________________
१०८ मविशेषेण भजनीयमिति । यदुवाच कल्पाकल्पविभागमाश्रित्य वाचकमुख्य:
किश्चिच्छुद्धं कल्प्यमकल्प्यं स्याद्कल्प्यमपि कल्प्यम् ।। .
पिण्डः शय्या वस्त्रं पात्रं वा भेषजायं वा ॥"इति । मोहप्रमादादिनानिष्टविषयत्वं च प्रशंसाया इवानुमोदनाया, अपि भवतीति न कोऽपि विषयभेदः । न चानिष्टविषयतावच्छदेनोपचारानुपचारप्रवृत्त्याऽनयोरतिचारभङ्गभावाद् भेदः, अभिमतोपचारे-- णातिचारत्वाभावात् । अन्यथा
" 'संथरणमि असुद्ध-दोण्हवि गिण्हंतदितयाणहियं ।
आउरदिट्ठतेणं तं चेव हियं असंथरणे ॥". इत्यादौ कारणिकाशुद्धग्रहणप्रशंसाया अप्यतिचारबलप्रसङ्गाद ।। अनभिमतोपचारादतिचारभङ्गयोस्तु परिणामभेदः प्रयोजको न तु विषयभेद इति यत्किंचिद्रेतत् । शास्त्रेऽपि प्रशंसा अनुमोदनाविशेष: एव गीयते। ___तदुक्तं पश्चाशकवृत्तिकृता-" जंइणोवि हु दव्वत्थयभेओ. अणुमोअणेण अत्थित्ति”-इति प्रतिकं विवृण्वता यतेरपि-भावस्तवारूढसाधोरपि न केवलगृहिण एव । हुशरोऽलंकृतौ । द्रव्यस्तवभेदो, द्रव्यस्तवविशेषोऽनुमोदनेन जिनपूजादिदर्शनजनितप्रमोदप्रशंसादिलक्षणयाऽनुमत्या अस्ति विद्यते इतिशब्दो वाक्यपरिसमाप्तमिति ॥ ___ एवमनुमोदनाप्रशंसयोर्विषयभेदाभावे सिद्धेऽनुमोदनीयप्रशंस-. बीयघोर्विषमव्याप्ति परिहरन्नाह-- तेणमणुमोअणिज्जं पसंसणिज्जं च होइ जाईए। सुद्धं किचं सव्वं भावविसिटुं तु अन्नपि ॥३५॥
तेनानुमोदनीयं प्रशंसनीयं च होइ जात्या ।
शुद्धं कृत्यं सर्व भावविशिष्टं त्वन्यदपि ॥ ३५ ॥ १ संस्तरणे अशुद्धं वयोरपि गृहद्ददतोरहितम् ।
आतुरदृष्टान्तेन तदेव हितमसंस्तरणे ॥ २ यतेरपि खलु द्रव्यस्तवभेदोऽनुमोदनेन ॥