________________
एवं सति योऽनुमोदनाप्रशंसयोर्विषयभेदेन भेदमेवाभ्युपगच्छति तन्मतनिरासार्थमाहसामनविसेसत्ता भेओ अणुमोअणापसंसाणं। जह पुढवीदव्वाणं ण पुढो विसयम्स भेएणं ॥३४॥
'सामनविसेसत्त'त्ति । अनुमोदनाप्रशंसयोः सामान्यविशेषत्वात् सामान्यविशेषभावाद्भेदः, यथा पृथिवीद्रव्ययोः। द्रव्यं हि सामान्यं, पृथिवी च विशेषः। एवमनुमोदना सामान्यं प्रशंसा च विशेष इत्येतावाननयोर्भेदः, न पुनः पृथग् विषयस्य भेदेनात्यन्तिको भेदः, प्रशंसाया अनुमोदनाभेदत्वेन तदन्यविषयत्वासिद्धेः । नहि घटप्रत्यक्षं प्र. त्यक्षभिन्नविषयमिति विपश्चिता वक्तुं युक्तम् , न च मानसोत्साहरूपाऽनुमोदनाया अपि प्रशंसाया भिन्नविषयत्वनियमः, प्रकृतिसुन्दरस्यैव वस्तुनः सम्यग्दृशामनुमोदनीयत्वात्प्रशंसनीयत्वाच्च । न चानुमोदनायाः स्वेष्टसाधकमेव वस्तु विषयः, तादृशस्यैव तपःसंयमादेरारम्भपरिग्रहादेर्वा विरतैरविरतैश्वानुमोदनात्, न तु परेष्टसाधकम् , आत्मनश्वानिष्टसाधनमपि निजधनापहारस्याप्यनुमोदनीयत्वापत्तेः। प्रशंसायाश्चेष्टमनिष्टं च वस्तु विषयः, इष्टस्य धार्मिकानुष्ठानस्यानिष्टस्य चाज्ञाबाह्यस्य वस्तुनः प्रशंसाव्यवस्थितेः। भवति हिनिजकायोदिनिमित्तमसद्गुणस्यापि प्रशंसा । अत एवायमागमोऽपि___“चउहि ठाणेहिं असंते गुणे दीवेज्जा, १ अब्भासवत्तियं २ परछंदाणुवत्तियं ३ कजहेउ ४ कयपडिकइए"त्ति । ___ सा चेयमनिष्टप्रशंसातिचाररूपापि प्रयोजनविशेषेण कस्यचिकादाचित्की स्यादित्येतदपि वचनं शोभनम् , स्वारसिकप्रशंसाया अनिष्टाविषयत्वात् , पुष्टालम्बनकानिष्टप्रशंसाया अपीष्टविषयत्वपर्यवसानात् । न हि किंचिज्जात्येष्टमनिष्टं वा वस्तु विद्यते, किंतु परिणा
सामान्यविशेषत्वाद् भेदोऽनुमोदनाप्रशंसयोः । यथा पृथिवीद्रव्ययोः, न पृथग् विषयस्य भेदेन ॥ ३४ ॥ चतुर्भिः स्थानैरसन्तो गुणान् दीपयेत् , १ अभ्यासप्रत्ययं २ पर-- च्छन्दानुवर्तित्वं ३ कार्यहेतु ४ कृतप्रतिकृत्याः इति ॥