________________
११२
स्वासामपि तीर्थत्वात् जिनबिम्बत्वाच्च । तथाऽत्रापि मिथ्यादृशां गुणाः सर्वेषां जीवानां दयाशीलादिकं शोभनम् ' इत्येवं सामान्यरूपेणानुमोद्यमानाः केन वारयितुं शक्यन्ते ? इति । युक्तं चैतत्, धर्मबिन्दुसुत्रत्योरपि सद्धर्मदेशनाधिकार साधारण्येन लोकलोकोत्तरगुणप्रशंसाप्रतिपादनात् । तथाहि " साधारणगुणप्रशंसेति " ॥ “ साधारणानां `लोकलोकोत्तरयोः सामान्यानां गुणानां प्रशंसा- पुरस्कारो देशनार्हस्याग्रतो विधेया ।
यथा
C
प्रदानं प्रच्छनं गृहमुपगते संभ्रमविधिः
प्रियं कृत्वा मौनं सदसि कथनं चाप्युपकृतेः । अनुत्सेको लक्ष्म्या निरभिभवसाराः परिकथाः श्रुते चासंतोषः कथमनभिजाते निवसति ।। " - इति ।
इयं च पुरुषविशेषानुपग्रहात्सामान्यप्रशंसैवेति । यद्यप्यत्रापि 'वाक्यार्थस्य विशेष एवं पर्यवसानम्, तथाऽपि साधारणगुणानुरागस्यैवाभिव्यङ्ग्यत्वान्न मिथ्यात्वाभिष्टद्धिरिति द्रष्टव्यम् । स्यादत्र परस्येदमाशङ्का-एवं संति मिथ्यादृष्टेः पुरुषविशेषस्य दयाशीलादिगुणपुरस्कारेण प्रशंसा न कर्तव्या स्यात्, अन्यतीर्थिकपरिगृहीतार्हत्प्रतिमाया विशेषेणावन्द्यत्ववद् अन्यतीर्थिकपरिगृहीतगुणानामपि विशेषतोsप्रशंसनीयत्वात् । दोषवत्त्वेन प्रतिसंघीयमाने पुरुषे तद्गतगुणप्रशंसायास्तद्गतदोषानुमतिपर्यवसितत्वात् । अत एव सुखशीलजनवन्दनप्रशंसयोस्तद्गतप्रमादस्थानानुमोदनापत्तिरुक्ता ।
46 किइकम्मं च पसंसा सुहसीलजणमि कम्मबंधाय ।
"
जे जे पमायठाणा ते ते उवबूहिया हुंति ॥
इत्यादिना आवश्यकादाविति ॥
तत्र ब्रूमः - यदि नाम तद्गतदोषज्ञानमेव तत्प्रशंसायास्तदीयतदोधानुमतिपर्यवसायकमिति मिध्यादृष्टिगुणप्रशंसात्यागस्तवाभिमतस्तदाऽविरतसम्यग्दृष्टेः सम्यक्त्वादिगुणप्रशंसाऽप्यकर्तव्या स्यात्, तद्ग
ताविरतिदोषज्ञानात्तस्यास्तदनुमतिपर्यवसानात् ।
कृतिकर्म च प्रशंसा सुखशीलजे कर्मबन्धाय ।
ये ये प्रमादस्थानानि ते ते उपबृंहितानि भवन्ति ॥
१