________________
नान्यस्य, “जो चेव भावलेसो सो चेव भगवओ अणुमओ।" इत्यत्र भगवद्वहुमानरूपस्यैव भावलेशस्यानुमोद्यत्वप्रतिपादनादिति चेद् । न, अन्यत्रापि भवाभिनन्दिदोषप्रतिपक्षमोक्षाशयभावस्य तत्त्वतो भगवद्वहुमानरूपत्वाद् ' भवनिर्वेदस्यैव भगवद्वहुमानत्वाद्' इति ललितविस्तरापञ्जिकावचनात् , खरूपशुद्धं चानुष्ठानं सर्वत्रापि तत्त्वतो भगवत्प्रणीतमेवेति, तत्प्रशंसया भवत्येव भगवद्वहुमानः । व्युत्पन्ना ह्यन्यशास्त्रे कथंचिदुपनिबद्धानपि मार्गानुसारिगुणान् भगवत्मणीतत्वेनैव प्रतियन्ति ।
तदाहुः श्रीसिद्धसेनसूरयः" सुनिश्चितं यः परतन्त्रयुक्तिषु स्फुरन्ति याः काश्चन सूक्तसंपदः । तदेव ताः पूर्वमहार्णवोद्धृता जगत्प्रमाणं जिनवाक्यविग्रुषः ॥ "इति
नन्दिवृत्तावप्येवमेवोक्तम्-" परदर्शनशास्त्रेष्वपि हि यः कश्चित्समीचीनार्थः 'संसारासारता-स्वर्गादिहेतुप्राण्यहिंसादिरूपः स भगवत्प्रणीतशास्त्रेभ्य एव समुद्धृतो वेदितव्यः । न खल्वतीन्द्रियार्थपरिज्ञानमन्तरेणातीन्द्रियः प्रमाणाबाधितार्थः पुरुषमात्रेणोपदेष्टुं शक्यते, अविषयत्वाद् । न चातीन्द्रियार्थपरिज्ञानं परतीर्थिकानामस्तीत्यग्रे वक्ष्यामः । ततस्ते भगवत्प्रणीतशास्त्रेभ्यो मौलं समीचीनमर्थलेशमुपादाय पश्चादभिनिवेशवशतः स्वमत्यनुसारेण तास्ताः प्रकियाः अपश्चितवन्तः । उक्तं च स्तुतिकारेण-" सुनिश्चित०" इत्यादि। .. .
ननु दयादिवचनानि परमते तत्त्वतो जिनवचनमूलान्यपि स्वस्वमताधिदैवतवचनत्वेन परिगृहीतत्वादेव नानुमोदनीयानि, अत एव मिथ्यादृष्टिभिः स्वस्वदैवतबिम्बत्वेन परिगृहीतार्हत्प्रतिमाऽप्युपासकदशाङ्गादिष्ववन्धत्वेन प्रतिपादितेति चेत् । अत्र वदन्ति सम्प्रदायविदः यथा मिथ्यापरिगृहीता तीर्थकृत्प्रतिमा मिथ्यात्वाभिवृद्धिनिवारणाय न विशेषेण नमस्क्रियते, सामान्येन तु “अं किंचि माम तित्थं० " इत्यादिना “ जाँवंति चैइआई०" इत्यादिना चाभिवन्द्यते एव, तत्त्वत
___य एव भावलेशः स एव भगवतोऽनुमतः ॥ २ यत्किचिद् नाम तीर्थ० । ३ यावन्ति चैत्यानि० ॥