________________
" तेणं 'ति । तेनानुमोदनाप्रशंसयोर्विषयभेदाभावेनानुमोदनीयं प्रशंसनीयं च सर्व शुद्धं स्वरूपकृत्यं दया दान-शीलादिकं च जात्या स्वरूपयोग्यताऽवच्छेदकरूपेण भवति। यद्पावच्छेदेन यत्र सुन्दरत्वज्ञानं तद्पविशिष्टप्रतिसंधानस्य तद्रूपावच्छिन्नविषयकर्षजनकत्वाद् । अत एव शुद्धाहारग्रहणदानादिव्यक्तीनां सर्वासामसुन्दरत्वेऽपि कासांचिचाशुद्धाहारदानादिव्यक्तीनामप्यवादकालभाविनीनां सुन्दरत्वेऽपि साधोः शुद्धाहारग्रहणं सुन्दरम् , श्रावकस्य च शुद्धाहारदानमित्ययमेवोपदेशो युक्तो न त्वशुद्धाहारग्रहणदानोपदेशोऽपि, सामान्यपर्यवसायित्वात्तस्य; सामान्यपर्यवसानस्य च स्वरूपशुद्ध एव वस्तुन्युचितत्वात् , स्वरूपशुद्धं हि वस्तु जात्याऽप्यनुमोद्यमानं हितावहमिति । भावविशिष्टं तु-अपुनर्बन्धकादिभावसंवलितं तु, अन्यदपि विषयशुधादिकमपि वस्त्वनुमोद्यम् । 'भावविशिष्टा क्रिया सुन्दरा' इत्यादिप्रशंसया भावकारणत्वेन विषयशुद्धादावपि कृत्ये स्वोत्साहसंभवात् । न चैवमपुनर्वन्धकोचितविषयशुद्धकृत्येऽपि साधोः प्रवृत्यापत्तिः, स्वाभिमततत्तद्धर्माधिकारीष्टसाधनत्वेन प्रतिसंहितेऽधस्तनगुणस्थानवर्त्यनुष्ठाने स्वोत्साहसंभवेऽपि स्वाधिकाराभावेन तत्राप्रवृत्तेः। अत एव 'शोभनमिदमेतावजन्मफलमविरतानाम् इतिवचनलिङ्गगम्यस्वोत्साहविषयेऽपि जिनपूजादौ श्राद्धाचारे न साधूनां प्रवृत्तिरिति बोध्यम् । इत्थं च भावानुरोधांदपुनर्बन्धकादेरारभ्यायोगिकेवलिगुणस्थानं याव-- त्सर्वमपि धर्मानुष्ठानमनुमोदनीयं प्रशंसनीयं चेति सिद्धम् ॥ उक्तं चोपदेशपदसूत्रवृत्त्योः
तो एअंम्मि पयत्तो ओहेणं वीअराअक्यणमि ।।
बहुमाणो कायन्वो धीरेहिं कयं पसंगेणं ॥" " तत् तस्माद् एतस्मिन् धर्मबीजे प्रयत्नो यत्नातिशयः 'कर्तव्यो धीरैः । इत्युत्तरेण योगः । किंलक्षणः प्रयत्नः कर्तव्यः ? इत्याशङ्कय आह-ओधेन सामान्येन वीतरागवचने वीतरागागमप्रतिपादितेऽपुनर्बन्धकचेष्टाप्रभृत्ययोगिकेवलिप
तत एतस्मिन् प्रयत्न ओघेनः वीतरागवचने । बहुमानः कर्तव्यो धीरैः कृतं प्रसङ्गेन ॥