ञानसामग्र्या औपाधिकधर्मज्ञानमात्र प्रति प्रतिबन्धकत्वादिति भावः। तयं शुद्धात्मस्वभावानुभवनामा सन्मात्रार्थनिर्भासो धर्मशुक्लध्यानफलंबिगलितवेद्यान्तरचिदानन्दनिष्पन्दभूतोऽविकल्पः समाधिरुपगीयते ॥ १०२॥ अस्यैवाविकल्पसमाधेरुपायभूतं शुद्धं विकल्पमुपदर्शयति-- एणे पुग्गलनावा अएणो एगो य नाणमित्तोहं। . सुघो एस वियप्पो अविअप्पसमाहिसंजणओ ॥१३॥ ..' अण्णे 'ति । पुद्गलभावाः पुद्गलपरिणामा:-कायमनोवागानप्राणकर्मवर्गणाधनगृहक्षेत्रारामादिसंस्थानभाजोऽविद्याप्रपञ्चोपराचतममकारविषयीभूता अन्ये-मदात्मद्रव्यादेकान्तेन पृथग्भूताः, कालत्रयेऽप्युपयोगलक्षणासंस्पर्शादिति भावः । अहं च ज्ञानमात्रमुपयोगमात्रस्वभाव इति हेतोः पुद्गलभावेभ्योऽन्य एकश्च, कालत्रयेऽप्यन्यद्रव्यसंसर्गेऽपि तत्स्वभावापरिग्रहाद् अनन्तपर्यायाविर्भावतिरोभावाभ्यामप्यविचलितशुद्धात्मद्रव्यैकशक्तिमखाच । न च ज्ञानदर्शनचारित्ररूपरत्नत्रयस्वभावशालित्वेनापि शुदात्मद्रव्यस्यैकत्वक्षतिः सम्भवति प्रभातल्यदोपहरणशक्तिगुगयोगाज्जात्यरत्नस्येवेति । एष शुद्धात्मद्रव्यविषयत्वेन शुद्धो विकल्पोऽविकल्पसमाधेः सम्यक् प्रकारेण जनकः, एतजनितसंस्कारस्य विकल्पान्तरसंस्कारविरोधित्वेन ततस्तदनुत्थानाद्, एतस्य च वढेर्दाह्य विनाश्यानु विनाशवदशुभविकल्पजालमुच्छेद्य स्वत एवोपरमादिति ॥ १०३ ॥ " तदेतदध्यात्मध्यानमविकल्पसमाधिसम्बन्धबन्धुरमित्येतदेवाभिष्टुवन्नाहएयं परमं नाणं परमो धम्मो इमो विय पसिघो। एयं परमरहस्सं णिच्छयसुद्धं जिणा बिति ॥१०४॥ ___ व्याख्या --'एयं परमं 'ति । एतदध्यात्मध्यानं परमं ज्ञानं, ज्ञानस्य विरतिफलत्वाद्, विरतेश्च समतासारत्वात् , समतायाश्चेतदायत्तत्वादिति भावः । परमो धर्मोऽयमेव प्रसिद्धः, दुर्गतौ पततो जन्तोरणात्, सिद्धिगतौ नियमेन धारणाच । एतच्च परमरहस्यमुत्कृष्टोपनिषद्भुतं निश्चयशुद्धं पारमार्थिकनयविशदीकृतं जिनास्तीर्थकरा ब्रुवते । थदागमः-- . . Page #276 -------------------------------------------------------------------------- ________________ " परमरहस्समिसीणं समत्तगणिपिडगझारिअसाराणं । परिणामियं पमाणं णिच्छयमवलंबमाणाणं ॥" ति ॥ १०४ ॥ अध्यात्मस्य प्रवचने परमरहस्यत्वादेव परीक्षकैः सर्वत्र तदनुल्लङ्घनेनैव प्रवृत्तिः कर्त्तव्येत्यभिप्रायवानाह-- अप्पाबालेणं विसयविवेगं अमो मुणी बिंति।। जुत्तो हु धम्मवाओ ण सुकवाओ विवाओ वा ॥१०॥ ___ व्याख्या--' अज्झप्पावाहेणं'ति । अतोऽध्यात्मस्य परमरहस्यत्वादध्यात्मा बाधेन-स्वपरगतमैयादिसमन्वितशुभाशयाविच्छेदेन विषयविवेकं निर्णिनीषितार्थनिर्णयं त्रुवते मुनयो विगलितरागद्वेषाः साधवः कर्त्तव्यमिति शेषः । हि यतो धर्मवाद एव मध्यस्थेन पापभीरुणा च समं तत्वनिर्णयार्थमपक्षपातेन कथाप्रारम्भलक्षणो युक्तः, तत्त्वज्ञानफलत्वात् तस्य न शुष्कवादः, जये पराजये वा परस्य स्वस्य चानर्थलघुत्वापत्तेः कण्ठशोषमात्रफलो विवादो वा-दुःस्थितेनार्थिना सह छलजातिप्रधानो जल्पो युक्तः, साधूनां माध्यस्थ्यप्रधानत्वात् ,शुभानुबन्धित्वाच्च साधूनां प्रयत्नस्य ॥ १०५॥ ___ तदेवं धर्मवादेनैवाध्यात्माबाधेन तत्त्वनिर्णयस्य कर्त्तव्यत्वाच्छिष्टाचारानुरोधेन तथोद्दशेनैव प्रारब्धस्य स्वग्रन्थफलोपहितत्वं प्रदर्शयन्नन्यैरपि तत्त्वनिर्णयसिद्धयर्थमित्यमेव भणितव्यमित्युपदेशमाहजणियं किंचि फुममिणं दिसा इय धम्मवायमग्गस्स। अण्णेहि वि एवं चिय सुआणुसारेण नणियत्वं ॥१०॥ __व्याख्या--' भणियं' ति । इत्युक्तहेतोधर्मवादमार्गस्य दिशैव स्फुटमिदं किश्चित्प्रकृतार्थगोचरं भणितं मया, तेन च तात्पर्यार्थदृष्टया तत्त्वनिर्णयसिद्धिरपि कृतैवेति भावः । अन्यैरपि धर्मपरीक्षकैरेवमेव श्रुतानुसारेण भणितव्यम् । इत्यमेव प्रकृतार्थभ्रमनिवृत्त्या तत्त्वज्ञानसिद्धे रागद्वेषपरिणामाभावेन कल्याणबीजसम्पत्तेश्चेति भावनीयम् ॥१०६॥ • सर्वस्वोपदेशमाह-- Page #277 -------------------------------------------------------------------------- ________________ २६४ किं बहुणा इह जह जह रागहोसा लहुं विलिऊंति । तह तह पयट्टियत्वं एसा आणा जिणिंदाणं ॥१०॥ ___ व्याख्या--'किं बहुण 'त्ति । स्पष्टा ॥ १०७ ॥ एसा धम्मपरिका रश्मा नविआण तत्तबोहहा। सोहिंत पसायपरा तं गियत्या विसेस विऊ ॥ १० ॥ मूरिश्रीविजयादिदेवसुगुरोः पट्टाम्बराहमणौ सूरिश्रीविजयादिसिंहसुगुरौ शक्रासनं भेजुषि । सूरिश्रीविजयप्रभे श्रितवति प्राज्यं च राज्यं कृतो ग्रन्थोऽयं वितनोतु कोविदकुले मोदं विनोदं तथा ॥१॥ महोपाध्यायश्रीविनयविजयैश्चारुमतिभिः प्रचक्रे साहाय्यं तदिह घनसौष्ठवमभूत् । प्रसर्पकस्तूरीपरिमलविशेषाद्भवति हि प्रसिद्धः शृङ्गारस्त्रिभुवनजनानन्दजननः ॥२॥ सन्तः सन्तु प्रसन्ना मे ग्रन्थश्रमविदो भृशम् । येषामनुग्रहादस्य सौभाग्यं प्रथितं भवेत् ॥ ३ ॥ इति जगद्गुरुविरुदधारिभट्टारकरीहीरविजयसूरीश्वरशिष्यमुख्यषट्त्तीविद्याविशारदमहोपाध्यायश्रीकल्याणविजयगणिशिष्यावतंसशास्त्रज्ञतिलकपण्डितश्रीलाभविजयगणिशिष्यरत्नगुणगणगरिष्ठपण्डितश्रीजीतविजयगणिसतीर्थ्यतिलकविपुलयशःप्रतापसौभाग्यनिधिपण्डितश्रीनयविजयगणिचरणकमलसेविना पण्डि तश्रीपद्मविजयगणिसहोदरेण पण्डितयशोविजयेन कृतो धर्मपरीक्षानामा ग्रन्थः सम्पूर्णः॥ संवत्रसाक्षीसप्तेन्दुनी च सितपक्षके । अष्टमीविधुवारे हि लिखिता पत्तने पुरे ॥ श्रीरस्तु -00-000 Page #278 -------------------------------------------------------------------------- _