________________
११०
र्यवसाने तत्तचित्रशुद्धसमाचारे बहुमानो भावप्रतिबन्धः क्षयोपशमवैचित्र्यान्मृदुमध्याधिमात्रः कर्तव्यो धीरैर्बुद्धिमाद्भिः । उपसंहरबाह-कृतं प्रसङ्गेन पर्याप्तधर्मबीजप्रख्यापनेनेति । भावानुरोधेन ह्यनुष्ठानस्यानुमोदनप्रशंसे विहिते, भावश्चापुनर्वन्धकाधनुष्ठाने नियत एव, अन्ततो मोक्षाशयस्यापि सत्त्वात् , तस्याप्यचरमपुद्गलपरावर्ताभावित्वेन मोहमलमन्दतानिमित्तकत्वेन शुद्धत्वात् । तदुक्तं विंशिकायाम्
"मोक्खासओवि णण्णत्थ होइ गुरुभावमलपहावेणं ।
जह गुरुवाहिविगारेण जाउ पच्छासओ सम्मं ॥” इति .. अन्यत्र चरमपुद्गलपरावर्तादन्यत्र । ततो विषयशुद्धादिकं त्रिविधमप्यनुष्ठान प्रशस्तमिति सिद्धम् ॥ उक्तं च विंशिकायामेव
विसयसरूवणुबंधेण होइ सुद्धो तिहा इहं धम्मो। जंता मुक्खासयाओ सव्वो किल सुन्दरों ओ॥” इति विषयशुद्धादिभेदश्वायं योगबिन्दावुपदर्शितः
" विषयात्मानुबन्धैस्तु त्रिधा शुद्धमुदाहृतम् । अनुष्ठानप्रधानत्वं ज्ञेयमस्य यथोत्तरम् ॥. आधे यदेव मुक्त्यर्थ. क्रियते पतनाद्यपि ।. तदेव मुक्त्युपादेयलेशभावाच्छुभं मतम् ॥ द्वितीयं तु यमायेव लोकदृष्ट्या यादिकम् । न यथाशास्त्रमेवेह सम्यगज्ञानाद्ययोगतः॥ तृतीयमप्यदः किन्तु तत्त्वसंवेदनानुगम् ।
प्रशान्तवृत्त्या सर्वत्र दृढमोत्सुक्यवर्जितम् ॥” इति । ननु भवतु विषयशुद्धाद्यनुष्ठानत्रयमपुनबन्धकादौ कथंचित्सुन्दरम, तथापि वीतरागवचनप्रतिपादितस्यैव तद्गतस्यानुष्ठानस्यानुमोद्यत्वं
मोक्षाशयोऽपि नान्यत्र भवति गुरुभावमलप्रभावेण । यथा गुरुव्याधिविकारेण जातपथ्याशयः सम्यक् ॥ विषयस्वरूपानुबन्धैन भवति शुद्धो विधेह धर्मः । यत्ततो मोक्षाशयात्सर्वः किल सुन्दरो शेयः॥
१